२४

शङ्करः

सामोपासनप्रसङ्गेन कर्मगुणभूतत्वान्निवर्त्य ओङ्कारं परमात्मप्रतीकत्वादमृतत्वहेतुत्वेन महीकृत्य प्रकृतस्यैव यज्ञस्य अङ्गभूतानि सामहोममन्त्रोत्थानान्युपदिदिक्षन्नाह —

विश्वास-प्रस्तुतिः

ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवनꣳ रुद्राणां माध्यन्दिनꣳ सवनमादित्यानां च विश्वेषां च देवानां तृतीयसवनम् ॥ १ ॥

मूलम्

ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवनꣳ रुद्राणां माध्यन्दिनꣳ सवनमादित्यानां च विश्वेषां च देवानां तृतीयसवनम् ॥ १ ॥

शङ्करः

ब्रह्मवादिनो वदन्ति, यत्प्रातःसवनं प्रसिद्धं तद्वसूनाम् । तैश्च प्रातःसवनसम्बद्धोऽयं लोको वशीकृतः प्रातःसवनेशानैः । तथा रुदॆर्माध्यन्दिनसवनेशानैः अन्तरिक्षलोकः । आदित्यैश्च विश्वैर्देवैश्च तृतीयसवनेशानैस्तृतीयो लोको वशीकृतः । इति यजमानस्य लोकोऽन्यः परिशिष्टो न विद्यते ॥

विश्वास-प्रस्तुतिः

क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं कुर्यादथ विद्वान्कुर्यात् ॥ २ ॥

मूलम्

क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं कुर्यादथ विद्वान्कुर्यात् ॥ २ ॥

शङ्करः

अतः क्व तर्हि यजमानस्य लोकः, यदर्थं यजते ; न क्वचिल्लोकोऽस्तीत्यभिप्रायः — ‘लोकाय वै यजते यो यजते’ ( ? ) इति श्रुतेः । लोकाभावे च स यो यजमानः तं लोकस्वीकरणोपायं सामहोममन्त्रोत्थानलक्षणं न विद्यात् न विजानीयात् , सोऽज्ञः कथं कुर्यात् यज्ञम् , न कथञ्चन तस्य कर्तृत्वमुपपद्यत इत्यर्थः । सामादिविज्ञानस्तुतिपरत्वात् न अविदुषः कर्तृत्वं कर्ममात्रविदः प्रतिषिध्यते — स्तुतये च सामादिविज्ञानस्य, अविद्वत्कर्तृत्वप्रतिषेधाय च इति हि भिद्येत वाक्यम् । आद्ये च औषस्त्ये काण्डे अविदुषोऽपि कर्मास्तीति हेतुमवोचाम । अथ एतद्वक्ष्यमाणं सामाद्युपायं विद्वान्कुर्यात् ॥

विश्वास-प्रस्तुतिः

पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन गार्हपत्यस्योदङ्मुख उपविश्य स वासवं सामाभिगायति ॥ ३ ॥

मूलम्

पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन गार्हपत्यस्योदङ्मुख उपविश्य स वासवं सामाभिगायति ॥ ३ ॥

शङ्करः

किं तद्वेद्यमिति, आह — पुरा पूर्वं प्रातरनुवाकस्य शस्त्रस्य प्रारम्भात् जघनेन गार्हपत्यस्य पश्चात् उदङ्मुखः सन् उपविश्य सः वासवं वसुदैवत्यं साम अभिगायति ॥

विश्वास-प्रस्तुतिः

लो३कद्वारमपावा३र्णू ३३ पश्येम त्वा वयं रा ३३३३३ हु३म् आ ३३ ज्या ३ यो ३ आ ३२१११ इति ॥ ४ ॥

मूलम्

लो३कद्वारमपावा३र्णू ३३ पश्येम त्वा वयं रा ३३३३३ हु३म् आ ३३ ज्या ३ यो ३ आ ३२१११ इति ॥ ४ ॥

शङ्करः

लोकद्वारम् अस्य पृथिवीलोकस्य प्राप्तये द्वारम् अपावृणु हे अग्ने तेन द्वारेण पश्येम त्वा त्वां राज्यायेति ॥

विश्वास-प्रस्तुतिः

अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एतास्मि ॥ ५ ॥

मूलम्

अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एतास्मि ॥ ५ ॥

शङ्करः

अथ अनन्तरं जुहोति अनेन मन्त्रेण — नमोऽग्नये प्रह्वीभूताः तुभ्यं वयं पृथिवीक्षिते पृथिवीनिवासाय लोकक्षिते लोकनिवासाय, पृथिवीलोकनिवासायेत्यर्थः ; लोकं मे मह्यं यजमानाय विन्द लभस्व ; एष वै मम यजमानस्य लोकः एता गन्ता अस्मि ॥

विश्वास-प्रस्तुतिः

अत्र यजमानः परस्तादायुषः स्वाहापजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनं सम्प्रयच्छन्ति ॥ ६ ॥

