०१

शङ्करः

‘ओमित्येतदक्षरम्’ इत्याद्यष्टाध्यायी छान्दोग्योपनिषत् । तस्याः सङ्क्षेपतः अर्थजिज्ञासुभ्यः ऋजुविवरणमल्पग्रन्थमिदमारभ्यते । तत्र सम्बन्धः — समस्तं कर्माधिगतं प्राणादिदेवताविज्ञानसहितम् अर्चिरादिमार्गेण ब्रह्मप्रतिपत्तिकारणम् ; केवलं च कर्म धूमादिमार्गेण चन्द्रलोकप्रतिपत्तिकारणम् ; स्वभाववृत्तानां च मार्गद्वयपरिभ्रष्टानां कष्टा अधोगतिरुक्ता ; न च उभयोर्मार्गयोरन्यतरस्मिन्नपि मार्गे आत्यन्तिकी पुरुषार्थसिद्धिः — इत्यतः कर्मनिरपेक्षम् अद्वैतात्मविज्ञानं संसारगतित्रयहेतूपमर्देन वक्तव्यमिति उपनिषदारभ्यते । न च अद्वैतात्मविज्ञानादन्यत्र आत्यन्तिकी निःश्रेयसप्राप्तिः । वक्ष्यति हि — ‘अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति’ (छा. उ. ७ । २५ । २) ; विपर्यये च — ‘स स्वराड् भवति’ (छा. उ. ७ । २५ । २) — इति । तथा — द्वैतविषयानृताभिसन्धस्य बन्धनम् , तस्करस्येव तप्तपरशुग्रहणे बन्धदाहभावः, संसारदुःखप्राप्तिश्च इत्युक्त्वा — अद्वैतात्मसत्याभिसन्धस्य, अतस्करस्येव तप्तपरशुग्रहणे बन्धदाहाभावः, संसारदुःखनिवृत्तिर्मोक्षश्च — इति ॥

अत एव न कर्मसहभावि अद्वैतात्मदर्शनम् ; क्रियाकारकफलभेदोपमर्देन ‘सत् . . . एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १), (छा. उ. ६ । २ । २) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इत्येवमादिवाक्यजनितस्य बाधकप्रत्ययानुपपत्तेः । कर्मविधिप्रत्यय इति चेत् , न ; कर्तृभोक्तृस्वभावविज्ञानवतः तज्जनितकर्मफलरागद्वेषादिदोषवतश्च कर्मविधानात् । अधिगतसकलवेदार्थस्य कर्मविधानात् अद्वैतज्ञानवतोऽपि कर्मेति चेत् , न ; कर्माधिकृतविषयस्य कर्तृभोक्त्रादिज्ञानस्य स्वाभाविकस्य ‘सत . . . एकमेवाद्वितीयम्’ ‘आत्मैवेदं सर्वम्’ इत्यनेनोपमर्दितत्वात् । तस्मात् अविद्यादिदोषवत एव कर्माणि विधीयन्ते ; न अद्वैतज्ञानवतः । अत एव हि वक्ष्यति — ‘सर्व एते पुण्यलोका भवन्ति, ब्रह्मसंस्थोऽमृतत्वमेति’ (छा. उ. २ । २३ । १) इति ॥

