04

छान्दोग्योपनिषत्

चतुर्थः प्रपाठकः


०१

प्रथमः खण्डः


[विद्यास्तुत्यर्था रैक्वाख्यब्रह्मर्षेः आख्यायिका]


ओं । जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस । स हसर्वत आवसथान् मापयाञ्चक्रे, सर्वत एव मेऽन्नमत्स्यन्तीति ॥१॥


प्र. – संवर्गविद्या प्रस्तूयते – विद्यास्तुत्यर्था आख्यायिका जानश्रुतिर्ह पौत्रायणःश्रद्धादेयो बहुदायी बहुपाक्य आस । जनश्रुतस्य अपत्यं जानश्रुतिः । हशब्दः प्रसिद्धौ ।पुत्रसंज्ञस्य पुत्रः पौत्रः तस्य अपत्यं पौत्रायणः श्रद्धापुरस्सरं देयं यस्य सः श्रद्धादेयः ।अतिथिभ्यो बहु दातुं शीलमस्य स बहुदायी । बहु अस्य गेहेऽन्नं पक्तव्यं यस्य स बहुपाक्यः ।एवङ्गुणसम्पन्नो जानश्रुतिः कस्मिंश्चित् देशे आस । स ह सर्वतः आवसथान् मापयाञ्चक्रेसर्वतः एव मेऽन्नमत्स्यन्तीति । स ह – जानश्रुतिः ‘सर्वतः एत्य अतिथयो मम अन्नंभोक्ष्यन्ते’ इत्यभिप्रायेण सर्वासु दिक्षु ग्रामनगरमार्गारण्यादिषु पान्थानाम् अनाथानांशीतवातवर्षातपवारणान्नोदकशयनाच्छादनादिपूर्णाः शालाः कारितवान् इत्यर्थः ॥


[हंसकृतजानश्रुतिप्रशंसा]


अथ ह हँसा निशायामतिपेतुः । तद्धैवँ हँसो हँसमभ्युवाद, भो भोऽयिभल्लाक्ष ! भल्लाक्ष ! जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततम् । तन्मा‘प्रसाङ्क्षीः । तत् त्वा मा ‘प्रधाक्षी‘दिति ॥२॥


प्र–अथ ह हँसाः निशायामतिपेतुः । एवंसति कस्यांचित् रात्रौ केचनमहात्मानः अन्नदानादिगुणैः तोषिताः भूत्वा हंसरूपाः सन्तः राज्ञः दर्शनगोचरे आगताः ।तद्धैवं हंसो हंसमभ्युवाद । तत् – तस्मिन् काले तेषां हंसानां मध्ये एकः पृष्ठतोगच्छन् हंसः अग्रगामिनं कश्चन हंसम् उवाच । भो भोऽयि भल्लाक्ष……प्रधाक्षीदितिभो भो अयि इति सम्बोध्य, भल्लाक्ष भल्लाक्ष इत्यनेन विपरीतलक्षणया मन्दलोचन इतिसम्भ्रमेण द्विवारं सम्बोधनम् । समं दिवा – स्वर्गेण समम् , दिवा – दिवसेन समं वाअस्य राज्ञः तेजः प्रसृतम् । तत् – तस्मिन् तेजसि मा प्रसाङ्क्षीः – मा प्रसक्तो भूः ।प्रसक्तौ को दोषः इत्यत्राह – तत्त्वा मा प्रधाक्षीदिति । तत् – तेजः त्वां मा दहेत् इत्यर्थः । इतिअभ्युवाद इत्यन्वयः ॥


तमु ह परः प्रत्युवाच, ‘कम्वर एनमेतत्सन्तँ सयुग्वानमिव रैक्वमात्थे‘ति ।‘यो नु कथँ सयुग्वा रैक्व‘ इति ॥ ३ ॥


