विश्वास-प्रस्तुतिः
अभ्राणि सम्प्लवन्ते स हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम् ॥ १ ॥
मूलम्

शङ्करः
अभ्राणि अब्भरणात् । मेघः उदकसेक्तृत्वात् । उक्तार्थमन्यत् । एतद्वैरूपं नाम साम पर्जन्ये प्रोतम् । अनेकरूपत्वात् अभ्रादिभिः पर्जन्यस्य, वैरूप्यम् ॥
विश्वास-प्रस्तुतिः
स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरूपाꣳश्च सुरूपाꣳश्च पशूनवरुन्धे सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या वर्षन्तं न निन्देत्तद्ब्रतम् ॥ २ ॥

विरूपांश्च सुरूपांश्चाजाविप्रभृतीन्पशूनवरुन्धे प्राप्नोतीत्यर्थः । वर्षन्तं न निन्देत् तद्व्रतम् ॥
इति पञ्चदशखण्डभाष्यम् ॥