विश्वास-प्रस्तुतिः
तद्य इत्थं विदुः । ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाꣳस्तान् ॥ १ ॥
मूलम्
तद्य इत्थं विदुः । ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाꣳस्तान् ॥ १ ॥
विश्वास-प्रस्तुतिः
मासेभ्यः संवत्सरꣳ संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवयानः पन्था इति ॥ २ ॥
मूलम्
मासेभ्यः संवत्सरꣳ संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवयानः पन्था इति ॥ २ ॥
शङ्करः
‘वेत्थ यदितोऽधि प्रजाः प्रयन्ति’ (छा. उ. ५ । ३ । २) इत्ययं प्रश्नः प्रत्युपस्थितोऽपाकर्तव्यतया । तत् तत्र लोकं प्रति उत्थितानाम् अधिकृतानां गृहमेधिनां ये इत्थम् एवं यथोक्तं पञ्चाग्निदर्शनम् — द्युलोकाद्यग्निभ्यो वयं क्रमेण जाता अग्निस्वरूपाः पञ्चाग्न्यात्मानः — इत्येवं विदुः जानीयुः । कथमवगम्यते इत्थं विदुरिति गृहस्था एव उच्यन्ते नान्य इति । गृहस्थानां ये त्वनित्थंविदः केवलेष्टापूर्तदत्तपराः ते धूमादिना चन्द्रं गच्छन्तीति वक्ष्यति । ये च अरण्योपलक्षिता वैखानसाः परिव्राजकाश्च श्रद्धा तप इत्युपासते, तेषां च इत्थंविद्भिः सह अर्चिरादिना गमनं वक्ष्यति, पारिशेष्यादग्निहोत्राहुतिसम्बन्धाच्च गृहस्था एव गृह्यन्ते — इत्थं विदुरिति । ननु ब्रह्मचारिणोऽप्यगृहीता ग्रामश्रुत्या अरण्यश्रुत्या च अनुपलक्षिता विद्यन्ते, कथं पारिशेष्यसिद्धिः ? नैष दोषः । पुराणस्मृतिप्रामाण्यात् ऊर्ध्वरेतसां नैष्ठिकब्रह्मचारिणाम् उत्तरेणार्यम्णः पन्थाः प्रसिद्धः, अतः तेऽप्यरण्यवासिभिः सह गमिष्यन्ति । उपकुर्वाणकास्तु स्वाध्यायग्रहणार्था इति न विशेषनिर्देशार्हाः । ननु ऊर्ध्वरेतस्त्वं चेत् उत्तरमार्गप्रतिपत्तिकारणं पुराणस्मृतिप्रामाण्यादिष्यते, इत्थंवित्त्वमनर्थकं प्राप्तम् । न, गृहस्थान्प्रत्यर्थवत्त्वात् । ये गृहस्था अनित्थंविदः, तेषां स्वभावतो दक्षिणो धूमादिः पन्थाः प्रसिद्धः, तेषां य इत्थं विदुः सगुणं वा अन्यद्ब्रह्म विदुः, ‘अथ यदु चैवास्मिञ्शव्यं कुर्वन्ति यदि च नार्चिषमेव’ (छा. उ. ४ । १५ । ५) इति लिङ्गात् उत्तरेण ते गच्छन्ति । ननु ऊर्ध्वरेतसां गृहस्थानां च समाने आश्रमित्वे ऊर्ध्वरेतसामेव उत्तरेण पथा गमनं न गृहस्थानामिति न युक्तम् अग्निहोत्रादिवैदिककर्मबाहुल्ये च सति ; नैष दोषः, अपूता हि ते — शत्रुमित्रसंयोगनिमित्तौ हि तेषां रागद्वेषौ, तथा धर्माधर्मौ हिंसानुग्रहनिमित्तौ, हिंसानृतमायाब्रह्मचर्यादि च बह्वशुद्धिकारणमपरिहार्यं तेषाम् , अतोऽपूताः । अपूतत्वात् न उत्तरेण पथा गमनम् । हिंसानृतमायाब्रह्मचर्यादिपरिहाराच्च शुद्धात्मानो हि इतरे, शत्रुमित्ररागद्वेषादिपरिहाराच्च विरजसः ; तेषां युक्त उत्तरः पन्थाः । तथा च पौराणिकाः — ‘ये प्रजामीषिरेऽधीरास्ते श्मशानानि भेजिरे । ये प्रजां नेषिरे धीरास्तेऽमृतत्वं हि भेजिरे’ ( ? ) इत्याहुः । इत्थंविदां गृहस्थानामरण्यवासिनां च समानमार्गत्वेऽमृतत्वफले च सति, अरण्यवासिनां विद्यानर्थक्यं प्राप्तम् ; तथा