तत्रैतस्मिन्नद्वैतविद्याप्रकरणे अभ्युदयसाधनानि उपासनान्युच्यन्ते, कैवल्यसन्निकृष्टफलानि च अद्वैतादीषद्विकृतब्रह्मविषयाणि ‘मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । १२) इत्यादीनि, कर्मसमृद्धिफलानि च कर्माङ्गसम्बन्धीनि ; रहस्यसामान्यात् मनोवृत्तिसामान्याच्च — यथा अद्वैतज्ञानं मनोवृत्तिमात्रम् , तथा अन्यान्यप्युपासनानि मनोवृत्तिरूपाणि — इत्यस्ति हि सामान्यम् । कस्तर्हि अद्वैतज्ञानस्योपासनानां च विशेषः ? उच्यते — स्वाभाविकस्य आत्मन्यक्रियेऽध्यारोपितस्य कर्त्रादिकारकक्रियाफलभेदविज्ञानस्य निवर्तकमद्वैतविज्ञानम् , रज्ज्वादाविव सर्पाद्यध्यारोपलक्षणज्ञानस्य रज्ज्वादिस्वरूपनिश्चयः प्रकाशनिमित्तः ; उपासनं तु यथाशास्त्रसमर्थितं किञ्चिदालम्बनमुपादाय तस्मिन्समानचित्तवृत्तिसन्तानकरणं तद्विलक्षणप्रत्ययानन्तरितम् — इति विशेषः । तान्येतान्युपासनानि सत्त्वशुद्धिकरत्वेन वस्तुतत्त्वावभासकत्वात् अद्वैतज्ञानोपकारकाणि, आलम्बनविषयत्वात् सुखसाध्यानि च — इति पूर्वमुपन्यस्यन्ते । तत्र कर्माभ्यासस्य दृढीकृतत्वात् कर्मपरित्यागेनोपासन एव दुःखं चेतःसमर्पणं कर्तुमिति कर्माङ्गविषयमेव तावत् आदौ उपासनम् उपन्यस्यते ॥

विश्वास-प्रस्तुतिः

“ओम्” इत्य् एतद् अक्षरम् उद्गीथम् उपासीत ।
ओम् इति ह्य् उद्गायति - तस्योप-व्याख्यानम् ॥ १ ॥

मूलम्

ओमित्येतदक्षरमुद्गीथमुपासीत । ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १ ॥

शङ्करः

ओमित्येतदक्षरमुद्गीथमुपासीत
ओम् इत्येतदक्षरं परमात्मनोऽभिधानं नेदिष्ठम्;
तस्मिन् हि प्रयुज्यमाने स प्रसीदति, प्रिय-नाम-ग्रहण इव लोकः। तदिह इतिपरं प्रयुक्तम् अभिधायकत्वाद्व्यावर्तितं शब्दस्वरूपमात्रं प्रतीयते ; तथा च अर्चादिवत् परस्यात्मनः प्रतीकं सम्पद्यते ; एवं नामत्वेन प्रतीकत्वेन च परमात्मोपासनसाधनं श्रेष्ठमिति सर्ववेदान्तेष्ववगतम् ; जपकर्मस्वाध्यायाद्यन्तेषु च बहुशः प्रयोगात् प्रसिद्धमस्य श्रैष्ठ्यम् ; अतः तदेतत् , अक्षरं वर्णात्मकम् , उद्गीथभक्त्यवयवत्वादुद्गीथशब्दवाच्यम् , उपासीत — कर्माङ्गावयवभूते ओङ्कारेपरमात्मप्रतीके दृढामैकाग्र्यलक्षणां मतिं सन्तनुयात् । स्वयमेव श्रुतिः ओङ्कारस्य उद्गीथशब्दवाच्यत्वे हेतुमाह — ओमिति ह्युद्गायति ; ओमित्यारभ्य, हि यस्मात् , उद्गायति, अत उद्गीथ ओङ्कार इत्यर्थः । तस्य उपव्याख्यानम् — तस्य अक्षरस्य, उपव्याख्यानम् एवमुपासनमेवंविभूत्येवम्फलमित्यादिकथनम् उपव्याख्यानम् , प्रवर्तत इति वाक्यशेषः ॥

विश्वास-प्रस्तुतिः

एषां भूतानां पृथिवी रसः पृथिव्या आपो रसः । अपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः साम्न उद्गीथो रसः ॥ २ ॥

मूलम्

एषां भूतानां पृथिवी रसः पृथिव्या आपो रसः । अपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः साम्न उद्गीथो रसः ॥ २ ॥

शङ्करः

एषां चराचराणां भूतानां पृथिवी रसः गतिः परायणमवष्टम्भः ; पृथिव्या आपः रसः — अप्सु हि ओता च प्रोता च पृथिवी ; अतः ताः रसः पृथिव्याः । अपाम् ओषधयः रसः, अप्परिणामत्वादोषधीनाम् ; तासां पुरुषो रसः, अन्नपरिणामत्वात्पुरुषस्य ; तस्यापि पुरुषस्य वाक् रसः — पुरुषावयवानां हि वाक् सारिष्ठा, अतो वाक् पुरुषस्य रस उच्यते ; तस्या अपि वाचः, ऋक् सरः सारतरा ; ऋचः साम रसः सारतरम् ; तस्यापि साम्नः उद्गीथः प्रकृतत्वादोङ्कारः सारतरः ॥

