विश्वास-प्रस्तुतिः
मटचीहतेषु कुरुष्वाचिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १ ॥
मूलम्
मटचीहतेषु कुरुष्वाचिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १ ॥
शङ्करः
उद्गीथोपासनप्रसङ्गेन प्रस्तावप्रतिहारविषयमप्युपासनं वक्तव्यमितीदमारभ्यते ; आख्यायिका तु सुखावबोधार्था । मटचीहतेषु मटच्यः अशनयः ताभिर्हतेषु नाशितेषु कुरुषु कुरुसस्येष्वित्यर्थः । ततो दुर्भिक्षे जाते आटिक्या अनुपजातपयोधरादिस्त्रीव्यञ्जनया सह जायया उषस्तिर्ह नामतः, चक्रस्यापत्यं चाक्रायणः ; इभो हस्ती तमर्हतीति इभ्यः ईश्वरः, हस्त्यारोहो वा, तस्य ग्रामः इभ्यग्रामः तस्मिन् ; प्रद्राणकः अन्नालाभात् , ‘द्रा कुत्सायां गतौ’, कुत्सितां गतिं गतः, अन्त्यावस्थां प्राप्त इत्यर्थः ; उवास उषितवान् कस्यचिद्गृहमाश्रित्य ॥
विश्वास-प्रस्तुतिः
स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तꣳ होवाच । नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ २ ॥
मूलम्
स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तꣳ होवाच । नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ २ ॥
शङ्करः
सः अन्नार्थमटन् इभ्यं कुल्माषान् कुत्सितान्माषान् खादन्तं भक्षयन्तं यदृच्छयोपलभ्य बिभिक्षे याचितवान् । तम् उषस्तिं ह उवाच इभ्यः — न इतः, अस्मान्मया भक्ष्यमाणादुच्छिष्टराशेः कुल्माषा अन्ये न विद्यन्ते ; यच्च ये राशौ मे मम उपनिहिताः प्रक्षिप्ताः इमे भाजने, किं करोमि ; इत्युक्तः प्रत्युवाच उषस्तिः —
विश्वास-प्रस्तुतिः
एतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पीतꣳ स्यादिति होवाच ॥ ३ ॥
मूलम्
एतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पीतꣳ स्यादिति होवाच ॥ ३ ॥
शङ्करः
एतेषाम् एतानित्यर्थः, मे मह्यं देहीति ह उवाच ; तान् स इभ्यः अस्मै उषस्तये प्रददौ प्रदत्तवान् । पानाय समीपस्थमुदकं च गृहीत्वा उवाच — हन्त गृहाणानुपानम् ; इत्युक्तः प्रत्युवाच — उच्छिष्टं वै मे मम इदमुदकं पीतं स्यात् , यदि पास्यामि ; इत्युक्तवन्तं प्रत्युवाच इतरः —
विश्वास-प्रस्तुतिः
न स्विदेतेऽप्युच्छिष्टा इति न वा अजीविष्यमिमानखादन्निति होवाच कामो म उदपानमिति ॥ ४ ॥
मूलम्
न स्विदेतेऽप्युच्छिष्टा इति न वा अजीविष्यमिमानखादन्निति होवाच कामो म उदपानमिति ॥ ४ ॥
शङ्करः
किं न स्विदेते कुल्माषा अप्युच्छिष्टाः, इत्युक्तः आह उषस्तिः — न वै अजीविष्यं नैव जीविष्यामि इमान् कुल्माषान् अखादन् अभक्षयन् इति होवाच । कामः इच्छातः मे मम उदकपानं लभ्यत इत्यर्थः । अतश्चैतामवस्थां प्राप्तस्य विद्याधर्मयशोवतः स्वात्मपरोपकारसमर्थस्यैतदपि कर्म कुर्वतो न अघस्पर्श इत्यभिप्रायः । तस्यापि जीवितं प्रति उपायान्तरेऽजुगुप्सिते सति जुगुप्सितमेतत्कर्म दोषाय ; ज्ञानावलेपेन कुर्वतो नरकपातः स्यादेवेत्यभिप्रायः, प्रद्राणकशब्दश्रवणात् ॥
विश्वास-प्रस्तुतिः
स ह खादित्वातिशेषाञ्जायाया आजहार साग्र एव सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ ५ ॥
मूलम्
स ह खादित्वातिशेषाञ्जायाया आजहार साग्र एव सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ ५ ॥
शङ्करः
तांश्च स खादित्वा अतिशेषान् अतिशिष्टान् जायायै कारुण्यादाजहार ; सा आटिकी अग्रे एव कुल्माषप्राप्तेः सुभिक्षा शोभनभिक्षा, लब्धान्नेत्येतत् , बभूव संवृत्ता ; तथापि स्त्रीस्वाभाव्यादनवज्ञाय तान्कुल्माषान् पत्युर्हस्तात्प्रतिगृह्य निदधौ निक्षिप्तवती ॥