च श्रुतिविरोधः — ‘न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः’ (शत. ब्रा. १० । ५ । ४ । १६) इति, ‘स एनमविदितो न भुनक्ति’ (बृ. उ. १ । ४ । १५) इति च विरुद्धम् । न, आभूतसम्प्लवस्थानस्यामृतत्वेन विवक्षितत्वात् । तत्रैवोक्तं पौराणिकैः — ‘आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते’ (वि. पु. २ । ८ । ९७) इति । यच्च आत्यन्तिकममृतत्वम् , तदपेक्षया ‘न तत्र दक्षिणा यन्ति’ ‘स एनमविदितो न भुनक्ति’ इत्याद्याः श्रुतयः — इत्यतो न विरोधः । ‘न च पुनरावर्तन्ते’ (छा. उ. ८ । १५ । १) इति ‘इमं मानवमावर्तं नावर्तन्ते’ (छा. उ. ४ । १५ । ५) इत्यादि श्रुतिविरोध इति चेत् , न ; ‘इमं मानवम्’ इति विशेषणात् ‘तेषामिह न पुनरावृत्तिरस्ति’ (बृ. मा. ६ । १ । १८) इति च । यदि हि एकान्तेनैव नावर्तेरन् , इमं मानवम् इह इति च विशेषणमनर्थकं स्यात् । इममिह इत्याकृतिमात्रमुच्यत इति चेत् , न ; अनावृत्तिशब्देनैव नित्यानावृत्त्यर्थस्य प्रतीतत्वात् आकृतिकल्पना अनर्थिका । अतः इममिह इति च विशेषणार्थवत्त्वाय अन्यत्र आवृत्तिः कल्पनीया । न च सदेकमेवाद्वितीयमित्येवं प्रत्ययवतां मूर्धन्यनाड्या अर्चिरादिमार्गेण गमनम् , ‘ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६) ‘तस्मात्तत्सर्वमभवत्’ (बृ. उ. १ । ४ । ९) ‘न तस्य प्राणा उत्क्रामन्ति । ’ (बृ. उ. ४ । ४ । ६)‘अत्रैव समवलीयन्ते’ (बृ. उ. ३ । २ । ११) इत्यादिश्रुतिशतेभ्यः । ननु तस्माज्जीवादुच्चिक्रमिषोः प्राणा नोत्क्रामन्ति सहैव गच्छन्तीत्ययमर्थः कल्प्यत इति चेत् ; न, ‘अत्रैव समवलीयन्ते’ इति विशेषणानर्थक्यात् , ‘सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इति च प्राणैर्गमनस्य प्राप्तत्वात् । तस्मादुत्क्रामन्तीत्यनाशङ्कैवैषा । यदापि मोक्षस्य संसारगतिवैलक्षण्यात्प्राणानां जीवेन सह आगमनमाशङ्क्य तस्मान्नोत्क्रामन्तीत्युच्यते, तदापि ‘अत्रैव समवलीयन्ते’ इति विशेषणमनर्थकं स्यात् । न च प्राणैर्वियुक्तस्य गतिरुपपद्यते जीवत्वं वा, सर्वगतत्वात्सदात्मनो निरवयवत्वात् प्राणसम्बन्धमात्रमेव हि अग्निविस्फुलिङ्गवज्जीवत्वभेदकारणमित्यतः तद्वियोगे जीवत्वं गतिर्वा न शक्या परिकल्पयितुम् , श्रुतयश्चेत्प्रमाणम् । न च सतोऽणुरवयवः स्फुटितो जीवाख्यः सद्रूपं छिद्रीकुर्वन् गच्छतीति शक्यं कल्पयितुम् । तस्मात् ‘तयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८ । ६ । ६) इति सगुणब्रह्मोपासकस्य प्राणैः सह नाड्या गमनम् , सापेक्षमेव च अमृतत्वम् , न साक्षान्मोक्ष इति गम्यते, ‘तदपराजिता पूस्तदैरं मदीयं सरः’ (छा. उ. ८ । ५ । ३) इत्याद्युक्त्वा ‘तेषामेवैष ब्रह्मलोकः’ (छा. उ. ८ । ५ । ४) इति विशेषणात् ॥
