विश्वास-प्रस्तुतिः
उद्यन्हिङ्कार उदितः प्रस्तावो मध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ १ ॥
मूलम्
उद्यन्हिङ्कार उदितः प्रस्तावो मध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ १ ॥
शङ्करः
उद्यन्सविता स हिङ्कारः, प्राथंयाद्दर्शनस्य । उदितः प्रस्तावः, प्रस्तवनहेतुत्वात्कर्मणाम् । मध्यन्दिन उद्गीथः, श्रैष्ठ्यात् । अपराह्णः प्रतिहारः, पश्वादीनां गृहान्प्रति हरणात् । यदस्तं यंस्तन्निधनम् , रात्रौ गृहे निधानात्प्राणिनाम् । एतद्बृहत् आदित्ये प्रोतम् , बृहतः आदित्यदैवत्यत्वात् ॥
विश्वास-प्रस्तुतिः
स य एवमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या तपन्तं न निन्देत्तद्व्रतम् ॥ २ ॥
मूलम्
स य एवमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या तपन्तं न निन्देत्तद्व्रतम् ॥ २ ॥
शङ्करः
स य इत्यादि पूर्ववत् । तपन्तं न निन्देत् ; तद्व्रतम् ॥
इति चतुर्दशखण्डभाष्यम् ॥