१७

विश्वास-प्रस्तुतिः

पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो लोकेषु प्रोताः ॥ १ ॥

मूलम्

शङ्करः

पृथिवी हिङ्कार इत्यादि पूर्ववत् । शक्वर्य इति नित्यं बहुवचनं रेवत्य इव । लोकेषु प्रोताः ॥

विश्वास-प्रस्तुतिः

स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकी भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या लोकान्न निन्देत्तद्व्रतम् ॥ २ ॥

लोकी भवति लोकफलेन युज्यत इत्यर्थः । लोकान्न निन्देत् , तद्व्रतम् ॥

इति सप्तदशखण्डभाष्यम् ॥