अतः पञ्चाग्निविदो गृहस्थाः, ये च इमे अरण्ये वानप्रस्थाः परिव्राजकाश्च सह नैष्ठिकब्रह्मचारिभिः श्रद्धा तप इत्येवमाद्युपासते श्रद्धधानास्तपस्विनश्चेत्यर्थः ; उपासनशब्दस्तात्पर्यार्थः ; इष्टापूर्ते दत्तमित्युपासत इति यद्वत् । श्रुत्यन्तरात् ये च सत्यं ब्रह्म हिरण्यगर्भाख्यमुपासते, ते सर्वे अर्चिषम् अर्चिरभिमानिनीं देवताम् अभिसम्भवन्ति प्रतिपद्यन्ते । समानमन्यत् चतुर्थगतिव्याख्यानेन । एष देवयानः पन्था व्याख्यातः सत्यलोकावसानः, न अण्डाद्बहिः, ‘यदन्तरापितरं मातरं च’ (ऋ. १० । ८८ । १५) इति मन्त्रवर्णात् ॥
विश्वास-प्रस्तुतिः
अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ३ ॥
मूलम्
अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ३ ॥
शङ्करः
अथेत्यर्थान्तरप्रस्तावनार्थः, य इमे गृहस्थाः ग्रामे, ग्राम इति गृहस्थानामसाधारणं विशेषणम् अरण्यवासिभ्यो व्यावृत्त्यर्थम् — यथा वानप्रस्थपरिव्राजकानामरण्यं विशेषणं गृहस्थेभ्यो व्यावृत्त्यर्थम् , तद्वत् ; इष्टापूर्ते इष्टमग्निहोत्रादि वैदिकं कर्म, पूर्तं वापीकूपतडागारामादिकरणम् ; दत्तं बहिर्वेदि यथाशक्त्यर्हेभ्यो द्रव्यसंविभागो दत्तम् ; इति एवंविधं परिचरणपरित्राणादि उपासते, इति—शब्दस्य प्रकारदर्शनार्थत्वात् । ते दर्शनवर्जितत्वाद्धूमं धूमाभिमानिनीं देवताम् अभिसम्भवन्ति प्रतिपद्यन्ते । तया अतिवाहिता धूमाद्रात्रिं रात्रिदेवतां रात्रेरपरपक्षदेवताम् एवमेव कृष्णपक्षाभिमानिनीम् अपरपक्षात् यान्षण्मासान् दक्षिणा दक्षिणां दिशमेति सविता, तान्मासान् दक्षिणायनषण्मासाभिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः । सङ्घचारिण्यो हि षण्मासदेवता इति मासानिति बहुवचनप्रयोगः तासु । नैते कर्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिनीं देवतामभिप्राप्नुवन्ति । कुतः पुनः संवत्सरप्राप्तिप्रसङ्गः, यतः प्रतिषिध्यते ? अस्ति हि प्रसङ्गः — संवत्सरस्य हि एकस्यावयवभूते दक्षिणोत्तरायणे, तत्र अर्चिरादिमार्गप्रवृत्तानामुदगयनमासेभ्योऽवयविनः संवत्सरस्य प्राप्तिरुक्ता ; अतः इहापि तदवयवभूतानां दक्षिणायनमासानां प्राप्तिं श्रुत्वा तदवयविनः संवत्सरस्यापि पूर्ववत्प्राप्तिरापन्नेति । अतः तत्प्राप्तिः प्रतिविध्यते — नैते संवत्सरमभिप्राप्नुवन्तीति ॥
विश्वास-प्रस्तुतिः
मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ४ ॥
मूलम्
मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ४ ॥
शङ्करः
मासेभ्यः पितृलोकं पितृलोकादाकाशम् आकाशाच्चन्द्रमसम् । कोऽसौ, यस्तैः प्राप्यते चन्द्रमाः ? य एष दृश्यतेऽन्तरिक्षे सोमो राजा ब्राह्मणानाम् , तदन्नं देवानाम् , तं चन्द्रमसमन्नं देवा इन्द्रादयो भक्षयन्ति । अतस्ते धूमादिना गत्वा चन्द्रभूताः कर्मिणो देवैर्भक्ष्यन्ते । ननु अनर्थाय इष्टादिकरणम् , यद्यन्नभूता देवैर्भक्ष्येरन् । नैष दोषः, अन्नमित्युपकरणमात्रस्य विवक्षितत्वात् — न हि ते कबलोत्क्षेपेण देवैर्भक्ष्यन्ते कं तर्हि, उपकरणमात्रं देवानां भवन्ति ते, स्त्रीपशुभृत्यादिवत् , दृष्टश्चान्नशब्द उपकरणेषु — स्त्रियोऽन्नं पशवोऽन्नं विशोऽन्नं राज्ञामित्यादि । न च तेषां स्त्र्यादीनां पुरुषोपभोग्यत्वेऽप्युपभोगो नास्ति । तस्मात्कर्मिणो देवानामुपभोग्या अपि सन्तः सुखिनो देवैः क्रीडन्ति । शरीरं च तेषां सुखोपभोगयोग्यं चन्द्रमण्डले आप्यमारभ्यते । तदुक्तं पुरस्तात् — श्रद्धाशब्दा आपो द्युलोकाग्नौ हुताः सोमो राजा सम्भवतीति । ता आपः कर्मसमवायिन्यः इतरैश्च भूतैरनुगता द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्भिका इष्टाद्युपासकानां भवन्ति । अन्त्यायां च शरीराहुतावग्नौ हुतायामग्निना दह्यमाने शरीरे तदुत्था आपो धूमेन सह ऊर्ध्वं यजमानमावेष्ट्य चन्द्रमण्डलं प्राप्य कुशमृत्तिकास्थानीया बाह्यशरीरारम्भिका भवन्ति । तदारब्धेन च शरीरेण इष्टादिफलमुपभुञ्जाना आसते ॥
विश्वास-प्रस्तुतिः
तस्मिन्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति ॥ ५ ॥
मूलम्
तस्मिन्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति ॥ ५ ॥
शङ्करः
यावत् तदुपभोगनिमित्तस्य कर्मणः क्षयः, सम्पतन्ति येनेति सम्पातः कर्मणः क्षयः यावत्सम्पातं यावत्कर्मणः क्षय इत्यर्थः, तावत् तस्मिंश्चन्द्रमण्डले उषित्वा अथ अनन्तरम् एतमेव वक्ष्यमाणमध्वानं मार्गं पुनर्निवर्तन्ते । पुनर्निवर्तन्त इति प्रयोगात्पूर्वमप्यसकृच्चन्द्रमण्डलं गता निवृत्ताश्च आसन्निति गम्यते । तस्मादिह लोके इष्टादिकर्मोपचित्य चन्द्रं गच्छन्ति ; तत्क्षये च आवर्तन्ते ; क्षणमात्रमपि तत्र स्थातुं न लभ्यते, स्थितिनिमित्तकर्मक्षयात् — स्नेहक्षयादिव प्रदीपस्य ॥
तत्र किं येन कर्मणा चन्द्रमण्डलमारूढास्तस्य सर्वस्यक्षये तस्मादवरोहणम् , किं वा सावशेष इति । किं ततः ? यदि सर्वस्यैव क्षयः कर्मणः, चन्द्रमण्डलस्थस्यैव मोक्षः प्राप्नोति ; तिष्ठतु तावत्तत्रैव, मोक्षः स्यात् , न वेति ; तत आगतस्य इह शरीरोपभोगादि न सम्भवति । ‘ततः शेषेण’ (गौ. ध. २ । २ । २९) इत्यादिस्मृतिविरोधश्च स्यात् । नन्विष्टापूर्तदत्तव्यतिरेकेणापि मनुष्यलोके शरीरोपभोगनिमित्तानि कर्माण्यनेकानि सम्भवन्ति, न च तेषां चन्द्रमण्डले उपभोगः, अतोऽक्षीणानि तानि ; यन्निमित्तं चन्द्रमण्डलमारूढः, तान्येव क्षीणानीत्यविरोधः ; शेषशब्दश्च सर्वेषां कर्मत्वसामान्यादविरुद्धः ; अत एव च तत्रैव मोक्षः स्यादिति दोषाभावः ; विरुद्धानेकयोन्युपभोगफलानां च कर्मणाम् एकैकस्य जन्तोरारम्भकत्वसम्भवात् । न च एकस्मिञ्जन्मनि सर्वकर्मणां क्षय उपपद्यते, ब्रह्महत्यादेश्च एकैकस्य कर्मण अनेकजन्मारम्भकत्वस्मरणात् , स्थावरादिप्राप्तानां च अत्यन्तमूढानामुत्कर्षहेतोः कर्मण आरम्भकत्वासम्भवात् । गर्भभूतानां च स्रंसमानानां कर्मासम्भवे संसारानुपपत्तिः । तस्मात् न एकस्मिञ्जन्मनि सर्वेषां कर्मणामुपभोगः ॥
