वादः
विश्वास-प्रस्तुतिः
त्रयो होद्गीथे कुशला बभूवुः
शिलकः शालावत्यश्, चैकितायनो दाल्भ्यः, प्रवाहणो जैवलिर्
इति ॥
विश्वास-टिप्पनी
उद्गीथः प्रणवगानविशेषः।
मूलम्
त्रयो होद्गीथे कुशला बभूवुः
शिलकः शालावत्यश्, चैकितायनो दाल्भ्यः, प्रवाहणो जैवलिर्
इति ॥
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
शालावत्सुतः शिलकनामा
दाल्भ्यः दल्भगोऽत्रश्
चिकितायनसुतः प्रवाहणो नामाजिवलसुतश् च
त्रय एते उद्गीथ-विज्ञाने निपुणा बभूवुर् इत्यर्थः ।
शालावच्-छब्दाद् अपत्यार्थेऽण्
तद्-अंतात् स्वार्थे “अभिजिद्-विदभृच्छालावत्’’(अष्टा.5.3.108) इत्यादिना यञ्प्रत्ययः ।
दल्भशब्दाद् गोत्रापत्ये गर्गादित्वाद् यञ् ।
चिकितायनशब्दादपत्यार्थे ऋषित्वाद् अणिचैकितायनः जिवलशब्दात् “अतइञ्’’(2) (अष्टा.4.1.95) जैवलिः ॥
शङ्करः
अनेकधोपास्यत्वात्
अक्षरस्य प्रकारान्तरेण
परो-वरीयस्त्व-गुण-फलम् उपासनान्तरम् आनिनाय ।
इतिहासस्तु सुखावबोधनार्थः ।
त्रयः त्रिसङ्ख्याकाः,
ह इत्य् ऐतिह्यार्थः,
उद्गीथे उद्गीथज्ञानं प्रति,
कुशलाः निपुणा बभूवुः ;
कस्मिंश्चिद्देशेकाले च निमित्ते वा समेतानाम् इत्यभिप्रायः ।
न हि सर्वस्मिञ् जगति त्रयाणाम् एव कौशलम् उद्गीथादि-विज्ञाने ।
श्रूयन्ते हि उषस्ति-जानश्रुति-कैकेय-प्रभृतयः सर्वज्ञकल्पाः ।
के ते त्रय इति, आह
— शिलकः नामतः, शलावतोऽपत्यं शालावत्यः ;
चिकितायनस्यापत्यं चैकितायनः, दल्भगोत्रो दाल्भ्यः, द्व्यामुष्यायणो वा ;
प्रवाहणो नामतः, जीवलस्यापत्यं जैवलिः
इत्येते त्रयः —
विश्वास-प्रस्तुतिः
ते होचुर् ऊद्गीथे वै कुशलाः स्मः
हन्तोद्गीथे कथां वदाम इति ॥
मूलम्
ते होचुर् ऊद्गीथे वै कुशलाः स्मः
हन्तोद्गीथे कथां वदाम इति ॥
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
वयम् उद्गीथ-विज्ञाने कुशला भवामः,
अतो विद्या-वैशद्याय वाद-कथां परस्परं प्रवर्तयाम
इत्य् ऊचुर् इत्यर्थः ॥ 2॥
शङ्करः
ते होचुः
अन्योऽन्यम् —
उद्गीथे वै कुशलाः निपुणा इति प्रसिद्धाः स्मः ।
अतो हन्त यद्य् अनुमतिर् भवताम्
उद्गीथे उद्गीथ-ज्ञाननिमित्तां
कथां विचारणां पक्ष-प्रतिपक्षोपन्यासेन
वदामः वादं कुर्म इत्यर्थः ।
तथा च
तद्-विद्य-संवादे
विपरीत-ग्रहण-नाशो ऽपूर्व-विज्ञानोपजनः संशय-निवृत्तिश् चेति ।
अतः तद्-विद्य-संयोगः कर्तव्य
इति च इतिहास-प्रयोजनम् ।+++(5)+++
दृश्यते हि शिलकादीनाम् +++(=??)+++॥
विश्वास-प्रस्तुतिः
तथेति ह समुपविविशुः ॥
मूलम्
तथेति ह समुपविविशुः ॥
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
एकत्रोपविष्टवन्त इत्यर्थः ।
शङ्करः
तथेत्युक्त्वा ते समुपविविशुः ह उपविष्टवन्तः किल ।
विश्वास-प्रस्तुतिः
स ह प्रवाहणो जैवलिर् उवाच ॥
मूलम्
