विश्वास-प्रस्तुतिः
पशुषु पञ्चविधꣳ सामोपासीताजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनम् ॥ १ ॥
मूलम्
पशुषु पञ्चविधꣳ सामोपासीताजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनम् ॥ १ ॥
शङ्करः
पशुषु पञ्चविधं साम उपासीत । संयग्वृत्तेष्वृतुषु पशव्यः काल इत्यानन्तर्यम् । अजा हिङ्कारः, प्राधान्यात् , प्राथम्याद्वा — ‘अजः पशूनां प्रथमः’ ( ? ) इति श्रुतेः ; अवयः प्रस्तावः, साहचर्यदर्शनादजावीनाम् ; गाव उद्गीथः, श्रैष्ठ्यात् ; अश्वाः प्रतिहारः, प्रतिहारणात्पुरुषाणाम् ; पुरुषो निधनम् , पुरुषाश्रयत्वात्पशूनाम् ॥
विश्वास-प्रस्तुतिः
भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं विद्वान्पशुषु पञ्चविधꣳ सामोपास्ते ॥ २ ॥
मूलम्
भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं विद्वान्पशुषु पञ्चविधꣳ सामोपास्ते ॥ २ ॥
शङ्करः
फलम् — भवन्ति ह अस्य पशवः पशुमान्भवति, पशुफलैश्च भोगत्यागादिभिर्युज्यत इत्यर्थः ॥
इति षष्ठखण्डभाष्यम् ॥