यत्तु कैश्चिदुच्यते — सर्वकर्माश्रयोपमर्देन प्रायेण कर्मणां जन्मारम्भकत्वम् । तत्र कानिचित्कर्माण्यनारम्भकत्वेनैव तिष्ठन्ति कानिचिज्जन्म आरभन्त इति नोपपद्यते, मरणस्य सर्वकर्माभिव्यञ्जकत्वात् , स्वगोचराभिव्यञ्जकप्रदीपवदिति । तदसत् , सर्वस्य सर्वात्मकत्वाभ्युपगमात् — न हि सर्वस्य सर्वात्मकत्वे देशकालनिमित्तावरुद्धत्वात्सर्वात्मनोपमर्दः कस्यचित्क्वचिदभिव्यक्तिर्वा सर्वात्मनोपपद्यते, तथा कर्मणामपि साश्रयाणां भवेत् — यथा च पूर्वानुभूतमनुष्यमयूरमर्कटादिजन्माभिसंस्कृताः विरुद्धानेकवासनाः मर्कटत्वप्रापकेन कर्मणा मर्कटजन्म आरभमाणेन नोपमृद्यन्ते — तथा कर्मण्यप्यन्यजन्मप्राप्तिनिमित्तानि नोपमृद्यन्त इति युक्तम् । यदि हि सर्वाः पूर्वजन्मानुभववासनाः उपमृद्येरन् , मर्कटजन्मनिमित्तेन कर्मणा मर्कटजन्मन्यारब्धे मर्कटस्य जातमात्रस्य मातुः शाखायाः शाखान्तरगमने मातुरुदरसंलग्नत्वादिकौशलं न प्राप्नोति, इह जन्मन्यनभ्यस्तत्वात् । न च अतीतानन्तरजन्मनि मर्कटत्वमेव आसीत्तस्येति शक्यं वक्तुम् , ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’ (बृ. उ. ४ । ४ । २) इति श्रुतेः । तस्माद्वासनावन्नाशेषकर्मोपमर्द इति शेषकर्मसम्भवः । यत एवम् , तस्माच्छेषेणोपभुक्तात्कर्मणः संसार उपपद्यत इति न कश्चिद्विरोधः ॥
कोऽसावध्वा यं प्रति निवर्तन्त इति, उच्यते — यथेतं यथागतं निवर्तन्ते । ननु मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमिति गमनक्रम उक्तः, न तथा निवृत्तिः ; किं तर्हि, आकाशाद्वायुमित्यादि ; कथं यथेतमित्युच्यते । नैष दोषः, आकाशप्राप्तेस्तुल्यत्वात्पृथिवीप्राप्तेश्च । न च अत्र यथेतमेवेति नियमः, अनेवंविधमपि निवर्तन्ते ; पुनर्निवर्तन्त इति तु नियमः । अत उपलक्षणार्थमेतत् — यद्यथे तमिति । अतो भौतिकमाकाशं तावत्प्रतिपद्यन्ते — यास्तेषां चन्द्रमण्डले शरीरारम्भिका आप आसन् , तास्तेषां तत्रोपभोगनिमित्तानां कर्मणां क्षये विलीयन्ते — घृतसंस्थानमिवाग्निसंयोगे, ता विलीना अन्तरिक्षस्था आकाशभूता इति सूक्ष्माः भवन्ति । ता अन्तरिक्षाद्वायुर्भवन्ति, वायुप्रतिष्टा वायुभूता इतश्चामुतश्च ऊह्यमानाः ताभिः सह क्षीणकर्मा वायुभूतो भवति । वायुर्भूत्वा ताभिः सहैव धूमो भवति । धूमो भूत्वा अभ्रम् अब्भरणमात्ररूपो भवति ॥
विश्वास-प्रस्तुतिः
अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ६ ॥
मूलम्
अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ६ ॥
शङ्करः
अभ्रं भूत्वा ततः सेचनसमर्थो मेघो भवति ; मेघो भूत्वा उन्नतेषु प्रदेशेष्वथ प्रवर्षति ; वर्षधारारूपेण शेषकर्मा पततीत्यर्थः । त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इत्येवम्प्रकारा जायन्ते ; क्षीणकर्मणामनेकत्वात् बहुवचननिर्देशः । मेघादिषु पूर्वेष्वेकरूपत्वात् एकवचननिर्देशः । यस्माद्गिरितटदुर्गनदीसमुद्रारण्यमरुदेशादिसन्निवेशसहस्राणि वर्षधाराभिः पतितानाम् , अतः तस्माद्धेतोः वै खलु दुर्निष्प्रपतरं दुर्निष्क्रमणं दुर्निःसरणम् — यतो गिरितटादुदकस्रोतसोह्यमाना नदीः प्राप्नुवन्ति, ततः समुद्रम् , ततो मकरादिभिर्भक्ष्यन्ते ; तेऽप्यन्येन ; तत्रैव च सह मकरेण समुद्रे विलीनाः समुद्राम्भोभिर्जलधरैराकृष्टाः पुनर्वर्षधाराम्भिर्मरुदेशे शिलातटे वा अगम्ये पतितास्तिष्ठन्ति, कदाचिद्व्यालमृगादिपीता