१६

विश्वास-प्रस्तुतिः

वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम् ॥ १ ॥

मूलम्

शङ्करः

वसन्तो हिङ्कारः, प्राथम्यात् । ग्रीष्मः प्रस्तावः इत्यादि पूर्ववत् ॥

विश्वास-प्रस्तुतिः

स य एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्यर्तून्न निन्देत्तद्व्रतम् ॥ २ ॥

एतद्वैराजमृतुषु प्रोतं वेद, विराजति ऋतुवत् — यथा ऋतवः आर्तवैर्धर्मैर्विराजन्ते, एवं प्रजादिभिर्विद्वानिति । उक्तमन्यम् । ऋतून्न निन्देत् , तद्व्रतम् ॥

इति षोडशखण्डभाष्यम् ॥