विश्वास-प्रस्तुतिः
उपमन्त्रयते - स हिङ्कारो,
ज्ञपयते - स प्रस्तावः,
स्त्रिया सह शेते - स उद्गीथः,
प्रति स्त्रीं सह शेते - स प्रतिहारः,
कालं गच्छति - तन् निधनं,
पारं गच्छति - तन् निधनम्।
एतद्वामदेव्यं मिथुने प्रोतम् ॥ १ ॥
मूलम्
उपमन्त्रयते स हिङ्कारो ज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ १ ॥
शङ्करः
उपमन्त्रयते सङ्केतं करोति, प्राथम्यात् स हिङ्कारः ।
ज्ञपयते तोषयति, स प्रस्तावः ।
सहशयनम् एक-पर्यङ्क-गमनम् , स उद्गीथः, श्रैष्ठ्यात् ।
प्रति स्त्रीं शयनं स्त्रिया अभिमुखीभावः, स प्रतिहारः ।
कालं गच्छति मैथुनेन, पारं समाप्तिं गच्छति तन् निधनम् ;
एतद्वामदेव्यं मिथुने प्रोतम् , वाय्व्-अम्बु-मिथुन-सम्बन्धात् ॥
विश्वास-प्रस्तुतिः
स य एवम् एतद् वामदेव्यं
मिथुने प्रोतं वेद,
मिथुनी भवति।
मिथुनान् मिथुनात् प्रजायते।
सर्वम् आयुर् एति,
ज्योग् जीवति,
महान् प्रजया, पशुभिर् भवति,
महान् कीर्त्या।
न काञ्चन (मैथुन-काङ्क्षिणीं) परिहरेत् - तद् (वामदेव्य-सामोपासनाङ्ग-)व्रतम् ॥ २ ॥
मूलम्
स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनी भवति मिथुनान्मिथुनात्प्रजायते सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या न काञ्चन परिहरेत्तद्व्रतम् ॥ २ ॥
शङ्करः
स य इत्यादि पूर्ववत् ।
मिथुनीभवति अविधुरो भवतीत्य् अर्थः ।
मिथुनान् मिथुनात् प्रजायते इति +अमोघ-रेतस्त्वम् उच्यते ।
न काञ्चन, काञ्चिदपि स्त्रियं स्वात्म-तल्प-प्राप्तां न परिहरेत् समागमार्थिनीम् ,
वामदेव्य-सामोपासनाङ्गत्वेन विधानात् ।
एतस्माद् अन्यत्र प्रतिषेध-स्मृतयः ।
वचन-प्रामाण्याच् च धर्मावगतेर्,
न प्रतिषेध-शास्त्रेणास्य विरोधः ॥
इति त्रयोदशखण्डभाष्यम् ॥