भक्षिताश्चान्यैः तेऽप्यन्यैरित्येवम्प्रकाराः परिवर्तेरन् ; कदाचिदभक्ष्येषु स्थावरेषु जातास्तत्रैव शुष्येरन् ; भक्ष्येष्वपि स्थावरेषु जातानां रेतःसिग्देहसम्बन्धो दुर्लभ एव, बहुत्वात्स्थावराणाम् — इत्यतो दुर्निष्क्रमणत्वम् । अथवा अतः अस्माद्व्रीहियवादिभावात् दुर्निष्प्रपतरं दुर्निर्गमतरम् । दुर्निष्प्रपरमिति तकार एको लुप्तो द्रष्टव्यः ; व्रीहियवादिभावो दुर्निष्प्रपतः, तस्मादपि दुर्निष्प्रपताद्रेतःसिग्देहसम्बन्धो दुर्निष्प्रपततर इत्यर्थः ; यस्मादूर्ध्वरेतोभिर्बालैः पुंस्त्वरहितैः स्थविरैर्वा भक्षिता अन्तराले शीर्यन्ते, अनेकत्वादन्नादानाम् । कदाचित्काकतालीयवृत्त्या रेतःसिग्भिर्भक्ष्यन्ते यदा, तदा रेतःसिग्भावं गतानां कर्मणो वृत्तिलाभः । कथम् ? यो यो हि अन्नमत्ति अनुशयिभिः संश्लिष्टं रेतःसिक् , यश्च रेतः सिञ्चति ऋतुकाले योषिति, तद्भूय एव तदाकृतिरेव भवति ; तदवयवाकृतिभूयस्त्वं भूय इत्युच्यते रेतोरूपेण योषितो गर्भाशयेऽन्तः प्रविष्टोऽनुशयी, रेतसो रेतःसिगाकृतिभावितत्वात् , ‘सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतम्’ (ऐ. उ. २ । १ । १) इति हि श्रुत्यन्तरात् । अतो रेतःसिगाकृतिरेव भवतीत्यर्थः । तथा हि पुरुषात्पुरुषो जायते गोर्गवाकृतिरेव न जात्यन्तराकृतिः, तस्माद्युक्तं तद्भूय एव भवतीति ॥
ये त्वन्ये अनुशयिभ्यश्चन्द्रमण्डलमनारुह्य इहैव पापकर्मभिर्घोरैर्व्रीहियवादिभावं प्रतिपद्यन्ते, पुनर्मनुष्यादिभावम् , तेषां नानुशयिनामिव दुर्निष्प्रपतरम् । कस्मात् ? कर्मणा हि तैर्व्रीहियवादिदेह उपात्त इति तदुपभोगनिमित्तक्षये व्रीह्यादिस्तम्बदेहविनाशे यथाकर्मार्जितं देहान्तरं नवं नवं जलूकावत्सङ्क्रमन्ते सविज्ञाना एव ‘सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति’ (बृ. उ. ४ । ४ । २) इति श्रुत्यन्तरात् । यद्यप्युपसंहृतकरणाः सन्तो देहान्तरं गच्छन्ति, तथापि स्वप्नवत् देहान्तरप्राप्तिनिमित्तकर्मोद्भावितवासनाज्ञानेन सविज्ञाना एव देहान्तरं गच्छन्ति, श्रुतिप्रामाण्यात् । तथा अर्चिरादिना धूमादिना च गमनं स्वप्नं इवोद्भूतविज्ञानेन, लब्धवृत्तिकर्मनिमित्तत्वाद्गमनस्य । न तथा अनुशयिनां व्रीह्यादिभावेन जातानां सविज्ञानमेव रेतःसिग्योषिद्देहसम्बन्ध उपपद्यते, न हि व्रीह्यादिलवनकण्डनपेषणादौ च सविज्ञानानां स्थितिरस्ति । ननु चन्द्रमण्डलादप्यवरोहतां देहान्तरगमनस्य तुल्यत्वात् जलूकावत्सविज्ञानतैव युक्ता, तथा सति घोरो नरकानुभव इष्टापूर्तादिकारिणां चन्द्रमण्डलादारभ्य प्राप्तो यावद्ब्राह्मणादिजन्म ; तथा च सति, अनर्थायैव इष्टापूर्ताद्युपासनं विहितं स्यात् ; श्रुतेश्च अप्रामाण्यं प्राप्तम् , वैदिकानां कर्मणाम् अनर्थानुबन्धित्वात् । न, वृक्षारोहणपतनवद्विशेषसम्भवात् — देहाद्देहान्तरं प्रतिपित्सोः कर्मणो लब्धवृत्तित्वात् कर्मणोद्भावितेन विज्ञानेन सविज्ञानत्वं युक्तम् — वृक्षाग्रमारोहत इव फलं जिघृक्षोः । तथा अर्चिरादिना गच्छतां सविज्ञानत्वं