प्र.–तमु ह परः प्रत्युवाच । एवं जानश्रुतिप्रशंसारूपं वाक्यम् उपश्रुत्यतदसहमानः इव अपरो हंसः प्रत्युवाच इत्यर्थः । प्रत्युक्तिमेवाह – कं रैक्वमात्थेति । उ इतिअनर्थको निपातः । अरे कं सन्तं केन माहात्म्येन युक्तं सन्तम् एनं – जानश्रुतिं प्रतिसयुग्वानं – सशकटं रैक्वमिव – रैक्वं प्रतीव एतत् – प्रशंसावचनं प्रब्रूषि । रैक्वः एवब्रह्मज्ञो महाप्रभावः । अब्रह्मज्ञस्य अस्य किं तेजः किं वा मां दहेत् इति भावः ।एवमुक्तः पश्चात् ‘पतन्’ हंसः पृच्छति – यो नु कथं सयुग्वा रैक्व इति । यउक्तः, सः किं प्रकारः इत्यर्थः ॥


[रैक्कस्य महिमा]


‘यथा कृताय विजितायाधरेऽयाः संयन्ति, एवमेनँ. सर्वं तदभिसमेति, यत्किञ्च प्रजाः साधु कुर्वन्ति, यस्तद् वेद, यत् स वेद, स मयैतदुक्तः‘ इति ॥ ४ ॥

प्र.–इतरः आह – यथा कृताय विजितायाधरेऽयाः संयन्ति एवमेनं सर्वंतदभिसमेति इत्यादि । यथा लोके कृतनामा अयः द्यूतसमयप्रसिद्धः चतुरङ्कायः तत्रविजितं जयो यस्य सः कृतायविजितः पुरुषः, अथवा विजितं – विजयः । तस्मै इत्यर्थः ।तदर्थम् इतरे त्रिव्द्येकाङ्काः अधरे – न्यूनाः अयाः संयन्ति – सङ्गच्छन्ते, अन्तर्भवन्ति ।चतुरङ्के कृताय एकाङ्कद्वयङ्कत्र्यङ्कानां ‘शतं सहस्रे सम्भवति’ इति न्यायेन विद्यमानत्वात्‘तत्रान्त’र्भवन्ति इत्यतः कृताङ्कविजयिनः एकाङ्कादिविजयोऽपि अस्तीति भावः – एवमेवलोके प्रजाः, यत्साधु कुर्वन्ति यद्यत् शोभनं कर्म अनुतिष्ठन्ति तत् सर्वम् एनंकृतायस्थानीयं रैक्वमभिसमेति – सङ्गच्छते । तत्कर्मणि सकलं शोभनं कर्म अन्तर्गतम्इति यावत् । किञ्च यस्तद्वेद यत् स वेद स मयैतदुक्तः इति । सः रैक्वः यद्वेद, तदेवअन्योऽपि यः कश्चिद्वेद । तद्ज्ञातमेव अन्ये जानन्ति । तद्ज्ञाने सर्वज्ञानम् अन्तर्गतम्इत्यर्थः । सः – तादृशो रैक्वः मया एतत् – इदानीं ‘सयुग्वानमिव रैक्वमात्थ’ इत्युक्तःइत्यर्थः । वेदान्ताचार्यैः तत्त्वटीकायाम् अस्यार्थस्य प्रतिपादितत्वात् । उक्तञ्च भगवताभाष्यकृता ‘लोके यत् किञ्चित् साध्वनुष्ठितं कर्म, यञ्च सर्वचेतनगतं विज्ञानम् ,तदुभयं यदीयज्ञानकर्मान्तर्गतम् स रैक्व’ इत्याह इति ।

