०६

शङ्करः

अथेदानीं सर्वफलसम्पत्त्यर्थम् उद्गीथस्य उपासनान्तरं विधित्स्यते —

विश्वास-प्रस्तुतिः

इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयत इयमेव साग्निरमस्तत्साम ॥ १ ॥

मूलम्

इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयत इयमेव साग्निरमस्तत्साम ॥ १ ॥

शङ्करः

इयमेव पृथिवी ऋक् ; ऋचि पृथिविदृष्टिः कार्या । तथा अग्निः साम ; साम्नि अग्निदृष्टिः । कथं पृथिव्यग्न्योः ऋक्सामत्वमिति, उच्यते — तदेतत् अग्न्याख्यं साम एतस्यां पृथिव्याम् ऋचि अध्यूढम् अधिगतम् उपरिभावेन स्थितमित्यर्थः ; ऋचीव साम ; तस्मात् अत एव कारणात् ऋच्यध्यूढमेव साम गीयते इदानीमपि सामगैः । यथा च ऋक्सामनी नात्यन्तं भिन्ने अन्योन्यम् , तथैतौ पृथिव्यग्नी ; कथम् ? इयमेव पृथिवी सा सामनामार्धशब्दवाच्या ; इतरार्धशब्दवाच्यः अग्निः अमः ; तत् एतत्पृथिव्यग्निद्वयं सामैकशब्दाभिधेयत्वमापन्नं साम ; तस्मान्नान्योन्यं भिन्नं पृथिव्यग्निद्वयं नित्यसंश्लिष्टमृक्सामनी इव । तस्माच्च पृथिव्यग्न्योर्‌ऋक्सामत्वमित्यर्थः । सामाक्षरयोः पृथिव्यग्निदृष्टिविधानार्थमियमेव सा अग्निरम इति केचित् ॥

विश्वास-प्रस्तुतिः

अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयतेऽन्तरिक्षमेव सा वायुरमस्तत्साम ॥ २ ॥

मूलम्

अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयतेऽन्तरिक्षमेव सा वायुरमस्तत्साम ॥ २ ॥

शङ्करः

अन्तरिक्षमेव ऋक् वायुः साम इत्यादि पूर्ववत् ॥

विश्वास-प्रस्तुतिः

द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते द्यौरेव सादित्योऽमस्तत्साम ॥ ३ ॥

मूलम्

द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते द्यौरेव सादित्योऽमस्तत्साम ॥ ३ ॥

विश्वास-प्रस्तुतिः

नक्षत्राण्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते नक्षत्राण्येव सा चन्द्रमा अमस्तत्साम ॥ ४ ॥

मूलम्

नक्षत्राण्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते नक्षत्राण्येव सा चन्द्रमा अमस्तत्साम ॥ ४ ॥

शङ्करः

नक्षत्राणामधिपतिश्चन्द्रमा अतः स साम ॥

विश्वास-प्रस्तुतिः

अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते ॥ ५ ॥

मूलम्

अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते ॥ ५ ॥

शङ्करः

अथ यदेतदादित्यस्य शुक्लं भाः शुक्ला दीप्तिः सैव ऋक् । अथ यदादित्ये नीलं परः कृष्णं परोऽतिशयेन कार्ष्ण्यं तत्साम । तद्ध्येकान्तसमाहितदृष्टेर्दृश्यते ॥

विश्वास-प्रस्तुतिः

अथ यदेवैतदादित्यस्य शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः ॥ ६ ॥

मूलम्

अथ यदेवैतदादित्यस्य शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः ॥ ६ ॥

