विश्वास-प्रस्तुतिः
अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति । उद्यं स्तमो भयमपहन्त्यपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥ १ ॥
मूलम्
अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति । उद्यं स्तमो भयमपहन्त्यपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥ १ ॥
शङ्करः
अथ अनन्तरम् अधिदैवतं देवताविषयमुद्गीथोपासनं प्रस्तुतमित्यर्थः, अनेकधा उपास्यत्वादुद्गीथस्य ; य एवासौ आदित्यः तपति, तम् उद्गीथमुपासीत आदित्यदृष्ट्या उद्गीथमुपासीतेत्यर्थः ; तमुद्गीथम् इति उद्गीथशब्दः अक्षरवाची सन् कथमादित्ये वर्तत इति, उच्यते — उद्यन् उद्गच्छन् वै एषः प्रजाभ्यः प्रजार्थम् उद्गायति प्रजानामन्नोत्पत्त्यर्थम् ; न हि अनुद्यति तस्मिन् , व्रीह्यादेः निष्पत्तिः स्यात् ; अतः उद्गायतीवोद्गायति — यथैवोद्गाता अन्नार्थम् ; अतः उद्गीथः सवितेत्यर्थः । किञ्च उद्यन् नैशं तमः तज्जं च भयं प्राणिनाम् अपहन्ति ; तमेवङ्गुणं सवितारं यः वेद, सः अपहन्ता नाशयिता ह वै भयस्य जन्ममरणादिलक्षणस्य आत्मनः तमसश्च तत्कारणस्याज्ञानलक्षणस्य भवति ॥
यद्यपि स्थानभेदात्प्राणादित्यौ भिन्नाविव लक्ष्येते, तथापि न स तत्त्वभेदस्तयोः । कथम् —
विश्वास-प्रस्तुतिः
समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ २ ॥
मूलम्
समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ २ ॥
शङ्करः
समान उ एव तुल्य एव प्राणः सवित्रा गुणतः, सविता च प्राणेन ; यस्मात् उष्णोऽयं प्राणः उष्णश्चासौ सविता । किञ्च स्वर इति इमं प्राणमाचक्षते कथयन्ति, तथा स्वर इति प्रत्यास्वर इति च अमुं सवितारम् ; यस्मात् प्राणः स्वरत्येव न पुनर्मृतः प्रत्यागच्छति, सविता तु अस्तमित्वा पुनरप्यहन्यहनि प्रत्यागच्छति, अतः प्रत्यास्वरः ; अस्मात् गुणतो नामतश्च समानावितरेतरं प्राणादित्यौ । अतः तत्त्वाभेदात् एतं प्राणम् इमम् अमुं च आदित्यम् उद्गीथमुपासीत ॥
विश्वास-प्रस्तुतिः
अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति स प्राणो यदपानिति सोऽपानः । अथ यः प्राणापानयोः सन्धिः स व्यानो यो व्यानः सा वाक् । तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥ ३ ॥
मूलम्
अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति स प्राणो यदपानिति सोऽपानः । अथ यः प्राणापानयोः सन्धिः स व्यानो यो व्यानः सा वाक् । तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥ ३ ॥
शङ्करः