विश्वास-प्रस्तुतिः

स एष रसानाꣳ रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥ ३ ॥

मूलम्

स एष रसानाꣳ रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥ ३ ॥

शङ्करः

एवम् — स एषः उद्गीथाख्य ओङ्कारः, भूतादीनामुत्तरोत्तररसानाम् , अतिशयेन रसः रसतमः ; परमः, परमात्मप्रतीकत्वात् ; परार्ध्यः — अर्धं स्थानम् , परं च तदर्धं च परार्धम् , तदर्हतीति परार्ध्यः, — परमात्मस्थानार्हः, परमात्मवदुपास्यत्वादित्यभिप्रायः ; अष्टमः — पृथिव्यादिरससङ्ख्यायाम् ; यदुद्गीथः य उद्गीथः ॥

विश्वास-प्रस्तुतिः

कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥ ४ ॥

मूलम्

कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥ ४ ॥

शङ्करः

वाच ऋग्रसः . . . इत्युक्तम् ; कतमा सा ऋक् ? कतमत्तत्सामः ? कतमो वा स उद्गीथः ? कतमा कतमेति वीप्सा आदरार्था । ननु ‘वा बहूनां जातिपरिप्रश्ने डतमच्’ (पा. सू. ५ । ३ । ९३) इति डतमच्प्रत्ययः इष्टः ; न हि अत्र ऋग्जातिबहुत्वम् ; कथं डतमच्प्रयोगः ? नैष दोषः ; जातौ परिप्रश्नो जातिपरिप्रश्नः — इत्येतस्मिन्विग्रहे जातावृग्व्यक्तीनां बहुत्वोपपत्तेः, न तु जातेः परिप्रश्न इति विगृह्यते । ननु जातेः परिप्रश्नः — इत्यस्मिन्विग्रहे ‘कतमः कठः’ इत्याद्युदाहरणमुपपन्नम् , जातौ परिप्रश्न इत्यत्र तु न युज्यते — तत्रापि कठादिजातावेव व्यक्तिबहुत्वाभिप्रायेण परिप्रश्न इत्यदोषः । यदि जातेः परिप्रश्नः स्यात् , ‘कतमा कतमर्क्’ इत्यादावुपसङ्ख्यानं कर्तव्यं स्यात् । विमृष्टं भवति विमर्शः कृतो भवति ॥

विश्वास-प्रस्तुतिः

वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः । तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥ ५ ॥

मूलम्

वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः । तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥ ५ ॥

शङ्करः

विमर्शे हि कृते सति, प्रतिवचनोक्तिरुपपन्ना — वागेव ऋक् प्राणः साम ओमित्येतदक्षरमुद्गीथः इति । वागृचोरेकत्वेऽपि न अष्टमत्वव्याघातः, पूर्वस्मात् वाक्यान्तरत्वात् ; आप्तिगुणसिद्धये हि ओमित्येतदक्षरमुद्गीथः इति । वाक्प्राणौ ऋक्सामयोनी इति वागेव ऋक् प्राणः साम इत्युच्यते ; यथा क्रमम् ऋक्सामयोन्योर्वाक्प्राणयोर्ग्रहणे हि सर्वासामृचां सर्वेषां च साम्नामवरोधः कृतः स्यात् ; सर्वर्क्सामावरोधे च ऋक्सामसाध्यानां च सर्वकर्मणामवरोधः कृतः स्यात् ; तदवरोधे च सर्वे कामा अवरुद्धाः स्युः । ओमित्येतदक्षरम् उद्गीथः इति भक्त्याशङ्का निवर्त्यते । तद्वा एतत् इति मिथुनं निर्दिश्यते । किं तन्मिथुनमिति, आह — यद्वाक्च प्राणश्च सर्वर्क्सामकारणभूतौ मिथुनम् ; ऋक्च साम चेति ऋक्सामकारणौ ऋक्सामशब्दोक्तावित्यर्थः ; न तु स्वातन्त्र्येण ऋक्च साम च मिथुनम् । अन्यथा हि वाक्प्राणश्च इत्येकं मिथुनम् , ऋक्साम च अपरम् , इति द्वे मिथुने स्याताम् ; तथा च तद्वा एतन्मिथुनम् इत्येकवचननिर्देशोऽनुपपन्नः स्यात् ; तस्मात् ऋक्सामयोन्योर्वाक्प्राणयोरेव मिथुनत्वम् ॥

