शङ्करः
‘अस्य कुले वीरो जायते’ इत्युक्तम् । न वीरजन्ममात्रं पितुस्त्राणाय, ‘तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः’ (बृ. उ. १ । ५ । १७) इति श्रुत्यन्तरात् । अतस्तद्दीर्घायुष्ट्वं कथं स्यादित्येवमर्थं कोशविज्ञानारम्भः । अभ्यर्हितविज्ञानव्यासङ्गादनन्तरमेव नोक्तं तदिदानीमेव आरभ्यते —
विश्वास-प्रस्तुतिः
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दीशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलꣳ स एष कोशो वसुधानस्तस्मिन्विश्वमिदꣳ श्रितम् ॥ १ ॥
मूलम्
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दीशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलꣳ स एष कोशो वसुधानस्तस्मिन्विश्वमिदꣳ श्रितम् ॥ १ ॥
शङ्करः
अन्तरिक्षम् उदरम् अन्तःसुषिरं यस्य सोऽयम् अन्तरिक्षोदरः, कोशः कोश इव अनेकधर्मसादृश्यात्कोशः ; स च भूमिबुध्नः भूमिर्बुध्नो मूलं यस्य स भूमिबुध्नः, न जीर्यति न विनश्यति, त्रैलोक्यात्मकत्वात् । सहस्रयुगकालावस्थायी हि सः । दिशो हि अस्य सर्वाः स्रक्तयः कोणाः । द्यौरस्य कोशस्य उत्तरम् ऊर्ध्वं बिलम् ; स एष यथोक्तगुणः कोशः वसुधानः वसु धीयतेऽस्मिन्प्राणिनां कर्मफलाख्यम् , अतो वसुधानः । तस्मिन्नन्तः विश्वं समस्तं प्राणिकर्मफलं सह तत्साधनैः इदं यद्गृह्यते प्रत्यक्षादिप्रमाणैः श्रितम् आश्रितं स्थितमित्यर्थः ॥
विश्वास-प्रस्तुतिः
तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदं रुदम् ॥ २ ॥

तस्यास्य प्राची दिक् प्राग्गतो भागः जुहूर्नाम जुह्वत्यस्यां दिशि कर्मिणः प्राङ्मुखाः सन्त इति जुहूर्नाम । सहमाना नाम सहन्तेऽस्यां पापकर्मफलानि यमपुर्यां प्राणिन इति सहमाना नाम दक्षिणा दिक् । तथा राज्ञी नाम प्रतीची पश्चिमा दिक् , राज्ञी राज्ञा वरुणेनाधिष्ठिता, सन्ध्यारागयोगाद्वा । सुभूता नाम भूतिमद्भिरीश्वरकुबेरादिभिरधिष्ठितत्वात् सुभूता नाम उदीची । तासां दिशां वायुः वत्सः, दिग्जत्वाद्वायोः, पुरोवात इत्यादिदर्शनात् । स यः कश्चित् पुत्रदीर्घजीवितार्थी एवं यथोक्तगुणं वायुं दिशां वत्सम् अमृतं वेद, स न पुत्ररोदं पुत्रनिमित्तं रोदनं न रोदिति, पुत्रो न म्रियत इत्यर्थः । यत एवं विशिष्टं कोशदिग्वत्सविषयं विज्ञानम् , अतः सोऽहं पुत्रजीवितार्थी एवमेतं वायुं दिशां वत्सं वेद जाने । अतः पुत्ररोदं मा रुदं पुत्रमरणनिमित्तं पुत्ररोदो मम मा भूदित्यर्थः ॥
विश्वास-प्रस्तुतिः
अरिष्टं कोशं प्रपद्येऽमुनामुनामुना प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ॥ ३ ॥
मूलम्
अरिष्टं कोशं प्रपद्येऽमुनामुनामुना प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ॥ ३ ॥
शङ्करः
अरिष्टम् अविनाशिनं कोशं यथोक्तं प्रपद्ये प्रपन्नोऽस्मि पुत्रायुषे । अमुनामुनामुनेति त्रिर्नाम गृह्णाति पुत्रस्य । तथा प्राणं प्रपद्येऽमुनामुनामुना, भूः प्रपद्येऽमुनामुनामुना, भुवः प्रपद्येऽमुनामुनामुना, स्वः प्रपद्येऽमुनामुनामुना, सर्वत्र प्रपद्ये इति त्रिर्नाम गृह्णाति पुनः पुनः ॥
विश्वास-प्रस्तुतिः
स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदꣳ सर्वं भूतं यदिदं किञ्च तमेव तत्प्रापत्सि ॥ ४ ॥
मूलम्
स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदꣳ सर्वं भूतं यदिदं किञ्च तमेव तत्प्रापत्सि ॥ ४ ॥
शङ्करः
स यदवोचं प्राणं प्रपद्य इति व्याख्यानार्थमुपन्यासः । प्राणो वा इदꣳ सर्वं भूतं यदिदं जगत् । ‘यथा वा अरा नाभौ’ (छा. उ. ७ । १३ । १) इति वक्ष्यति । अतस्तमेव सर्वं तत् तेन प्राणप्रतिपादनेन प्रापत्सि प्रपन्नोऽभूवम् ॥
विश्वास-प्रस्तुतिः
अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ५ ॥
मूलम्
अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ५ ॥
शङ्करः
तथा भूः प्रपद्ये इति त्रींल्लोकान्भूरादीन्प्रपद्ये इति तदवोचम् ॥
विश्वास-प्रस्तुतिः
अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ६ ॥
मूलम्
अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ६ ॥
शङ्करः
अथ यदवोचं भुवः प्रपद्ये इति, अग्न्यादीन्प्रपद्ये इति तदवोचम् ॥
विश्वास-प्रस्तुतिः
अथ यदवोचं स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ७ ॥
मूलम्
अथ यदवोचं स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ७ ॥
शङ्करः
अथ यदवोचं स्वः प्रपद्ये इति, ऋग्वेदादीन्प्रपद्ये इत्येव तदवोचमिति । उपरिष्टान्मन्त्रान् जपेत् ततः पूर्वोक्तमजरं कोशं सदिग्वत्सं यथावद्ध्यात्वा । द्विर्वचनमादरार्थम् ॥
इति पञ्चदशखण्डभाष्यम् ॥