०५

शङ्करः

प्राणादित्यदृष्टिविशिष्टस्योद्गीथस्योपासनमुक्तमेवानूद्य प्रणवोद्गीथयोरेकत्वं कृत्वा तस्मिन्प्राणरश्मिभेदगुणविशिष्टदृष्ट्या अक्षरस्योपासनमनेकपुत्रफलमिदानीं वक्तव्यमित्यारभ्यते —

विश्वास-प्रस्तुतिः

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वा आदित्य उद्गीथ एष प्रणव ओमिति ह्येष स्वरन्नेति ॥ १ ॥

मूलम्

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वा आदित्य उद्गीथ एष प्रणव ओमिति ह्येष स्वरन्नेति ॥ १ ॥

शङ्करः

अथ खलु य उद्गीथः स प्रणवः बह्वृचानाम् , यश्च प्रणवः तेषां स एव च्छान्दोग्ये उद्गीथशब्दवाच्यः । असौ वा आदित्य उद्गीथः एष प्रणवः ; प्रणवशब्दवाच्योऽपि स एव बह्वृचानाम् , नान्यः । उद्गीथ आदित्यः कथम् ? उद्गीथाख्यमक्षरम् ओमिति एतत् एषः हि यस्मात् स्वरन् उच्चारयन् , अनेकार्थत्वाद्धातूनाम् ; अथवा स्वरन् गच्छन् एति । अतः असावुद्गीथः सविता ॥

विश्वास-प्रस्तुतिः

एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच रश्मीꣳ स्त्वं पर्यावर्तयाद्बहवो वै ते भविष्यन्तीत्यधिदैवतम् ॥ २ ॥

मूलम्

एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच रश्मीꣳ स्त्वं पर्यावर्तयाद्बहवो वै ते भविष्यन्तीत्यधिदैवतम् ॥ २ ॥

शङ्करः

तम् एतम् उ एव अहम् अभ्यगासिषम् आभिमुख्येन गीतवानस्मि, आदित्यरश्म्यभेदं कृत्वा ध्यानं कृतवानस्मीत्यर्थः । तेन तस्मात्कारणात् मम त्वमेकोऽसि पुत्र इति ह कौषीतकिः कुषीतकस्यापत्यं कौषीतकिः पुत्रमुवाच उक्तवान् । अतः रश्मीनादित्यं च भेदेन त्वं पर्यावर्तयात् पर्यावर्तयेत्यर्थः, त्वंयोगात् । एवं बहवो वै ते तव पुत्रा भविष्यन्तीत्यधिदैवतम् ॥

विश्वास-प्रस्तुतिः

अथाध्यात्मं य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ॥ ३ ॥

मूलम्

अथाध्यात्मं य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ॥ ३ ॥

शङ्करः

अथ अनन्तरम् अध्यात्मम् उच्यते । य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीतेत्यादि पूर्ववत् । तथा ओमिति ह्येष प्राणोऽपि स्वरन्नेपि ओमिति ह्यनुज्ञां कुर्वन्निव वागादिप्रवृत्त्यर्थमेतीत्यर्थः । न हि मरणकाले मुमूर्षोः समीपस्थाः प्राणस्योङ्करणं शृण्वन्तीति । एतत्सामान्यादादित्येऽप्योङ्करणमनुज्ञामात्रं द्रष्टव्यम् ॥

विश्वास-प्रस्तुतिः

एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच प्राणाꣳ स्त्वं भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति ॥ ४ ॥

मूलम्

एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच प्राणाꣳ स्त्वं भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति ॥ ४ ॥

शङ्करः

एतमु एवाहमभ्यगासिषमित्यादि पूर्ववदेव । अतो वागादीन्मुख्यं च प्राणं भेदगुणविशिष्टमुद्गीथं पश्यन् भूमानं मनसा अभिगायतात् , पूर्ववदावर्तयेत्यर्थः ; बहवो वै मे मम पुत्रा भविष्यन्तीत्येवमभिप्रायः सन्नित्यर्थः । प्राणादित्यैकत्वोद्गीथ दृष्टेः एकपुत्रत्वफलदोषेणापोदितत्वात् रश्मिप्राणभेददृष्टेः कर्तव्यता चोद्यते अस्मिन्खण्डे बहुपुत्रफलत्वार्थम् ॥

विश्वास-प्रस्तुतिः

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरतीत्यनुसमाहरतीति ॥ ५ ॥

मूलम्

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरतीत्यनुसमाहरतीति ॥ ५ ॥

शङ्करः

अथ खलु य उद्गीथ इत्यादि प्रणवोद्गीथैकत्वदर्शनमुक्तम् , तस्यैतत्फलमुच्यते — होतृषदनात् होता यत्रस्थः शंसति तत्स्थानं होतृषदनम् , हौत्रात्कर्मणः सम्यक्प्रयुक्तादित्यर्थः । न हि देशमात्रात्फलमाहर्तुं शक्यम् । किं तत् ? ह एवापि दुरुद्गीतं दुष्टमुद्गीतम् उद्गानं कृतम् उद्गात्रा स्वकर्मणि क्षतं कृतमित्यर्थः ; तदनुसमाहरति अनुसन्धत्त इत्यर्थः — चिकित्सयेव धातुवैषम्यसमीकरणमिति ॥

इति पञ्चमखण्डभाष्यम् ॥