विश्वास-प्रस्तुतिः
ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १ ॥
मूलम्
ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १ ॥
शङ्करः
ओमित्येतत् इत्यादिप्रकृतस्याक्षरस्य पुनरुपादानम् उद्गीथाक्षराद्युपासनान्तरितत्वादन्यत्र प्रसङ्गो मा भूदित्येवमर्थम् ; प्रकृतस्यैवाक्षरस्यामृताभयगुणविशिष्टस्योपासनं विधातव्यमित्यारम्भः । ओमित्यादि व्याख्यातम् ॥
विश्वास-प्रस्तुतिः
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशꣳ स्ते छन्दोभिरच्छादयन्यदेभिरच्छादयꣳ स्तच्छन्दसां छन्दस्त्वम् ॥ २ ॥
मूलम्
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशꣳ स्ते छन्दोभिरच्छादयन्यदेभिरच्छादयꣳ स्तच्छन्दसां छन्दस्त्वम् ॥ २ ॥
शङ्करः
देवा वै मृत्योः मारकात् बिभ्यतः किं कृतवन्त इति, उच्यते — त्रयीं विद्यां त्रयीविहितं कर्म प्राविशन् प्रविष्टवन्तः, वैदिकं कर्म प्रारब्धवन्त इत्यर्थः, तत् मृत्योस्त्राणं मन्यमानाः । किञ्च, ते कर्मण्यविनियुक्तैः छन्दोभिः मन्त्रैः जपहोमादि कुर्वन्तः आत्मानं कर्मान्तरेष्वच्छादयन् छादितवन्तः । यत् यस्मात् एभिः मन्त्रैः अच्छादयन् , तत् तस्मात् छन्दसां मन्त्राणां छादनात् छन्दस्त्वं प्रसिद्धमेव ॥
विश्वास-प्रस्तुतिः
तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि साम्नि यजुषि । ते नु विदित्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ॥ ३ ॥
मूलम्
तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि साम्नि यजुषि । ते नु विदित्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ॥ ३ ॥
शङ्करः
तान् तत्र देवान्कर्मपरान् मृत्युः यथा लोके मत्स्यघातको मत्स्यमुदके नातिगम्भीरे परिपश्येत् बडिशोदकस्रावोपायसाध्यं मन्यमानः, एवं पर्यपश्यत् दृष्टवान् ; मृत्युः कर्मक्षयोपायेन साध्यान्देवान्मेने इत्यर्थः । क्वासौ देवान्ददर्शेति, उच्यते — ऋचि साम्नि यजुषि, ऋग्यजुःसामसम्बन्धिकर्मणीत्यर्थः । ते नु देवाः वैदिकेन कर्मणा संस्कृताः शुद्धात्मानः सन्तः मृत्योश्चिकीर्षितं विदितवन्तः ; विदित्वा च ते ऊर्ध्वाः व्यावृत्ताः कर्मभ्यः ऋचः साम्नः यजुषः ऋग्यजुःसामसम्बद्धात्कर्मणः अभ्युत्थायेत्यर्थः । तेन कर्मणा मृत्युभयापगमं प्रति निराशाः तदपास्य अमृताभयगुणमक्षरं स्वरं स्वरशब्दितं प्राविशन्नेव प्रविष्टवन्तः, ओङ्कारोपासनपराः संवृत्ताः ; एव - शब्दः अवधारणार्थः सन् समुच्चयप्रतिषेधार्थः ; तदुपासनपराः संवृत्ता इत्यर्थः ॥
कथं पुनः स्वरशब्दवाच्यत्वमक्षरस्येति, उच्यते —
विश्वास-प्रस्तुतिः
यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवꣳ सामैवं यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् ॥ ४ ॥
मूलम्
यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवꣳ सामैवं यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् ॥ ४ ॥
शङ्करः
यदा वै ऋचम् आप्नोति ओमित्येवातिस्वरति एवं साम एवं यजुः ; एष उ स्वरः ; कोऽसौ ? यदेतदक्षरम् एतदमृतम् अभयम् , तत्प्रविश्य यथागुणमेव अमृता अभयाश्च अभवन् देवाः ॥
विश्वास-प्रस्तुतिः
स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरꣳ स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता देवास्तदमृतो भवति ॥ ५ ॥
मूलम्
स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरꣳ स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता देवास्तदमृतो भवति ॥ ५ ॥
शङ्करः
स यः अन्योऽपि देववदेव एतदक्षरम् एवम् अमृताभयगुणं विद्वान् प्रणौति स्तौति ; उपासनमेवात्र स्तुतिरभिप्रेता, स तथैव एतदेवाक्षरं स्वरममृतमभयं प्रविशति ; तत्प्रविश्य च — राजकुलं प्रविष्टानामिव राज्ञोऽन्तरङ्गबहिरङ्गतावत् न परस्य ब्रह्मणोऽन्तरङ्गबहिरङ्गताविशेषः — किं तर्हि ? यदमृता देवाः येनामृतत्वेन यदमृता अभूवन् , तेनैवामृतत्वेन विशिष्टः तदमृतो भवति ; न न्यूनता नाप्यधिकता अमृतत्वे इत्यर्थः ॥
इति चतुर्थखण्डभाष्यम् ॥