भवेत् ; धूमादिना च चन्द्रमण्डलमारुरुक्षताम् । न तथा चन्द्रमण्डलादवरुरुक्षतां वृक्षाग्रादिव पततां सचेतनत्वम् — यथा च मुद्गराद्यभिहतानां तदभिघातवेदनानिमित्तसम्मूर्छितप्रतिबद्धकरणानां स्वदेहेनैव देशाद्देशान्तरं नीयमानानां विज्ञानशून्यता दृष्टा, तथा चन्द्रमण्डलात् मानुषादिदेहान्तरं प्रति अवरुरुक्षतां स्वर्गभोगनिमित्तकर्मक्षयात् मृदिताब्देहानां प्रतिबद्धकरणानाम् । अतः ते अपरित्यक्तदेहबीजभूताभिरद्भिः मूर्छिता इव आकाशादिक्रमेण इमामवरुह्य कर्मनिमित्तजातिस्थावरदेहैः संश्लिष्यन्ते प्रतिबद्धकरणतया अनुद्भूतविज्ञाना एव । तथा लवनकण्डनपेषणसंस्कारभक्षणरसादिपरिणामरेतःसेककालेषु मूर्छितवदेव, देहान्तरारम्भकस्य कर्मणोऽलब्धवृत्तित्वात् । देहबीजभूताप्सम्बन्धापरित्यागेनैव सर्वास्ववस्थासु वर्तन्त इति जलूकावत् चेतनावत्त्वं न विरुध्यते । अन्तराले त्वविज्ञानं मूर्छितवदेवेत्यदोषः । न च वैदिकानां कर्मणां हिंसायुक्तत्वेनोभयहेतुत्वं शक्यमनुमातुम् , हिंसायाः शास्त्रचोदितत्वात् । ‘अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः’ (छा. उ. ८ । १५ । १) इति श्रुतेः शास्त्रचोदिताया हिंसाया न अधर्महेतुत्वमभ्युपगम्यते । अभ्युपगतेऽप्यधर्महेतुत्वे मन्त्रैर्विषादिवत् तदपनयोपपत्तेः न दुःखकार्यारम्भणोपपत्तिः वैदिकानां कर्मणाम् — मन्त्रेणेव विषभक्षणस्येति ॥
विश्वास-प्रस्तुतिः
तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ ७ ॥
मूलम्
तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ ७ ॥
शङ्करः
तत् तत्र तेष्वनुशयिनां ये इह लोके रमणीयं शोभनं चरणं शीलं येषां ते रमणीयचरणेनोपलक्षितः शोभनोऽनुशयः पुण्यं कर्म येषां ते — रमणीयचरणाः उच्यन्ते ; क्रौर्यानृतमायावर्जितानां हि शक्य उपलक्षयितुं शुभानुशयसद्भावः ; तेनानुशयेन पुण्येन कर्मणा चन्द्रमण्डले भुक्तशेषेण अभ्याशो ह क्षिप्रमेव, यदिति क्रियाविशेषणम् , ते रमणीयां क्रौर्यादिवर्जितां योनिमापद्येरन् प्राप्नुयुः ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा स्वकर्मानुरूपेण । अथ पुनर्येतद्विपरीताः कपूयचरणोपलक्षितकर्माणः अशुभानुशया अभ्याशो ह यत्ते कपूयां यथाकर्म योनिमापद्येरन् कपूयामेव धर्मसम्बन्धवर्जितां जुगुप्सितां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा स्वकर्मानुरूपेणैव ॥
विश्वास-प्रस्तुतिः
अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृतावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयꣳ स्थानं तेनासौ लोको न सम्पूर्यते तस्माज्जुगुप्सेत तदेष श्लोकः ॥ ८ ॥
मूलम्
अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृतावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयꣳ स्थानं तेनासौ लोको न सम्पूर्यते तस्माज्जुगुप्सेत तदेष श्लोकः ॥ ८ ॥
शङ्करः