स ह प्रवाहणो जैवलिरुवाच ॥
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
प्रवाहणः क्षत्रियः,
तौ ब्राह्मणौ प्रागल्भ्याद् उवाचेत्य् अर्थः ।
शङ्करः
तत्र राज्ञः प्रागल्भ्योपपत्तेः
स ह प्रवाहणो जैवलिर् उवाच इतरौ —
विश्वास-प्रस्तुतिः
“भगवन्ताव् अग्रे वदतां -
ब्राह्मणयोर् वदतोर् वाचं श्रोष्यामी"ति ॥
मूलम्
भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति ॥
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
भगवन्तौ पूजावन्तौ ब्राह्मणौ
अग्रे वाद-कथां कुरुताम्
तत्-प्रकारं श्रोष्यामीति ।
शङ्करः
भगवन्तौ पूजावन्तौ अग्रे पूर्वं वदताम् ; ब्राह्मणयोरिति लिङ्गाद्राजा असौ ; युवयोर्ब्राह्मणयोः वदतोः वाचं श्रोष्यामि ; अर्थरहितामित्यपरे, वाचमिति विशेषणात् ॥
साम-गतिः
विश्वास-प्रस्तुतिः
स ह शिलकश् शालावत्यश्
चेकितायनं दाल्भ्यम् उवाच -
“हन्त त्वा पृच्छानी"ति ।
मूलम्
स ह शिलकश्शालावत्यश्चेकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति ।
शङ्करः
उक्तयोः स ह शिलकः शालावत्यः चैकितायनं दाल्भ्यमुवाच —
हन्त यद्य् अनुमंस्यसे
त्वा त्वां पृच्छानि
विश्वास-प्रस्तुतिः
पृच्छेति होवाच ।
मूलम्
पृच्छेति होवाच ।
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
स्पष्टोऽर्थः ॥
शङ्करः
इत्य् उक्तः इतरः पृच्छेति होवाच ॥
विश्वास-प्रस्तुतिः
“का साम्नो गतिर्+++(=प्राप्यम्)+++” इति ॥
मूलम्
का साम्नो गतिरिति ॥
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
गतिर् अयनं प्राप्यम् इत्यर्थः ।
शङ्करः
लब्धानुमतिराह —
का साम्नः — प्रकृतत्वाद् उद्गीथस्य ;
उद्गीथो हि अत्र +उपास्यत्वेन प्रकृतः ;
‘परोवरीयांसम् उद गीथम्’ इति च वक्ष्यति —
गतिः आश्रयः, परायणम् इत्य् एतत् ।
स्वर्गं यावत्
विश्वास-प्रस्तुतिः
स्वर इति होवाच ॥
मूलम्
स्वर इति होवाच ॥
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
स्वरात्मकत्वात्साम्न इति भावः ।
शङ्करः
एवं पृष्टो दाल्भ्य उवाच — स्वर इति, स्वरात्मकत्वात् साम्नः ।
यो यदात्मकः, स तद्-गतिस् तद्-आश्रयश्च भवतीति युक्तम् ,
मृद्-आश्रय इव घटादिः ।
विश्वास-प्रस्तुतिः
स्वरस्य का गतिरिति ॥
मूलम्
स्वरस्य का गतिरिति ॥
शङ्करः
“स्वरस्य का गतिर्” इति,
विश्वास-प्रस्तुतिः
प्राण इति होवाच ॥
मूलम्
प्राण इति होवाच ॥
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
प्राण-निर्वर्त्यत्वात् स्वरस्येति भावः ।
एवम् उत्तरत्राप्य् औचित्यम् अनुसन्धेयम् ॥
शङ्करः
प्राण इति होवाच ;
प्राण-निष्पाद्यो हि स्वरः,
तस्मात् स्वरस्य प्राणो गतिः ।
विश्वास-प्रस्तुतिः
प्राणस्य कागतिरिति
मूलम्
प्राणस्य कागतिरिति
शङ्करः