विश्वास-प्रस्तुतिः
स ह प्रातः सञ्जिहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्राꣳ राजासौ यक्ष्यते स मा सर्वैरार्त्विज्यैर्वृणीतेति ॥ ६ ॥
मूलम्
स ह प्रातः सञ्जिहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्राꣳ राजासौ यक्ष्यते स मा सर्वैरार्त्विज्यैर्वृणीतेति ॥ ६ ॥
शङ्करः
स तस्याः कर्म जानन् प्रातः उषःकाले सञ्जिहानः शयनं निद्रां वा परित्यजन् उवाच पत्न्याः शृण्वन्त्याः — यत् यदि बतेति खिद्यमानः अन्नस्य स्तोकं लभेमहि, तद्भुक्त्वान्नं समर्थो गत्वा लभेमहि धनमात्रां धनस्याल्पम् ; ततः अस्माकं जीवनं भविष्यतीति । धनलाभे च कारणमाह — राजासौ नातिदूरे स्थाने यक्ष्यते ; यजमानत्वात्तस्य आत्मनेपदम् ; स च राजा मा मां पात्रमुपलभ्य सर्वैरार्त्विज्यैः ऋत्विक्कर्मभिः ऋत्विक्कर्मप्रयोजनायेत्यर्थः वृणीतेति ॥
विश्वास-प्रस्तुतिः
तं जायोवाच हन्त पत इम एव कुल्माषा इति तान्खादित्वामुं यज्ञं विततमेयाय ॥ ७ ॥
मूलम्
तं जायोवाच हन्त पत इम एव कुल्माषा इति तान्खादित्वामुं यज्ञं विततमेयाय ॥ ७ ॥
शङ्करः
एवमुक्तवन्तं जायोवाच — हन्त गृहाण हे पते इमे एव ये मद्धस्ते विनिक्षिप्तास्त्वया कुल्माषा इति । तान्खादित्वा अमुं यज्ञं राज्ञो विततं विस्तारितमृत्विग्भिः एयाय ॥
विश्वास-प्रस्तुतिः
तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश स ह प्रस्तोतारमुवाच ॥ ८ ॥
मूलम्
तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश स ह प्रस्तोतारमुवाच ॥ ८ ॥
शङ्करः
तत्र च गत्वा, उद्गातॄन् उद्गातृपुरुषानागत्य, आ स्तुवन्त्यस्मिन्निति आस्तावः तस्मिन्नास्तावे स्तोष्यमाणान् उपोपविवेश समीपे उपविष्टस्तेषामित्यर्थः । उपविश्य च स ह प्रस्तोतारमुवाच ॥
विश्वास-प्रस्तुतिः
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ॥ ९ ॥
मूलम्
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ॥ ९ ॥
शङ्करः
हे प्रस्तोतः इत्यामन्त्र्य अभिमुखीकरणाय, या देवता प्रस्तावं प्रस्तावभक्तिम् अनुगता अन्वायत्ता, तां चेत् देवतां प्रस्तावभक्तेः अविद्वान्सन् प्रस्तोष्यसि, विदुषो मम समीपे — तत्परोक्षेऽपि चेत् विपतेत्तस्य मूर्धा, कर्ममात्रविदामनधिकार एव कर्मणि स्यात् ; तच्चानिष्टम् , अविदुषामपि कर्मदर्शनात् , दक्षिणमार्गश्रुतेश्च ; अनधिकारे च अविदुषामुत्तर एवैको मार्गः श्रूयेत ; न च स्मार्तकर्मनिमित्त एव दक्षिणः पन्थाः, ‘यज्ञेन दानेन’ (बृ. उ. ६ । २ । १६) इत्यादिश्रुतेः ; ‘तथोक्तस्य मया’ (छा. उ. १ । ११ । ५), (छा. उ. १ । ११ । ७), (छा. उ. १ । ११ । ९) इति च विशेषणाद्विद्वत्समक्षमेव कर्मण्यनधिकारः, न सर्वत्राग्निहोत्रस्मार्तकर्माध्ययनादिषु च ; अनुज्ञायास्तत्र तत्र दर्शनात् , कर्ममात्रविदामप्यधिकारः सिद्धः कर्मणीति — मूर्धा ते विपतिष्यतीति ॥
विश्वास-प्रस्तुतिः
एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ १० ॥
मूलम्
एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ १० ॥
विश्वास-प्रस्तुतिः
एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ते ह समारतास्तूष्णीमासाञ्चक्रिरे ॥ ११ ॥
मूलम्
एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ते ह समारतास्तूष्णीमासाञ्चक्रिरे ॥ ११ ॥
शङ्करः
एवमेवोद्गातारं प्रतिहर्तारमुवाचेत्यादि समानमन्यत् । ते प्रस्तोत्रादयः कर्मभ्यः समारताः उपरताः सन्तः मूर्धपातभयात् तूष्णीमासाञ्चक्रिरे अन्यच्चाकुर्वन्तः, अर्थित्वात् ॥
इति दशमखण्डभाष्यम् ॥