शङ्करः
पुनर्ब्रह्मविद्यां प्रकारान्तरेण वक्ष्यामीत्यारभते गतिं च तद्विदोऽग्निविद्यां च । आख्यायायिका पूर्ववच्छ्रद्धतपसोर्ब्रह्मविद्यासाधनत्वप्रदर्शनार्था —
विश्वास-प्रस्तुतिः
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य ह द्वादश वर्षाण्यग्नीन्परिचचार स ह स्मान्यानन्तेवासिनः समावर्तयꣳस्तꣳ ह स्मैव न समावर्तयति ॥ १ ॥
मूलम्
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य ह द्वादश वर्षाण्यग्नीन्परिचचार स ह स्मान्यानन्तेवासिनः समावर्तयꣳस्तꣳ ह स्मैव न समावर्तयति ॥ १ ॥
शङ्करः
उपकोसलो ह वै नामतः कमलस्यापत्यं कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास । तस्य, ह ऐतिह्यार्थः, तस्य आचार्यस्य द्वादश वर्षाणि अग्नीन्परिचचार अग्नीनां परिचरणं कृतवान् । स ह स्म आचार्यः अन्यान्ब्रह्मचारिणः स्वाध्यायं ग्राहयित्वा समावर्तयन् तमेवोपकोसलमेकं न समावर्तयति स्म ह ॥
विश्वास-प्रस्तुतिः
तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासाञ्चक्रे ॥ २ ॥
मूलम्
तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासाञ्चक्रे ॥ २ ॥
शङ्करः
तम् आचार्यं जाया उवाच — तप्तो ब्रह्मचारी कुशलं सम्यक् अग्नीन् परिचचारीत् परिचरितवान् ; भगवांश्च अग्निषु भक्तं न समावर्तयति ; अतः अस्मद्भक्तं न समावर्तयतीति ज्ञात्वा त्वाम् अग्नयः मा परिप्रवोचन् गर्हां तव मा कुर्युः ; अतः प्रब्रूहि अस्मै विद्यामिष्टाम् उपकोसलायेति । तस्मै एवं जायया उक्तोऽपि ह अप्रोच्यैव अनुक्त्वैव किञ्चित्प्रवासाञ्चक्रे प्रवसितवान् ॥
विश्वास-प्रस्तुतिः
स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधिभिः प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ३ ॥
मूलम्
स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधिभिः प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ३ ॥
शङ्करः
स ह उपकोसलः व्याधिना मानसेन दुःखेन अनशितुम् अनशनं कर्तुं दध्रे धृतवान्मनः । तं तूष्णीमग्न्यागारेऽवस्थितम् आचार्यजायोवाच — हे ब्रह्मचारिन् अशान भुङ्क्ष्व, किं नु कस्मान्नु कारणान्नाश्नासि ? इति । स ह उवाच — बहवः अनेकेऽस्मिन्पुरुषेऽकृतार्थे प्राकृते कामाः इच्छाः कर्तव्यं प्रति नाना अत्ययः अतिगमनं येषां व्याधीनां कर्तव्यचिन्तानां ते नानात्ययाः व्याधयः कर्तव्यताप्राप्तिनिमित्तानि चित्तदुःखानीत्यर्थः ; तैः प्रतिपूर्णोऽस्मि ; अतो नाशिष्यामीति ॥
विश्वास-प्रस्तुतिः
अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥ ४ ॥
मूलम्
अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥ ४ ॥
शङ्करः
उक्त्वा तूष्णीम्भूते ब्रह्मचारिणि, अथ ह अग्नयः शुश्रूषयावर्जिताः कारुण्याविष्टाः सन्तः त्रयोऽपि समूदिरे सम्भूयोक्तवन्तः — हन्त इदानीम् अस्मै ब्रह्मचारिणे अस्मद्भक्ताय दुःखिताय तपस्विने श्रद्दधानाय सर्वेऽनुशास्मः अनुप्रब्रवाम ब्रह्मविद्याम् , इति एवं सम्प्रधार्य, तस्मै ह ऊचुः उक्तवन्तः — प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥
विश्वास-प्रस्तुतिः
स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ५ ॥
मूलम्
स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ५ ॥
शङ्करः
स ह उवाच ब्रह्मचारी — विजानाम्यहं यद्भवद्भिरुक्तं प्रसिद्धपदार्थकत्वात्प्राणो ब्रह्मेति, सः यस्मिन्सति जीवनं यदपगमे च न भवति, तस्मिन्वायुविशेषे लोके रूढः ; अतः युक्तं ब्रह्मत्वं तस्य ; तेन प्रसिद्धपदार्थकत्वाद्विजानाम्यहं यत्प्राणो ब्रह्मेति । कं च तु खं च न विजानामीति । ननु कङ्खंशब्दयोरपि सुखाकाशविषयत्वेन प्रसिद्धपदार्थकत्वमेव, कस्माद्ब्रह्मचारिणोऽज्ञानम् ? नूनम् , सुखस्य कंशब्दवाच्यस्य क्षणप्रध्वंसित्वात् खंशब्दवाच्यस्य च आकाशस्याचेतनस्य कथं ब्रह्मत्वमिति, मन्यते ; कथं च भगवतां वाक्यमप्रमाणं स्यादिति ; अतो न विजानामीत्याह । तम् एवमुक्तवन्तं ब्रह्मचारिणं ते ह अग्नय ऊचुः — यद्वाव यदेव वयं कम् अवोचाम, तदेव खम् आकाशम् , इत्येवं खेन विशेष्यमाणं कं विषयेन्द्रियसंयोगजात्सुखान्निवर्तितं स्यात् — नीलेनेव विशेष्यमाणमुत्पलं रक्तादिभ्यः । यदेव खम् इत्याकाशमवोचाम, तदेव च कं सुखमिति जानीहि । एवं च सुखेन विशेष्यमाणं खं भौतिकादचेतनात्खान्निवर्तितं स्यात् — नीलोत्पलवदेव । सुखमाकाशस्थं नेतरल्लौकिकम् , आकाशं च सुखाश्रयं नेतरद्भौतिकमित्यर्थः । नन्वाकाशं चेत् सुखेन विशेषयितुमिष्टम् , अस्त्वन्यतरदेव विशेषणम् — यद्वाव कं तदेव खम् इति, अतिरिक्तमितरत् ; यदेव खं तदेव कमिति पूर्वविशेषणं वा ; ननु सुखाकाशयोरुभयोरपि लौकिकसुखाकाशाभ्यां व्यावृत्तिरिष्टेत्यवोचाम । सुखेन आकाशे विशेषिते व्यावृत्तिरुभयोरर्थप्राप्तैवेति चेत् , सत्यमेवम् ; किन्तु सुखेन विशेषितस्यैव आकाशस्य ध्येयत्वं विहितम् ; न त्वाकाशगुणस्य विशेषणस्य शुखस्य ध्येयत्वं विहितं स्यात् , विशेषणोपादानस्य विशेष्यनियन्तृत्वेनैवोपक्षयात् । अतः खेन सुखमपि विशेष्यते ध्येयत्वाय । कुतश्चैतन्निश्चीयते ? कंशब्दस्यापि ब्रह्मशब्दसम्बन्धात् कं ब्रह्मेति । यदि हि सुखगुणविशिष्टस्य खस्य ध्येयत्वं विवक्षितं स्यात् , कं खं ब्रह्मेति ब्रूयुः अग्नयः प्रथमम् । न चैवमुक्तवन्तः । किं तर्हि ? कं ब्रह्म खं ब्रह्मेति । अतः ब्रह्मचारिणो मोहापनयनाय कङ्खंशब्दयोरितरेतरविशेषणविशेष्यत्वनिर्देशो युक्त एव यद्वाव कमित्यादिः । तदेतदग्निभिरुक्तं वाक्यार्थमस्मद्बोधाय श्रुतिराह — प्राणं च ह अस्मै ब्रह्माचरिणे, तस्य आकाशः तदाकाशः, प्राणस्य सम्बन्धी आश्रयत्वेन हार्द आकाश इत्यर्थः, सुखगुणवत्त्वनिर्देशात् ; तं च आकाशं सुखगुणविशिष्टं ब्रह्म तत्स्थं च प्राणं ब्रह्मसम्पर्कादेव ब्रह्मेत्युभयं प्राणं च आकाशं च समुच्चित्य ब्रह्मणी ऊचुः अग्नय इति ॥
इति दशमखण्डभाष्यम् ॥