०४

विश्वास-प्रस्तुतिः

सर्वास्वप्सु पञ्चविधꣳ सामोपासीत मेघो यत्सम्प्लवते स हिङ्कारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम् ॥ १ ॥

मूलम्

सर्वास्वप्सु पञ्चविधꣳ सामोपासीत मेघो यत्सम्प्लवते स हिङ्कारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम् ॥ १ ॥

शङ्करः

सर्वास्वप्सु पञ्चविधं साम उपासीत । वृष्टिपूर्वकत्वात्सर्वासामपामानन्तर्यम् । मेघो यत्सम्प्लवते एकीभावेनेतरेतरं घनीभवति मेघः यदा उन्नतः, तदा सम्प्लवते इत्युच्यते, तदा अपामारभ्भः स हिङ्कारः ; यद्वर्षति स प्रस्तावः ; आपः सर्वतो व्याप्तुं प्रस्तुताः । याः प्राच्यः स्यन्दन्ते स उद्गीथः, श्रौष्ठ्यात् ; याः प्रतीच्यः स प्रतिहारः, प्रतिशब्दसामान्यात् ; समुद्रो निधनम् , तन्निधनत्वादपाम् ॥

विश्वास-प्रस्तुतिः

न हाप्सु पॆत्यप्सुमान्भवति य एतदेवं विद्वान्सर्वास्वप्सु पञ्चविधꣳ सामोपास्ते ॥ २ ॥

मूलम्

न हाप्सु पॆत्यप्सुमान्भवति य एतदेवं विद्वान्सर्वास्वप्सु पञ्चविधꣳ सामोपास्ते ॥ २ ॥

शङ्करः

न ह अप्सु प्रैतिं । नेच्छति चेत् । अप्सुमान् अम्मान्भवति फलम् ॥

इति चतुर्थखण्डभाष्यम् ॥