१३

विश्वास-प्रस्तुतिः

तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद ॥ १ ॥

मूलम्

तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद ॥ १ ॥

शङ्करः

तस्य ह वा इत्यादिना गायत्र्याख्यस्य ब्रह्मणः उपासनाङ्गत्वेन द्वारपालादिगुणविधानार्थमारभ्यते । यथा लोके द्वारपालाः राज्ञ उपासनेन वशीकृता राजप्राप्त्यर्था भवन्ति, तथेहापीति । तस्य इति प्रकृतस्य हृदयस्येत्यर्थः । एतस्य अनन्तरनिर्दिष्टस्य पञ्च पञ्चसङ्ख्याकाः देवानां सुषयः देवसुषयः स्वर्गलोकप्राप्तिद्वारच्छिद्राणि, देवैः प्राणादित्यादिभिः रक्ष्यमाणानि इत्यतो देवसुषयः ; तस्य स्वर्गलोकभवनस्य हृदयस्य अस्य यः प्राङ्सुषिः पूर्वाभिमुखस्य प्राग्गतं यच्छिद्रं द्वारं स प्राणः ; तत्स्थः तेन द्वारेण यः सञ्चरति वायुविशेषः स प्रागनितीति प्राणः । तेनैव सम्बद्धमव्यतिरिक्तं तच्चक्षुः ; तथैव स आदित्यः ‘आदित्यो ह वै ब्राह्मप्राणः’ (प्र. उ. ३ । ८) इति श्रुतेः चक्षुरूपप्रतिष्ठाक्रमेण हृदि स्थितः ; ‘स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषि’ (बृ. उ. ३ । ९ । २०) इत्यादि हि वाजसनेयके । प्राणवायुदेवतैव हि एका चक्षुरादित्यश्च सहाश्रयेण । वक्ष्यति च — प्राणाय स्वाहेति हुतं हविः सर्वमेतत्तर्पयतीति । तदेतत् प्राणाख्यं स्वर्गलोकद्वारपालत्वात् ब्रह्म । स्वर्गलोकं प्रतिपित्सुः तेजस्वी एतत् चक्षुरादित्यस्वरूपेण अन्नाद्यत्वाच्च सवितुः तेजः अन्नाद्यम् इत्याभ्यां गुणाभ्याम् उपासीत । ततः तेजस्व्यन्नादश्च आमयावित्वरहितो भवति ; य एवं वेद तस्यैतद्गुणफलम् । उपासनेन वशीकृतो द्वारपः स्वर्गलोकप्राप्तिहेतुर्भवतीति मुख्यं च फलम् ॥

विश्वास-प्रस्तुतिः

अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रꣳ स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान्यशस्वी भवति य एवं वेद ॥ २ ॥

मूलम्

अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रꣳ स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान्यशस्वी भवति य एवं वेद ॥ २ ॥

विश्वास-प्रस्तुतिः

अथ योऽस्य दक्षिणः सुषिः तत्स्थो वायुविशेषः स वीर्यवत्कर्म कुर्वन् विगृह्य वा प्राणापानौ नाना वा अनितीति व्यानः । तत्सम्बद्धमेव च तच्छ्रोत्रमिन्द्रियम् । तथा स चन्द्रमाः — श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च इति श्रुतेः । सहाश्रयौ पूर्ववत् ; तदेतत् श्रीश्च विभूतिः श्रोत्रचन्द्रमसोर्ज्ञानान्नहेतुत्वम् ; अतस्ताभ्यां श्रीत्वम् । ज्ञानान्नवतश्च यशः ख्यातिर्भवतीति यशोहेतुत्वात् यशस्त्वम् । अतस्ताभ्यां गुणाभ्यामुपासीतेत्यादि समानम् ॥ २ ॥

अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक्योऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३ ॥

मूलम्

अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक्योऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३ ॥

शङ्करः

अथ योऽस्य प्रत्यङ्सुषिः पश्चिमः तत्स्थो वायुविशेषः स मूत्रपुरीषाद्यपनयन् अधोऽनितीत्यपानः । सा तथा वाक् , तत्सम्बन्धात् ; तथा अग्निः ; तदेतद्ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः ब्रह्मवर्चसम् , अग्निसम्बन्धाद्वृत्तस्वाध्यायस्य । अन्नग्रसनहेतुत्वात् अपानस्य अन्नाद्यत्वम् । समानमन्यत् ॥

