०९

आकाशो गतिः

विश्वास-प्रस्तुतिः

अस्य लोकस्य का गतिरित्य्

मूलम्

अस्य लोकस्य का गतिरित्य्

रङ्ग-रामानुजः - विषय-वाक्य-दीपिका

अस्य पृथिवीलोकस्य कागतिरिति शालावत्येन पृष्टः

शङ्करः

अनुज्ञातः आह — अस्य लोकस्य का गतिरिति,

विश्वास-प्रस्तुतिः

आकाश+++(→ब्रह्म)+++ इति होवाच

मूलम्

आकाश इति होवाच

रङ्ग-रामानुजः - विषय-वाक्य-दीपिका

प्रवाहणः आकाश इत्युक्तवानित्यर्थः ।
अत्राकाशते आकाशयतीति वा व्युत्पत्त्या
आकाश-शब्दो ब्रह्म-परः ।

“आकाशो ह वै नाम-रूपयोर् निर्वहिता’’ (छां.8.14.2)

इत्यादाव् आकाश-शब्दस्य ब्रह्मण्यपि प्रसिद्धत्वात् ।
न तु भूताकाशपर इतिद्रष्टव्यम् ।

शङ्करः

आकाश इति होवाच प्रवाहणः ;

आकाश इति च पर आत्मा,
‘आकाशो वै नाम’ (छा. उ. ८ । १४ । १) इति श्रुतेः ;

विश्वास-प्रस्तुतिः

सर्वाणि ह वा इमानि भूतान्य् आकाशादेव समुत्पद्यन्ते

मूलम्

सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त+

रङ्ग-रामानुजः - विषय-वाक्य-दीपिका

तद् एव गतित्वं प्रपञ्चयति ॥ चिदचिदात्मकः प्रपञ्चः आकाशादेवोत्पद्यते

शङ्करः

तस्य हि कर्म सर्वभूतोत्पादकत्वम् ;
तस्मिन्नेव हि भूतप्रलयः —
‘तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३)
‘तेजः परस्यां देवतायाम्’ (छा. उ. ६ । ८ । ६) इति हि वक्ष्यति ;
सर्वाणि ह वै इमानि भूतानि स्थावरजङ्गमानि
आकाशाद् एव समुत्पद्यन्ते
तेजोऽबऽन्नादि-क्रमेण, सामर्थ्यात् ,

विश्वास-प्रस्तुतिः

आकाशं प्रत्यस्तं यन्त्य्

मूलम्

आकाशं प्रत्यस्तं यन्त्य्

रङ्ग-रामानुजः - विषय-वाक्य-दीपिका

तत्रैव लीयते इत्यर्थः ॥

शङ्करः

आकाशं प्रति +अस्तं यन्ति
प्रलयकाले तेनैव विपरीत-क्रमेण ;

विश्वास-प्रस्तुतिः

आकाशो ह्येवैभ्यो ज्यायान्

मूलम्

आकाशो ह्येवैभ्यो ज्यायान्

रङ्ग-रामानुजः - विषय-वाक्य-दीपिका

ज्यायस्त्वं नाम सर्वैः कल्याणगुणैः सर्वेभ्यो निरतिशयनिरूपाधिकोत्कर्षः ।

शङ्करः

हि यस्माद्
आकाश एवैभ्यः सर्वेभ्यो भूतेभ्यः ज्यायान् महत्तरः,

विश्वास-प्रस्तुतिः

आकाशः परायणम् ॥ १ ॥

मूलम्

आकाशः परायणम् ॥ १ ॥

रङ्ग-रामानुजः - विषय-वाक्य-दीपिका

परायणत्वं परमगतित्वम् । परमप्राप्यत्वमिति यावत् ।

शङ्करः

अतः स सर्वेषां भूतानां परमयनं परायणं प्रतिष्ठा
त्रिष्व् अपि कालेष्व् इत्य् अर्थः ॥

विश्वास-प्रस्तुतिः

स एष परोवरीयान् उद्गीथः

मूलम्

स एष परोवरीयान् उद्गीथः

रङ्ग-रामानुजः - विषय-वाक्य-दीपिका

परः उत्कृष्टः । वरीयान् वरीयसामपि वर इत्यर्थः ।
अत्र परः शब्दः सकारान्तोद्रष्टव्यः ।
एवंरूप आकाश उद्गीथः
परमात्मदृष्टिविशिष्ट उद्गीथ इत्यर्थः ।
उद्गीथे एतादृशाकाश-दृष्टिः कर्तव्येति यावत् ।

शङ्करः

यस्मात् परं परं वरीयः वरीयसोऽप्येष वरः
परश्च वरीयांश्च परोवरीयान् उद्गीथः
परमात्मा सम्पन्न इत्यर्थः,

विश्वास-प्रस्तुतिः

स एषोऽनन्तः

मूलम्

स एषोऽनन्तः

रङ्ग-रामानुजः - विषय-वाक्य-दीपिका

उद्गीथे अध्यस्यमानः अयमाकाशोऽनन्तः अपरिच्छिन्न इत्यर्थः ।
ततश् चानन्तस्याकाश-शब्दितस्य परमात्मन एव
साम-गति–परम्-परा-विश्रान्ति-भूमित्वान्
मत्-पक्षे “अन्तवद् वै किल ते सामे"त्युक्तो ऽन्तवत्त्व-दोषो न प्रसरतीति भावः ॥

शङ्करः

अत एव
एषः अनन्तः अविद्यमानान्तः ।

फल-स्तुतिः

विश्वास-प्रस्तुतिः

परोवरीयो हास्य भवति
परोवरीयसो ह लोकाञ् जयति,
य एतद् एवं-विद्वान्
परोवरीयाꣳसम् उद्गीथम् उपास्ते ॥ २॥

