विश्वास-प्रस्तुतिः
देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ १ ॥
मूलम्
देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ १ ॥
शङ्करः
देवासुराः देवाश्च असुराश्च ; देवाः दीव्यतेर्द्योतनार्थस्य शास्त्रोद्भासिता इन्द्रियवृत्तयः ; असुराः तद्विपरीताः स्वेष्वेवासुषु विष्वग्विषयासु प्राणनक्रियासु रमणात् स्वाभाविक्यः तमआत्मिका इन्द्रियवृत्तय एव ; ह वै इति पूर्ववृत्तोद्भासकौ निपातौ ; यत्र यस्मिन्निमित्ते इतरेतरविषयापहारलक्षणे संयेतिरे, सम्पूर्वस्य यततेः सङ्ग्रामार्थत्वमिति, सङ्ग्रामं कृतवन्त इत्यर्थः । शास्त्रीयप्रकाशवृत्त्यभिभवनाय प्रवृत्ताः स्वाभाविक्यस्तमोरूपा इन्द्रियवृत्तयः असुराः, तथा तद्विपरीताः शास्त्रार्थविषयविवेकज्योतिरात्मानः देवाः स्वाभाविकतमोरूपासुराभिभवनाय प्रवृत्ताः इति अन्योन्याभिभवोद्भवरूपः सङ्ग्राम इव, सर्वप्राणिषु प्रतिदेहं देवासुरसङ्ग्रामो अनादिकालप्रवृत्त इत्यभिप्रायः । स इह श्रुत्या आख्यायिकारूपेण धर्माधर्मोत्पत्तिविवेकविज्ञानाय कथ्यते प्राणविशुद्धिविज्ञानविधिपरतया । अतः उभयेऽपि देवासुराः, प्रजापतेरपत्यानीति प्राजापत्याः — प्रजापतिः कर्मज्ञानाधिकृतः पुरुषः, ‘पुरुष एवोक्थमयमेव महान्प्रजापतिः’ (ऐ. आ. २ । १ । २) इति श्रुत्यन्तरात् ; तस्य हि शास्त्रीयाः स्वाभाविक्यश्च करणवृत्तयो विरुद्धाः अपत्यानीव, तदुद्भवत्वात् । तत् तत्र उत्कर्षापकर्षलक्षणनिमित्ते ह देवाः उद्गीथम् उद्गीथभक्त्युपलक्षितमौद्गात्रं कर्म आजह्रुः आहृतवन्तः ; तस्यापि केवलस्य आहरणासम्भवात् ज्योतिष्टोमाद्याहृतवन्त इत्यभिप्रायः । तत्किमर्थमाजह्रुरिति, उच्यते — अनेन कर्मणा एनान् असुरान् अभिभविष्याम इति एवमभिप्रायाः सन्तः ॥
यदा च तदुद्गीथं कर्म आजिहीर्षवः, तदा —
विश्वास-प्रस्तुतिः
ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे तꣳ हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ २ ॥
मूलम्
ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे तꣳ हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ २ ॥
शङ्करः
ते ह देवाः नासिक्यं नासिकायां भवं प्राणं चेतनावन्तं घ्राणम् उद्गीथकर्तारम् उद्गातारम् उद्गीथभक्त्या उपासाञ्चक्रिरे उपासनं कृतवन्त इत्यर्थः ; नासिक्यप्राणदृष्ट्या उद्गीथाख्यमक्षरमोङ्कारम् उपासाञ्चक्रिरे इत्यर्थः । एवं हि प्रकृतार्थपरित्यागः अप्रकृतार्थोपादानं च न कृतं स्यात् — ‘खल्वेतस्याक्षरस्य ’ इत्योङ्कारो हि उपास्यतया प्रकृतः । ननु उद्गीथोपलक्षितं कर्म आहृतवन्त इत्यवोचः ; इदानीमेव कथं नासिक्यप्राणदृष्ट्या उद्गीथाख्यमक्षरमोङ्कारम् उपासाञ्चक्रिर इत्यात्थ ? नैष दोषः ; उद्गीथकर्मण्येव हि तत्कर्तृप्राणदेवतादृष्ट्या उद्गीथभक्त्यवयवश्च ओङ्कारः उपास्यत्वेन विवक्षितः, न स्वतन्त्रः ; अतः तादर्थ्येन कर्म आहृतवन्त इति युक्तमेवोक्तम् । तम् एवं देवैर्वृतमुद्गातारं ह असुराः स्वाभाविकतमआत्मानः ज्योतीरूपं नासिक्यं प्राणं देवं स्वकीयेन पाप्मना अधर्मासङ्गरूपेण विविधुः विद्धवन्तः, संसर्गं कृतवन्त