शङ्करः
सगुणब्रह्मविद्याया उत्तरा गतिरुक्ता । अथेदानीं पञ्चमेऽध्याये पञ्चाग्निविदो गृहस्थस्य ऊर्ध्वरेतसां च श्रद्धालूनां विद्यान्तरशीलिनां तामेव गतिमनूद्य अन्या दक्षिणादिक्सम्बन्धिनी केवलकर्मिणां धूमादिलक्षणा, पुनरावृत्तिरूपा तृतीया च ततः कष्टतरा संसारगतिः, वैराग्यहेतोः वक्तव्येत्यारभ्यते । प्राणः श्रेष्ठो वागादिभ्यः प्राणो वाव संवर्ग इत्यादि च बहुशोऽतीते ग्रन्थे प्राणग्रहणं कृतम् , स कथं श्रेष्ठो वागादिषु सर्वैः संहत्यकारित्वाविशेषे, कथं च तस्योपासनमिति तस्य श्रेष्ठत्वादिगुणविधित्सया इदमनन्तरमारभ्यते —
विश्वास-प्रस्तुतिः
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ १ ॥
मूलम्
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ १ ॥
शङ्करः
यो ह वै कश्चित् ज्येष्ठं च प्रथमं वयसा श्रेष्ठं च गुणैरभ्यधिकं वेद, स ज्येष्ठश्च ह वै श्रेष्ठश्च भवति । फलेन पुरुषं प्रलोभ्याभिमुखीकृत्य आह — प्राणो वाव ज्येष्ठश्च वयसा वागादिभ्यः ; गर्भस्थे हि पुरुषे प्राणस्य वृत्तिर्वागादिभ्यःपूर्वं लब्धात्मिका भवति, यया गर्भो विवर्धते । चक्षुरादिस्थानावयवनिष्पत्तौ सत्यां पश्चाद्वागादीनां वृत्तिलाभ इति प्राणो ज्येष्ठो वयसा भवति । श्रेष्ठत्वं तु प्रतिपादयिष्यति — ‘सुहय’ इत्यादिनिदर्शनेन । अतः प्राण एव ज्येष्ठश्च श्रेष्ठश्च अस्मिन्कार्यकरणसङ्घाते ॥
विश्वास-प्रस्तुतिः
यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग्वाव वसिष्ठः ॥ २ ॥
मूलम्
यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग्वाव वसिष्ठः ॥ २ ॥
शङ्करः
यो ह वै वसिष्ठं वसितृतममाच्छादयितृतमं वसुमत्तमं वा यो वेद, स तथैव वसिष्ठो ह भवति स्वानां ज्ञातीनाम् । कस्तर्हि वसिष्ठ इति, आह — वाग्वाव वसिष्ठः, वाग्मिनो हि पुरुषा वसन्ति अभिभवन्त्यन्यान् वसुमत्तमाश्च, अतो वाग्वसिष्ठः ॥
विश्वास-प्रस्तुतिः
यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिꣳश्च लोकेऽमुष्मिꣳश्च चक्षुर्वाव प्रतिष्ठा ॥ ३ ॥
मूलम्
यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिꣳश्च लोकेऽमुष्मिꣳश्च चक्षुर्वाव प्रतिष्ठा ॥ ३ ॥
शङ्करः
यो ह वै प्रतिष्ठां वेद, स अस्मिंल्लोके अमुष्मिंश्च परे प्रतितिष्ठति ह । का तर्हि प्रतिष्ठेति, आह — चक्षुर्वाव प्रतिष्ठा । चक्षुषा हि पश्यन् समे च दुर्गे च प्रतितिष्ठति यस्मात् , अतः प्रतिष्ठा चक्षुः ॥
विश्वास-प्रस्तुतिः
यो ह वै सम्पदं वेद सꣳहास्मै कामाः पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ४ ॥
मूलम्
यो ह वै सम्पदं वेद सꣳहास्मै कामाः पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ४ ॥
