१२

शङ्करः

अभिमन्थति स हिङ्कारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार उपशांयति तन्निधनं संशांयति तन्निधनमेतद्रथन्तरमग्नौ प्रोतम् ॥ १ ॥

अभिमन्थति स हिङ्कारः, प्राथंयात् । अग्नेर्धूमो जायते स प्रस्तावः, आनन्तर्यात् । ज्वलति स उद्गीथः, हविःसम्बन्धाच्छ्रैष्ठ्यं ज्वलनस्य । अङ्गारा भवन्ति स प्रतिहारः, अङ्गाराणां प्रतिहृतत्वात् । उपशमः, सावशेषत्वादग्नेः, संशमः निःशेषोपशमः ; समाप्तिसामान्यान्निधनम् । एतद्रथन्तरम् अग्नौ प्रोतम् । मन्थने हि अग्निर्गीयते ॥

विश्वास-प्रस्तुतिः

स य एवमेतद्रथन्तरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या न प्रत्यङ्ङग्निमाचामेन्न निष्ठीवेत्तद्व्रतम् ॥ २ ॥

मूलम्

स य एवमेतद्रथन्तरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या न प्रत्यङ्ङग्निमाचामेन्न निष्ठीवेत्तद्व्रतम् ॥ २ ॥

शङ्करः

स य इत्यादि पूर्ववत् । ब्रह्मवर्चसी वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्चसम् । तेजस्तु केवलं त्विड्भावः । अन्नादो दीप्ताग्निः । न प्रत्यक् , अग्नेरभिमुखो न आचामेत् न भक्षयेत्किञ्चित् ; न निष्ठीवेत् श्लेष्मनिरसनं च न कुर्यात् ; तद्व्रतम् ॥

इति द्वादशखण्डभाष्यम् ॥