इत्यर्थः । स हि नासिक्यः प्राणः कल्याणगन्धग्रहणाभिमानासङ्गाभिभूतविवेकविज्ञानो बभूव ; स तेन दोषेण पाप्मसंसर्गी बभूव ; तदिदमुक्तमसुराः पाप्मना विविधुरिति । यस्मादासुरेण पाप्मना विद्धः, तस्मात् तेन पाप्मना प्रेरितः प्राणः दुर्गन्धग्राहकः प्राणिनाम् । अतः तेन उभयं जिघ्रति लोकः सुरभि च दुर्गन्धि च, पाप्मना हि एषः यस्मात् विद्धः । उभयग्रहणम् अविवक्षितम् — ‘यस्योभयं हविरार्तिमार्च्छति’ (तै. ब्रा. ३ । ७ । १) इति यद्वत् ; ‘यदेवेदमप्रतिरूपं जिघ्रति’ (बृ. उ. १ । ३ । ३) इति समानप्रकरणश्रुतेः ॥
विश्वास-प्रस्तुतिः
अथ ह वाचमुद्गीथमुपासाञ्चक्रिरे तां हासुराः पाप्मना विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च पाप्मना ह्येषा विद्धा ॥ ३ ॥
मूलम्
अथ ह वाचमुद्गीथमुपासाञ्चक्रिरे तां हासुराः पाप्मना विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च पाप्मना ह्येषा विद्धा ॥ ३ ॥
विश्वास-प्रस्तुतिः
अथ ह चक्षुरुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ॥ ४ ॥
मूलम्
अथ ह चक्षुरुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
अथ ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् ॥ ५ ॥
मूलम्
अथ ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
अथ ह मन उद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं सङ्कल्पते सङ्कल्पनीयं चासङ्कल्पनीयं च पाप्मना ह्येतद्विद्धम् ॥ ६ ॥
मूलम्
अथ ह मन उद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं सङ्कल्पते सङ्कल्पनीयं चासङ्कल्पनीयं च पाप्मना ह्येतद्विद्धम् ॥ ६ ॥
शङ्करः
मुख्यप्राणस्य उपास्यत्वाय तद्विशुद्धत्वानुभवार्थः अयं विचारः श्रुत्या प्रवर्तितः । अतः चक्षुरादिदेवताः क्रमेण विचार्य आसुरेण पाप्मना विद्धा इत्यपोह्यन्ते । समानमन्यत् — अथ ह वाचं चक्षुः श्रोत्रं मन इत्यादि । अनुक्ता अप्यन्याः त्वग्रसनादिदेवताः द्रष्टव्याः, ‘एवमु खल्वेता देवताः पाप्मभिः’ (बृ. उ. १ । ३ । ६) इति श्रुत्यन्तरात् ॥
विश्वास-प्रस्तुतिः
अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे तꣳ हासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा विध्वं सेतैवम् ॥ ७ ॥
मूलम्
अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे तꣳ हासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा विध्वं सेतैवम् ॥ ७ ॥
शङ्करः
आसुरेण पाप्मना विद्धत्वात् प्राणादिदेवताः अपोह्य, अथ अनन्तरम् , ह, य एवायं प्रसिद्धः, मुखे भवः मुख्यः प्राणः, तम् उद्गीथम् उपासाञ्चक्रिरे, तं ह असुराः पूर्ववत् ऋत्वा प्राप्य विदध्वंसुः विनष्टाः, अभिप्रायमात्रेण, अकृत्वा किञ्चिदपि प्राणस्य ; कथं विनष्टा इति, अत्र दृष्टान्तमाह — यथा लोके अश्मानम् आखणम् — न शक्यते खनितुं कुद्दालादिभिरपि, टङ्कैश्च छेत्तुं न शक्यः अखनः, अखन एव आखणः, तम् — ऋत्वा सामर्थ्यात् लोष्टः पांसुपिण्डः, श्रुत्यन्तराच्च — अश्मनि क्षिप्तः अश्मभेदनाभिप्रायेण, तस्य अश्मनः किञ्चिदप्यकृत्वा स्वयं विध्वंसेत विदीर्येत — एवं विदध्वंसुरित्यर्थः । एवं विशुद्धः असुरैरधर्षितत्वात् प्राणः इति ॥
