विश्वास-प्रस्तुतिः
अथ खल्वमुमादित्यꣳ सप्तविधꣳ सामोपासीत सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ १ ॥
मूलम्
अथ खल्वमुमादित्यꣳ सप्तविधꣳ सामोपासीत सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ १ ॥
शङ्करः
अवयवमात्रे साम्न्यादित्यदृष्टिः पञ्चविधेषूक्ता प्रथमे चाध्याये । अथ इदानीं खलु अमुमादित्यं समस्ते साम्न्यवयवविभागशोऽध्यस्य सप्तविधं सामोपासीत । कथं पुनः सामत्वमादित्यस्येति, उच्यते — उद्गीथत्वे हेतुवदादित्यस्य सामत्वे हेतुः । कोऽसौ ? सर्वदा समः वृद्धिक्षयाभावात् ; तेन हेतुना साम आदित्यः । मां प्रति मां प्रतीति तुल्यां बुद्धिमुत्पादयति ; अतः सर्वेण समः ; अतः साम, समत्वादित्यर्थः । उद्गीथभक्तिसामान्यवचनादेव लोकादिषूक्तसामान्यात् हिङ्कारादित्वं गम्यत इति हिङ्कारादित्वे कारणं नोक्तम् । सामत्वे पुनः सवितुरनुक्तं कारणं न सुबोधमिति समत्वमुक्तम् ॥
विश्वास-प्रस्तुतिः
तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्यात्तस्य यत्पुरोदयात्स हिङ्कारस्तदस्य पशवोऽन्वायत्तास्तस्मात्ते हिं कुर्वन्ति हिङ्कारभाजिनो ह्येतस्य साम्नः ॥ २ ॥
मूलम्
तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्यात्तस्य यत्पुरोदयात्स हिङ्कारस्तदस्य पशवोऽन्वायत्तास्तस्मात्ते हिं कुर्वन्ति हिङ्कारभाजिनो ह्येतस्य साम्नः ॥ २ ॥
शङ्करः
तस्मिन् आदित्ये अवयवविभागशः इमानि वक्ष्यमाणानि सर्वाणि भूतानि अन्वायत्तानि अनुगतान्यादित्यमुपजीव्यत्वेन इति विद्यात् । कथम् ? तस्य आदित्यस्य यत्पुरोदयात् धर्मरूपम् , स हिङ्कारः भक्तिः ; तत्रेदं सामान्यम् , यत्तस्य हिङ्कारभक्तिरूपम् । तदस्यादित्यस्य साम्नः पशवः गवादयः अन्वायत्ताः अनुगताः तद्भक्तिरूपमुपजीवन्तीत्यर्थः । यस्मादेवम् , तस्मात्ते हिं कुर्वन्ति पशवः प्रागुदयात् । तस्माद्धिङ्कारभाजिनो हि एतस्य आदित्याख्यस्य साम्नः, तद्भक्तिभजनशीलत्वाद्धि त एवं वर्तन्ते ॥
विश्वास-प्रस्तुतिः
अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशंसाकामाः प्रस्तावभाजिनो ह्येतस्य साम्नः ॥ ३ ॥
मूलम्
अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशंसाकामाः प्रस्तावभाजिनो ह्येतस्य साम्नः ॥ ३ ॥
शङ्करः
अथ यत्प्रथमोदिते सवितृरूपम् , तदस्य आदित्याख्यस्य साम्नः स प्रस्तावः ; तदस्य मनुष्या अन्वायत्ताः पूर्ववत् । तस्मात्ते प्रस्तुतिं प्रशंसां कामयन्ते, यस्मात्प्रस्तावभाजिनो हि एतस्य साम्नः ॥
विश्वास-प्रस्तुतिः
अथ यत्सङ्गववेलायाꣳ स आदिस्तदस्य वयां स्यन्वायत्तानि तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः ॥ ४ ॥
मूलम्
अथ यत्सङ्गववेलायाꣳ स आदिस्तदस्य वयां स्यन्वायत्तानि तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः ॥ ४ ॥
शङ्करः
अथ यत् सङ्गववेलायां गवां रश्मीनां सङ्गमनं सङ्गवो यस्यां वेलायाम् , गवां वा वत्सैः सहः, सा सङ्गववेला तस्मिन्काले यत्सावित्रं रूपम् , स आदिः भक्तिविशेषः ओङ्कारः ।
