विश्वास-प्रस्तुतिः
अथातः शौव उद्गीथस्- तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायम् उद्वव्राज ॥ १ ॥
मूलम्
अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज ॥ १ ॥
शङ्करः
अतीते खण्डेऽन्नाप्राप्तिनिमित्ता कष्टावस्थोक्ता उच्छिष्टोच्छिष्टपर्युषितभक्षणलक्षणा ; सा मा भूदित्यन्नलाभाय अथ अनन्तरं शौवः श्वभिर्दृष्टः उद्गीथः उद्गानं साम अतः प्रस्तूयते । तत् तत्र ह किल बको नामतः, दल्भस्यापत्यं दाल्भ्यः ; ग्लावो वा नामतः, मित्रायाश्चापत्यं मैत्रेयः ; वाशब्दश्चार्थे ; द्व्यामुष्यायणो ह्यसौ ; वस्तुविषये क्रियास्विव विकल्पानुपपत्तेः ; द्विनामा द्विगोत्र इत्यादि हि स्मृतिः ; दृश्यते च उभयतः पिण्डभाक्त्वम् ; उद्गीथे बद्धचित्तत्वात् ऋषावनादराद्वा । वा - शब्दः स्वाध्यायार्थः । स्वाध्यायं कर्तुं ग्रामाद्बहिः उद्वव्राज उद्गतवान्विविक्तदेशस्थोदकाभ्याशम् । ‘उद वव्राज’ ‘प्रतिपालयाञ्चकार’ (छा. उ. १ । १२ । ३) इति च एकवचनाल्लिङ्गात् एकोऽसौ ऋषिः । श्वोद्गीथकालप्रतिपालनात् ऋषेः स्वाध्यायकरणमन्नकामनयेति लक्ष्यत इत्यभिप्रायतः ॥
विश्वास-प्रस्तुतिः
तस्मै श्वा श्वेतः प्रादुर्बभूव।
तमन्ये श्वान उपसमेत्योचुर् - “अन्नं नो भगवान् आगायत्व्, अशनायाम +++(=अशनं कामयामः)+++ वा+++(य्)+++” इति ॥ २ ॥
मूलम्
तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान उपसमेत्योचुरन्नं नो भगवानागायत्वशनायामवा इति ॥ २ ॥
शङ्करः
स्वाध्यायेन तोषिता देवता ऋषिर्वा श्वरूपं गृहीत्वा श्वा श्वेतः सन् तस्मै ऋषये तदनुग्रहार्थं प्रादुर्बभूव प्रादुश्चकार । तमन्ये शुक्लं श्वानं क्षुल्लकाः श्वानः उपसमेत्य ऊचुः उक्तवन्तः — अन्नं नः अस्मभ्यं भगवान् आगायतु आगानेन निष्पादयत्वित्यर्थः । मुख्यप्राणवागादयो वा प्राणमन्वन्नभुजः स्वाध्यायपरितोषिताः सन्तः अनुगृह्णीयुरेनं श्वरूपमादायेति युक्तमेवं प्रतिपत्तुम् । अशनायाम वै बुभुक्षिताः स्मो वै इति ॥
विश्वास-प्रस्तुतिः
तान् होवाच - “इहैव मा प्रातर् उपसमीयाते"ति।
तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार ॥ ३ ॥
मूलम्
तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार ॥ ३ ॥
शङ्करः
एवमुक्ते श्वा श्वेत उवाच तान् क्षुल्लकान् शुनः, इहैव अस्मिन्नेव देशे मा मां प्रातः प्रातःकाले उपसमीयातेति । दैर्घ्यं छान्दसम् , समीयातेति प्रमादपाठो वा । प्रातःकालकरणं तत्काल एव कर्तव्यार्थम् , अन्नदस्य वा सवितुरपराह्णेऽनाभिमुख्यात् । तत् तत्रैव ह बको दाल्भ्यो ग्लावो वा मैत्रेय ऋषिः प्रतिपालयाञ्चकार प्रतीक्षणं कृतवानित्यर्थः ॥
विश्वास-प्रस्तुतिः
ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः सँरब्धाः +++(ऋत्विजः रेखयेव)+++ सर्पन्तीत्य् एवम् आससृपुस्, ते ह समुपविश्य- हिं चक्रुः ॥ ४ ॥
मूलम्
ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः सꣳरब्धाः सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य हिं चक्रुः ॥ ४ ॥
शङ्करः
ते श्वानः तत्रैव आगत्य ऋषेः समक्षं यथैवेह कर्मणि बहिष्पवमानेन स्तोत्रेण स्तोष्यमाणाः उद्गातृपुरुषाः संरब्धाः संलग्नाः अन्योन्यमेव सर्पन्ति, एवं मुखेनान्योन्यस्य पुच्छं गृहीत्वा आससृपुः आसृप्तवन्तः, परिभ्रमणं कृतवन्त इत्यर्थः ; त एवं संसृप्य समुपविश्य उपविष्टाः सन्तः हिं चक्रुः हिङ्कारं कृतवन्तः ॥
विश्वास-प्रस्तुतिः
शौव उद्गीथः ...{Loading}...
ओ३म् अदा३म+ओ३म् पिबा३म+ओ३म्
देवो वरुणः प्रजापतिः सविता३न्नमिहा२हरद्
अन्नपते३ ऽन्नमिहा२हरा२हरो३म्
इति॥ ५ ॥
मूलम्
ओ३मदा३मों३ पिबा३मों३ देवो वरुणः प्रजापतिः सविता२न्नमहा२हरदन्नपते३ । न्नमिहा२हरा२हरो३मिति ॥ ५ ॥
शङ्करः
ओमदामों पिबामों देवः, द्योतनात् ; वरुणः वर्षणाज्जगतः ; प्रजापतिः, पालनात्प्रजानाम् ; सविता प्रसवितृत्वात्सर्वस्य आदित्य उच्यते । एतैः पर्यायैः स एवम्भूतः आदित्यः अन्नम् अस्मभ्यम् इह आहरत् आहरत्विति । ते एवं हिं कृत्वा पुनरप्यूचुः — स त्वं हे अन्नपते ; स हि सर्वस्यान्नस्य प्रसवितृत्वात्पतिः ; न हि तत्पाकेन विना प्रसूतमन्नमणुमात्रमपि जायते प्राणिनाम् ; अतोऽन्नपतिः । हे अन्नपते, अन्नमस्मभ्यमिहाहराहरेति ; अभ्यासः आदरार्थः । ओमिति ॥
इति द्वादशखण्डभाष्यम् ॥