विश्वास-प्रस्तुतिः
वृष्टौ पञ्चविधं सामोपासीत पुरोवातो हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनम् ॥ १ ॥
मूलम्
वृष्टौ पञ्चविधं सामोपासीत पुरोवातो हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनम् ॥ १ ॥
शङ्करः
वृष्टौ पञ्चविधं साम उपासीत । लोकस्थितेः वृष्टिनिमित्तत्वादानन्तर्यम् । पुरोवातो हिङ्कारः । पुरोवाताद्युद्ग्रहणान्ता हि वृष्टिः, यथा साम हिङ्कारादिनिधनान्तम् ; अतः पुरोवातो हिङ्कारः, प्राथम्यात् । मेघो जायते स प्रस्तावः ; प्रावृषि मेघजनने वृष्टेः प्रस्ताव इति हि प्रसिद्धिः ; वर्षति स उद्गीथः, श्रैष्ठ्यात् ; विद्योतते स्तनयति स प्रतिहारः, प्रतिहृतत्वात् ; उद्गृह्णाति तत् निधनम् , समाप्तिसामान्यात् ॥
वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविधं सामोपास्ते ॥ २ ॥
फलमुपासनस्य — वर्षति ह अस्मै इच्छातः । तथा वर्षयति ह असत्यामपि वृष्टौ । य एतदित्यादि पूर्ववत् ॥
इति तृतीयखण्डभाष्यम् ॥