विश्वास-प्रस्तुतिः
अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते । वागेव सा प्राणोऽमस्तत्साम ॥ १ ॥
मूलम्
अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते । वागेव सा प्राणोऽमस्तत्साम ॥ १ ॥
शङ्करः
अथ अधुना अध्यात्ममुच्यते — वागेव ऋक् प्राणः साम, अधरोपरिस्थानत्वसामान्यात् । प्राणो घ्राणमुच्यते सह वायुना । वागेव सा प्राणोऽम इत्यादि पूर्ववत् ॥
विश्वास-प्रस्तुतिः
चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते । चक्षुरेव सात्मामस्तत्साम ॥ २ ॥
मूलम्
चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते । चक्षुरेव सात्मामस्तत्साम ॥ २ ॥
शङ्करः
चक्षुरेव ऋक् आत्मा साम । आत्मेति च्छायात्मा, तत्स्थत्वात्साम ॥
विश्वास-प्रस्तुतिः
श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते । श्रोत्रमेव सा मनोऽमस्तत्साम ॥ ३ ॥
मूलम्
श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते । श्रोत्रमेव सा मनोऽमस्तत्साम ॥ ३ ॥
शङ्करः
श्रोत्रमेव ऋक् मनः साम, श्रोत्रस्याधिष्ठातृत्वान्मनसः सामत्वम् ॥
विश्वास-प्रस्तुतिः
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यम्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते । अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्साम ॥ ४ ॥
मूलम्
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यम्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते । अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्साम ॥ ४ ॥
शङ्करः
अथ यदेतदक्ष्णः शुक्लं भाः सैव ऋक् । अथ यन्नीलं परः कृष्णमादित्य इव दृक्शक्त्यधिष्ठानं तत्साम ॥
विश्वास-प्रस्तुतिः
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ ५ ॥
मूलम्
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ ५ ॥
शङ्करः
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते, पूर्ववत् । सैव ऋक् अध्यात्मं वागाद्या, पृथिव्याद्या च अधिदैवतम् ; प्रसिद्धा च ऋक् पादबद्धाक्षरात्मिका ; तथा साम ; उक्थसाहचर्याद्वा स्तोत्रं साम ऋक शस्त्रम् उक्थादन्यत् तथा यजुः स्वाहास्वधावषडादि सर्वमेव वाग्यजुः तत्स एव । सर्वात्मकत्वात्सर्वयोनित्वाच्चेति ह्यवोचाम । ऋगादिप्रकरणात् तद्ब्रह्मेति त्रयो वेदाः । तस्यैतस्य चाक्षुषस्य पुरुषस्य तदेव रूपमतिदिश्यते । किं तत् ? यदमुष्य आदित्यपुरुषस्य — हिरण्मय इत्यादि यदधिदैवतमुक्तम् , यावमुष्य गेष्णौ पर्वणी, तावेवास्यापि चाक्षुषस्य गेष्णौ ; यच्चामुष्य नाम उदित्युद्गीथ इति च तदेवास्य नाम । स्थानभेदात् रूपगुणनामातिदेशात् ईशितृत्वविषयभेदव्यपदेशाच्च आदित्यचाक्षुषयोर्भेद इति चेत् , न ; ’ अमुना’ ‘अनेनैव’ (छा. उ. १ । ७ । ८) इत्येकस्योभयात्मत्वप्राप्त्यनुपपत्तेः । द्विधाभावेनोपपद्यत इति चेत् — वक्ष्यति हि ‘स एकधा भवति त्रिधा भवति’ (छा. उ. ७ । २६ । २) इत्यादि, न ; चेतनस्यैकस्य निरवयवत्वाद्द्विधाभावानुपपत्तेः । तस्मादध्यात्माधिदैवतयोरेकत्वमेव । यत्तु रूपाद्यतिदेशो भेदकारणमवोचः, न तद्भेदावगमाय ; किं तर्हि, स्थानभेदाद्भेदाशङ्का मा भूदित्येवमर्थम् ॥
विश्वास-प्रस्तुतिः
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ॥ ६ ॥
मूलम्
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ॥ ६ ॥
शङ्करः
स एषः चाक्षुषः पुरुषः ये च एतस्मात् आध्यात्मिकादात्मनः अर्वाञ्चः अर्वाग्गताः लोकाः तेषां चेष्टे मनुष्यसम्बन्धिनां च कामानाम् । तत् तस्मात् य इमे वीणायां गायन्ति गायकाः त एतमेव गायन्ति । यस्मादीश्वरं गायन्ति तस्मात्ते धनसनयः धनलाभयुक्ताः, धनवन्त इत्यर्थः ॥
विश्वास-प्रस्तुतिः
अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति सोऽमुनैव स एष ये चामुष्मात्पराञ्चो लोकास्ताꣳश्चाप्नोति देवकामाꣳश्च ॥ ७ ॥
मूलम्
अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति सोऽमुनैव स एष ये चामुष्मात्पराञ्चो लोकास्ताꣳश्चाप्नोति देवकामाꣳश्च ॥ ७ ॥
शङ्करः
अथ य एतदेवं विद्वान् यथोक्तं देवमुद्गीथं विद्वान् साम गायति उभौ स गायति चाक्षुषमादित्यं च । तस्यैवंविदः फलमुच्यते — सोऽमुनैव आदित्येन स एष ये च अमुष्मात्पराञ्चः लोकाः तांश्च आप्नोति, आदित्यान्तर्गतदेवो भूत्वेत्यर्थः, देवकामांश्च ॥
विश्वास-प्रस्तुतिः
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताꣳश्चाप्नोति मनुष्यकामाꣳश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ ८ ॥
मूलम्
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताꣳश्चाप्नोति मनुष्यकामाꣳश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ ८ ॥
विश्वास-प्रस्तुतिः
कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य एवं विद्वान्साम गायति साम गायति ॥ ९ ॥
मूलम्
कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य एवं विद्वान्साम गायति साम गायति ॥ ९ ॥
शङ्करः
अथ अनेनैव चाक्षुषेणैव ये च एतस्मादर्वाञ्चो लोकाः तांश्च आप्नोति, मनुष्यकामांश्च — चाक्षुषो भूत्वेत्यर्थः । तस्मादु ह एवंवित् उद्गाता ब्रूयात् यजमानम् — कम् इष्टं ते तव काममागायानीति । एष हि यस्मादुद्गाता कामागानस्य उद्गानेन कामं सम्पादयितुमीष्टे समर्थः इत्यर्थः । कोऽसौ ? य एवं विद्वान् साम गायति । द्विरुक्तिरुपासनसमाप्त्यर्था ॥
इति सप्तमखण्डभाष्यम् ॥