यदपि व्यासार्यैः लघुसिद्धान्ते, ‘आवृत्तिरसकृदुपदेशात्’ (ब्र.सू.४-१-१) इत्यत्र,यस्तद् वेद – यो वेदिता, यत् स वेद – यद्वेद्यम् , स मया एतदुक्तः स वेदिता रैक्वः,एतत् तद्वेद्यं ब्रह्म इत्येतदुभयं मया उक्तम् ; तव मया उपदिष्टम् इत्यर्थः इत्युक्तम् तदपिएतत्परं द्रष्टव्यम्। नतु प्रतीयमानार्थपरम् । यस्तद्वेद यत् स वेद इति वाक्यात्प्राचीने, यथा कृताय विजितायाधरेऽयाः संयन्ति, एवमेनं सर्वं तदभिसमेति यत्किञ्च प्रजाः साधु कुर्वन्ति इति वाक्ये ब्रह्मप्रसक्तेरेव अभावेन वेदिता वेद्यञ्च तवउपदिष्टम् इत्यस्य अर्थस्य असम्भवेन यस्तद्वेद यत् स वेद वाक्येन प्रतिपादनासम्भवात् ।भाष्यविरोधाच्च इति द्रष्टव्यम् ।

केचित्तु – भगवता भाष्यकृता लघुसिद्धान्तभाष्ये, ‘यस्तद्वेद यत् स वेद स मयाएतदुक्तम् इत्यत्र’ इति एतद्वाक्यप्रतीकस्य धृतत्वात् तदनुरोधेन व्यासार्यैः ‘स मयैतदुक्तमितिनपुंसकान्तपाठस्य गृहीततया तत्र नपुंसकस्य उक्तशब्दस्य स इति पुल्लिङ्गतच्छब्दविशेषणत्वा-योगात्, यस्तद्वेद यत्स वेद’ इति पुंनपुंसकान्तयच्छब्दद्वयनिर्दिष्टयोः वेत्तृवेद्ययोः समयैतदुक्तम् इत्यत्र क्रमेण प्रतिनिर्देशकयोः स ‘एतदिति पुंनपुंसकसर्वनामशब्दयोःश्रवणेन,’ सः वेदिता एतद् – वेद्यं परं ब्रह्म इत्येतदुभयं मयोक्तम् इत्यर्थस्यैववाक्यस्वारस्यलभ्यत्वाच्च स एवार्थो युक्तः इति व्यासाभिप्रायः । न च अत्रउदाहृतभाष्यविरोधः ; ‘प्रकाशश्च कर्मण्यभ्यासात्’ (ब्र.सू.३-२-२४) इति सूत्रे – “वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ।शरीरजैः कर्मदोषैर्याति स्थावरतां नरः” ॥ (म.स्मृ.१२-९)इति मनुस्मृतौ च मनोव्यापारात्मके वेदने कर्मशब्दप्रयोगदर्शनेन ‘यत् किञ्च प्रजाः साधुकुर्वन्ति’ इत्यनेनैव सर्वप्रजानुष्ठितसाधुकर्मणः इव सर्वचेतनगतज्ञानस्य अपि ग्रहणं सम्भवतिइत्यभिप्रायेणैव तत्र भाष्ये, ‘यत् किञ्चित् साध्वनुष्ठितं कर्म यञ्च सर्वचेतनगतं विज्ञानम्’ इतिकर्मापेक्षया ज्ञानस्य पृथङ्निर्देशात्। अत एव पूर्ववाक्ये ब्रह्मप्रसक्तिरेव नास्ति इत्यपिप्रत्युक्तम् । सर्वप्रजानुष्ठितसाधुकर्मणः सर्वचेतनगतज्ञानस्य च रैक्वज्ञानकर्मणोः स्वरूपेणअन्तर्भावस्य दुरुपपादतया कृताय अधरायदृष्टान्तस्वारस्येन च रैक्ववेदनविषये तत्कर्मोद्देश्यभूतेच सविभूतिकब्रह्मणि सर्वप्रजानुष्ठितकर्मोद्देश्यसर्वचेतनगतज्ञानविषययोः अन्तर्भावस्यैव वक्तव्यत्वेनपूर्ववाक्ये ब्रह्मप्रसक्तेः आवश्यकत्वात् । तत्त्वटीकाग्रन्थस्तु, ‘स मयैतदुक्तः’ इति पुल्लिङ्गान्तपाठेच सति तन्निर्वाहमात्राभिप्रायः । अतो व्यासार्यप्रतिपादितार्थः एव भगवद्भाष्यकृदभिमतःइति न कापि अनुपपत्तिः इत्याहुः ॥