अथ खलु इति प्रकारान्तरेणोपासनमुद्गीथस्योच्यते ; व्यानमेव वक्ष्यमाणलक्षणं प्राणस्यैव वृत्तिविशेषम् उद्गीथम् उपासीत । अधुना तस्य तत्त्वं निरूप्यते — यद्वै पुरुषः प्राणिति मुखनासिकाभ्यां वायुं बहिर्निःसारयति, स प्राणाख्यो वायोर्वृत्तिविशेषः ; यदपानिति अपश्वसिति ताभ्यामेवान्तराकर्षति वायुम् , सः अपानः अपानाख्या वृत्तिः । ततः किमिति, उच्यते — अथ यः उक्तलक्षणयोः प्राणापानयोः सन्धिः तयोरन्तरा वृत्तिविशेषः, सः व्यानः ; यः साङ्ख्यादिशास्त्रप्रसिद्धः, श्रुत्या विशेषनिरूपणात् — नासौ व्यान इत्यभिप्रायः । कस्मात्पुनः प्राणापानौ हित्वा महता आयासेन व्यानस्यैवोपासनमुच्यते ? वीर्यवत्कर्महेतुत्वात् । कथं वीर्यवत्कर्महेतुत्वमिति, आह — यः व्यानः सा वाक् , व्यानकार्यत्वाद्वाचः । यस्माद्व्याननिर्वर्त्या वाक् , तस्मात् अप्राणन्ननपानन् प्राणापानव्यापारावकुर्वन् वाचमभिव्याहरति उच्चारयति लोकः ॥
विश्वास-प्रस्तुतिः
या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति ॥ ४ ॥
मूलम्
या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति ॥ ४ ॥
शङ्करः
तथा वाग्विशेषामृचम् , ऋक्संस्थं च साम, सामावयवं चोद्गीथम् , अप्राणन्ननपानन् व्यानेनैव निर्वर्तयतीत्यभिप्रायः ॥
अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानं स्तानि करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ ५ ॥
न केवलं वागाद्यभिव्याहरणमेव ; अतः अस्मात् अन्यान्यपि यानि वीर्यवन्ति कर्माणि प्रयत्नाधिक्यनिर्वर्त्यानि — यथा अग्नेर्मन्थनम् , आजेः मर्यादायाः सरणं धावनम् , दृढस्य धनुषः आयमनम् आकर्षणम् — अप्राणन्ननपानंस्तानि करोति ; अतो विशिष्टः व्यानः प्राणादिवृत्तिभ्यः । विशिष्टस्योपासनं ज्यायः, फलवत्त्वाद्राजोपासनवत् । एतस्य हेतोः एतस्मात्कारणात् व्यानमेवोद्गीथमुपासीत, नान्यद्वृत्त्यन्तरम् । कर्मवीर्यवत्तरत्वं फलम् ॥
अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह गिर इत्याचक्षतेऽन्नं थमन्ने हीदं सर्वं स्थितम् ॥ ६ ॥
अथ अधुना खलु उद्गीथाक्षराण्युपासीत भक्त्यक्षराणि मा भूवन्नित्यतो विशिनष्टि — उद्गीथ इति ; उद्गीथनामाक्षराणीत्यर्थः — नामाक्षरोपासनेऽपि नामवत एवोपासनं कृतं भवेत् अमुकमिश्रा इति यद्वत् । प्राण एव उत् , उदित्यस्मिन्नक्षरे प्राणदृष्टिः । कथं प्राणस्य उत्त्वमिति, आह — प्राणेन हि उत्तिष्ठति सर्वः, अप्राणस्यावसाददर्शनात् ; अतोऽस्त्युदः प्राणस्य च सामान्यम् । वाक् गीः, वाचो ह गिर इत्याचक्षते शिष्टाः । तथा अन्नं थम् , अन्ने हि इदं सर्वं स्थितम् ; अतः अस्त्यन्नस्य थाक्षरस्य च सामान्यम् ॥
त्रयाणां श्रुत्युक्तानि सामान्यानि ; तानि तेनानुरूपेण शेषेष्वपि द्रष्टव्यानि —
विश्वास-प्रस्तुतिः
द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य एवोद्वायुर्गीरग्निस्थं सामवेद एवोद्यजुर्वेदो गीर्ऋग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ ७ ॥