प्राणस्य का गतिरिति,
विश्वास-प्रस्तुतिः
अन्नमिति होवाच ।
मूलम्
अन्नमिति होवाच ।
शङ्करः
अन्नमिति होवाच ;
अन्नावष्टम्भो हि प्राणः,
‘शुष्यति वै प्राण ऋतेऽन्नात्’ (बृ. उ. ५ । १२ । १) इति श्रुतेः,
‘अन्नं दाम’ (बृ. उ. २ । २ । १) इति च ।
विश्वास-प्रस्तुतिः
अन्नस्य कागगतिरित्य्
मूलम्
अन्नस्य कागगतिरित्य्
शङ्करः
अन्नस्य का गतिर् इति,
विश्वास-प्रस्तुतिः
आप इति होवाच ॥ 4॥
मूलम्
आप इति होवाच ॥ 4॥
शङ्करः
आप इति होवाच, अप्सम्भवत्वादन्नस्य ॥
विश्वास-प्रस्तुतिः
अपां कागतिरित्य्
मूलम्
अपां कागतिरित्य्
विश्वास-प्रस्तुतिः
असौ लोक इति होवाच
मूलम्
असौ लोक इति होवाच
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
द्युलोकादेव वृष्टिप्रभवादिति भावः ॥
शङ्करः
अपां का गतिरिति, असौ लोक इति होवाच ; अमुष्माद्धि लोकाद्वृष्टिः सम्भवति ।
विश्वास-प्रस्तुतिः
अमुष्य लोकस्य का गतिर् इति
मूलम्
अमुष्य लोकस्य का गतिर् इति
शङ्करः
अमुष्य लोकस्य का गतिरिति पृष्टः
विश्वास-प्रस्तुतिः
न वै परं स्वर्गं लोकमतिनयेदिति होवाच ॥
मूलम्
न वै परं स्वर्गं लोकमतिनयेदिति होवाच ॥
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
स्वर्गं लोकम् अतीत्य परमाश्रयान्तरं साम न नयेत्
इति स्वर्गलोक-व्यतिरिक्तम् आश्रयान्तरं साम न प्रापयेद् इत्य् अर्थः ।
न वदेद् इति यावत् ।
शङ्करः
दाल्भ्य उवाच —
स्वर्गम् अमुं लोकम् अतीत्य आश्रयान्तरं साम न नयेत् कश्चित् इति होवाच आह ।
विश्वास-प्रस्तुतिः
स्वर्गं वयं लोकं सामाभिसंस्थापयामः
मूलम्
स्वर्गं वयं लोकं सामाभिसंस्थापयामः
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
अतो वयमपि सामाभिसाम प्रति आश्रयत्वेन स्वर्गं लोकं सम्यक् संस्थापयामः
शङ्करः
अतो वयम् अपि स्वर्गं लोकं साम अभिसंस्थापयामः ; स्वर्गलोक-प्रतिष्ठं साम जानीम इत्यर्थः ।
विश्वास-प्रस्तुतिः
स्वर्ग-सꣳस्तावꣳ हि सामेति ॥ ५ ॥
मूलम्
स्वर्गसꣳस्तावꣳ हि सामेति ॥ ५ ॥
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
“स्वर्गो वै लोकः सामवेद’’ इति श्रुत्या
स्वर्गत्वेन साम्नः स्तूयमानत्वाद् इत्यर्थः ॥ 5॥
शङ्करः
स्वर्ग-संस्तावं स्वर्गत्वेन संस्तवनं संस्तावो यस्य तत् साम स्वर्गसंस्तावम् ,
हि यस्मात्
स्वर्गो वै लोकः साम वेद
इति श्रुतिः ॥
विश्वास-प्रस्तुतिः
तꣳ ह शिलकः शालावत्यश्
चैकितायनं दाल्भ्यम् उवाच -
अप्रतिष्ठितं वै किल ते दाल्भ्य साम
मूलम्
तꣳ ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
हे दाल्भ्य अप्रतिष्ठितं स्वर्गं लोकं साम-गति–परम्-परा–विश्रान्ति-भूमिं वदतस्
तव मते साम अप्रतिष्ठितम् एव स्यात्।
शङ्करः
तम् इतरः शिकलः शालावत्यः चैकितायनं दाल्भ्यमुवाच — अप्रतिष्ठितम् असंस्थितम् ,
