०७

विश्वास-प्रस्तुतिः

पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वार्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥ १ ॥

मूलम्

पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वार्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥ १ ॥

शङ्करः

पुरुषो वाव गौतमाग्निः । तस्य वागेव समित् , वाचा हि मुखेन समिध्यते पुरुषो न मूकः । प्राणो धूमः, धूम इव मुखान्निर्गमनात् । जिह्वा अर्चिः, लोहितत्वात् । चक्षुः अङ्गाराः, भास आश्रयत्वात् । श्रोत्रं विस्फुलिङ्गाः, विप्रकीर्णत्वसाम्यात् ॥

विश्वास-प्रस्तुतिः

तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति ॥ २ ॥

मूलम्

तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति ॥ २ ॥

शङ्करः

समानमन्यत् । अन्नं जुह्वति व्रीह्यादिसंस्कृतम् । तस्या आहुते रेतः सम्भवति ॥

इति सप्तमखण्डभाष्यम् ॥