द्यौरेव उत् उच्चैःस्थानात् , अन्तरिक्षं गीः गिरणाल्लोकानाम् , पृथिवी थं प्राणिस्थानात् ; आदित्य एव उत् ऊर्ध्वत्वात् , वायुः गीः अग्न्यादीनां गिरणात् , अग्निः थं याज्ञीयकर्मावस्थानात् ; सामवेद एव उत् स्वर्गसंस्तुतत्वात् , यजुर्वेदो गीः यजुषां प्रत्तस्य हविषो देवतानां गिरणात् , ऋग्वेदः थम् ऋच्यध्यूढत्वात्साम्नः । उद्गीथाक्षरोपासनफलमधुनोच्यते — दुग्धे दोग्धि अस्मै साधकाय ; का सा ? वाक् ; कम् ? दोहम् ; कोऽसौ दोह इति, आह — यो वाचो दोहः, ऋग्वेदादिशब्दसाध्यं फलमित्यभिप्रायः, तत् वाचो दोहः तं स्वयमेव वाक् दोग्धि आत्मानमेव दोग्धि । किञ्च अन्नवान् प्रभूतान्नः अदश्च दीप्ताग्निर्भवति, य एतानि यथोक्तानि एवं यथोक्तगुणानि उद्गीथाक्षराणि विद्वान्सन् उपास्ते उद्गीथ इति ॥
विश्वास-प्रस्तुतिः
अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ॥ ८ ॥
मूलम्
अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ॥ ८ ॥
शङ्करः
अथ खलु इदानीम् , आशीःसमृद्धिः आशिषः कामस्य समृद्धिः यथा भवेत् तदुच्यत इति वाक्यशेषः, उपसरणानि उपसर्तव्यान्युपगन्तव्यानि ध्येयानीत्यर्थः ; कथम् ? इत्युपासीत एवमुपासीत ; तद्यथा — येन साम्ना येन सामविशेषेण स्तोष्यन् स्तुतिं करिष्यन् स्यात् भवेदुद्गाता तत्साम उपधावेत् उपसरेत् चिन्तयेदुत्पत्त्यादिभिः ॥
विश्वास-प्रस्तुतिः
यस्यामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥ ९ ॥
मूलम्
यस्यामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥ ९ ॥
शङ्करः
यस्यामृचि तत्साम तां च ऋचम् उपधावेत् देवतादिभिः ; यदार्षेयं साम तं च ऋषिम् ; यां देवतामभिष्टोष्यन्स्यात् तां देवतामुपधावेत् ॥
विश्वास-प्रस्तुतिः
येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन स्तोमेन स्तोष्यमाणः स्यात्तं स्तोममुपधावेत् ॥ १० ॥
मूलम्
येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन स्तोमेन स्तोष्यमाणः स्यात्तं स्तोममुपधावेत् ॥ १० ॥
शङ्करः
येन च्छन्दसा गायत्र्यादिना स्तोष्यन्स्यात् तच्छन्द उपधावेत् ; येन स्तोमेन स्तोष्यमाणः स्यात् , स्तोमाङ्गफलस्य कर्तृगामित्वादात्मनेपदं स्तोष्यमाण इति, तं स्तोममुपधावेत् ॥
विश्वास-प्रस्तुतिः
यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ॥ ११ ॥
मूलम्
यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ॥ ११ ॥
शङ्करः
यां दिशमभिष्टोष्यन्स्यात् तां दिशमुपधावेत् अधिष्ठात्रादिभिः ॥
विश्वास-प्रस्तुतिः
आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १२ ॥
मूलम्
आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १२ ॥
शङ्करः
आत्मानम् उद्गाता स्वं रूपं गोत्रनामादिभिः — सामादीन् क्रमेण स्वं च आत्मानम् — अन्ततः अन्ते उपसृत्य स्तुवीत, कामं ध्यायन् अप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः प्रमादमकुर्वन् । ततः अभ्याशः क्षिप्रमेव ह यत् यत्र अस्मै एवंविदे स कामः समृध्येत समृद्धिं गच्छेत् । कोऽसौ ? यत्कामः यः कामः अस्य सोऽयं यत्कामः सन् स्तुवीतेति । द्विरुक्तिरादरार्था ॥
इति तृतीयखण्डभाष्यम् ॥