१७

शङ्करः

अत्र ब्रह्मणो मौनं विहितम् , तद्रेषे ब्रह्मत्वकर्मणि च अथान्यस्मिंश्च हौत्रादिकर्मरेषे व्याहृतिहोमः प्रायश्चित्तमिति तदर्थं व्याहृतयो विधातव्या इत्याह —

विश्वास-प्रस्तुतिः

प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानां रसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिवः ॥ १ ॥

मूलम्

प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानां रसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिवः ॥ १ ॥

शङ्करः

प्रजापतिः लोकानभ्यतपत् लोकानुद्दिश्य तत्र सारजिघृक्षया ध्यानलक्षणं तपश्चचार । तेषां तप्यमानानां लोकानां रसान् साररूपान्प्रावृहत् उद्धृतवान् जग्राहेत्यर्थः । कान् ? अग्निं रसं पृथिव्याः, वायुमन्तरिक्षात् , आदित्यं दिवः ॥

विश्वास-प्रस्तुतिः

स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाꣳ रसान्प्रावृहदग्नेर्‌ऋचो वायोर्यजूंषि सामान्यादित्यात् ॥ २ ॥

मूलम्

स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाꣳ रसान्प्रावृहदग्नेर्‌ऋचो वायोर्यजूंषि सामान्यादित्यात् ॥ २ ॥

शङ्करः

पुनरप्येवमेवाग्न्याद्याः स एतास्तिस्रो देवता उद्दिश्य अभ्यतपत् । ततोऽपि सारं रसं त्रयीविद्यां जग्राह ॥

विश्वास-प्रस्तुतिः

स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति सामभ्यः ॥ ३ ॥

मूलम्

स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति सामभ्यः ॥ ३ ॥

विश्वास-प्रस्तुतिः

तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टं सन्दधाति ॥ ४ ॥

मूलम्

तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टं सन्दधाति ॥ ४ ॥

शङ्करः

स एतां पुनरभ्यतपत् त्रयीं विद्याम् । तस्यास्तप्यमानाया रसं भूरिति व्याहृतिम् ऋग्भ्यो जग्राह ; भुवरिति व्याहृतिं यजुर्भ्यः ; स्वरिति व्याहृतिं सामभ्यः । अत एव लोकदेववेदरसा महाव्याहृतयः । अतः तत् तत्र यज्ञे यदि ऋक्तः ऋक्सम्बन्धादृङ्निमित्तं रिष्येत् यज्ञः क्षतं प्राप्नुयात् , भूः स्वाहेति गार्हपत्ये जुहुयात् । सा तत्र प्रायश्चित्तिः । कथम् ? ऋचामेव, तदिति क्रियाविशेषणम् , रसेन ऋचां विर्येण ओजसा ऋचां यज्ञस्य ऋक्सम्बन्धिनो यज्ञस्य विरिष्टं विच्छिन्नं क्षतरूपमुत्पन्नं सन्दधाति प्रतिसन्धत्ते ॥

विश्वास-प्रस्तुतिः

स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टं सन्दधाति ॥ ५ ॥

मूलम्

स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टं सन्दधाति ॥ ५ ॥

विश्वास-प्रस्तुतिः

अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टं सन्दधाति ॥ ६ ॥

मूलम्

अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टं सन्दधाति ॥ ६ ॥

शङ्करः

अथ यदि यजुष्टो यजुर्निमित्तं रिष्येत् , भुवः स्वाहेति दक्षिणाग्नौ जुहुयात् । तथा सामनिमित्ते रेषे स्वः स्वाहेत्याहवनीये जुहुयात् । तथा पूर्ववद्यज्ञं सन्दधाति । ब्रह्मनिमित्ते तु रेषे त्रिष्वग्निषु तिसृभिर्व्याहृतिभिर्जुहुयात् । त्रय्या हि विद्यायाः स रेषः, ‘अथ केन ब्रह्मत्वमित्यनयैव त्रय्या विद्यया’ ( ? ) इति श्रुतेः । न्यायान्तरं वा मृग्यं ब्रह्मत्वनिमित्ते रेषे ॥

विश्वास-प्रस्तुतिः

तद्यथा लवणेन सुवर्णं सन्दध्यात्सुवर्णेन रजतं रजतेन त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ७ ॥

मूलम्

तद्यथा लवणेन सुवर्णं सन्दध्यात्सुवर्णेन रजतं रजतेन त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ७ ॥

विश्वास-प्रस्तुतिः

एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टं सन्दधाति भेषजकृतो ह वा एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ८ ॥

मूलम्

एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टं सन्दधाति भेषजकृतो ह वा एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ८ ॥

शङ्करः

तद्यथा लवणेन सुवर्णं सन्दध्यात् । क्षारेण टङ्कणादिना खरे मृदुत्वकरं हि तत् । सुवर्णेन रजतमशक्यसन्धानं सन्दध्यात् । रजतेन तथा त्रपु, त्रपुणा सीसम् , सीसेन लोहम् , लोहेन दारु, दारु चर्मणा चर्मबन्धनेन । एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण रसाख्येनौजसा यज्ञस्य विरिष्टं सन्दधाति । भेषजकृतो ह वा एष यज्ञः — रोगार्त इव पुमांश्चिकित्सकेन सुशिक्षितेन एष यज्ञो भवति । कोऽसौ ? यत्र यस्मिन्यज्ञे एवंवित् यथोक्तव्याहृतिहोमप्रायश्चित्तवित् ब्रह्मा ऋत्विग्भवति स यज्ञ इत्यर्थः ॥

विश्वास-प्रस्तुतिः

एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदं ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते तत्तद्गच्छति ॥ ९ ॥

मूलम्

एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदं ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते तत्तद्गच्छति ॥ ९ ॥

शङ्करः

किं च, एष ह वा उदक्प्रवण उदङ्निम्नो दक्षिणोच्छ्रायो यज्ञो भवति ; उत्तरमार्गप्रतिपत्तिहेतुरित्यर्थः । यत्रैवंविद्ब्रह्मा भवति । एवंविदं ह वै ब्रह्माणम् ऋत्विजं प्रति एषा अनुगाथा ब्रह्मणः स्तुतिपरा — यतो यत आवर्तते कर्म प्रदेशात् ऋत्विजां यज्ञः क्षतीभवन् , तत्तद्यज्ञस्य क्षतरूपं प्रतिसन्दधत् प्रायश्चित्तेन गच्छति परिपालयतीत्येतत् ॥

विश्वास-प्रस्तुतिः

मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ १० ॥

मूलम्

मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ १० ॥

शङ्करः

मानवो ब्रह्मा मौनाचरणान्मननाद्वा ज्ञानवत्त्वात् ; ततो ब्रह्मैवैकः ऋत्विक् कुरून् कर्तॄन् — योद्धॄनारूढानश्वा बडबा यथा अभिरक्षति, एवंवित् ह वै ब्रह्मा यज्ञं यजमानं सर्वांश्च ऋत्विजोऽभिरक्षति, तत्कृतदोषापनयनात् । यत एवं विशिष्टो ब्रह्मा विद्वान् , तस्मादेवंविदमेव यथोक्तव्याहृत्यादिविदं ब्रह्माणं कुर्वीत, नानेवंविदं कदाचनेति । द्विरभ्यासोऽध्यायपरिसमाप्त्यर्थः ॥

इति सप्तदशखण्डभाष्यम् ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये चतुर्थोऽध्यायः समाप्तः ॥