०८

विश्वास-प्रस्तुतिः

अथ सप्तविधस्य वाचि सप्तविधꣳ सामोपासीत यत्किञ्च वाचो हुमिति स हिङ्कारो युत्प्रेति स प्रस्तावो यदेति स आदिः ॥ १ ॥

मूलम्

अथ सप्तविधस्य वाचि सप्तविधꣳ सामोपासीत यत्किञ्च वाचो हुमिति स हिङ्कारो युत्प्रेति स प्रस्तावो यदेति स आदिः ॥ १ ॥

शङ्करः

अथ अनन्तरं सप्तविधस्य समस्तस्य साम्न उपासनं साध्विदमारभ्यते । वाचि इति सप्तमी पूर्ववत् , वाग्दृष्टिविशिष्टं सप्तविधं सामोपासीतेत्यर्थः । यत्किञ्च वाचः शब्दस्य हुमिति यो विशेषः स हिङ्कारः, हकारसामान्यात् । यत्प्रेति शब्दरूपं स प्रस्तावः, प्र - सामान्यात् । यत् आ इति स आदिः, आकारसामान्यात् । आदिरित्योङ्कारः, सर्वादित्वात् ॥

विश्वास-प्रस्तुतिः

यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ २ ॥

मूलम्

यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ २ ॥

शङ्करः

यदुदिति स उद्गीथः, उत्पूर्वत्वादुद्गीथस्य ; यत्प्रतीति स प्रतिहारः, प्रतिसामान्यात् ; यदुपेति स उपद्रवः, उपोपक्रमत्वादुपद्रवस्य ; यन्नीति तन्निधनम् , नि - शब्दसामान्यात् ॥

विश्वास-प्रस्तुतिः

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतदेवं विद्वान्वाचि सप्तविधꣳ सामोपास्ते ॥ ३ ॥

मूलम्

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतदेवं विद्वान्वाचि सप्तविधꣳ सामोपास्ते ॥ ३ ॥

शङ्करः

दुग्धेऽस्मै इत्याद्युक्तार्थम् ॥

इति अष्टमखण्डभाष्यम् ॥