तदु ह जानश्रुतिः पौत्रायण उपशुश्राव । स ह सञ्जिहान एव क्षत्तारमुवाच,‘अङ्गारे ! ह सयुग्वानमिव रक्वमात्थेति, ‘यो नु कथँ सयुग्वा रक्व इति ॥ ५ ॥


‘यथा कृतायविजितायाधरेऽयाः संयन्ति एवमेनँ सर्वं तदभिसमेति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद, यत् स वेद स मयैतदुक्त‘ इति ॥ ६ ॥


प्र.–तदुह जानश्रुतिः पौत्रायण उपशुश्राव । तत् – ब्रह्मज्ञानविधुरतयाआत्मनिन्दागर्भ तद्वत्तया च रैक्वप्रशंसारूपं वाक्यं सः राजा शुश्राव**।स ह सञ्जिहानएव क्षत्तारमुवाच।**सः कथमपि निशाम् अतिवाह्य सञ्जिहान एव – तल्यं त्यजतन्नेवक्षत्तारम् उवाच वक्ष्यमाणम् उक्तवान् । क्षत्ता नाम

“वैश्याद्ब्राह्मणकन्या क्षत्ता नाम प्रजायते ।

जीविकावृत्तिरेतस्य राजान्तःपुररक्षणम् ॥”

इत्युक्तरीत्या राजान्तःपुररक्षकः प्रतिलोमजातिविशेषः क्षत्ता । अङ्ग अरे ह सयुग्वानमिवरैक्कमात्थेति, यो नु कथं सयुग्वा रैक्व इति इत्यादि । ह अरे अङ्ग वत्स इति तं क्षत्तारंराजा सम्बोध्य रात्री एवं हंसयोः सल्लापः समजनि इति, सयुग्वानमिव रैक्वमात्थइत्यादिहंसोक्तिप्रत्युक्तिवाक्यानुवादपूर्वकं रैक्वस्य चिह्नम् उक्तवान् इत्यर्थः ॥


स ह क्षत्ताऽन्विष्य, ‘नाविद मिति प्रत्येयाय । तँ होवाच ; यत्रारेब्राह्मणस्यान्वेषणा तदेनमर्छेति ॥ ७ ॥


प्र. – स ह क्षत्ताऽन्विष्य, ‘नाविद मिति प्रत्येयाय । सः–क्षत्ता शकटलक्षणरैक्व-चिह्नम् अनुस्मरन् ग्रामनगरादिकम् अन्विष्य नाविदं – नाज्ञासिषम् इति प्रत्यागतवान् । तंहोवाच । यत्रारे ब्राह्मणस्यान्वेषणा, तदेननमर्छेति । अरे ! क्षत्तः ! ब्राह्मणस्यब्रह्मविदः यत्र ‘विजनेषु’ नदीपुलिनारण्यादिषु मार्गणं युक्तम्, तत् तत्र गत्वाएनमर्छ – रेवं प्राप्नुहि, मार्गणं कुरु इति तं राजा उवाच इत्यर्थः॥


सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश । तँ हाभ्युवाद, ‘त्वंनु भगवः ! सयुग्वा रक्व ‘ इति । ‘अहँ ह्य रा ३‘ ‘इति ह प्रतिजज्ञे‘ । स हक्षत्ता‘, अविदमिति प्रत्येयाय ॥ ८ ॥


॥ इति प्रथमः खण्डः ॥


प्र. – सोऽधस्तात् शकटस्य पामानं कषमाणमुपोपविवेश । अथ पुनः सः .क्षत्ता गत्वा विजने कस्मिंश्चिद्देशे शकटस्याधस्तात् पामानं कषमाणं – कण्डूयमानंरेक्वम् एत्य दृष्ट्वा उपोपविवेश – समीपे गत्वा विनयेन उपविष्टवान् । तं हाभ्युवाद, त्वंनु भगवः ! सयुग्वा रेक्व इति इत्यादि । ‘हे भगवन् ! त्वं वा रैक्वः’ ? इति क्षत्त्रापृष्टो ऋषिः अरे ! क्षत्तः ! रेक्वोऽहमेव इति प्रत्युवाच । तच्छ्रुत्वा सः क्षत्ता अहं रक्वम्अविदं – अज्ञासिषम् इति प्रत्यागतः इत्यर्थः ॥