विश्वास-प्रस्तुतिः

अथ योऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ४ ॥

मूलम्

अथ योऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ४ ॥

शङ्करः

अथ योऽस्योदङ् सुषिः उदग्गतः सुषिः तत्स्थो वायुविशेषः सोऽशितपीते समं नयतीति समानः । तत्सम्बद्धं मनोऽन्तःकरणम् , स पर्जन्यो वृष्ट्यात्मको देवः पर्जन्यनिमित्ताश्च आप इति, ‘मनसा सृष्टा आपश्च वरुणश्च’ (ऐ. आ. २ । १) इति श्रुतेः । तदेतत्कीर्तिश्च, मनसो ज्ञानस्य कीर्तिहेतुत्वात् । आत्मपरोक्षं विश्रुतत्वं कीर्तिर्यशः । स्वकरणसंवेद्यं विश्रुतत्वं व्युष्टिः कान्तिर्देहगतं लावण्यम् । ततश्च कीर्तिसम्भवात्कीर्तिश्चेति । समानमन्यत् ॥

विश्वास-प्रस्तुतिः

अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान्भवति य एवं वेद ॥ ५ ॥

मूलम्

अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान्भवति य एवं वेद ॥ ५ ॥

शङ्करः

अथ योऽस्योर्ध्वः सुषिः स उदानः आ पादतलादारभ्योर्ध्वमुत्क्रमणात् उत्कर्षार्थं च कर्म कुर्वन् अनितीत्युदानः । स वायुः तदाधारश्च आकाशः । तदेतत् वाय्वाकाशयोरोजोहेतुत्वादोजः बलं महत्वाच्च मह इति । समानमन्यत् ॥

विश्वास-प्रस्तुतिः

ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेद ॥ ६ ॥

ते वा एते यथोक्ताः पञ्चसुषिसम्बन्धात् पञ्च ब्रह्मणो हार्दस्य पुरुषाः राजपुरुषा इव द्वारस्थाः स्वर्गस्य हार्दस्य लोकस्य द्वारपाः द्वारपालाः । एतैर्हि चक्षुःश्रोत्रवाङ्मनःप्राणैर्बहिर्मुखप्रवृत्तैर्ब्रह्मणो हार्दस्य प्राप्तिद्वाराणि निरुद्धानि । प्रत्यक्षं हि एतदजितकरणतया बाह्यविषयासङ्गानृतप्ररूढत्वात् न हार्दे ब्रह्मणि मनस्तिष्ठति । तस्मात्सत्यमुक्तमेते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपा इति । अतः स य एतानेवं यथोक्तगुणविशिष्टान् स्वर्गस्य लोकस्य द्वारपान् वेद उपास्ते उपासनया वशीकरोति, स राजद्वारपालानिवोपासनेन वशीकृत्य तैरनिवारितः प्रतिपद्यते स्वर्गं लोकं राजानमिव हार्दं ब्रह्म । किं च अस्य विदुषः कुले वीरः पुत्रो जायते वीरपुरुषसेवनात् । तस्य च ऋणापाकरणेन ब्रह्मोपासनप्रवृत्तिहेतुत्वम् । ततश्च स्वर्गलोकप्रतिपत्तये पारम्पर्येण भवतीति स्वर्गलोकप्रतिपत्तिरेवैकं फलम् ॥

