शङ्करः
यत एवमतिशयफलैषा ब्रह्मविद्या, अतः सा प्रकारान्तरेणापि वक्तव्येति ‘गायत्री वा’ इत्याद्यारभ्यते । गायत्रीद्वारेण च उच्यते ब्रह्म, सर्वविशेषरहितस्य ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इत्यादिविशेषप्रतिषेधगंयस्य दुर्बोधत्वात् । सत्स्वनेकेषु च्छन्दःसुगायत्र्या एव ब्रह्मज्ञानद्वारतयोपादानं प्राधान्यात् । सोमाहरणात् इतरच्छन्दोक्षराहरणेन इतरच्छन्दोव्याप्त्या च सर्वसवनव्यापकत्वाच्च यज्ञे प्राधान्यं गायत्र्याः । गायत्रीसारत्वाच्च ब्राह्मणस्य मातरमिव, हित्वा गुरुतरां गायत्रीं ततोऽन्यद्गुरुतरं न प्रतिपद्यते यथोक्तं ब्रह्मापीति, तस्यामत्यन्तगौरवस्य प्रसिद्धत्वात् । अतो गायत्रीमुखेनैव ब्रह्मोच्यते —
विश्वास-प्रस्तुतिः
गायत्री वा इदं सर्वं भूतं यदिदं किञ्च वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च ॥ १ ॥
मूलम्
गायत्री वा इदं सर्वं भूतं यदिदं किञ्च वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च ॥ १ ॥
शङ्करः
गायत्री वा इत्यवधारणार्थो वै - शब्दः । इदं सर्वं भूतं प्राणिजातं यत्किञ्च स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येव । तस्याश्छन्दोमात्रायाः सर्वभूतत्वमनुपपन्नमिति गायत्रीकारणं वाचं शब्दरूपामापादयति गायत्रीं वाग्वै गायत्रीति । वाग्वा इदं सर्वं भूतम् । यस्मात् वाक् शब्दरूपा सती सर्वं भूतं गायति शब्दयति — असौ गौः असावश्व इति च, त्रायते च रक्षति — अमुष्मान्मा भैषीः किं ते भयमुत्थितम् इत्यादिना सर्वतो भयान्निवर्त्यमानः वाचा त्रातः स्यात् । यत् वाक् भूतं गायति च त्रायते च, गायत्र्येव तत् गायति च त्रायते च, वाचः अनन्यत्वाद्गायत्र्याः । गानात्त्राणाच्च गायत्र्या गायत्रीत्वम् ॥
विश्वास-प्रस्तुतिः
या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याꣳ हीदꣳ सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ २ ॥
मूलम्
या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याꣳ हीदꣳ सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ २ ॥
शङ्करः
या वै सा एवंलक्षणा सर्वभूतरूपा गायत्री, इयं वाव सा येयं पृथिवी । कथं पुनरियं पृथिवी गायत्रीति, उच्यते — सर्वभूतसम्बन्धात् । कथं सर्वभूतसम्बन्धः, अस्यां पृथिव्यां हि यस्मात् सर्वं स्थावरं जङ्गमं च भूतं प्रतिष्ठितम् , एतामेव पृथिवीं नातिशीयते नातिवर्तत इत्येतत् । यथा गानत्राणाभ्यां भूतसम्बन्धो गायत्र्याः, एवं भूतप्रतिष्ठानाद्भूतसम्बद्धा पृथिवी ; अतो गायत्री पृथिवी ॥
विश्वास-प्रस्तुतिः
या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ३ ॥
मूलम्
या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ३ ॥
शङ्करः
या वै सा पृथिवी गायत्री इयं वाव सा इदमेव । तत्किम् ? यदिदमस्मिन्पुरुषे कार्यकरणसङ्घाते जीवति शरीरम् , पार्थिवत्वाच्छरीरस्य । कथं शरीरस्य गायत्रीत्वमिति, उच्यते — अस्मिन्हि इमे प्राणाः भूतशब्दवाच्याः प्रतिष्ठिताः, अतः पृथिवीवद्भूतशब्दवाच्यप्राणप्रतिष्ठानात् शरीरं गायत्री, एतदेव यस्माच्छरीरं नातिशीयन्ते प्राणाः ॥
विश्वास-प्रस्तुतिः
यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ४ ॥
मूलम्
यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ४ ॥
शङ्करः
यद्वै तत्पुरुषे शरीरं गायत्री इदं वाव तत् । यदिदमस्मिन्नन्तः मध्ये पुरुषे हृदयं पुण्डरीकाख्यम् एतद्गायत्री । कथमिति, आह — अस्मिन्हि इमे प्राणाः प्रतिष्ठिताः, अतः शरीरवत् गायत्री हृदयम् । एतदेव च नातिशीयन्ते प्राणाः । ‘प्राणो ह पिता । प्राणो माता’ (छा. उ. ७ । १५ । १) ‘अहिंसन्सर्वभूतानि’ (छा. उ. ८ । १५ । १) इति श्रुतेः भूतशब्दवाच्याः प्राणाः ॥