॥ इति प्रथमखण्डभाष्यम् ॥


०२

वितीयः खण्डः


[रैक्वाय जानश्रुतेः धनाविधानम् ]


तदुह जानश्रुतिः पौत्रायणः षट् शतानि गवां निष्कमश्वतरीरथं तदादायप्रतिचक्रमे । तँ हाभ्युवाद ॥१॥


प्र–तदुह……प्रतिचक्रमे । उह इति अनर्थको निपातः तत्–तत्रजानश्रुतिः गवां षट् शतानि, निष्कं – कण्ठाभरणम् अश्वतरीयुक्तरथं तदा गृहीत्वा रैक्वं

प्रतिचक्रमे – गतवान् । तं हाभ्यवाद । गत्वा च राजा तं रैक्वम् इति उवाच इत्यर्थः ॥


रैक्वेमानि षट् शतानि गवाम्, अयं निष्कोऽयमश्वतरीरथः अनु मएतां भगवो! देवताँ शाधि, यं वा देवतामुपास्से इति ॥२॥


प्र–रैक्वेमानि षट् शतानि गवाम्, अयं निष्कोऽयमश्वतरीरथः । हे रैक्व!एतत्सर्वम् आनीतम् । तद्गृहाण त्वम् इत्यर्थः । अनु……उपास्से इति । एतद् गृहीत्वा, यांदेवतां त्वमुपास्से, तां देवतां मे अनुशाधि – विविच्य ज्ञापय इति प्रार्थयामास ॥


तमु ह परः प्रत्युवाच – अह हारेत्वा शूद्र ! तवैव सह गोभिरस्त्विति ।तदु ह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरंतदादाय प्रतिचक्रमे ॥३॥

प्र. – तमुह परः प्रत्युवाच । परः – रैक्वः तं – राजानं प्रत्युवाच । तदेवाह – अह हारेत्वाशूद्र ! तवैव सह गोभिरस्तु । अह इति निपातः आश्चर्ये । योगमहिमविदितलोकत्रयः ऋषिःजानश्रुतेः ब्रह्मज्ञानविधुरतानिमित्तानादरगर्भहंसवाक्यश्रवणेन शोकाविष्टतां, तदनन्तरमेवब्रह्मजिज्ञासया उद्योगं च विदित्वा अस्य ब्रह्मविद्यायोग्यताम् अभिज्ञाय सत्यामपियोग्यतायां चिरकालसेवां विना अर्थप्रदानेन शुश्रूषमाणस्य अस्य यावच्छक्तिप्रदानेनविना ब्रह्मविद्या प्रतिष्ठिता न भवति इति मत्वा तम् अनुगृह्णन् , अस्य शोकाविष्टताम्उपदेशयोग्यताख्यायिका, ब्रह्मजिज्ञासादार्ढ्यसिध्यर्थं स्वयोगमहिमसाक्षात्कृत-सकलवृत्तान्तत्त्वलक्षणस्वमहिमानं च शोचितृत्वप्रवृत्तिनिमित्तकशूद्रशब्दामन्त्रणेन ख्यापयन्,हारेत्वा – हारसहितः इत्वा – रथः अश्वतरीरथः – तवैव गोभिः सह अस्तु । कलत्रहीनस्यग्रामगृहादिशून्यस्य मम गोरथादिरक्षणे का शक्तिः ? मत्प्रयोजनापर्यवसाय्यल्पधनदानेनच कथं तव ब्रह्मविद्या प्रतिष्ठिता भवेत् इति उवाच इत्यर्थः । ‘स्फायितची’ (उ.सू.१७०)इत्यादिना रक्प्रकरणे पठितेन ‘शुचेर्दश्च’ (उ.सू.१७६) इति सूत्रेण रक्प्रत्यये, शुचेःचकारस्य दकारे, ‘अमितम्योर्दीर्घश्च’ (उ.सू.१८६) इति पूर्वसूत्रेण धातोः उकारस्यदीर्घादेशे च शूद्रशब्दो निष्पन्नो भवति ।

