विश्वास-प्रस्तुतिः
अग्निर्हिङ्कारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं देवतासु प्रोतम् ॥ १ ॥
मूलम्
अग्निर्हिङ्कारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं देवतासु प्रोतम् ॥ १ ॥
शङ्करः
अग्निः हिङ्कारः, प्रथमस्थानत्वात् । वायुः प्रस्तावः, आनन्तर्यसामान्यात् । आदित्यः उद्गीथः, श्रैष्ठ्यात् । नक्षत्राणि प्रतिहारः, प्रतिहृतत्वात् । चन्द्रमा निधनम् , कर्मिणां तन्निधनात् । एतद्राजनं देवतासु प्रोतम् , देवतानां दीप्तिमत्त्वात् ॥
विश्वास-प्रस्तुतिः
स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव देवतानाꣳ सलोकताꣳ सार्ष्टितांꣳसायुज्यं गच्छति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्व्रतम् ॥ २ ॥
मूलम्
स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव देवतानाꣳ सलोकताꣳ सार्ष्टितांꣳसायुज्यं गच्छति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्व्रतम् ॥ २ ॥
शङ्करः
विद्वत्फलम् — एतासामेवाग्न्यादीनां देवतानां सलोकतां समानलोकतां सार्ष्टितां समानर्द्धित्वं सायुज्यं सयुग्भावम् एकदेहदेहित्वमित्येतत् , वा - शब्दोऽत्र लुप्तो द्रष्टव्यः ; सलोकतां वा इत्यादि ; भावनाविशेषतः फलविशेषोपपत्तेः । गच्छति प्राप्नोति ; समुच्चयानुपपत्तेश्च । ब्राह्मणान् न निन्देत् , तद्व्रतम् । ‘एते वै देवाः प्रत्यक्षं यद्ब्राह्मणाः’ ( ? ) इति श्रुतेः ब्राह्मणनिन्दा देवतानिन्दैवेति ॥
इति विंशखण्डभाष्यम् ॥