विश्वास-प्रस्तुतिः
यथाश्मानमाखणमृत्वा विध्वꣳ सत एवꣳ हैव स विध्वꣳ सते य एवंविदि पापं कामयते यश्चैनमभिदासति स एषोऽश्माखणः ॥ ८ ॥
मूलम्
यथाश्मानमाखणमृत्वा विध्वꣳ सत एवꣳ हैव स विध्वꣳ सते य एवंविदि पापं कामयते यश्चैनमभिदासति स एषोऽश्माखणः ॥ ८ ॥
शङ्करः
एवंविदः प्राणात्मभूतस्य इदं फलमाह — यथाश्मानमिति । एष एव दृष्टान्तः ; एवं हैव स विध्वंसते विनश्यति ; कोऽसाविति, आह — य एवंविदि यथोक्तप्राणविदि पापं तदनर्हं कर्तुं कामयते इच्छति यश्चापि एनम् अभिदासति हिनस्ति प्राणविदं प्रति आक्रोशताडनादि प्रयुङ्क्ते, सोऽप्येवमेव विध्वंसत इत्यर्थः ; यस्मात् स एष प्राणवित् प्राणभूतत्वात् अश्माखण इव अश्माखणः अधर्षणीय इत्यर्थः । ननु नासिक्योऽपि प्राणः वाय्वात्मा, यथा मुख्यः ; तत्र नासिक्यः प्राणः पाप्मना विद्धः — प्राण एव सन् , न मुख्यः — कथम् ? नैष दोषः ; नासिक्यस्तु स्थानकरणवैगुण्यात् असुरैः पाप्मना विद्धः, वाय्वात्मापि सन् ; मुख्यस्तु तदसम्भवात् स्थानदेवताबलीयस्त्वात् न विद्ध इति श्लिष्टम् — यथा वास्यादयः शिक्षावत्पुरुषाश्रयाः कार्यविशेषं कुर्वन्ति, न अन्यहस्तगताः, तद्वत् दोषवद्ध्राणसचिवत्वाद्विद्धा घ्राणदेवता, न मुख्यः ॥
विश्वास-प्रस्तुतिः
नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति एतमु एवान्ततोऽवित्त्वोत्क्रामति व्याददात्येवान्तत इति ॥ ९ ॥
मूलम्
नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति एतमु एवान्ततोऽवित्त्वोत्क्रामति व्याददात्येवान्तत इति ॥ ९ ॥
शङ्करः
यस्मान्न विद्धः असुरैः मुख्यः, तस्मात् नैव एतेन सुरभि न दुर्गन्धि च विजानाति लोकः ; घ्राणेनैव तदुभयं विजानाति ; अतश्च पाप्मकार्यादर्शनात् अपहतपाप्मा अपहतः विनाशितः अपनीतः पाप्मा यस्मात् सोऽयमपहतपाप्मा हि एषः, विशुद्ध इत्यर्थः । यस्माच्च आत्मम्भरयः कल्याणाद्यासङ्गवत्त्वात् घ्राणादयः — न तथा आत्मम्भरिर्मुख्यः ; किं तर्हि ? सर्वार्थः ; कथमिति, उच्यते — तेन मुख्येन यदश्नाति यत्पिबति लोकः तेन अशितेन पीतेन च इतरान् प्राणान् घ्राणादीन् अवति पालयति ; तेन हि तेषां स्थितिर्भवतीत्यर्थः ; अतः सर्वम्भरिः प्राणः ; अतो विशुद्धः । कथं पुनर्मुख्याशितपीताभ्यां स्थितिः इतरेषां गम्यत इति, उच्यते — एतमु एव मुख्यं प्राणं मुख्यप्राणस्य वृत्तिम् , अन्नपाने इत्यर्थः, अन्ततः अन्ते मरणकाले अवित्त्वा अलब्ध्वा उत्क्रामति, घ्राणादिप्राणसमुदाय इत्यर्थः ; अप्राणो हि न शक्नोत्यशितुं पातुं वा ; तदा उत्क्रान्तिः प्रसिद्धा घ्राणादिकलापस्य ; दृश्यते हि उत्क्रान्तौ प्राणस्याशिशिषा, यतः व्याददात्येव, आस्यविदारणं करोतीत्यर्थः ; तद्धि अन्नालाभे उत्क्रान्तस्य लिङ्गम् ॥
विश्वास-प्रस्तुतिः
तꣳ हाङ्गिरा उद्गीथमुपासाञ्चक्र एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसः ॥ १० ॥
मूलम्
तꣳ हाङ्गिरा उद्गीथमुपासाञ्चक्र एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसः ॥ १० ॥
शङ्करः