परोवरीयस्त्वेनासमाप्त-गति सामेत्यर्थः ;
वै इत्य्-आगमं स्मारयति
किलेति च,
दाल्भ्य ते तव साम ।
विश्वास-प्रस्तुतिः
यस् त्व् एतर्हि +++(त्वन्-मतं श्रुत्वा)+++ ब्रूयान्
“मूर्धा ते विपतिष्यती"ति,
+++(तदा)+++ मूर्धा ते विपतेद्
इति ॥ ६ ॥
मूलम्
यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ॥ ६ ॥
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
एकस्मिन् समये यः कश्चिद् आगत्य
वाद-कथायाम् अयुक्तम् अर्थं प्रति जानानस्य ते
मूर्धा व्यपतिष्यतीति यदि ब्रूयात्
तदा विपतेद् एव न संशयः ।
मया तु सौहार्दात् तथा नोक्तम्
अतो जीवसीति शिलक उक्तवान् इत्यर्थः ॥ 6॥
शङ्करः
यस्तु असहिष्णुः सामवित्
एतर्हि एतस्मिन् काले ब्रूयात्
कश्चिद् विपरीत-विज्ञानम् —
अप्रतिष्ठितं साम प्रतिष्ठितम् इति —
एवं-वादापराधिनो मूर्धा शिरः ते विपतिष्यति
विस्पष्टं पतिष्यतीति ।
एवम् उक्तस्यापराधिनः
तथैव तद् विपतेत् न संशयः ;
न त्वहं ब्रवीमीत्यभिप्रायः ।
ननु मूर्धपातार्हं चेद् अपराधं कृतवान् ,
अतः परेणानुक्तस्यापि पतेन् मूर्धा,
न चेद् अपराधी
उक्तस्यापि नैव पतति ; अन्यथा अकृताभ्यागमः, कृत-नाशश् च स्याताम् ।
नैष दोषः, कृतस्य कर्मणः शुभाशुभस्य
फल-प्राप्तेर् देश-काल-निमित्तापेक्षत्वात् ।
तत्रैवं सति
मूर्ध-पात-निमित्तस्याप्य् अ-ज्ञानस्य
पराभिव्याहार-निमित्तापेक्षत्वम् इति ॥+++(4)+++
भुवं यावत्
विश्वास-प्रस्तुतिः
हन्ताहमेतद् भगवत्तो वेदानीति
मूलम्
हन्ताहमेतद्भगवत्तो वेदानीति
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
तर्ह्य् अहं साम-गति–परम्-परा–विश्रान्ति-भूमिं
त्वत्तो जानीयाम् इति प्रार्थितः
शङ्करः
एवमुक्तो दाल्भ्य आह —
हन्ताहम् एतद् भगवत्तः भगवतः वेदानि
“यत्-प्रतिष्ठं साम” इत्य् उक्तः
विश्वास-प्रस्तुतिः
विद्धीति होवाच
मूलम्
विद्धीति होवाच
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
तथेत्युक्तवानित्यर्थः ।
शङ्करः
प्रत्युवाच शालावत्यः — विद्धीति होवाच ।
विश्वास-प्रस्तुतिः
अमुष्य लोकस्य का गतिर् इत्य्
मूलम्
अमुष्य लोकस्य का गतिर् इत्य्
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
अमुष्य लोकस्य का गतिरिति पृष्टः
शङ्करः
अमुष्य लोकस्य का गतिरिति पृष्टः दाल्भ्येन
विश्वास-प्रस्तुतिः
अयं लोक इति होवाच
मूलम्
अयं लोक इति होवाच
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
याग-दान-होमादिभिर्
भू-लोकस्य स्वर्गोपजीव्यत्वाद् इति भावः ।
शङ्करः
दाल्भ्येन शालावत्यः अयं लोक इति होवाच ;
अयं हि लोको यागदानहोमादिभिरमुं लोकं पुष्यतीति ;
‘अतः प्रदानं देवा उपजीवन्ति’ ( ? )
इति हि श्रुतयः ;
