विश्वास-प्रस्तुतिः
विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ १ ॥
मूलम्

शङ्करः
सामोपासनप्रसङ्गेन गानविशेषादिसम्पत् उद्गातुरुपदिश्यते, फलविशेषसम्बन्धात् । विनर्दि विशिष्टो नर्दः स्वरविशेषः ऋषभकूजितसमोऽस्यास्तीति विनर्दि गानमिति वाक्यशेषः । तच्च साम्नः सम्बन्धि पशुभ्यो हितं पशव्यम् अग्नेः अग्निदेवत्यं च उद्गीथः उद्गानम् । तदहमेवंविशिष्टं वृणे प्रार्थये इति कश्चिद्यजमानः उद्गाता वा मन्यते । अनिरुक्तः अमुकसमः इत्यविशेषितः प्रजापतेः प्रजापतिदेवत्यः स गानविशेषः, आनिरुक्त्यात्प्रजापतेः । निरुक्तः स्पष्टः । सोमस्य सोमदेवत्यः स उद्गीथ इत्यर्थः । मृदु श्लक्ष्णं च गानं वायोः वायुदेवत्यं तत् । श्लक्ष्णं बलवच्च प्रयत्नाधिक्योपेतं च इन्द्रस्य ऐन्द्रं तद्गानम् । क्रौञ्चं क्रौञ्चपक्षिनिनादसमं बृहस्पतेः बार्हस्पत्यं तत् । अपध्वान्तं भिन्नकांस्यस्वरसमं वरुणस्य एतद्गानम् । तान्सर्वानेवोपसेवेत प्रयुञ्जीत वारुणं त्वेवैकं वर्जयेत् ॥
विश्वास-प्रस्तुतिः
अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २ ॥
मूलम्
अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २ ॥
शङ्करः
अमृतत्वं देवेभ्य आगायानि साधयानि ; स्वधां पितृभ्य आगायानि ; आशां मनुष्येभ्यः, आशां प्रार्थनां प्रार्थितमित्येतत् ; तृणोदकं पशुभ्यः ; स्वर्गं लोकं यजमानाय ; अन्नम् आत्मने मह्यम् आगायानि ; इत्येतानि मनसा चिन्तयन् ध्यायन् अप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः स्तुवीत ॥
विश्वास-प्रस्तुतिः
सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं यदि स्वरेषूपालभेतेन्द्रं शरणं प्रपन्नोऽभूवं स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ ३ ॥
मूलम्
सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं यदि स्वरेषूपालभेतेन्द्रं शरणं प्रपन्नोऽभूवं स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ ३ ॥
शङ्करः
सर्वे स्वरा अकारादय इन्द्रस्य बलकर्मणः प्राणस्य आत्मानः देहावयवस्थानीयाः । सर्वे ऊष्माणः शषसहादयः प्रजापतेर्विराजः कश्यपस्य वा आत्मानः । सर्वे स्पर्शाः कादयो व्यञ्जनानि मृत्योरात्मानः तमेवंविदमुद्गातारं यदि कश्चित् स्वरेषूपालभेत — स्वरस्त्वया दुष्टः प्रयुक्त इति, एवमुपालब्धः इन्द्रं प्राणमीश्वरं शरणम् आश्रयं प्रपन्नोऽभूवं स्वरान्प्रयुञ्जानोऽहम् , स इन्द्रः यत्तव वक्तव्यं त्वा त्वां प्रति वक्ष्यति स एव देव उत्तरं दास्यतीत्येनं ब्रूयात् ॥
विश्वास-प्रस्तुतिः
अथ यद्येनमूष्मसूपालभेत प्रजापतिं शरणं प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं ब्रूयादथ यद्येनं स्पर्शेषूपालभेत मृत्युं शरणं प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ ४ ॥
मूलम्
अथ यद्येनमूष्मसूपालभेत प्रजापतिं शरणं प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं ब्रूयादथ यद्येनं स्पर्शेषूपालभेत मृत्युं शरणं प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ ४ ॥
शङ्करः
अथ यद्येनमूष्मसु तथैवोपालभेत, प्रजापतिं शरणं प्रपन्नोऽभूवम् , स त्वा प्रति पेक्ष्यति सञ्चूर्णयिष्यतीत्येनं ब्रूयात् । अथ यद्येनं स्पर्शेषूपालभेत, मृत्युं शरणं प्रपन्नोऽभूवम् , स त्वा प्रति धक्ष्यति भस्मीकरिष्यतीत्येनं ब्रूयात् ॥
विश्वास-प्रस्तुतिः
सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शालेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं परिहराणीति ॥ ५ ॥

यत इन्द्राद्यात्मानः स्वरादयः, अतः सर्वे स्वराः घोषवन्तः बलवन्तो वक्तव्याः । तथा
अहमिन्द्रे बलं ददानि बलमादधानीति । तथा सर्वे ऊष्माणः अग्रस्ताः अन्तरप्रवेशिताः अनिरस्ताः बहिरप्रक्षिप्ताः विवृताः विवृतप्रयत्नोपेताः । प्रजापतेरात्मानं परिददानि प्रयच्छानीति । सर्वे स्पर्शाः लेशेन शनकैः अनभिनिहिताः अनभिनिक्षिप्ता वक्तव्याः । मृत्योरात्मानं बालानिव शनकैः परिहरन् मृत्योरात्मानं परिहराणीति ॥
इति द्वाविंशखण्डभाष्यम् ॥