मूलम्

परोवरीयो हास्य भवति
परोवरीयसो ह लोकाञ्जयति
य एतदेवं विद्वान्
परोवरीयाꣳसमुद्गीथमुपास्ते ॥ २॥

रङ्ग-रामानुजः - विषय-वाक्य-दीपिका

यः परोवरीयांसम् एतम् आकाशशब्दितं परमात्मानं विद्वान्
आकाशत्वेनोद्गीथम् उपास्ते
तस्य परोवरीयस्त्व-गुणकं जीवनं भवति
परोवरीयस्त्व-गुणक-सकल-लोकावाप्तिश्च भवति ।

शङ्करः

तम् एतं परोवरीयांसं परमात्मभूतम् अनन्तम्
एवं विद्वान् परोवरीयांसम् उद्गीथम् उपास्ते
तस्यैतत् फलम् आह —
परोवरीयः परं परं वरीयो विशिष्टतरं जीवनं ह अस्य विदुषो भवति दृष्टं फलम् ,
अदृष्टं च परोवरीयसः उत्तरोत्तर-विशिष्टतरान् एव ब्रह्माकाशान्तान् लोकान् जयति —
य एतदेवं विद्वानुद्गीथमुपास्ते ॥

विश्वास-प्रस्तुतिः

तꣳ हैतम् अतिधन्वा शौनक उदर-शाण्डिल्यायोक्त्वोवाच

मूलम्

तꣳ हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच

रङ्ग-रामानुजः - विषय-वाक्य-दीपिका

प्रवाहण उद्गीथं संवादयति अतिधन्वनामा शुनकसुतः उदरशाण्डिल्यायर्षये ।
उदर-शब्देन सन्ततिर्लक्ष्यते ।
सन्तति-शाण्डिल्यायेत्य् अर्थः ।
एतम् उद्गीथम् उक्त्वा अन्यद् अप्य् उवाचेत्यर्थः ।

शङ्करः

किं च तम् एतम् उद्गीथं विद्वान् अतिधन्वा नामतः,
शुनकस्यापत्यं शौनकः,
उदरशाण्डिल्याय शिष्याय एतम् उद्गीथ-दर्शनम् उक्त्वा उवाच

विश्वास-प्रस्तुतिः

यावत् त एनं प्रजायाम् उद्गीथं वेदिष्यन्ते
परोवरीयो हैभ्यस् तावद् अस्मिल्ँ लोके जीवनं भविष्यति ॥ ३ ॥

मूलम्

यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्मिंल्लोके जीवनं भविष्यति ॥ ३ ॥

रङ्ग-रामानुजः - विषय-वाक्य-दीपिका

किं तदित्यत्राह ।

… यावन्तः पुरुषाः उद्गीथम् उपासिष्यन्ते
तेषाम् उत्कृष्टम् इह लोके जीवनं भविष्यति

शङ्करः

यावत् ते तव प्रजायाम् , प्रजासन्ततावित्यर्थः,
एनम् उद्गीथं त्वत्-सन्ततिजा वेदिष्यन्ते ज्ञास्यन्ति,
तावन्तं कालं
परोवरीयो हैभ्यः प्रसिद्धेभ्यो लौकिक-जीवनेभ्यः उत्तरोत्तर-विशिष्टतरं जीवनं तेभ्यो भविष्यति

विश्वास-प्रस्तुतिः

तथा ऽमुष्मिंल् लोके लोक इति

मूलम्

तथामुष्मिंल्लोके लोक इति

रङ्ग-रामानुजः - विषय-वाक्य-दीपिका

तथा सर्वस्मिन्न् अपि परलोके भविष्यतीति ।
वेदिष्यन्ते इत्य् एतद्-व्यत्ययेनात्मनेपदम ।

इतीति । अतिधन्वा उवाचेति पूर्वेणान्वयः ।

शङ्करः

तथा अदृष्टेऽपि परलोके
अमुष्मिन् परोवरीयाल्ँ लोको भविष्यतीत्य् उक्तवान् शाण्डिल्याय अतिधन्वा शौनकः ।

विश्वास-प्रस्तुतिः

स य एतम् एवं-विद्वानुपास्ते
परोवरीय एव हास्यास्मिंल्लोके जीवनं भवति तथामुष्मिंल्लोके लोक इति

मूलम्

स य एतमेवं विद्वानुपास्ते
परोवरीय एव हास्यास्मिंल्लोके जीवनं भवति तथामुष्मिंल्लोके लोक इति

रङ्ग-रामानुजः - विषय-वाक्य-दीपिका

अत इदानीन्तनानामपि तद्विदां तत्फलमस्तीत्याह ॥

… लोके लोक इति वीप्सायां द्विर्वचनम् ।

शङ्करः

स्याद् एतत् फलं पूर्वेषां महाभाग्यानाम् ,
नैदंयुगीनानाम् —
इत्य् आशङ्का-निवृत्तये आह —
स यः कश्चित् एतमेवं विद्वान्
उद्गीथम् एतर्हि उपास्ते,
तस्याप्येवमेव परोवरीय एव ह अस्य अस्मिंल्लोके जीवनं भवति तथा अमुष्मिंल्लोके लोक इति ॥

इति नवमखण्डभाष्यम् ॥

विश्वास-प्रस्तुतिः

लोके लोक इति ॥ ४ ॥

मूलम्

लोक इति लोके लोक इति ॥ ४ ॥

विश्वास-टिप्पनी

एवम् अत्रोपनिषद्य् उद्गीथय् आकाशो द्रष्टव्य इति दृष्टिविधिः।
तस्यात्र परोवरीयस्त्वम् (←परश्शतम् इव) फलविशेषः।