१५

विश्वास-प्रस्तुतिः

य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ १ ॥

मूलम्

य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ १ ॥

शङ्करः

य एषोऽक्षिणि पुरुषः दृश्यते निवृत्तचक्षुर्भिर्ब्रह्मचर्यादिसाधनसम्पन्नैः शान्तैर्विवेकिभिः दृष्टेर्द्रष्टा, ‘चक्षुषश्चक्षुः’ (के. उ. १ । २) इत्यादिश्रुत्यन्तरात् ; ननु अग्निभिरुक्तं वितथम् , यतः आचार्यस्तु ते गतिं वक्ता इति गतिमात्रस्य वक्तेत्यवोचन् , भविष्यद्विषयापरिज्ञानं च अग्नीनाम् ; नैष दोषः, सुखाकाशस्यैव अक्षिणि दृश्यत इति द्रष्टुरनुवादात् । एष आत्मा प्राणिनामिति ह उवाच एवमुक्तवान् ; एतत् यदेव आत्मतत्त्वमवोचाम, एतदमृतम् अमरणधर्मि अविनाशि अत एवाभयम् , यस्य हि विनाशाशङ्का तस्य भयोपपत्तिः तदभावादभयम् , अत एव एतद्ब्रह्म बृहदनन्तमिति । किञ्च, अस्य ब्रह्मणोऽक्षिपुरुषस्य माहात्म्यम् — तत् तत्र पुरुषस्य स्थाने अक्षिणि यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति, वर्त्मनी एव गच्छति पक्ष्मावेव गच्छति ; न चक्षुषा सम्बध्यते — पद्मपत्रेणेवोदकम् । स्थानस्याप्येतन्माहात्म्यम् , किं पुनः स्थानिनोऽक्षिपुरुषस्य निरञ्जनत्वं वक्तव्यमित्यभिप्रायः ॥

विश्वास-प्रस्तुतिः

एतꣳ संयद्वाम इत्याचक्षत एतꣳ हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ २ ॥

मूलम्

एतꣳ संयद्वाम इत्याचक्षत एतꣳ हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ २ ॥

शङ्करः

एतं यथोक्तं पुरुषं संयद्वाम इत्याचक्षते । कस्मात् ? यस्मादेतं सर्वाणि वामानि वननीयानि सम्भजनीयानि शोभनानि अभिसंयन्ति अभिसङ्गच्छन्तीत्यतः संयद्वामः । तथा एवंविदमेनं सर्वाणि वामान्यभिसंयन्ति य एवं वेद ॥

विश्वास-प्रस्तुतिः

एष उ एव वामनीरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद ॥ ३ ॥

मूलम्

एष उ एव वामनीरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद ॥ ३ ॥

शङ्करः

एष उ एव वामनीः, यस्मादेष हि सर्वाणि वामानि पुण्यकर्मफलानि पुण्यानुरूपं प्राणिभ्यो नयति प्रापयति वहति च आत्मधर्मत्वेन । विदुषः फलम् — सर्वाणि वामानि नयति य एवं वेद ॥

विश्वास-प्रस्तुतिः

एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥

मूलम्

एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥

शङ्करः

एष उ एव भामनीः, एष हि यस्मात् सर्वेषु लोकेषु आदित्यचन्द्राग्न्यादिरूपैः भाति दीप्यते, ‘तस्य भासा सर्वमिदं विभाति’ (मु. उ. २ । २ । ११) इति श्रुतेः । अतो भामानि नयतीति भामनीः । य एवं वेद, असावपि सर्वेषु लोकेषु भाति ॥

विश्वास-प्रस्तुतिः

अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाꣳस्तान्मासेभ्यः संवत्सरꣳ संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते ॥ ५ ॥

मूलम्

अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाꣳस्तान्मासेभ्यः संवत्सरꣳ संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते ॥ ५ ॥

शङ्करः

अथेदानीं यथोक्तब्रह्मविदः गतिरुच्यते । यत् यदि उ च एव अस्मिन् एवंविदि शव्यं शवकर्म मृते कुर्वन्ति, यदि च न कुर्वन्ति ऋत्विजः, सर्वथाप्येवंवित् तेन शवकर्मणा अकृतेनापि प्रतिबद्धो न ब्रह्म न प्राप्नोति ; न च कृतेन शवकर्मणा अस्य कश्चनाभ्यधिको लोकः, ‘न कर्मणा वर्धते नो कनीयान्’ (बृ. उ. ४ । ४ । २३) इति श्रुत्यन्तरात् । शवकर्मण्यनादरं दर्शयन् विद्यां स्तौति, न पुनः शवकर्म एवंविदः न कर्तव्यमिति । अक्रियमाणे हि शवकर्मणि कर्मणां फलारम्भे प्रतिबन्धः कश्चिदनुमीयतेऽन्यत्र । यत इह विद्याफलारम्भकाले शवकर्म स्याद्वा न वेति विद्यावतः अप्रतिबन्धेन फलारम्भं दर्शयति । ये सुखाकाशमक्षिस्थं संयद्वामो वामनीर्भामनीरित्येवङ्गुणमुपासते प्राणसहितामग्निविद्यां च, तेषामन्यत्कर्म भवतु मा वा भूत् सर्वथा अपि ते अर्चिषमेवाभिसम्भवन्ति अर्चिरभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्त इत्यर्थः । अर्चिषः अर्चिर्देवताया अहः अहरभिमानिनीं देवताम् , अह्नः आपूर्यमाणपक्षं शुक्लपक्षदेवताम् , आपूर्यमाणपक्षात् यान्षाण्मासान् उदङ् उत्तरां दिशम् एति सविता तान्मासान् उत्तरायणदेवताम् , तेभ्यो मासेभ्यः संवत्सरं संवत्सरदेवताम् , ततः संवत्सरादादित्यम् , आदित्याच्चन्द्रमसम् , चन्द्रमसो विद्युतम् । तत् तत्रस्थान् तान् पुरुषः कश्चिद्ब्रह्मलोकादेत्य अमानवः मानव्यां सृष्टौ भवः मानवः न मानवः अमानवः स पुरुषः एनान्ब्रह्म सत्यलोकस्थं गमयति गन्तृगन्तव्यगमयितृत्वव्यपदेशेभ्यः, सन्मात्रब्रह्मप्राप्तौ तदनुपपत्तेः । ‘ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६) इति हि तत्र वक्तुं न्याय्यम् । सर्वभेदनिरासेन सन्मात्रप्रतिपत्तिं वक्ष्यति । न च अदृष्टो मार्गोऽगमनायोपतिष्ठते, ‘स एनमविदितो न भुनक्ति’ (बृ. उ. १ । ४ । १५) इति श्रुत्यन्तरात् । एष देवपथः देवैरर्चिरादिभिर्गमयितृत्वेनाधिकृतैरुपलक्षितः पन्था देवपथ उच्यते । ब्रह्म गन्तव्यं तेन च उपलक्षित इति ब्रह्मपथः । एतेन प्रतिपद्यमाना गच्छन्तो ब्रह्म इमं मानवं मनुसम्बन्धिनं मनोः सृष्टिलक्षणमावर्तं नावर्तन्ते आवर्तन्तेऽस्मिञ्जननमरणप्रबन्धचक्रारूढा घटीयन्त्रवत्पुनः पुनरित्यावर्तः तं न प्रतिपद्यन्ते । नावर्तन्ते इति द्विरुक्तिः सफलाया विद्यायाः परिसमाप्तिप्रदर्शनार्था ॥

इति पञ्चदशखण्डभाष्यम् ॥