विश्वास-प्रस्तुतिः
ऋतुषु पञ्चविधꣳ सामोपासीत वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निधनम् ॥ १ ॥
मूलम्
ऋतुषु पञ्चविधꣳ सामोपासीत वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निधनम् ॥ १ ॥
शङ्करः
ऋतुषु पञ्चविधं साम उपासीत । ऋतुव्यवस्थाया यथोक्ताम्बुनिमित्तत्वादानन्तर्यम् । वसन्तो हिङ्कारः, प्राथम्यात् ; ग्रीष्मः प्रस्तावः ; यवादिसङ्ग्रहः प्रस्तूयते हि प्रावृडर्थम् ; वर्षा उद्गीथः, प्राधान्यात् ; शरत् प्रतिहारः, रोगिणां मृतानां च प्रतिहरणात् ; हेमन्तो निधनम् , निवाते निधनात्प्राणिनाम् ॥
विश्वास-प्रस्तुतिः
कल्पन्ते हास्मा ॠतव ॠतुमान्भवति य एतदेवं विद्वानृतुषु पञ्चविधꣳ सामोपास्ते ॥ २ ॥
मूलम्
कल्पन्ते हास्मा ॠतव ॠतुमान्भवति य एतदेवं विद्वानृतुषु पञ्चविधꣳ सामोपास्ते ॥ २ ॥
शङ्करः
फलम् — कल्पन्ते ह ऋतुव्यवस्थानुरूपं भोग्यत्वेनास्मै उपासकाय ऋतवः । ऋतुमान् आर्तवैर्भोगैश्च सम्पन्नो भवतीत्यर्थः ॥
इति पञ्चमखण्डभाष्यम् ॥