मूलम्

अत्र यजमानः परस्तादायुषः स्वाहापजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनं सम्प्रयच्छन्ति ॥ ६ ॥

शङ्करः

अत्र अस्मिंल्लोके यजमानः अहम् आयुषः परस्तात् ऊर्ध्वं मृतः सन् इत्यर्थः । स्वाहेति जुहोति । अपजहि अपनय परिघं लोकद्वारार्गलम् — इति एतं मन्त्रम् उक्त्वा उत्तिष्ठति । एवमेतैर्वसुभ्यः प्रातःसवनसम्बद्धो लोको निष्क्रीतः स्यात् । ततस्ते प्रातःसवनं वसवो यजमानाय सम्प्रयच्छन्ति ॥

विश्वास-प्रस्तुतिः

पुरा माध्यन्दिनस्य सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख उपविश्य सरौद्रं सामाभिगायति ॥ ७ ॥

मूलम्

पुरा माध्यन्दिनस्य सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख उपविश्य सरौद्रं सामाभिगायति ॥ ७ ॥

विश्वास-प्रस्तुतिः

लो३कद्वरमपावा३र्णू३३ पश्येम त्वा वयं वैरा३३३३३ हु३म् आ३३ज्या३यो३ आ३२१११इति ॥ ८ ॥

मूलम्

लो३कद्वरमपावा३र्णू३३ पश्येम त्वा वयं वैरा३३३३३ हु३म् आ३३ज्या३यो३ आ३२१११इति ॥ ८ ॥

शङ्करः

तथा आग्नीध्रीयस्य दक्षिणाग्नेः जघनेन उदङ्मुख उपविश्य सः रौद्रं साम अभिगायति यजमानः रुद्रदैवत्यं वैराज्याय ॥

विश्वास-प्रस्तुतिः

अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एतास्मि ॥ ९ ॥

मूलम्

अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एतास्मि ॥ ९ ॥

विश्वास-प्रस्तुतिः

अत्र यजमानः परस्तादायुषः स्वाहापजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा माध्यन्दिनं सवनं सम्प्रयच्छन्ति ॥ १० ॥

मूलम्

अत्र यजमानः परस्तादायुषः स्वाहापजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा माध्यन्दिनं सवनं सम्प्रयच्छन्ति ॥ १० ॥

शङ्करः

अन्तरिक्षक्षित इत्यादि समानम् ॥

विश्वास-प्रस्तुतिः

पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यं स वैश्वदेवं सामाभिगायति ॥ ११ ॥

मूलम्

पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यं स वैश्वदेवं सामाभिगायति ॥ ११ ॥

विश्वास-प्रस्तुतिः

लो३कद्वारमपावा३र्णू३३पश्येम त्वा वयं स्वारा ३३३३३ हु३म् आ३३ ज्या३ यो३ आ ३२१११ इति ॥ १२ ॥

मूलम्

लो३कद्वारमपावा३र्णू३३पश्येम त्वा वयं स्वारा ३३३३३ हु३म् आ३३ ज्या३ यो३ आ ३२१११ इति ॥ १२ ॥

विश्वास-प्रस्तुतिः

आदित्यमथ वैश्वदेवं लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं साम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११ इति ॥ १३ ॥

मूलम्

आदित्यमथ वैश्वदेवं लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं साम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११ इति ॥ १३ ॥

शङ्करः

तथा आहवनीयस्योदङ्मुख उपविश्य सः आदित्यदैवत्यम् आदित्यं वैश्वदेवं च साम अभिगायति क्रमेण स्वाराज्याय साम्राज्याय ॥

विश्वास-प्रस्तुतिः

अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय विन्दत ॥ १४ ॥

मूलम्

अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय विन्दत ॥ १४ ॥

विश्वास-प्रस्तुतिः

एष वै यजमानस्य लोक एतास्म्यत्र यजमानः परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति ॥ १५ ॥

मूलम्

एष वै यजमानस्य लोक एतास्म्यत्र यजमानः परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति ॥ १५ ॥

शङ्करः

दिविक्षिद्भ्य इत्येवमादि समानमन्यत् । विन्दत अपहत इति बहुवचनमात्रं विशेषः । याजमानं त्वेतत् , एतास्म्यत्र यजमान इत्यादिलिङ्गात् ॥

विश्वास-प्रस्तुतिः

तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनं सम्प्रयज्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥ १६ ॥

मूलम्

तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनं सम्प्रयज्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥ १६ ॥

शङ्करः

एष ह वै यजमानः एवंवित् यथोक्तस्य सामादेर्विद्वान् यज्ञस्य मात्रां यज्ञयाथात्म्यं वेद यथोक्तम् । य एवं वेदेति द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥

इति चतुर्विंशखण्डभाष्यम् ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये द्वितीयोऽध्यायः समाप्तः ॥