शङ्करः
यो ह वै सम्पदं वेद, तस्मा अस्मै दैवाश्च मानुषाश्च कामाः सम्पद्यन्ते ह । का तर्हि सम्पदिति, आह — श्रोत्रं वाव सम्पत् । यस्माच्छ्रोत्रेण वेदा गृह्यन्ते तदर्थविज्ञानं च, ततः कर्माणि क्रियन्ते ततः कामसम्पदित्येवम् , कामसम्पद्धेतुत्वाच्छ्रोत्रं वाव सम्पत् ॥
विश्वास-प्रस्तुतिः
यो ह वा आयतनं वेदायतनꣳ ह स्वानां भवति मनो ह वा आयतनम् ॥ ५ ॥
मूलम्
यो ह वा आयतनं वेदायतनꣳ ह स्वानां भवति मनो ह वा आयतनम् ॥ ५ ॥
शङ्करः
यो ह वा आयतनं वेद, आयतनं ह म्वानां भवतीत्यर्थः । किं तदायतनमिति, आह — मनो ह वा आयतनम् । इन्द्रियोपहृतानां विषयाणां भोक्त्रर्थानां प्रत्ययरूपाणां मन आयतनमाश्रयः । अतो मनो ह वा आयतनमित्युक्तम् ॥
विश्वास-प्रस्तुतिः
अथ ह प्राणा अहꣳ श्रेयसि व्यूदिरेऽहꣳ श्रेयानस्म्यहꣳ श्रेयानस्मीति ॥ ६ ॥
मूलम्
अथ ह प्राणा अहꣳ श्रेयसि व्यूदिरेऽहꣳ श्रेयानस्म्यहꣳ श्रेयानस्मीति ॥ ६ ॥
शङ्करः
अथ ह प्राणाः एवं यथोक्तगुणाः सन्तः अहंश्रेयसि अहं श्रेयानस्मि अहं श्रेयानस्मि इत्येतस्मिन्प्रयोजने व्यूदिरेनाना विरुद्धं चोदिरे उक्तवन्तः ॥
विश्वास-प्रस्तुतिः
ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ७ ॥
मूलम्
ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ७ ॥
शङ्करः
ते ह ते हैवं विवदमाना आत्मनः श्रेष्ठत्वविज्ञानाय प्रजापतिं पितरं जनयितारं कञ्चिदेत्य ऊचुः उक्तवन्तः — हे भगवन् कः नः अस्माकं मध्ये श्रेष्ठः अभ्यधिकः गुणैः ? इत्येवं पृष्टवन्तः । तान् पितोवाच ह — यस्मिन् वः युष्माकं मध्ये उत्क्रान्ते शरीरमिदं पापिष्ठमिवातिशयेन जीवतोऽपि समुत्क्रान्तप्राणं ततोऽपि पापिष्ठतरमिवातिशयेन दृश्येत कुणपमस्पृश्यमशुचिं दृश्येत, सः वः युष्माकं श्रेष्ठ इत्यवोचत् काक्वा तद्दुःखं परिजिहीर्षुः ॥
विश्वास-प्रस्तुतिः
सा ह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ८ ॥

चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथान्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ९ ॥

श्रोत्रं होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ १० ॥

मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥ ११ ॥
मूलम्
मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥ ११ ॥
शङ्करः
