०४

विश्वास-प्रस्तुतिः

सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे ब्रह्मचर्यं भवति विवत्स्यामि किङ्गोत्रो न्वहमस्मीति ॥ १ ॥

मूलम्

सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे ब्रह्मचर्यं भवति विवत्स्यामि किङ्गोत्रो न्वहमस्मीति ॥ १ ॥

शङ्करः

सर्वं वागाद्यग्न्यादि च अन्नान्नादत्वसंस्तुतं जगदेकीकृत्य षोडशधा प्रविभज्य तस्मिन्ब्रह्मदृष्टिर्विधातव्येत्यारभ्यते । श्रद्धातपसोर्ब्रह्मोपासनाङ्गत्वप्रदर्शनाय आख्यायिका । सत्यकामो ह नामतः, ह—शब्द ऐतिह्यार्थः, जबालाया अपत्यं जाबालः जबालां स्वां मातरम् आमन्त्रयाञ्चक्रे आमन्त्रितवान् । ब्रह्मचर्यं स्वाध्यायग्रहणाय हे भवति विवत्स्यामि आचार्यकुले, किङ्गोत्रोऽहं किमस्य मम गोत्रं सोऽहं किङ्गोत्रो नु अहमस्मीति ॥

विश्वास-प्रस्तुतिः

सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो ब्रवीथा इति ॥ २ ॥

एवं पृष्टा जबाला सा ह एनं पुत्रमुवाच — नाहमेतत् तव गोत्रं वेद, हे तात यद्गोत्रस्त्वमसि । कस्मान्न वेत्सीत्युक्ता आह — बहु भर्तृगृहे परिचर्याजातमतिथ्यभ्यागतादि चरन्ती अहं परिचारिणी परिचरन्तीति परिचरणशीलैवाहम् , परिचरणचित्ततया गोत्रादिस्मरणे मम मनो नाभूत् । यौवने च तत्काले त्वामलभे लब्धवत्यस्मि । तदैव ते पितोपरतः ; अतोऽनाथा अहम् , साहमेतन्न वेद यद्गोत्रस्त्वमसि । जबाला तु नामाहमस्मि, सत्यकामो नाम त्वमसि, स त्वं सत्यकाम एवाहं जाबालोऽस्मीत्याचार्याय ब्रवीथाः ; यद्याचार्येण पृष्ट इत्यभिप्रायः ॥

विश्वास-प्रस्तुतिः

स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तमिति ॥ ३ ॥

मूलम्

स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तमिति ॥ ३ ॥

विश्वास-प्रस्तुतिः

तꣳ होवाच किङ्गोत्रो नु सोम्यासीति स होवाच नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरं सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहं सत्यकामो जाबालोऽस्मि भो इति ॥ ४ ॥

स ह सत्यकामः हारिद्रुमतं हरिद्रुमतोऽपत्यं हारिद्रुमतं गौतमं गोत्रतः एत्य गत्वा उवाच — ब्रह्मचर्यं भगवति पूजावति त्वयि वत्स्यामि अतः उपेयाम् उपगच्छेयं शिष्यतया भगवन्तम् इत्युक्तवन्तं तं ह उवाच गौतमः किङ्गोत्रः नु सोम्य असीति, विज्ञातकुलगोत्रः शिष्य उपनेतव्यः ; इति पृष्टः प्रत्याह सत्यकामः । स ह उवाच — नाहमेतद्वेद भो, यद्गोत्रोऽहमस्मि ; किं तु अपृच्छं पृष्टवानस्मि मातरम् ; सा मया पृष्टा मां प्रत्यब्रवीन्माता ; बह्वहं चरन्तीत्यादि पूर्ववत् ; तस्या अहं वचः स्मरामि ; सोऽहं सत्यकामो जाबालोऽस्मि भो इति ॥

विश्वास-प्रस्तुतिः

तꣳ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधꣳ सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा सहस्रꣳ सम्पेदुः ॥ ५ ॥

तं ह उवाच गौतमः — नैतद्वचः अब्राह्मणे विशेषेण वक्तुमर्हति आर्जवार्थसंयुक्तम् । ऋजावो हि ब्राह्मणा नेतरे स्वभावतः । यस्मान्न सत्यात् ब्राह्मणजातिधर्मात् अगाः नापेतवानसि, अतः ब्राह्मणं त्वामुपनेष्ये ; अतः संस्कारार्थं होमाय समिधं सोम्य आहर, इत्युक्त्वा तमुपनीय कृशानामबलानां गोयूथान्निराकृत्य अपकृष्य चतुःशता चत्वारिशतानि गवाम् उवाच — इमाः गाः सोम्य अनुसंव्रज अनुगच्छ । इत्युक्तः ता अरण्यं प्रत्यभिप्रस्थापयन्नुवाच — नासहस्रेण अपूर्णेन सहस्रेण नावर्तेय न प्रत्यागच्छेयम् । स एवमुक्त्वा गाः अरण्यं तृणोदकबहुलं द्वन्द्वरहितं प्रवेश्य स ह वर्षगणं दीर्घं प्रोवास प्रोषितवान् । ताः सम्यग्गावः रक्षिताः यदा यस्मिन्काले सहस्रं सम्पेदुः सम्पन्ना बभूवुः ॥

इति चतुर्थखण्डभाष्यम् ॥