विश्वास-प्रस्तुतिः

तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सं सृज्यते यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम् ॥ ६ ॥

मूलम्

तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सं सृज्यते यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम् ॥ ६ ॥

शङ्करः

तदेतत् एवंलक्षणं मिथुनम् ओमित्येतस्मिन्नक्षरे संसृज्यते ; एवं सर्वकामाप्तिगुणविशिष्टं मिथुनम् ओङ्कारे संसृष्टं विद्यत इति ओङ्कारस्य सर्वकामाप्तिगुणवत्त्वं सिद्धम् ; वाङ्मयत्वम् ओङ्कारस्य प्राणनिष्पाद्यत्वं च मिथुनेन संसृष्टत्वम् । मिथुनस्य कामापयितृत्वं प्रसिद्धमिति दृष्टान्त उच्यते — यथा लोके मिथुनौ मिथुनावयवौ स्त्रीपुंसौ यदा समागच्छतः ग्राम्यधर्मतया संयुज्येयातां तदा आपयतः प्रापयतः अन्योन्यस्य इतरेतरस्य तौ कामम् , तथा स्वात्मानुप्रविष्टेन मिथुनेन सर्वकामाप्तिगुणवत्त्वम् ओङ्कारस्य सिद्धमित्यभिप्रायः ॥

तदुपासकोऽप्युद्गाता तद्धर्मा भवतीत्याह —

विश्वास-प्रस्तुतिः

आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ७ ॥

मूलम्

आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ७ ॥

शङ्करः

आपयिता ह वै कामानां यजमानस्य भवति, य एतत् अक्षरम् एवम् आप्तिगुणवत् उद्गीथम् उपास्ते, तस्य एतद्यथोक्तं फलमित्यर्थः, ‘तं यथा यथोपासते तदेव भवति’ (शत. ब्रा. १० । ५ । २ । २०) इति श्रुतेः ॥

विश्वास-प्रस्तुतिः

तद्वा एतदनुज्ञाक्षरं यद्धि किञ्चानुजानात्योमित्येव तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ८ ॥

मूलम्

तद्वा एतदनुज्ञाक्षरं यद्धि किञ्चानुजानात्योमित्येव तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ८ ॥

शङ्करः

समृद्धिगुणवांश्च ओङ्कारः ; कथम् ? तत् वै एतत् प्रकृतम् , अनुज्ञाक्षरम् अनुज्ञा च सा अक्षरं च तत् ; अनुज्ञा च अनुमतिः, ओङ्कार इत्यर्थः । कथमनुज्ञेति, आह श्रुतिरेव — यद्धि किञ्च यत्किञ्च लोके ज्ञानं धनं वा अनुजानाति विद्वान् धनी वा, तत्रानुमतिं कुर्वन् ओमित्येव तदाह ; तथा च वेदे ‘त्रयस्त्रिंशदित्योमिति होवाच’ (बृ. उ. ३ । ९ । १) इत्यादि ; तथा च लोकेऽपि तवेदं धनं गृह्णामि इत्युक्ते ओमित्येव आह । अत एषा उ एव एषैव हि समृद्धिः यदनुज्ञा या अनुज्ञा सा समृद्धिः, तन्मूलत्वादनुज्ञायाः ; समृद्धो हि ओमित्यनुज्ञां ददाति ; तस्यात् समृद्धिगुणवानोङ्कार इत्यर्थः । समृद्धिगुणोपासकत्वात् तद्धर्मा सन् समर्धयिता ह वै कामानां यजमानस्य भवति ; य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते इत्यादि पूर्ववत् ॥

विश्वास-प्रस्तुतिः

तेनेयं त्रयीविद्या वर्तते ओमित्याश्रावयत्योमिति शं सत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन ॥ ९ ॥

मूलम्

तेनेयं त्रयीविद्या वर्तते ओमित्याश्रावयत्योमिति शं सत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन ॥ ९ ॥