तदुह……प्रतिचक्रमे । तदभिप्रायं जानन् अधिकं गवां सहस्रं, रैक्वस्य परिणयार्थंस्वकन्याम् आवासार्थं तत्रत्यं ग्रामं च उपाजहार इत्यर्थः ॥


तँ हाभ्युवाद – रैक्वेदँ सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायाऽयंग्रामो यस्मिन्नास्से । अन्वेव मा भगवः शाधीति ॥ ४ ॥


प्र.–तँ ह……शाधीति । स्वोपहृतं सर्वं समर्प्य, मा मां अनुशाध्येव । नप्रत्याख्याहि इति प्रार्थयामास इत्यर्थः । यस्मिन् ग्रामे त्वम् आस्से – निवसिष्यसि,सोऽयं तव वासार्थः ग्रामः इत्यन्वयः ॥


तस्याह मुखमुपोद्गृह्णन्नुवाच – आजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथाइति । ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास, तस्मै होवाच ॥ ५ ॥


॥ इति द्वितीयः खण्डः ॥

प्र. – तस्याह……उवाच । मुखम् – उपायनरूपोपायं तस्य – जानश्रुतिसम्बन्धिनम्उपोद्गृह्णन् – अङ्गीकुर्वन् उक्तवान् इत्यर्थः । उक्तिमेवाह – आजहार…….आलापयिष्यथाइति । इमाः – दक्षिणाः आजहर्थ । आजहार इति व्यत्ययश्छान्दसः । अनेनैव मुखेन ।उपायेन मां ब्रह्मोपदेशरूपं वाक्यं आलापयिष्यसे । ब्रह्मविद्योपदेष्टारं करिष्यसि इत्यर्थः‘थासस्से’ (पा.सू.३-४-८०) इति एतदभावः छान्दसः । पुनरपि शूद्रेति सम्बोधनस्यपूर्ववदेव प्रयोजनम् । अत्र ‘शूद्रपदस्य’ न रूढ्या वर्णविशेषोऽर्थः । चतुर्थवर्णस्यब्रह्मविद्यायाम् अनधिकारात् इति द्रष्टव्यम् ।

ते……उवास । यत्र ग्रामेषु रैक्व उवास, ते महावृषाख्यदेशेषु रैक्वपर्णा इतिप्रसिद्धाः । तान् ग्रामांश्च अस्मै ददौ इत्यर्थः । स तस्मै होवाच । तत् सर्वं दत्तवतेजानश्रुतये रैक्वः स्वोपास्यां देवताम् उपदिदेश इत्यर्थः ॥


॥ इति द्वितीयखण्डभाष्यम् ॥


०३

तृतीयः खण्डः


[संवर्गविद्या – वायुप्राणयोः संवर्गत्वम्]

वायुर्वाव संवर्गः । यदा वा अग्निरुद्वायति, वायुमेवाप्येति । यदासूर्योऽस्तमेति, वायुमेवाप्येति । यदा चन्द्रोऽस्तमेति, वायुमेवाप्येति ॥ १॥


प्र. – उपदेशमाह – वायुर्वाव संवर्गः । ‘संवर्जननाम ‘गुणयोगाद्वायुः एव संवर्गः ।संवर्जनं – सङ्ग्रहणम् । एकीकृत्य ग्रहणम् इत्यर्थः । संवर्गत्वगुणको वायुः ध्येयः इतियावत् । संवर्गत्वमेव उपपादयति – यदा वा वायुमेवाप्येति । उद्वायति – उद्वासनंप्राप्नोति । विनश्यति इत्यर्थः । शिष्टं स्पष्टम् ॥


[वायुः अधिदैवतसंवर्गः]


यदाप उच्छुष्यन्ति, वायुमेवापियन्ति वायुर्ह्येवैतान् सर्वान् संवृङ्कइत्यधिदैवतम् ॥२॥