तदस्य वयांसि पक्षिणोऽन्वायत्तानि । यत एवम् , तस्मात् तानि वयांसि अन्तरिक्षे अनारम्बणानि अनालम्बनानि, आत्मानमादाय आत्मानमेव आलम्बनत्वेन गृहीत्वा, परिपतन्ति गच्छन्ति ; अत आकारसामान्यादादिभक्तिभाजीनि हि एतस्य साम्नः ॥
विश्वास-प्रस्तुतिः
अथ यत्सम्प्रतिमध्यन्दिने स उद्गीथस्तदस्य देवा अन्वायत्तास्तस्मात्ते सत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ ५ ॥
मूलम्
अथ यत्सम्प्रतिमध्यन्दिने स उद्गीथस्तदस्य देवा अन्वायत्तास्तस्मात्ते सत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ ५ ॥
शङ्करः
अथ यत् सम्प्रतिमध्यन्दिने ऋजुमध्यन्दिने इत्यर्थः, स उद्गीथभक्तिः, तदस्य देवा अन्वायत्ताः, द्योतनातिशयात्तत्काले । तस्मात्ते सत्तमाः विशिष्टतमाः प्राजापत्यानां प्रजापत्यपत्यानाम् , उद्गीथभाजिनो हि एतस्य साम्नः ॥
विश्वास-प्रस्तुतिः
अथ यदूर्ध्वं मध्यन्दिनात्प्रागपराह्णात्स प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मात्ते प्रतिहृतानावपद्यन्ते प्रतिहारभाजिनो ह्येतस्य साम्नः ॥ ६ ॥
मूलम्
अथ यदूर्ध्वं मध्यन्दिनात्प्रागपराह्णात्स प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मात्ते प्रतिहृतानावपद्यन्ते प्रतिहारभाजिनो ह्येतस्य साम्नः ॥ ६ ॥
शङ्करः
अथ यदूर्ध्वं मध्यन्दिनात् प्रागपराह्णात् यद्रूपं सवितुः, स प्रतिहारः ; तदस्य गर्भा अन्वायत्ताः । अतः ते सवितुः प्रतिहारभक्तिरूपेणोर्ध्वं प्रतिहृताः सन्तः नावपद्यन्ते नाधः पतन्ति, तद्द्वारे सत्यपीत्यर्थः । यतः प्रतिहारभाजिनो हि एतस्य साम्नो गर्भाः ॥
विश्वास-प्रस्तुतिः
अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्सउपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं दृष्ट्वा कक्षꣳ श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो ह्येतस्य साम्नः ॥ ७ ॥
मूलम्
अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्सउपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं दृष्ट्वा कक्षꣳ श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो ह्येतस्य साम्नः ॥ ७ ॥
शङ्करः
अथ यदूर्ध्वमपराह्णात् प्रागस्तमयात् स उपद्रवः, तदस्य आरण्याः पशवः अन्वायत्ताः । तस्मात्ते पुरुषं दृष्ट्वा भीताः कक्षम् अरण्यं श्वभ्रं भयशून्यमिति उपद्रवन्ति उपगच्छन्ति ; दृष्ट्वोपद्रवणात् उपद्रवभाजिनो हि एतस्य साम्नः ॥
विश्वास-प्रस्तुतिः
अथ यत्प्रथमास्तमिते तन्निधनं तदस्य पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो ह्येतस्य साम्न एवं खल्वमुमादित्यं सप्तविधꣳ सामोपास्ते ॥ ८ ॥
मूलम्
अथ यत्प्रथमास्तमिते तन्निधनं तदस्य पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो ह्येतस्य साम्न एवं खल्वमुमादित्यं सप्तविधꣳ सामोपास्ते ॥ ८ ॥
शङ्करः
अथ यत् प्रथमास्तमितेऽदर्शनं जिगमिषति सवितरि, तन्निधनम् , तदस्य पितरः अन्वायत्ताः ; तस्मात्तान्निदधति — पितृपितामहप्रपितामहरूपेण दर्भेषु निक्षिपन्ति तान् ; तदर्थं पिण्डान्वा स्थापयन्ति । निधनसम्बन्धान्निधनभाजिनो हि एतस्य साम्नः पितरः । एवमवयवशः सप्तधा विभक्तं खलु अमुमादित्यं सप्तविधं सामोपास्ते यः, तस्य तदापत्तिः फलमिति वाक्यशेषः ॥
इति नवमखण्डभाष्यम् ॥