तं ह अङ्गिराः — तं मुख्यं प्राणं ह अङ्गिरा इत्येवङ्गुणम् उद्गीथम् उपासाञ्चक्रे उपासनं कृतवान् , बको दाल्भ्य इति वक्ष्यमाणेन सम्बध्यते ; तथा बृहस्पतिरिति, आयास्य इति च उपासाञ्चक्रे बकः इत्येवं सम्बन्धं कृतवन्तः केचित् , एतमु एवाङ्गिरसं बृहस्पतिमायास्यं प्राणं मन्यन्ते — इति वचनात् । भवत्येवं यथाश्रुतासम्भवे ; सम्भवति तु यथाश्रुतम् ऋषिचोदनायामपि — श्रुत्यन्तरवत् — ’ तस्माच्छतर्चिन इत्याचक्षते एतमेव सन्तम्’ ऋषिमपि ; तथा माध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिः इत्यादीन् ऋषीनेव प्राणमापादयति श्रुतिः ; तथा तानपि ऋषीन् प्राणोपासकान् अङ्गिरोबृहस्पत्यायास्यान् प्राणं करोत्यभेदविज्ञानाय — ‘प्राणो ह पिता प्राणो माता’ (छा. उ. ७ । १५ । १) इत्यादिवच्च । तस्मात् ऋषिः अङ्गिरा नाम, प्राण एव सन् , आत्मानमङ्गिरसं प्राणमुद्गीथम् उपासाञ्चक्रे इत्येतत् ; यत् यस्मात् सः अङ्गानां प्राणः सन् रसः, तेनासौ अङ्गिरसः ॥
विश्वास-प्रस्तुतिः
तेन तꣳ ह बृहस्पतिरुद्गीथमुपासाञ्चक्र एतमु एव बृहस्पतिं मन्यन्ते वाग्घि बृहती तस्या एष पतिः ॥ ११ ॥
मूलम्
तेन तꣳ ह बृहस्पतिरुद्गीथमुपासाञ्चक्र एतमु एव बृहस्पतिं मन्यन्ते वाग्घि बृहती तस्या एष पतिः ॥ ११ ॥
शङ्करः
तथा वाचो बृहत्याः पतिः तेनासौ बृहस्पतिः ॥
विश्वास-प्रस्तुतिः
तेन तꣳ हायास्य उद्गीथमुपासाञ्चक्र एतमु एवायास्यं मन्यन्त आस्याद्यदयते ॥ १२ ॥
मूलम्
तेन तꣳ हायास्य उद्गीथमुपासाञ्चक्र एतमु एवायास्यं मन्यन्त आस्याद्यदयते ॥ १२ ॥
शङ्करः
तथा यत् यस्मात् आस्यात् अयते निर्गच्छति तेन आयास्यः ऋषिः प्राण एव सन् इत्यर्थः । तथा अन्योऽप्युपासकः आत्मानमेव आङ्गिरसादिगुणं प्राणमुद्गीथमुपासीतेत्यर्थः ॥
विश्वास-प्रस्तुतिः
तेन तꣳ ह बको दाल्भ्यो विदाञ्चकार । स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति ॥ १३ ॥
मूलम्
तेन तꣳ ह बको दाल्भ्यो विदाञ्चकार । स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति ॥ १३ ॥
शङ्करः
न केवलमङ्गिरःप्रभृतय उपासाञ्चक्रिरे ; तं ह बको नाम दल्भस्यापत्यं दाल्भ्यः विदाञ्चकार यथादर्शितं प्राणं विज्ञातवान् ; विदात्वा च स ह नैमिशीयानां सत्रिणाम् उद्गाता बभूव ; स च प्राणविज्ञानसामर्थ्यात् एभ्यः नैमिशीयेभ्यः कामान् आगायति स्म ह आगीतवान्किलेत्यर्थः ॥
विश्वास-प्रस्तुतिः
आगाता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १४ ॥
मूलम्
आगाता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १४ ॥
शङ्करः
तथा अन्योऽप्युद्गाता आगाता ह वै कामानां भवति ; य एतत् एवं विद्वान् यथोक्तगुणं प्राणम् अक्षरमुद्गीथमुपास्ते, तस्य एतद्दृष्टं फलम् उक्तम् , प्राणात्मभावसत्वदृष्टम् — ‘देवो भूत्वा देवानप्येति’ (बृ. उ. ४ । १ । २)(बृ. उ. ४ । १ । ३)(बृ. उ. ४ । १ । ४)(बृ. उ. ४ । १ । ५)(बृ. उ. ४ । १ । ६)(बृ. उ. ४ । १ । ७) इति श्रुत्यन्तरात्सिद्धमेवेत्यभिप्रायः । इत्यध्यात्मम् — एतत् आत्मविषयम् उद्गीथोपासनम् इति उक्तोपसंहारः, अधिदैवतोद्गीथोपासने वक्ष्यमाणे, बुद्धिसमाधानार्थः ॥
इति द्वितीयखण्डभाष्यम् ॥