प्र.–यदापः……..संवृङ्के इति । अग्निसूर्यचन्द्राणां तेजोरूपाणां जलस्य च लयेवायौ एकीभावात् वायुः संवर्गः इत्यर्थः । प्रक्रमे हि ‘एनं सर्वं तदभिसमेति’ इत्यादिब्रह्मविद्याप्रशंसावगमात् वक्ष्यमाणलिङ्गानुपपत्तेश्च वायुशब्देन वायुशरीरकपरमात्मा उच्यते ।संवृङ्के – एकीकृत्य गृह्णाति इत्यर्थः । इत्यधिदैवतम् – एवं देवेषु संवर्गः अयम् इत्यर्थः ॥

[अध्यात्मसंवर्गः प्राणः]


अथाध्यात्मम् – प्राणो वाव संवर्गः । स यदा स्वपिति, प्राणमेव वागप्येति,प्राणं चक्षुः, प्राणँ श्रोत्रम् , प्राणं मनः, प्राणो ह्येवैतान् सर्वान् संवृङ्क इति ॥ ३ ॥


**प्र–**तथा प्राणः संवर्गः इत्याह – अथाध्यात्मम्, प्राणो वाव संवर्गः । तदुपपादयति –स यदा स्वपिति । सः–पुरुषः यदा – यस्मिन् काले स्वपिति, तदा तस्मिन् कालेप्राणमेव..….संवृङ्के । प्राणे वाक्चक्षुश्श्रोत्रमनसाम् एकीभावात् प्राणं संवर्गम् उपासीतइत्यर्थः । अत्रापि प्राणशब्दः तच्छरीरकपरमात्मपरो द्रष्टव्यः ॥


तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ ४ ॥

प्र.-उक्तमर्थम् उपसंहरति – तौ वा एतौ……प्राणेषु । स्पष्टोऽर्थः ॥

अथ ह शौनकञ्च कापेयमभिप्रतारिणञ्च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारीबिभिक्षे । तस्मा उह न ददतुः ॥ ५ ॥


प्र. – संवर्गविद्यास्तुत्यर्थम् आख्यायिका इयम् आरभ्यते’ – अथ ह बिभिक्षे -कपिगोत्रं शुनकपुत्रं च कक्षसेनसुतम् अभिप्रतारिनामानं च, तौ द्वौ सूपकारैः परिविष्यमाणौ -भोजनाय उपविष्टौ कश्चित् संवर्गोपासको ब्रह्मचारी भिक्षितवान् । तस्मा उह न ददतुः ।अयं ब्रह्मचारी संवर्गविद्यानिष्ठो दुरभिमानी यत् वक्ष्यति तत् श्रोष्यावः इति बुद्ध्या तस्मैतो भिक्षां न दत्तवन्तौ ॥


स होवाच –

महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपाः ।तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन् बहुधा बसन्तम् ॥

यस्मै वा एतदनम्, तस्मा एतन्न दत्तम् इति ॥ ६ ॥

.

प्र. – स होवाच । सः ब्रह्मचारी उवाच –महात्मनः……वसन्तम् ।अधिदैवतं महात्मनः अग्न्यादित्यचन्द्रजलरूपान् अध्यात्मं वाक्चक्षुःश्रोत्रमनोरूपान् चतुरःचतुस्संख्याकान् देवान् सर्वलोकस्य गोपाः – गोप्ता स एक एव देवो वायुप्राणरूपी कः-प्रजापतिः जगार – संहतवान् । हे कापेयाभिप्रतारिणौ । एवंभूतं प्रजापतिं बहुधाबहुरूपतया वसन्तं मर्त्याः – मरणधर्माणो अविद्या मोहिताः सन्तो न जानन्ति इत्यर्थः ।गोपाः – ‘गुपू रक्षणे’ (धा.पा.३९५) ‘असु प्रत्ययान्तः । यस्मै न दत्तमिति । जगत्सर्वंयस्मै – यस्य संवर्गस्य प्रजापतेः अन्नम्, तस्मै – भिक्षमाणाय मह्यम् अन्नं न दत्तम् । अतःकेऽपि न जानन्ति इति उपासनदार्ढ्यत्तोपास्यैक्यबुद्ध्या भिक्षमाणाय स्वस्मै अप्रदानमेवस्वोपास्यदेवतायै अप्रदानं मत्वा, ‘तस्मा एतन्न दत्तमिति’ तौ निन्दितवान् इत्यर्थः ॥