तथोक्तेषु पित्रा प्राणेषु सा ह वाक् उच्चक्राम उत्क्रान्तवती ; सा च उत्क्रम्य संवत्सरमात्रं प्रोष्य स्वव्यापारान्निवृत्ता सती पुनः पर्येत्य इतरान्प्राणानुवाच — कथं केन प्रकारेणाशकत शक्तवन्तो यूयं मदृते मां विना जीवितुं धारयितुमात्मानमिति ; ते ह ऊचुः — यथा कला इत्यादि, कलाः मूकाः यथा लोकेऽवदन्तो वाचा जीवन्ति । कथम् । प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसा, एवं सर्वकरणचेष्टां कुर्वन्त इत्यर्थः । एवं वयमजीविष्मेत्यर्थः । आत्मनोऽश्रेष्ठतां प्राणेषु बुद्ध्वा प्रविवेश ह वाक् पुनः स्वव्यापारे प्रवृत्ता बभूवेत्यर्थः । समानमन्यत् चक्षुर्होच्चक्राम श्रोत्रं होच्चक्राम मनो होच्चक्रामेत्यादि । यथा बाला अमनसः अप्ररूढमनस इत्यर्थः ॥
विश्वास-प्रस्तुतिः
अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः पड्वीशशङ्कून्सङ्खिदेदेवमितरान्प्राणान्समखिदत्तं हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति ॥ १२ ॥
मूलम्
अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः पड्वीशशङ्कून्सङ्खिदेदेवमितरान्प्राणान्समखिदत्तं हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति ॥ १२ ॥
शङ्करः
एवं परीक्षितेषु वागादिषु, अथ अनन्तरं ह स मुख्यः प्राणः उच्चिक्रमिषन् उत्क्रमितुमिच्छन् किमकरोदिति, उच्यते — यथा लोके सुहयः शोभनोऽश्वः पड्वीशशङ्कून् पादबन्धनकीलान् परीक्षणाय आरूढेन कशया हतः सन् सङ्खिदेत् समुत्खनेत् समुत्पाटयेत् , एवमितरान्वागादीन्प्राणान् समखिदत् समुद्धृतवान् । ते प्राणाः सञ्चालिताः सन्तः स्वस्थाने स्थातुमनुत्सहमानाः अभिसमेत्य मुख्यं प्राणं तमूचुः — हे भगवन् एधि भव नः स्वामी, यस्मात् त्वं नः श्रेष्ठोऽसि ; मा च अस्माद्देहादुत्क्रमीरिति ॥
विश्वास-प्रस्तुतिः
अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ १३ ॥
मूलम्
अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ १३ ॥
विश्वास-प्रस्तुतिः
अथ हैनं श्रोत्रमुवाच यदहं सम्पदस्मि त्वं तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥ १४ ॥
मूलम्
अथ हैनं श्रोत्रमुवाच यदहं सम्पदस्मि त्वं तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥ १४ ॥
शङ्करः
अथ हैनं वागादयः प्राणस्य श्रेष्ठत्वं कार्येण आपादयन्तः आहुः — बलिमिव हरन्तो राज्ञे विशः । कथम् ? वाक् तावदुवाच — यदहं वसिष्ठोऽस्मि, यदिति क्रियाविशेषणम् , यद्वसिष्ठत्वगुणास्मीत्यर्थः ; त्वं तद्वसिष्ठः तेन वसिष्ठत्वगुणेन त्वं तद्वसिष्ठोऽसि तद्गुणस्त्वमित्यर्थः । अथवा तच्छब्दोऽपि क्रियाविशेषणमेव । त्वत्कृतस्त्वदीयोऽसौ वसिष्ठत्वगुणोऽज्ञानान्ममेति मया अभिमत इत्येतत् । तथोत्तरेषु योज्यं चक्षुःश्रोत्रमनःसु ॥
विश्वास-प्रस्तुतिः
न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ १५ ॥
मूलम्
न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ १५ ॥
शङ्करः