शङ्करः

ते एवैते भासौ शुक्लकृष्णत्वे सा च अमश्च साम । अथ य एषः अन्तरादित्ये आदित्यस्यान्तः मध्ये हिरण्मयः हिरण्मय इव हिरण्मयः । न हि सुवर्णविकारत्वं देवस्य सम्भवति, ऋक्सामगेष्णत्वापहतपाप्मत्वासम्भवात् ; न हि सौवर्णेऽचेतने पाप्मादिप्राप्तिरस्ति, येन प्रतिषिध्येत, चाक्षुषे च अग्रहणात् ; अतः लुप्तोपम एव हिरण्मयशब्दः, ज्योतिर्मय इत्यर्थः । उत्तरेष्वपि समाना योजना । पुरुषः पुरि शयनात् पूरयति वा स्वेन आत्मना जगदिति ; दृश्यते निवृत्तचक्षुर्भिः समाहितचेतोभिर्ब्रह्मचर्यादिसाधनापेक्षैः । तेजस्विनोऽपि श्मश्रुकेशादयः कृष्णाः स्युरित्यतो विशिनष्टि — हिरण्यश्मश्रुर्हिरण्यकेश इति ; ज्योतिर्मयान्येवस्य श्मश्रूणि केशाश्चेत्यर्थः । आप्रणखात् प्रणखः नखाग्रं नखाग्रेण सह सर्वः सुवर्ण इव भारूप इत्यर्थः ॥

विश्वास-प्रस्तुतिः

तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ ७ ॥

मूलम्

तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ ७ ॥

शङ्करः

तस्य एवं सर्वतः सुवर्णवर्णस्याप्यक्ष्णोर्विशेषः । कथम् ? तस्य यथा कपेः मर्कटस्य आसः कप्यासः ; आसेरुपवेशनार्थस्य करणे घञ् ; कपिपृष्ठान्तः येनोपविशति ; कप्यास इव पुण्डरीकम् अत्यन्ततेजस्वि एवम् देवस्य अक्षिणी ; उपमितोपमानत्वात् न हीनोपमा । तस्य एवङ्गुणविशिष्टस्य गौणमिदं नाम उदिति ; कथं गौणत्वम् ? स एषः देवः सर्वेभ्यः पाप्मभ्यः पाप्मना सह तत्कार्येभ्य इत्यर्थः, ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यादि वक्ष्यति, उदितः उत् इतः, उद्गत इत्यर्थः । अतः असौ उन्नामा । तम् एवङ्गुणसम्पन्नमुन्नामानं यथोक्तेन प्रकारेण यो वेद सोऽप्येवमेव उदेति उद्गच्छति सर्वेभ्यः पाप्मभ्यः — ह वै इत्यवधारणार्थौ निपातौ — उदेत्येवेत्यर्थः ॥

विश्वास-प्रस्तुतिः

तस्यर्क्च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् ॥ ८ ॥

मूलम्

तस्यर्क्च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् ॥ ८ ॥

शङ्करः

तस्योद्गीथत्वं देवस्य आदित्यादीनामिव विवक्षित्वा आह — तस्य ऋक्च साम च गेष्णौ पृथिव्याद्युक्तलक्षणे पर्वणी । सर्वात्मा हि देवः । परापरलोककामेशितृत्वादुपपद्यते पृथिव्यग्न्याद्यृक्सामगेष्णत्वम् , सर्वयोनित्वाच्च । यत एवमुन्नामा च असौ ऋक्सामगेष्णश्च तस्मादृक्सामगेष्णत्वे प्राप्ते उद्गीथत्वमुच्यते परोक्षेण, परोक्षप्रियत्वाद्देवस्य, तस्मादुद्गीथ इति । तस्मात्त्वेव हेतोः उदं गायतीत्युग्दाता । यस्माद्धि एतस्य यथोक्तस्योन्नाम्नः गाता असौ अतो युक्ता उद्गीतेति नामप्रसिद्धिः उद्गातुः । स एषः देवः उन्नामा ये च अमुष्मात् आदित्यात् पराञ्चः परागञ्चनात् ऊर्ध्वा लोकाः तेषां लोकानां च ईष्टे न केवलमीशितृत्वमेव, च - शब्दाद्धारयति च, ‘स दाधार पृथिवीं द्यामुतेमाम्’ (ऋ. सं. मं. १० । १२१ । १) इत्यादिमन्त्रवर्णात् । किञ्च, देवकामानामीष्टे इति एतत् अधिदैवतं देवताविषयं देवस्योद्गीथस्य स्वरूपमुक्तम् ॥

इति षष्ठखण्डभाष्यम् ॥