शङ्करः
पुनस्तस्यैव त्रिपादमृतस्य ब्रह्मणोऽनन्तगुणवतोऽनन्तशक्तेरनेकभेदोपास्यस्य विशिष्टगुणशक्तिमत्त्वेनोपासनं विधित्सन् आह —
विश्वास-प्रस्तुतिः
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ १ ॥
मूलम्
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ १ ॥
शङ्करः
सर्वं समस्तम् , खल्विति वाक्यालङ्कारार्थो निपातः । इदं जगत् नामरूपविकृतं प्रत्यक्षादिविषयं ब्रह्म कारणम् ; वृद्धतमत्वात् ब्रह्म । कथं सर्वस्य ब्रह्मत्वमित्यत आह — तज्जलानिति ; तस्माद्ब्रह्मणो जातं तेजोबन्नादिक्रमेण सर्वम् ; अतः तज्जम् ; तथा तेनैव जननक्रमेण प्रतिलोमतया तस्मिन्नेव ब्रह्मणि लीयते तदात्मतया श्लिष्यत इति तल्लम् ; तथा तस्मिन्नेव स्थितिकाले, अनिति प्राणिति चेष्टत इति । एवं ब्रह्मात्मतया त्रिषु कालेष्वविशिष्टम् , तद्व्यतिरेकेणाग्रहणात् । अतः तदेवेदं जगत् । यथा च इदं तदेवैकमद्वितीयं तथा षष्ठे विस्तरेण वक्ष्यामः । यस्माच्च सर्वमिदं ब्रह्म, अतः शान्तः रागद्वेषादिदोषरहितः संयतः सन् , यत् तत्सर्वं ब्रह्म तत् वक्ष्यमाणैर्गुणैरुपासीत । कथमुपासीत ? क्रतुं कुर्वीत — क्रतुः निश्चयोऽध्यवसायः एवमेव नान्यथेत्यविचलः प्रत्ययः, तं क्रतुं कुर्वीत उपासीत इत्यनेन व्यवहितेन सम्बन्धः । किं पुनः क्रतुकरणेन कर्तव्यं प्रयोजनम् ? कथं वा क्रतुः कर्तव्यः ? क्रतुकरणं च अभिप्रेतार्थसिद्धिसाधनं कथम् ? इत्यस्यार्थस्य प्रतिपादनार्थम् अथेत्यादिग्रन्थः । अथ खल्विति हेत्वर्थः । यस्मात्क्रतुमयः क्रतुप्रायोऽध्यवसायात्मकः पुरुषः जीवः ; यथाक्रतुः यादृशः क्रतुः अस्य सोऽयं यथाक्रतुः यथाध्यवसायः यादृङ्निश्चयः अस्मिंल्लोके जीवन् इह पुरुषो भवति, तथा इतः अस्माद्देहात् प्रेत्य मृत्वा भवति ; क्रत्वनुरूपफलात्मको भवतीत्यर्थः । एवं हि एतच्छास्त्रतो दृष्टम् — ‘यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम्’ (भ. गी. ८ । ६) इत्यादि । यत एवं व्यवस्था शास्त्रदृष्टा, अतः सः एवं जानन् क्रतुं कुर्वीत ; यादृशं क्रतुं वक्ष्यामः तम् । यत एवं शास्त्रप्रामाण्यादुपपद्यते क्रत्वनुरूपं फलम् , अतः स कर्तव्यः क्रतुः ॥
विश्वास-प्रस्तुतिः
मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ॥ २ ॥
मूलम्
मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ॥ २ ॥
शङ्करः
कथम् ? मनोमयः मनःप्रायः ; मनुतेऽनेनेति मनः तत् स्ववृत्त्या विषयेषु प्रवृत्तं भवति, तेन मनसा तन्मयः ; तथा प्रवृत्त इव तत्प्रायो निवृत्त इव च । अत एव प्राणशरीरः प्राणो लिङ्गात्मा विज्ञानक्रियाशक्तिद्वयसम्मूर्छितः, ‘यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः’ (कौ. उ. ३ । ३) इति श्रुतेः । सः शरीरं यस्य, स प्राणशरीरः, ‘मनोमयः प्राणशरीरनेता’ (मु. उ. २ । २ । ८) इति च श्रुत्यन्तरात् । भारूपः भा दीप्तिः चैतन्यलक्षणं रूपं यस्य सः भारूपः । सत्यसङ्कल्पः सत्या अवितथाः सङ्कल्पाः यस्य, सोऽयं सत्यसङ्कल्पः ; न यथा संसारिण इवानैकान्तिकफलः सङ्कल्प ईश्वरस्येत्यर्थः । संसारिणः अनृतेन मिथ्याफलत्वहेतुना प्रत्यूढत्वात् सङ्कल्पस्य मिथ्याफलत्वं वक्ष्यति — ‘अनृतेन हि प्रत्यूढाः’ (छा. उ. ८ । ३ । २) इति । आकाशात्मा आकाश इव आत्मा स्वरूपं यस्य सः आकाशात्मा । सर्वगतत्वं सूक्ष्मत्वं रूपादिहीनत्वं च आकाशतुल्यता ईश्वरस्य । सर्वकर्मा सर्वं विश्वं तेनेश्वरेण क्रियत इति जगत्सर्वं कर्म यस्य स सर्वकर्मा, ‘स हि सर्वस्य कर्ता’ (बृ. उ. ४ । ४ । १३) इति श्रुतेः । सर्वकामः सर्वे कामा दोषरहिता अस्येति सर्वकामः, ‘धर्माविरुद्धो भूतेषु कामोऽस्मि’ (भ. गी. ७ । ११) इति स्मृतेः । ननु कामोऽस्मीति वचनात् इह बहुव्रीहिर्न सम्भवति सर्वकाम इति । न, कामस्य कर्तव्यत्वात् शब्दादिवत्पारार्थ्यप्रसङ्गाच्च देवस्य । तस्मात् यथेह सर्वकाम इति बहुव्रीहिः, तथा कामोऽस्मीति स्मृत्यर्थो वाच्यः । सर्वगन्धः सर्वे गन्धाः सुखकरा अस्य सोऽयं सर्वगन्धः, ‘पुण्यो गन्धः पृथिव्याम्’ (भ. गी. ७ । ९) इति स्मृतेः । तथा रसा अपि विज्ञेयाः ; अपुण्यगन्धरसग्रहणस्य पाप्मसम्बन्धनिमित्तत्वश्रवणात् , ‘तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च । पाप्मना ह्येष विद्धः’ (छा. उ. १ । २ । २) इति श्रुतेः । न च पाप्मसंसर्ग ईश्वरस्य, अविद्यादिदोषस्यानुपपत्तेः । सर्वमिदं जगत् अभ्यात्तः अभिव्याप्तः । अततेर्व्याप्त्यर्थस्य कर्तरि निष्ठा । तथा अवाकी — उच्यते अनयेति वाक् वागेव वाकः, यद्वा वचेर्घञन्तस्य करणे वाकः, स यस्य विद्यते स वाकी, न वाकी अवाकी । वाक्प्रतिषेधश्च अत्र उपलक्षणार्थः । गन्धरसादिश्रवणात् ईश्वरस्य प्राप्तानि घ्राणादीनि करणानि गन्धादिग्रहणाय ; अतः वाक्प्रतिषेधेन प्रतिषिध्यन्ते तानि ; ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः’ (श्वे. उ. ३ । १९) इत्यादिमन्त्रवर्णात् । अनादरः असम्भ्रमः ; अप्राप्तप्राप्तौ हि सम्भ्रमः स्यादनाप्तकामस्य । न तु आप्तकामत्वात् नित्यतृप्तस्येश्वरस्य सम्भ्रमोऽस्ति क्वचित् ॥
विश्वास-प्रस्तुतिः
एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्मान्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः ॥ ३ ॥
मूलम्
एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्मान्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः ॥ ३ ॥
शङ्करः
एषः यथोक्तगुणः मे मम आत्मा अन्तर्हृदये हृदयपुण्डरीकस्यान्तः मध्ये अणीयान् अणुतरः, व्रीहेर्वा यवाद्वा इत्यादि अत्यन्तसूक्ष्मत्वप्रदर्शनार्थम् । श्यामाकाद्वा श्यामाकतण्डुलाद्वा इति परिच्छिन्नपरिमाणात् अणीयानित्युक्तेऽणुपरिमाणत्वं प्राप्तमाशङ्क्य, अतः तत्प्रतिषेधायारभते — एष म आत्मान्तर्हृदये ज्यायान्पृथिव्या इत्यादिना । ज्यायःपरिमाणाच्च ज्यायस्त्वं दर्शयन् अनन्तपरिमाणत्वं दर्शयति — मनोमय इत्यादिना ज्यायानेभ्यो लोकेभ्य इत्यन्तेन ॥
विश्वास-प्रस्तुतिः
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्याभिसम्भवितास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥
मूलम्
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्याभिसम्भवितास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥
शङ्करः
यथोक्तगुणलक्षणः ईश्वरः ध्येयः, न तु तद्गुणविशिष्ट एव — यथा राजपुरुषमानय चित्रगुं वा इत्युक्ते न विशेषणस्याप्यानयने व्याप्रियते, तद्वदिहापि प्राप्तम् ; अतस्तन्निवृत्त्यर्थं सर्वकर्मेत्यादि पुनर्वचनम् । तस्मात् मनोमयत्वादिगुणविशिष्ट एवेश्वरो ध्येयः । अत एव षष्ठसप्तमयोरिव ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इति नेह स्वाराज्येऽभिषिञ्चति, एष म आत्मा एतद्ब्रह्मैतमितः प्रेत्याभिसम्भवितास्मि इति लिङ्गात् ; न तु आत्मशब्देन प्रत्यगात्मैव उच्यते, ममेति षष्ठ्याः सम्बन्धार्थप्रत्यायकत्वात् , एतमभिसम्भवितास्मीति च कर्मकर्तृत्वनिर्देशात् । ननु षष्ठेऽपि ‘अथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति सत्सम्पत्तेः कालान्तरितत्वं दर्शयति । न, आरब्धसंस्कारशेषस्थित्यर्थपरत्वात् ; न कालान्तरितार्थता, अन्यथा तत्त्वमसीत्येतस्यार्थस्य बाधप्रसङ्गात् । यद्यपि आत्मशब्दस्य प्रत्यगर्थत्वं सर्वं खल्विदं ब्रह्मेति च प्रकृतम् एष म आत्मान्तर्हृदय एतद्ब्रह्मेत्युच्यते, तथापि अन्तर्धानमीषदपरित्यज्यैव एतमात्मानं इतः अस्माच्छरीरात् प्रेत्य अभिसम्भवितास्मीत्युक्तम् । यथाक्रतुरूपस्य आत्मनः प्रतिपत्तास्मीति यस्यैवंविदः स्यात् भवेत् अद्धा सत्यम् एवं स्यामहं प्रेत्य, एवं न स्यामिति न च विचिकित्सा अस्ति इत्येतस्मिन्नर्थे क्रतुफलसम्बन्धे, स तथैवेश्वरभावं प्रतिपद्यते विद्वान् , इत्येतदाह स्म उक्तवान्किल शाण्डिल्यो नाम ऋषिः । द्विरभ्यासः आदरार्थः ॥
इति चतुर्दशखण्डभाष्यम् ॥