श्रुतेरिदं वचः — युक्तमिदं वागादिभिर्मुख्यं प्राणं प्रत्यभिहितम् ; यस्मान्न वै लोके वाचो न चक्षूंषि न श्रोत्राणि न मनांसीति वागादीनि करणान्याचक्षते लौकिका आगमज्ञा वा ; किं तर्हि, प्राणा इत्येव आचक्षते कथयन्ति ; यस्मात्प्राणो ह्येवैतानि सर्वाणि वागादीनि करणजातानि भवति ; अतो मुख्यं प्राणं प्रत्यनुरूपमेव वागादिभिरुक्तमिति प्रकरणार्थमुपसञ्जिहीर्षति ॥
ननु कथमिदं युक्तं चेतनावन्त इव पुरुषा अहंश्रेष्ठतायै विवदन्तः अन्योन्यं स्पर्धेरन्निति ; न हि चक्षुरादीनां वाचं प्रत्याख्याय प्रत्येकं वदनं सम्भवति ; तथा अपगमो देहात् पुनः प्रवेशो ब्रह्मगमनं प्राणस्तुतिर्वोपपद्यते । तत्र अग्न्यादिचेतनावद्देवताधिष्ठितत्वात् वागादीनां चेतनावत्त्वं तावत् सिद्धमागमतः । तार्किकसमयविरोध इति चेत् देहे एकस्मिन्ननेकचेतनावत्त्वे, न, ईश्वरस्य निमित्तकारणत्वाभ्युपगमात् । ये तावदीश्वरमभ्युपगच्छन्ति तार्किकाः, ते मनआदिकार्यकरणानामाध्यात्मिकानां बाह्यानां च पृथिव्यादीनामीश्वराधिष्ठितानामेव नियमेन प्रवृत्तिमिच्छन्ति — रथादिवत् । न च अस्माभिः अग्न्याद्याश्चेतनावत्योऽपि देवता अध्यात्मं भोक्त्र्यः अभ्युपगम्यन्ते ; किं तर्हि, कार्यकरणवतीनां हि तासां प्राणैकदेवताभेदानामध्यात्माधिभूताधिदैवभेदकोटिविकल्पानामध्यक्षतामात्रेण नियन्ता ईश्वरोऽभ्युपगम्यते । स ह्यकरणः, ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः’ (श्वे. उ. ३ । १९) इत्यादिमन्त्रवर्णात् ; ‘हिरण्यगर्भं पश्यत जायमानम्’ (श्वे. उ. ४ । १२) ‘हिरण्यगर्भं जनयामास पूर्वम्’ (श्वे. उ. ३ । ४) इत्यादि च श्वेताश्वतरीयाः पठन्ति । भोक्ता कर्मफलसम्बन्धी देहे तद्विलक्षणो जीव इति वक्ष्यामः । वागादीनां च इह संवादः कल्पितः विदुषोऽन्वयव्यतिरेकाभ्यां प्राणश्रेष्ठतानिर्धारणार्थम्— यथा लोके पुरुषा अन्योन्यमात्मनः श्रेष्ठतायै विवदमानाः कञ्चिद्गुणविशेषाभिज्ञं पृच्छन्ति को नः श्रेष्ठो गुणैरिति ; तेनोक्ता ऐकैकश्येन अदः कार्यं साधयितुमुद्यच्छत, येनादः कार्यं साध्यते, स वः श्रेष्ठः — इत्युक्ताः तथैवोद्यच्छन्तः आत्मनोऽन्यस्य वा श्रेष्ठतां निर्धारयन्ति — तथेमं संव्यवहारं वागादिषु कल्पितवती श्रुतिः — कथं नाम विद्वान् वागादीनामेकैकस्याभावेऽपि जीवनं दृष्टं न तु प्राणस्येति प्राणश्रेष्ठतां प्रतिपद्येतेति । तथा च श्रुतिः कौषीतकिनाम् — ‘जीवति वागपेतो मूकान्हि पश्यामो जीवति चक्षुरपेतोऽन्धान्हि पश्यामो जीवति श्रोत्रापेतो बधिरान्हि पश्यामो जीवति मनोपेतो बालान्हि पश्यामो जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्नः’ (शां. आ. ५ । ३) इत्याद्या ॥
इति प्रथमखण्डभाष्यम् ॥