विश्वास-प्रस्तुतिः

अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ॥ ७ ॥

मूलम्

अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ॥ ७ ॥

शङ्करः

अथ यत् असौ विद्वान् स्वर्गं लोकं वीरपुरुषसेवनात्प्रतिपद्यते, यच्चोक्तं त्रिपादस्यामृतं दिवीति, तदिदं लिङ्गेन चक्षुःश्रोत्रेन्द्रियगोचरमापादयितव्यम् , यथा अग्न्यादि धूमादिलिङ्गेन । तथा हि एवमेवेदमिति यथोक्ते अर्थे दृढा प्रतीतिः स्यात् — अनन्यत्वेन च निश्चय इति । अत आह — यदतः अमुष्मात् दिवः द्युलोकात् , परः परमिति लिङ्गव्यत्ययेन, ज्योतिर्दीप्यते, स्वयम्प्रभं सदाप्रकाशत्वाद्दीप्यत इव दीप्यत इत्युच्यते, अग्न्यादिवज्ज्वलनलक्षणाया दीप्तेरसम्भवात् । विश्वतः पृष्ठेष्वित्येतस्य व्याख्यानं सर्वतः पृष्ठेष्विति, संसारादुपरीत्यर्थः ; संसार एव हि सर्वः, असंसारिणः एकत्वान्निर्भेदत्वाच्च । अनुत्तमेषु, तत्पुरुषसमासाशङ्कानिवृत्तये आह उत्तमेषु लोकेष्विति ; सत्यलोकादिषु हिरण्यगर्भादिकार्यरूपस्य परस्येश्वरस्य आसन्नत्वादुच्यते उत्तमेषु लोकेष्विति । इदं वाव इदमेव तत् यदिदमस्मिन्पुरुषे अन्तः मध्ये ज्योतिः चक्षुःश्रोत्रग्राह्येण लिङ्गेनोष्णिम्ना शब्देन च अवगम्यते । यत् त्वचा स्पर्शरूपेण गृह्यते तच्चक्षुषैव, दृढप्रतीतिकरत्वात्त्वचः, अविनाभूतत्वाच्च रूपस्पर्शयोः ॥

विश्वास-प्रस्तुतिः

तस्यैषा दृष्टिर्यत्रैतदस्मिञ्छरीरे सꣳस्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ८ ॥

कथं पुनः तस्य ज्योतिषः लिङ्गं त्वग्दृष्टिगोचरत्वमापद्यत इति, आह — यत्र यस्मिन्काले, एतदिति क्रियाविशेषणम् , अस्मिञ्शरीरे हस्तेन आलभ्य संस्पर्शेन उष्णिमानं रूपसहभाविनमुष्णस्पर्शभावं विजानाति, स हि उष्णिमा नामरूपव्याकरणाय देहमनुप्रविष्टस्य चैतन्यात्मज्योतिषः लिङ्गम् , अव्यभिचारात् । न हि जीवन्तमात्मानमुष्णिमा व्यभिचरति । उष्ण एव जीविष्यन् शीतो मरिष्यन् इति हि विज्ञायते । मरणकाले च तेजः परस्यां देवतायामिति परेणाविभागत्वोपगमात् । अतः असाधारणं लिङ्गमौष्ण्यमग्नेरिव धूमः । अतस्तस्य परस्यैषा दृष्टिः साक्षादिव दर्शनं दर्शनोपाय इत्यर्थः । तथा तस्य ज्योतिषः एषा श्रुतिः श्रवणं श्रवणोपायोऽप्युच्यमानः । यत्र यदा पुरुषः ज्योतिषो लिङ्गं शुश्रूषति श्रोतुमिच्छति, तदा एतत् कर्णावपिगृह्य, एतच्छब्दः क्रियाविशेषणम् , अपिगृह्य अपिधायेत्यर्थः, अङ्गुलिभ्यां प्रोर्णुत्य निनदमिव रथस्येव घोषो निनदः तमिव शृणोति, नदथुरिव ऋषभकूजितमिव शब्दः, यथा च अग्नेर्बहिर्ज्वलतः एवं शब्दमन्तःशरीरे उपशृणोति, तदेतत् ज्योतिः दृष्टश्रुतलिङ्गत्वात् दृष्टं च श्रुतं च इत्युपासीत । तथोपासनात् चक्षुष्यः दर्शनीयः श्रुतः विश्रुतश्च । यत् स्पर्शगुणोपासननिमित्तं फलं तत् रूपे सम्पादयति चक्षुष्य इति, रूपस्पर्शयोः सहभावित्वात् , इष्टत्वाच्च दर्शनीयतायाः । एवं च विद्यायाः फलमुपपन्नं स्यात् , न तु मृदुत्वादिस्पर्शवत्त्वे । य एवं यथोक्तौ गुणौ वेद । स्वर्गलोकप्रतिपत्तिस्तु उक्तमदृष्टं फलम् । द्विरभ्यासः आदरार्थः ॥

इति त्रयोदशखण्डभाष्यम् ॥