१८

विश्वास-प्रस्तुतिः

अजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ १ ॥

मूलम्

शङ्करः

अजा हिङ्कार इत्यादि पूर्ववत् । पशुषु प्रोताः ॥

विश्वास-प्रस्तुतिः

स य एवमेता रेवत्यः पशुषु प्रोता वेद पशुमान्भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या पशून्न निन्देत्तद्व्रतम् ॥ २ ॥

पशून् न निन्देत् , तद्व्रतम् ॥

इति अष्टादशखण्डभाष्यम् ॥