१९

विश्वास-प्रस्तुतिः

लोम हिङ्कारस्त्वक्प्रस्तावो मांसमुद्गीथोऽस्थि प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् ॥ १ ॥

मूलम्

लोम हिङ्कारस्त्वक्प्रस्तावो मांसमुद्गीथोऽस्थि प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् ॥ १ ॥

शङ्करः

लोम हिङ्कारः, देहावयवानां प्राथम्यात् । त्वक् प्रस्तावः, आनन्तर्यात् । मांसम् उद्गीथः, श्रैष्ठ्यात् । अस्थि प्रतिहारः, प्रतिहृतत्वात् । मज्जा निधनम् , आन्त्यात् । एतद्यज्ञायज्ञीयं नाम साम देहावयवेषु प्रोतम् ॥

विश्वास-प्रस्तुतिः

स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या संवत्सरं मज्ज्ञो नाश्नीयात्तद्व्रतं मज्ज्ञो नाश्नीयादिति वा ॥ २ ॥

अङ्गी भवति समग्राङ्गो भवतीत्यर्थः । नाङ्गेन हस्तपादादिना विहूर्छति न कुटिलीभवति, पङ्गुः कुणी वा इत्यर्थः । संवत्सरं संवत्सरमात्रं मज्ज्ञो मांसानि नाश्नीयात् न भक्षयेत् । बहुवचनं मत्स्योपलक्षणार्थम् । मज्ज्ञो नाश्नीयात् सर्वदैव नाश्नीयादिति वा, तद्व्रतम् ॥

इति एकोनविंशखण्डभाष्यम् ॥