शङ्करः

अथ इदानीमक्षरं स्तौति, उपास्यत्वात् , प्ररोचनार्थम् ; कथम् ? तेन अक्षरेण प्रकृतेन इयम् ऋग्वेदादिलक्षणा त्रयीविद्या, त्रयीविद्याविहितं कर्मेत्यर्थः — न हि त्रयीविद्यैव — आश्रावणादिभिर्वर्तते । कर्म तु तथा प्रवर्तत इति प्रसिद्धम् ; कथम् ? ओमित्याश्रावयति ओमिति शंसति ओमित्युद्गायति ; लिङ्गाच्च सोमयाग इति गम्यते । तच्च कर्म एतस्यैव अक्षरस्य अपचित्यै पूजार्थम् ; परमात्मप्रतीकं हि तत् ; तदपचितिः परमात्मन एवस्यात् , ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’ (भ. गी. १८ । ४६) इति स्मृतेः । किञ्च, एतस्यैवाक्षरस्य महिम्ना महत्त्वेन ऋत्विग्यजमानादिप्राणैरित्यर्थः ; तथा एतस्यैवाक्षरस्य रसेन व्रीहियवादिरसनिर्वृत्तेन हविषेत्यर्थः ; यागहोमादि अक्षरेण क्रियते ; तच्च आदित्यमुपतिष्ठते ; ततो वृष्ट्यादिक्रमेण प्राणोऽन्नं च जायते ; प्राणैरन्नेन च यज्ञस्तायते ; अत उच्यते - अक्षरस्य महिम्ना रसेन इति ॥

तत्र अक्षरविज्ञानवतः कर्म कर्तव्यमिति स्थितमाक्षिपति —

विश्वास-प्रस्तुतिः

तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद । नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १० ॥

मूलम्

तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद । नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १० ॥

शङ्करः

तेन अक्षरेण उभौ कुरुतः, यश्च एतत् अक्षरम् एवं यथाव्याख्यातं वेद, यश्च कर्ममात्रवित् अक्षरयाथात्म्यं न वेद, तावुभौ कुरुतः कर्म ; तेयोश्च कर्मसामर्थ्यादेव फलं स्यात् , किं तत्राक्षरयाथात्म्यविज्ञानेन इति ; दृष्टं हि लोके हरीतकीं भक्षयतोः तद्रसाभिज्ञेतरयोः विरेचनम् — नैवम् ; यस्मात् नाना तु विद्या च अविद्या च, भिन्ने हि विद्याविद्ये, तु — शब्दः पक्षव्यावृत्त्यर्थः ; न ओङ्कारस्य कर्माङ्गत्वमात्रविज्ञानमेव रसतमाप्तिसमृद्धिगुणवद्विज्ञानम् ; किं तर्हि ? ततोऽभ्यधिकम् ; तस्मात् तदङ्गाधिक्यात् तत्फलाधिक्यं युक्तमित्यभिप्रायः ; दृष्टं हि लोके वणिक्शबरयोः पद्मरागादिमणिविक्रये वणिजो विज्ञानाधिक्यात् फलाधिक्यम् ; तस्मात् यदेव विद्यया विज्ञानेन युक्तः सन् करोति कर्म श्रद्धया श्रद्दधानश्च सन् , उपनिषदा योगेन युक्तश्चेत्यर्थः, तदेव कर्म वीर्यवत्तरम् अविद्वत्कर्मणोऽधिकफलं भवतीति ; विद्वत्कर्मणो वीर्यवत्तरत्ववचनादविदुषोऽपि कर्म वीर्यवदेव भवतीत्यभिप्रायः । न च अविदुषः कर्मण्यनधिकारः, औषस्त्ये काण्डे अविदुषामप्यार्त्विज्यदर्शनात् । रसतमाप्तिसमृद्धिगुणवदक्षरमित्येकमुपासनम् , मध्ये प्रयत्नान्तरादर्शनात् ; अनेकैर्हि विशेषणैः अनेकधा उपास्यत्वात् खलु एतस्यैव प्रकृतस्य उद्गीथाख्यस्य अक्षरस्य उपव्याख्यानं भवति ॥

इति प्रथमखण्डभाष्यम् ॥