विश्वास-प्रस्तुतिः
तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
मूलम्
तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
शङ्करः
तत् तत्र यत्प्रथमममृतं रोहितरूपलक्षणं तद्वसवः प्रातःसवनेशाना उपजीवन्ति अग्निना मुखेन अग्निना प्रधानभूतेन, अग्निप्रधानाः सन्त उपजीवन्तीत्यर्थः । ‘अन्नाद्यं रसोऽजायत’ (छा. उ. ३ । १ । ३) (छा. उ. ३ । २ । २) (छा. उ. ३ । ३ । २) (छा. उ. ३ । ४ । २) (छा. उ. ३ । ५ । २) इति वचनात् कबलग्राहमश्नन्तीति प्राप्तम् , तत्प्रतिषिध्यते — न वै देवा अश्नन्ति न पिबन्तीति । कथं तर्हि उपजीवन्तीति, उच्यते — एतदेव हि यथोक्तममृतं रोहितं रूपं दृष्ट्वा उपलभ्य सर्वकरणैरनुभूय तृप्यन्ति, दृशेः सर्वकरणद्वारोपलब्ध्यर्थत्वात् । ननु रोहितं रूपं दृष्ट्वेत्युक्तम् ; कथमन्येन्द्रियविषयत्वं रूपस्येति ; न, यशआदीनां श्रोत्रादिगंयत्वात् । श्रोत्रग्राह्यं यशः । तेजोरूपं चाक्षुषम् । इन्द्रियं विषयग्रहणकार्यानुमेयं करणसामर्थ्यम् । वीर्यं बलं देहगत उत्साहः प्राणवत्ता । अन्नाद्यं प्रत्यहमुपजीव्यमानं शरीरस्थितिकरं यद्भवति । रसो ह्येवमात्मकः सर्वः । यं दृष्ट्वा तृप्यन्ति सर्वे । देवा दृष्ट्वा तृप्यन्तीति एतत्सर्वं स्वकरणैरनुभूय तृप्यन्तीत्यर्थः । आदित्यसंश्रयाः सन्तो वैगन्ध्यादिदेहकरणदोषरहिताश्च ॥
विश्वास-प्रस्तुतिः
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
मूलम्
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
शङ्करः
किं ते निरुद्यमा अमृतमुपजीवन्ति ? न ; कथं तर्हि, एतदेव रूपम् अभिलक्ष्य अधुना भोगावसरो नास्माकमिति बुद्ध्वा अभिसंविशन्ति उदासते । यदा वै तस्यामृतस्य भोगावसरो भवेत् , तदैतस्मादमृतादमृतभोगनिमित्तमित्यर्थः ; एतस्माद्रूपात् उद्यन्ति उत्साहवन्तो भवन्तीत्यर्थः । न हि अनुत्साहवतामननुतिष्ठतामलसानां भोगप्राप्तिर्लोके दृष्टा ॥
विश्वास-प्रस्तुतिः
स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
मूलम्
स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
शङ्करः
स यः कश्चित् एतदेवं यथोदितम् ऋङ्मधुकरतापरससङ्क्षरणम् ऋग्वेदविहितकर्मपुष्पात् तस्य च आदित्यसंश्रयणं रोहितरूपत्वं च अमृतस्य प्राचीदिग्गतरश्मिनाडीसंस्थतां वसुदेवभोग्यतां तद्विदश्च वसुभिः सहैकतां गत्वा अग्निना मुखेनोपजीवनं दर्शनमात्रेण तृप्तिं च स्वभोगावसरे उद्यमनं तत्कालापाये च संवेशनं वेद, सोऽपि वसुवत् सर्वं तथैवानुभवति ॥
विश्वास-प्रस्तुतिः
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यꣳ स्वाराज्यं पर्येता ॥ ४ ॥
मूलम्
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यꣳ स्वाराज्यं पर्येता ॥ ४ ॥
शङ्करः
कियन्तं कालं विद्वांस्तदमृतमुपजीवतीति, उच्यते — स विद्वान् यावदादित्यः पुरस्तात् प्राच्यां दिशि उदेता पश्चात् प्रतीच्याम् अस्तमेता, तावद्वसूनां भोगकालः तावन्तमेव कालं वसूनामाधिपत्यं स्वाराज्यं पर्येता परितो गन्ता भवतीत्यर्थः । न यथा चन्द्रमण्डलस्थः केवलकर्मी परतन्त्रो देवानामन्नभूतः ; किं तर्हि, अयम् आधिपत्यं स्वाराज्यं स्वराड्भावं च अधिगच्छति ॥
इति षष्ठखण्डभाष्यम् ॥