शङ्करः
मृत्युः आदित्यः, अहोरात्रादिकालेन जगतः प्रमापयितृत्वात् । तस्य अतितरणाय इदं सामोपासनमुपदिश्यते —
विश्वास-प्रस्तुतिः
अथ खल्वात्मसम्मितमतिमृत्यु सप्तविधꣳ सामोपासीत हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ १ ॥
मूलम्
अथ खल्वात्मसम्मितमतिमृत्यु सप्तविधꣳ सामोपासीत हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ १ ॥
शङ्करः
अथ खलु अनन्तरम् , आदित्यमृत्युविषयसामोपासनस्य ; आत्मसम्मितं स्वावयवतुल्यतया मितम् , परमात्मतुल्यतया वा सम्मितम् , अतिमृत्यु, मृत्युजयहेतुत्वात् ; यथा प्रथमेऽध्याये उद्गीथभक्तिनामाक्षराणि उद्गीथ इत्युपास्यत्वेनोक्तानि, तथेह साम्नः सप्तविधभक्तिनामाक्षराणि समाहृत्य त्रिभिस्त्रिभिः समतया सामत्वं परिकल्प्य उपास्यत्वेन उच्यन्ते । तदुपासनं मृत्युगोचराक्षरसङ्ख्यासामान्येन मृत्युं प्राप्य, तदतिरिक्ताक्षरेण तस्य आदित्यस्य मृत्योरतिक्तमणायैव सङ्क्रमणं कल्पयति । अतिमृत्यु सप्तविधं साम उपासीत, मृत्युमतिक्रान्तमतिरिक्ताक्षरसङ्ख्यया इत्यतिमृत्यु साम । तस्य प्रथमभक्तिनामाक्षराणि हिङ्कार इति ; एतत् त्र्यक्षरं भक्तिनाम । प्रस्ताव इति च भक्तेस्त्र्यक्षरमेव नाम ; तत् पूर्वेण समम् ॥
विश्वास-प्रस्तुतिः
आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥ २ ॥
मूलम्
आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥ २ ॥
शङ्करः
आदिरिति द्व्यक्षरम् ; सप्तविधस्य साम्नः सङ्ख्यापूरणे ओङ्कारः आदिरित्युच्यते । प्रतिहार इति चतुरक्षरम् । तत इहैकमक्षरमवच्छिद्य आद्यक्षरयोः प्रक्षिप्यते ; तेन तत् सममेव भवति ॥
विश्वास-प्रस्तुतिः
उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते त्र्यक्षरं तत्समम् ॥ ३ ॥
मूलम्
उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते त्र्यक्षरं तत्समम् ॥ ३ ॥
शङ्करः
उद्गीथ इति त्र्यक्षरम् उपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवति । अक्षरमतिशिष्यते अतिरिच्यते । तेन वैषंये प्राप्ते, साम्नः समत्वकरणाय आह — तदेकमपि सदक्षरमिति त्र्यक्षरमेव भवति । अतः तत् समम् ॥
विश्वास-प्रस्तुतिः
निधनमिति त्र्यक्षरं तत्सममेव भवति तानि ह वा एतानि द्वाविं शतिरक्षराणि ॥ ४ ॥
मूलम्
निधनमिति त्र्यक्षरं तत्सममेव भवति तानि ह वा एतानि द्वाविं शतिरक्षराणि ॥ ४ ॥
शङ्करः
निधनमिति त्र्यक्षरं तत्सममेव भवति । एवं त्र्यक्षरसमतया सामत्वं सम्पाद्य यथाप्राप्तान्येवाक्षराणि सङ्ख्यायन्ते — तानि ह वा एतानि सप्तभक्तिनामाक्षराणि द्वाविंशतिः ॥
विश्वास-प्रस्तुतिः
एकविंशत्यादित्यमाप्नोत्येकविंशो वा इतोऽसावादित्यो द्वाविंशेन परमादित्याज्जयति तन्नाकं तद्विशोकम् ॥ ५ ॥
मूलम्
एकविंशत्यादित्यमाप्नोत्येकविंशो वा इतोऽसावादित्यो द्वाविंशेन परमादित्याज्जयति तन्नाकं तद्विशोकम् ॥ ५ ॥
शङ्करः
तत्रैकविंशत्यक्षरसङ्ख्यया आदित्यमाप्नोति मृत्युम् । यस्मादेकविंशः इतः अस्माल्लोकात् असावादित्यः सङ्ख्यया । ‘द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः’ (ऐ. ब्रा. ४ । ५), (तां. ब्रा. १० । १ । १०) इति श्रुतेः ; अतिशिष्टेन द्वाविंशेनाक्षरेण परं मृत्योः आदित्यात् जयति आप्नोतीत्यर्थः । यच्च तदादित्यात्परम् ; किं तत् ? नाकम् , कमिति सुखं तस्य प्रतिषेधोऽकं तन्न भवतीति नाकम् , कमेवेत्यर्थः, अमृत्युविषयत्वात् । विशोकं च तत् विगतशोकं मानसदुःखरहितमित्यर्थः — तदाप्नोतीति ॥
विश्वास-प्रस्तुतिः
आप्नोति हादित्यस्य जयं परो हास्यादित्यजयाज्जयो भवति य एतदेवं विद्वानात्मसम्मितमतिमृत्यु सप्तविधꣳ सामोपास्ते सामोपास्ते ॥ ६ ॥
मूलम्
आप्नोति हादित्यस्य जयं परो हास्यादित्यजयाज्जयो भवति य एतदेवं विद्वानात्मसम्मितमतिमृत्यु सप्तविधꣳ सामोपास्ते सामोपास्ते ॥ ६ ॥
शङ्करः
उक्तस्यैव पिण्डितार्थमाह — एकविंशतिसङ्ख्यया आदित्यस्य जयमनु, परो ह, अस्य एवंविदः आदित्यजयात् मृत्युगोचरात् परो जयो भवति, द्वाविंशत्यक्षरसङ्ख्ययेत्यर्थः । य एतदेवं विद्वानित्याद्युक्तार्थम् , तस्यैतद्यथोक्तं फलमिति । द्विरभ्यासः साप्तविध्यसमाप्त्यर्थः ॥
इति दशमखण्डभाष्यम् ॥