०७

विश्वास-प्रस्तुतिः

प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिङ्कारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो मनो निधनं परोवरीयांसि वा एतानि ॥ १ ॥

मूलम्

प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिङ्कारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो मनो निधनं परोवरीयांसि वा एतानि ॥ १ ॥

शङ्करः

प्राणेषु पञ्चविधं परोवरीयः साम उपासीत, परं परं वरीयस्त्वगुणवत्प्राणदृष्टिविशिष्टं सामोपासीतेत्यर्थः । प्राणो हिङ्कारः, उत्तरोत्तरवरीयसां प्राथम्यात् ; वाक् प्रस्तावः, वाचा हि प्रस्तूयते सर्वम् , वाग्वरीयसी प्राणात् — अप्राप्तमप्युच्यते वाचा, प्राप्तस्यैव तु गन्धस्य ग्राहकः प्राणः ; चक्षुरुद्गीथः, वाचो बहुतरविषयं प्रकाशयति चक्षुः, अतो वरीयो वाचः उद्गीथः, श्रैष्ठ्यात् ; श्रोत्रं प्रतिहारः, प्रतिहृतत्वात् ; वरीयश्चक्षुषः, सर्वतः श्रवणात् ; मनो निधनम् , मनसि हि निधीयन्ते पुरुषस्य भोग्यत्वेन सर्वेन्द्रियाहृता विषयाः ; वरीयस्त्वं च श्रोत्रान्मनसः, सर्वेन्द्रियविषयव्यापकत्वात् ; अतीन्द्रियविषयोऽपि मनसो गोचर एवेति । यथोक्तहेतुभ्यः परोवरीयांसि प्राणादीनि वै एतानि ॥

विश्वास-प्रस्तुतिः

परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः सामोपास्त इति तु पञ्चविधस्य ॥ २ ॥

मूलम्

परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः सामोपास्त इति तु पञ्चविधस्य ॥ २ ॥

शङ्करः

एतद्दृष्ट्या विशिष्टं यः परोवरीयः साम उपास्ते, परोवरीयो ह अस्य जीवनं भवतीत्युक्तार्थम् । इति तु पञ्चविधस्य साम्न उपासनमुक्तमिति सप्तविधे वक्ष्यमाणविषये बुद्धिसमाधानार्थम् । निरपेक्षो हि पञ्चविधे, वक्ष्यमाणे बुद्धिं समाधित्सति ॥

इति सप्तमखण्डभाष्यम् ॥