विश्वास-प्रस्तुतिः
अस्य लोकस्य का गतिरिति
मूलम्
अस्य लोकस्य का गतिरिति
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
पृथिवी-लोकस्य का गतिर् इति दाल्भ्येन पृष्टः
शङ्करः
अस्य लोकस्य का गतिरित्युक्तः
विश्वास-प्रस्तुतिः
न प्रतिष्ठां+++(=भुवम्)+++ लोकम् अति नयेदिति होवाच
मूलम्
न प्रतिष्ठां लोकम् अति नयेदिति होवाच
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
शिलकः प्रतिष्ठां पृथिवी-लोकम् अतिक्रम्य साम-गति-परम्पराविश्रान्तिभूमिमन्यन्न कश्चिदपि वदेत् ।
शङ्करः
प्रत्यक्षं हि सर्वभूतानां धरणी प्रतिष्ठेति ;
अतः साम्नोऽप्ययं लोकः प्रतिष्ठैवेति युक्तम् ।
आह शालावत्यः — न प्रतिष्ठाम् इमं लोकमतीत्य नयेत् साम कश्चित् ।
विश्वास-प्रस्तुतिः
प्रतिष्ठां वयं लोकꣳ सामाभिसꣳस्थापयामः -
प्रतिष्ठासꣳस्तावꣳ हि सामेति ॥ ७ ॥
मूलम्
प्रतिष्ठां वयं लोकꣳ सामाभिसꣳ स्थापयामः प्रतिष्ठासꣳस्तावꣳ हि सामेति ॥ ७ ॥
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
अतो वयमपि तथैव वदामः -
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
“इयं वै रथन्तरम्’ इति श्रुत्या साम्नः प्रतिष्ठालोकत्वेन स्तूयमानत्वात् ।
स्वर्गस्य ज्योतिश्-चक्र-लग्नतया बम्भ्रम्यमाणत्वेन
प्रतिष्ठात्वाभावे ऽपि पृथिव्यास् तु स्थिरत्वात्
प्रतिष्ठात्वम् इत्य् उक्तवान्
इत्यर्थः ॥ 7॥
शङ्करः
अतो वयं प्रतिष्ठां लोकं साम अभिसंस्थापयामः ;
यस्मात् प्रतिष्ठा-संस्तावं हि, प्रतिष्ठात्वेन संस्तुतं सामेत्य् अर्थः ;
‘इयं वै रथन्तरम्’ (तां. ब्रा. १८ । ६ । ११)
इति च श्रुतिः ॥
विश्वास-प्रस्तुतिः
तꣳ ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद्भगवत्तो वेदानीति विद्धीति होवाच ॥ ८ ॥
विश्वास-प्रस्तुतिः
तꣳ ह प्रवाहणो जैवलिरुवाच
मूलम्
तꣳ ह प्रवाहणो जैवलिरुवाच
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
अन्तवतीं पृथिवीं साम-गति–परम्-परा-विश्रान्ति-भूमितया प्रतिजानानस्य
ते मते सामान्तवद् एव स्याद् इत्यर्थः ।
शङ्करः
तमेवमुक्तवन्तं ह प्रवाहणो जैवलिरुवाच
अन्तवद्वै किल ते शालावत्य सामेत्यादि पूर्ववत् ।
विश्वास-प्रस्तुतिः
यस् त्वेतर्हि ब्रूयान्
“मूर्धा ते विपतिष्यती"ति,
मूर्धा ते विपतेद् इति।
मूलम्
यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति
विश्वास-प्रस्तुतिः
हन्ताहमेतद्भगवत्तो वेदानीति
मूलम्
हन्ताहमेतद्भगवत्तो वेदानीति
रङ्ग-रामानुजः - विषय-वाक्य-दीपिका
पूर्ववदर्थः ॥
शङ्करः
ततः शालावत्य आह — हन्ताहमेतद्भगवत्तो वेदानीति ;
विश्वास-प्रस्तुतिः
विद्धीति होवाच ॥ ८ ॥
मूलम्
विद्धीति होवाच ॥ ८ ॥
शङ्करः
विद्धीति होवाच इतरः ॥
इति अष्टमखण्डभाष्यम् ॥