विश्वास-प्रस्तुतिः
त्रयी विद्या हिङ्कारस्त्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि वयांसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पितरस्तन्निधनमेतत्साम सर्वस्मिन्प्रोतम् ॥ १ ॥
मूलम्
त्रयी विद्या हिङ्कारस्त्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि वयांसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पितरस्तन्निधनमेतत्साम सर्वस्मिन्प्रोतम् ॥ १ ॥
शङ्करः
त्रयी विद्या हिङ्कारः । अग्न्यादिसाम्न आनन्तर्यं त्रयीविद्याया अग्न्यादिकार्यत्वश्रुतेः । हिङ्कारः प्राथंयात्सर्वकर्तव्यानाम् । त्रय इमे लोकास्तत्कार्यत्वादनन्तरा इति प्रस्तावः । अग्न्यादीनामुद्गीथत्वं श्रैष्ठ्यात् । नक्षत्रादीनां प्रतिहृतत्वात्प्रतिहारत्वम् । सर्पादीनां धकारसामान्यान्निधनत्वम् । एतत्साम नामविशेषाभावात्सामसमुदायः सामशब्दः सर्वस्मिन् प्रोतम् । त्रयीविद्यादि हि सर्वम् । त्रयीविद्यादिदृष्ट्या हिङ्कारादिसामभक्तय उपास्याः । अतीतेष्वपि सामोपासनेषु येषु येषु प्रोतं यद्यत्साम, तद्दृष्ट्या तदुपास्यमिति । कर्माङ्गानां दृष्टिविशेषेणेवाज्यस्य संस्कार्यत्वात् ॥
विश्वास-प्रस्तुतिः
स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्वं ह भवति ॥ २ ॥
मूलम्
स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्वं ह भवति ॥ २ ॥
शङ्करः
सर्वविषयसामविदः फलम् — सर्वं ह भवति सर्वेश्वरो भवतीत्यर्थः । निरुपचरितसर्वभावे हि दिक्स्थेभ्यो बलिप्राप्त्यनुपपत्तिः ॥
विश्वास-प्रस्तुतिः
तदेष श्लोको यानि पञ्चधा त्रीणि त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति ॥ ३ ॥
मूलम्
तदेष श्लोको यानि पञ्चधा त्रीणि त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति ॥ ३ ॥
शङ्करः
तत् एतस्मिन्नर्थे एषः श्लोकः मन्त्रोऽप्यस्ति । यानि पञ्चधा पञ्चप्रकारेण हिङ्कारादिविभागैः प्रोक्तानि त्रीणि त्रीणि त्रयीविद्यादीनि, तेभ्यः पञ्चत्रिकेभ्यः ज्यायः महत्तरं परं च व्यतिरिक्तम् अन्यत् वस्त्वन्तरं नास्ति न विद्यत इत्यर्थः । तत्रैव हि सर्वस्यान्तर्भावः ॥
विश्वास-प्रस्तुतिः
यस्तद्वेद स वेद सर्वꣳ सर्वा दिशो बलिमस्मै हरन्ति सर्वमस्मीत्युपासीत तद्व्रतं तद्व्रतम् ॥ ४ ॥
मूलम्
यस्तद्वेद स वेद सर्वꣳ सर्वा दिशो बलिमस्मै हरन्ति सर्वमस्मीत्युपासीत तद्व्रतं तद्व्रतम् ॥ ४ ॥
शङ्करः
यः तत् यथोक्तं सर्वात्मकं साम वेद, स वेद सर्वं स सर्वज्ञो भवतीत्यर्थः । सर्वा दिशः सर्वदिक्स्था अस्मै एवंविदे बलिं भोगं हरन्ति प्रापयन्तीत्यर्थः । सर्वम् अस्मि भवामि इति एवम् एतत्साम उपासीत, तस्य एतदेव व्रतम् । द्विरुक्तिः सामोपासनसमाप्त्यर्था ॥
इति एकविंशखण्डभाष्यम् ॥