विश्वास-प्रस्तुतिः
मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥
मूलम्

शङ्करः
हंसोऽपि मद्गुष्टे पादं वक्तेत्युपरराम । मद्गुः उदकचरः पक्षी, स च अप्सम्बन्धात्प्राणः । स ह श्वोभूते इत्यादि पूर्ववत् ॥
विश्वास-प्रस्तुतिः
तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ३ ॥

स च मद्गुः प्राणः स्वविषयमेव च दर्शनमुवाच प्राणः कलेत्याद्यायतनवानित्येवं नाम । आयतनं नाम मनः सर्वकरणोपहृतानां भोगानां तद्यस्मिन्पादे विद्यत इत्यायतनवान्नाम पादः ॥
विश्वास-प्रस्तुतिः
स य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्त आयतनवानस्मिंल्लोके भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ ४ ॥

तं पादं तथैवोपास्ते यः स आयतनवान् आश्रयवानस्मिंल्लोके भवति । आयतनवत एव सावकाशांल्लोकान्मृतो जयति । य एतमेवमित्यादि पूर्ववत् ॥
इति अष्टमखण्डभाष्यम् ॥