०१

शङ्करः

‘ओमित्येतदक्षरम्’ इत्यादिना सामावयवविषयमुपासनमनेकफलमुपदिष्टम् । अनन्तरं च स्तोभाक्षरविषयमुपासनमुक्तम् — सर्वथापि सामैकदेशसम्बद्धमेव तदिति । अथेदानीं समस्ते साम्नि समस्तसामविषयाण्युपासनानि वक्ष्यामीत्यारभते श्रुतिः । युक्तं हि एकदेशोपासनानन्तरमेकदेशिविषयमुपासनमुच्यत इति ॥

विश्वास-प्रस्तुतिः

समस्तस्य खलु साम्न उपासनꣳ साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ १ ॥

मूलम्

समस्तस्य खलु साम्न उपासनꣳ साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ १ ॥

शङ्करः

समस्तस्य सर्वावयवविशिष्टस्य पाञ्चभक्तिकस्य साप्तभक्तिकस्य च इत्यर्थः । खल्विति वाक्यालङ्कारार्थः । साम्न उपासनं साधु । समस्ते साम्नि साधुदृष्टिविधिपरत्वान्न पुर्वोपासननिन्दार्थत्वं साधुशब्दस्य । ननु पूर्वत्राविद्यमानं साधुत्वं समस्ते साम्न्यभिधीयते । न, ‘साधु सामेत्युपास्ते’ (छा. उ. २ । १ । ४) इत्युपसंहारात् । साधुशब्दः शोभनवाची । कथमवगंयत इति, आह — यत्खलु लोके साधु शोभनमनवद्यं प्रसिद्धम् , तत्सामेत्याचक्षते कुशलाः । यदसाधु विपरीतम् , तदसामेति ॥

विश्वास-प्रस्तुतिः

तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपागादित्येव तदाहुः ॥ २ ॥

मूलम्

तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपागादित्येव तदाहुः ॥ २ ॥

शङ्करः

तत् तत्रैव साध्वसाधुविवेककरणे उताप्याहुः — साम्ना एनं राजानं सामन्तं च उपागात्

उपगतवान् ; कोऽसौ ? यतः असाधुत्वप्राप्त्याशङ्का स इत्यभिप्रायः ; शोभनाभिप्रायेण साधुना एनमुपागात् इत्येव तत् तत्र आहुः लौकिकाः बन्धनाद्यसाधुकार्यमपश्यन्तः । यत्र पुनर्विपर्ययेण बन्धनाद्यसाधुकार्यं पश्यन्ति, तत्र असाम्ना एनमुपागादिति असाधुनैनमुपागादित्येव तदाहुः ॥

विश्वास-प्रस्तुतिः

अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः ॥ ३ ॥

मूलम्

अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः ॥ ३ ॥

शङ्करः

अथोताप्याहुः स्वसंवेद्यं साम नः अस्माकं बतेति अनुकम्पयन्तः संवृत्तमित्याहुः ; एतत्तैरुक्तं भवति, यत्साधु भवति साधु बतेत्येव तदाहुः ; विपर्यये जाते असाम नो बतेति ; यदसाधु भवति असाधु बतेत्येव तदाहुः ; तस्मात्सामसाधुशब्दयोरेकार्थत्वं सिद्धम् ॥

विश्वास-प्रस्तुतिः

स य एतदेवं विद्वान्साधु सामेत्युपास्तेऽभ्याशो ह यदेनꣳ साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ ४ ॥

मूलम्

स य एतदेवं विद्वान्साधु सामेत्युपास्तेऽभ्याशो ह यदेनꣳ साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ ४ ॥

शङ्करः

अतः स यः कश्चित्साधु सामेति साधुगुणवत्सामेत्युपास्ते समस्तं साम साधुगुणवद्विद्वान् , तस्यैतत्फलम् अभ्याशो ह क्षिप्रं ह, यत् इति क्रियाविशेषणार्थम् , एनम् उपासकं साधवः शोभनाः धर्माः श्रुतिस्मृत्यविरुद्धाः आ च गच्छेयुः आगच्छेयुश्च ; न केवलमागच्छेयुः, उप च नमेयुः उपनमेयुश्च, भोग्यत्वेनोपतिष्ठेयुरित्यर्थः ॥

इति प्रथमखण्डभाष्यम् ॥