१३

शङ्करः

भक्तिविषयोपासनं सामावयवसम्बद्धमित्यतः सामावयवान्तरस्तोभाक्षरविषयाण्युपासनान्तराणि संहतान्युपदिश्यन्तेऽनन्तरम् , तेषां सामावयवसम्बद्धत्वाविशेषात् —

विश्वास-प्रस्तुतिः

अयं वाव लोको हाउकारो वायुर्हाइकारश्चन्द्रमा अथकारः । आत्मेहकारोऽग्निरीकारः ॥ १ ॥

मूलम्

अयं वाव लोको हाउकारो वायुर्हाइकारश्चन्द्रमा अथकारः । आत्मेहकारोऽग्निरीकारः ॥ १ ॥

शङ्करः

अयं वाव अयमेव लोकः हाउकारः स्तोभो रथन्तरे साम्नि प्रसिद्धः — ‘इयं वै रथन्तरम्’ (तां. ब्रा. १८ । ६ । ११) इत्यस्मात्सम्बन्धसामान्यात् हाउकारस्तोभोऽयं लोकः इत्येवमुपासीत । वायुर्हाइकारः ; वामदेव्ये सामनि हाइकारः प्रसिद्धः ; वाय्वप्सम्बन्धश्च वामदेव्यस्य साम्नो योनिः इत्यस्मात्सामान्यात् हाइकारं वायुदृष्ट्योपासीत । चन्द्रमा अथकारः ; चन्द्रदृष्ट्या अथकारमुपासीत ; अन्ने हीदं स्थितम् ; अन्नात्मा चन्द्रः ; थकाराकारसामान्याच्च । आत्मा इहकारः ; इहेति स्तोभः ; प्रत्यक्षो ह्यात्मा इहेति व्यपदिश्यते ; इहेति च स्तोभः, तत्सामान्यात् अग्निरीकारः ; ईनिधनानि च आग्नेयानि सर्वाणि सामानीत्यतस्तत्सामान्यात् ॥

विश्वास-प्रस्तुतिः

आदित्य ऊकारो निहव एकारो विश्वेदेवा औहोयिकारः प्रजापतिर्हिङ्कारः प्राणः स्वरोऽन्नं या वाग्विराट् ॥ २ ॥

मूलम्

आदित्य ऊकारो निहव एकारो विश्वेदेवा औहोयिकारः प्रजापतिर्हिङ्कारः प्राणः स्वरोऽन्नं या वाग्विराट् ॥ २ ॥

शङ्करः

आदित्यः ऊकारः ; उच्चैरूर्ध्वं सन्तमादित्यं गायन्तीति ऊकारश्चायं स्तोभः ; आदित्यदैवत्ये साम्नि स्तोभ इति आदित्य ऊकारः । निहव इत्याह्वानम् ; एकारः स्तोभः ; एहीति च आह्वयन्तीति तत्सामान्यात् । विश्वेदेवा औहोयिकारः, वैश्वदेव्ये साम्नि स्तोभस्य दर्शनात् । प्रजापतिर्हिङ्कारः, आनिरुक्त्यात् , हिङ्कारस्य च अव्यक्तत्वात् । प्राणः स्वरः ; स्वर इति स्तोभः ; प्राणस्य च स्वरहेतुत्वसामान्यात् । अन्नं या या इति स्तोभः अन्नम् , अन्नेन हीदं यातीत्यतस्तत्सामान्यात् । वागिति स्तोभो विराट् अन्नं देवताविशेषो वा, वैराजे साम्नि स्तोभदर्शनात् ॥

विश्वास-प्रस्तुतिः

अनिरुक्तस्त्रयोदशः स्तोभः सञ्चरो हुङ्कारः ॥ ३ ॥

मूलम्

अनिरुक्तस्त्रयोदशः स्तोभः सञ्चरो हुङ्कारः ॥ ३ ॥

शङ्करः

अनिरुक्तः अव्यक्तत्वादिदं चेदं चेति निर्वक्तुं न शक्यत इत्यतः सञ्चरः विकल्प्यमानस्वरूप इत्यर्थः । कोऽसाविति, आह — त्रयोदशः स्तोभः हुङ्कारः । अव्यक्तो ह्ययम् ; अतोऽनिरुक्तविशेष एवोपास्य इत्यभिप्रायः ॥

स्तोभाक्षरोपासनाफलमाह —

विश्वास-प्रस्तुतिः

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतामेवꣳसाम्ना मुपनिषदं वेदोपनिषदं वेदेति ॥ ४ ॥

मूलम्

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतामेवꣳसाम्ना मुपनिषदं वेदोपनिषदं वेदेति ॥ ४ ॥

शङ्करः

दुग्धेऽस्मै वाग्दोहमित्याद्युक्तार्थम् । य एतामेवं यथोक्तलक्षणां साम्नां सामावयवस्तोभाक्षरविषयाम् उपनिषदं दर्शनं वेद, तस्य एतद्यथोक्तं फलमित्यर्थः । द्विरभ्यासः अध्यायपरिसमाप्त्यर्थः । सामावयवविषयोपासनाविशेषपरिसमाप्त्यर्थः इति शब्द इति ॥

इति त्रयोदशखण्डभाष्यम् ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये प्रथमोऽध्यायः समाप्तः ॥