विश्वास-प्रस्तुतिः
सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् ॥ ५ ॥
मूलम्
सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् ॥ ५ ॥
शङ्करः
सैषा चतुष्पदा षडक्षरपदा छन्दोरूपा सती भवति गायत्री षड्विधा — वाग्भूतपृथिवीशरीरहृदयप्राणरूपा सती षड्विधा भवति । वाक्प्राणयोरन्यार्थनिर्दिष्टयोरपि गायत्रीप्रकारत्वम् , अन्यथा षड्विधसङ्ख्यापूरणानुपपत्तेः । तत् एतस्मिन्नर्थे एतत् गायत्र्याख्यं ब्रह्म गायत्र्यनुगतं गायत्रीमुखेनोक्तम् ऋचा अपि मन्त्रेणाभ्यनूक्तं प्रकाशितम् ॥
विश्वास-प्रस्तुतिः
तावानस्य महिमा ततो ज्यायंश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ६ ॥
मूलम्
तावानस्य महिमा ततो ज्यायंश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ६ ॥
शङ्करः
तावान् अस्य गायत्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारः, यावांश्चतुष्पात्षड्विधश्च ब्रह्मणो विकारः पादो गायत्रीति व्याख्यातः । अतः तस्माद्विकारलक्षणाद्गायत्र्याख्याद्वाचारम्भणमात्रात् ततो ज्यायन् महत्तरश्च परमार्थसत्यरूपोऽविकारः पूरुषः पुरुषः सर्वपूरणात् पुरि शयनाच्च । तस्य अस्य पादः सर्वा सर्वाणि भूतानि तेजोबन्नादीनि सस्थावरजङ्गमानि, त्रिपात् त्रयः पादा अस्य सोऽयं त्रिपात् ; त्रिपादमृतं पुरुषाख्यं समस्तस्य गायत्र्यात्मनो दिवि द्योतनवति स्वात्मन्यवस्थितमित्यर्थ इति ॥
विश्वास-प्रस्तुतिः
यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ७ ॥
मूलम्
यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ७ ॥
शङ्करः
यद्वै तत् त्रिपादमृतं गायत्रीमुखेनोक्तं ब्रह्मेति, इदं वाव तत् इदमेव तत् ; योऽयं प्रसिद्धः बहिर्धा बहिः पुरुषादाकाशः भौतिको यो वै, स बहिर्धा पुरुषादाकाश उक्तः ॥
विश्वास-प्रस्तुतिः
अयं वाव स योऽयमन्तः पुरुष आकाशो यो वै सोऽन्तः पुरुष आकाशः ॥ ८ ॥
मूलम्
अयं वाव स योऽयमन्तः पुरुष आकाशो यो वै सोऽन्तः पुरुष आकाशः ॥ ८ ॥
शङ्करः
अयं वाव सः, योऽयमन्तः पुरुषे शरीरे आकाशः । यो वै सोऽन्तः पुरुष आकाशः ॥
विश्वास-प्रस्तुतिः
अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति पूर्णामप्रवर्तिनीं श्रियं लभते य एवं वेद ॥ ९ ॥
मूलम्
अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति पूर्णामप्रवर्तिनीं श्रियं लभते य एवं वेद ॥ ९ ॥
शङ्करः
अयं वाव सः, योऽयमन्तर्हृदये हृदयपुण्डरीके आकाशः । कथमेकस्य सत आकाशस्य त्रिधा भेद इति, उच्यते — बाह्येन्द्रियविषये जागरितस्थाने नभसि दुःखबाहुल्यं दृश्यते । ततोऽन्तःशरीरे स्वप्नस्थानभूते मन्दतरं दुःखं भवति । स्वप्नान्पश्यतो हृदयस्थे पुनर्नभसि न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति । अतः सर्वदुःखनिवृत्तिरूपमाकाशं सुषुप्तस्थानम् । अतो युक्तमेकस्यापि त्रिधा भेदान्वाख्यानम् । बहिर्धा पुरुषादारभ्य आकाशस्य हृदये सङ्कोचकरणं चेतःसमाधानस्थानस्तुतये — यथा ‘त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते । अर्धतस्तु कुरुक्षेत्रमर्धतस्तु पृथूदकम्’ ( ? ) इति, तद्वत् । तदेतद्धार्दाकाशाख्यं ब्रह्म पूर्णं सर्वगतम् , न हृदयमात्रपरिच्छिन्नमिति मन्तव्यम् , यद्यपि हृदयाकाशे चेतः समाधीयते । अप्रवर्ति न कुतश्चित्क्वचित्प्रवर्तितुं शीलमस्येत्यप्रवर्ति, तदनुच्छित्तिधर्मकम् । यथा अन्यानि भूतानि परिच्छिन्नान्युच्छित्तिधर्मकाणि, न तथा हार्दं नभः । पूर्णामप्रवर्तिनीमनुच्छेदात्मिकां श्रियं विभूतिं गुणफलं लभते दृष्टम् । य एवं यथोक्तं पूर्णाप्रवर्तिगुणं ब्रह्म वेद जानाति इहैव जीवन् तद्भावं प्रतिपद्यत इत्यर्थः ॥
इति द्वादशखण्डभाष्यम् ॥