११

विश्वास-प्रस्तुतिः

मनो हिङ्कारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ १ ॥

मूलम्

मनो हिङ्कारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ १ ॥

शङ्करः

विना नामग्रहणं पञ्चविधस्य सप्तविधस्य च साम्न उपासनमुक्तम् । अथेदानीं गायत्रादिनामग्रहणपूर्वकं विशिष्टफलानि सामोपासनान्तराण्युच्यन्ते । यथाक्रमं गायत्रादीनां कर्मणि प्रयोगः, तथैव मनो हिङ्कारः, मनसः सर्वकरणवृत्तीनां प्राथम्यात् । तदानन्तर्यात् वाक् प्रस्तावः ; चक्षुः उद्गीथः, श्रैष्ठ्यात् । श्रोत्रं प्रतिहारः, प्रतिहृतत्वात् । प्राणो निधनम् , यथोक्तानां प्राणे निधनात्स्वापकाले । एतद्गायत्रं साम प्राणेषु प्रोतम् , गायत्र्याः प्राणसंस्तुतत्वात् ॥

विश्वास-प्रस्तुतिः

स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या महामनाः स्यात्तद्व्रतम् ॥ २ ॥

मूलम्

स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या महामनाः स्यात्तद्व्रतम् ॥ २ ॥

शङ्करः

सः, य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद, प्राणी भवति ; अविकलकरणो भवतीत्येतत् । सर्वमायुरेति, शतं वर्षाणि सर्वमायुः पुरुषस्य इति श्रुतेः । ज्योक् उज्ज्वलः सन् जीवति । महान् भवति प्रजादिभिः । महांश्च कीर्त्या । गायत्रोपासकस्य एतत् व्रतं भवति, यत् महामनाः अक्षुद्रचित्तः स्यादित्यर्थः ॥

इति एकादशखण्डभाष्यम् ॥