ये तु रमणीयचरणा द्विजातयः, ते स्वकर्मस्थाश्चेदिष्टादिकारिणः, ते धूमादिगत्या गच्छन्त्यागच्छन्ति च पुनः पुनः, घटीयन्त्रवत् । विद्यां चेत्प्राप्नुयुः, तदा अर्चिरादिना गच्छन्ति ; यदा तु न विद्यासेविनो नापि इष्टादिकर्म सेवन्ते, तदा अथैतयोः पथोः यथोक्तयोरर्चिर्धूमादिलक्षणयोः न कतरेण अन्यतरेण चनापि यन्ति । तानीमानि भूतानि क्षुद्राणि दंशमशककीटादीन्यसकृदावर्तीनि भवन्ति । अतः उभयमार्गपरिभ्रष्टा हि असकृज्जायन्ते म्रियन्ते च इत्यर्थः । तेषां जननमरणसन्ततेरनुकरणमिदमुच्यते । जायस्व म्रियस्व इति ईश्वरनिमित्तचेष्टा उच्यते । जननमरणलक्षणेनैव कालयापना भवति, न तु क्रियासु शोभनेषु भोगेषु वा कालोऽस्तीत्यर्थः । एतत् क्षुद्रजन्तुलक्षणं तृतीयं पूर्वोक्तौ पन्थानावपेक्ष्य स्थानं संसरताम् , येनैवं दक्षिणमार्गगा अपि पुनरागच्छन्ति, अनधिकृतानां ज्ञानकर्मणोरगमनमेव दक्षिणेन पथेति, तेनासौ लोको न सम्पूर्यते । पञ्चमस्तु प्रश्नः पञ्चाग्निविद्यया व्याख्यातः । प्रथमो दक्षिणोत्तरमार्गाभ्यामपाकृतः । दक्षिणोत्तरयोः पथोर्व्यावर्तनापि — मृतानामग्नौ प्रक्षेपः समानः, ततो व्यावर्त्य अन्येऽर्चिरादिना यन्ति, अन्ये धूमादिना, पुनरुत्तरदक्षिणायने षण्मासान्प्राप्नुवन्तः संयुज्य पुनर्व्यावर्तन्ते, अन्ये संवत्सरमन्ये मासेभ्यः पितृलोकम् —
इति व्याख्याता । पुनरावृत्तिरपि क्षीणानुशयानां चन्द्रमण्डलादाकाशादिक्रमेण उक्ता । अमुष्य लोकस्यापूरणं स्वशब्देनैवोक्तम् — तेनासौ लोको न सम्पूर्यत इति । यस्मादेवं कष्टा संसारगतिः, तस्माज्जुगुप्सेत । यस्माच्च जन्ममरणजनितवेदनानुभवकृतक्षणाः क्षुद्रजन्तवो ध्वान्ते च घोरे दुस्तरे प्रवेशिताः — सागर इव अगाधेऽप्लवे निराशाश्चोत्तरणं प्रति, तस्माच्चैवंविधां संसारगति जुगुप्सेत बीभत्सेत घृणी भवेत् — मा भूदेवंविधे संसारमहोदधौ घोरे पात इति । तदेतस्मिन्नर्थे एषः श्लोकः पञ्चाग्निविद्यास्तुतये ॥
विश्वास-प्रस्तुतिः
स्तेनो हिरण्यस्य सुरां पिबꣳश्च गुरोस्तल्पमावसन्ब्रह्महा चैते पतन्ति चत्वारः पञ्चमश्चाचरꣳस्तैरिति ॥ ९ ॥
मूलम्
स्तेनो हिरण्यस्य सुरां पिबꣳश्च गुरोस्तल्पमावसन्ब्रह्महा चैते पतन्ति चत्वारः पञ्चमश्चाचरꣳस्तैरिति ॥ ९ ॥
शङ्करः
स्तेनो हिरण्यस्य ब्राह्मणसुवर्णस्य हर्ता, सुरां पिबन् , ब्राह्मणः सन् , गुरोश्च तल्पं दारानावसन् , ब्रह्महा ब्राह्मणस्य हन्ता चेत्येते पतन्ति चत्वारः । पञ्चमश्च तैः सह आचरन्निति ॥
विश्वास-प्रस्तुतिः
अथ ह य एतानेवं पञ्चाग्नीन्वेद न सह तैरप्याचरन्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद ॥ १० ॥
मूलम्
अथ ह य एतानेवं पञ्चाग्नीन्वेद न सह तैरप्याचरन्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद ॥ १० ॥
शङ्करः
अथ ह पुनः यो यथोक्तान्पञ्चाग्नीन्वेद, स तैरप्याचरन् महापातकिभिः सह न पाप्मना लिप्यते, शुद्ध एव । तेन पञ्चाग्निदर्शनेन पावितः यस्मात्पूतः, पुण्यो लोकः प्राजापत्यादिर्यस्य सोऽयं पुण्यलोकः भवति ; य एवं वेद यथोक्तं समस्तं पञ्चभिः प्रश्नैः पृष्टमर्थजातं वेद । द्विरुक्तिः समस्तप्रश्ननिर्णयप्रदर्शनार्था ॥
इति दशमखण्डभाष्यम् ॥