तदुह शौनकः कापेयः प्रतिमन्वानः प्रत्येयाय –‘आत्मा देवानां जनिता प्रजानाँ हिरण्यदंष्ट्रो बभसोऽनसूरिः ।महान्तमस्य महिमानमाहुरनद्यमानो यदनत्रमत्ति ।इति वै वयं ब्रह्मचारिन्नेदमुपास्महे ॥ दत्तास्मै भिक्षामिति ॥ ७ ॥

प्र. – तदुह……प्रत्येयाय । कापेयः शौनकः तत् – ब्रह्मचारिणोक्तं प्रतिमन्वानः-मनसा आलोचयन् तत्समीपं प्रत्येयाय – प्रत्यागत्य उवाच – आत्मा……अत्ति । देवानांआत्मा – नियन्ता, प्रजानाम् उत्पादकः, हिरण्यदंष्ट्रः – कमनीयदंष्ट्रायुक्तः, हिरण्यविदारकदंष्ट्रायुक्तःइति वा, बभसः–भक्षणशीलः, असुरसंहारकः इति यावत् । ‘असुरिः न भवति इतिअनसूरिः, विपश्चित् इति यावत् । अस्य च श्रीनृसिंहस्य परमात्मनो महिमानं महान्तमाहुः । यत्स्वयमन्यैः अनद्यमानः अनाश्यमानः अनन्नं – वागादिकं अत्ति – नाशयति । एवम्भूतःपरमात्मा एव संवर्गः । न त्वदुक्तः प्रजापतिः इत्यर्थः । अतो हे ब्रह्मचारिन् वयं न त्वदुक्त-प्रजापतिरूपं संवर्गम् उपास्महे । अपि तु इति वै – इत्येव ‘परमात्मानमेव’ । अतस्त्वंसंवर्गं न यथावज्जानासि इत्युक्त्वा अस्मै भिक्षां दत्त – प्रयच्छत इति परिचारकान् आहतुःइत्यर्थः । अनेन संवर्गविद्यायाः वायुप्राणशरीरकपरमात्मपरत्वम् आविष्कृतं भवति ॥


तस्मा उह ददुः । ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तः तत् कृतम् ।तस्मात् सर्वासु विक्ष्वन्नमेव दशकृतम् । सैषा विराडन्नादी । तयेदँ सर्वं दृष्टम् ।सर्वमस्येदं दृष्टं भवत्यन्नादो भवति, य एवं वेद य एवं वेद ॥ ८ ॥


॥ इति तृतीयः खण्डः ॥


प्र.- तस्मा उह ददुः । तस्मै – ब्रह्मचारिणे परिचारकाः भिक्षा ददुः इत्यर्थः ।संवर्गविद्यास्तुतये तत्सम्बन्धिपदार्थान् कृतायत्वेन विराट्त्वेन अन्नत्वेन अनादित्वेन चस्तौति – ते वा एते तत् कृतम् । अधिदैवतम् अग्न्यादित्यचन्द्रजलरूपाः पदार्थाःअपियन्तः चत्वारः अपीयमानो वायरेकः इति पञ्च, अध्यात्मं वागाद्या अपियन्तः चत्वारःअपीयमानः प्राण एक इति पञ्च आहत्य दशत्वसंख्यां प्राप्ताः सन्तः कृतायतां भजन्ते।कृतसंज्ञे’ तस्मिन् अये चतुरंकायत्र्यंकायव्द्यंकायैकांकायानाम् अनुप्रविष्टतया दशांकत्वम् ।एकस्य द्वयोः त्रयाणां चतुर्णां च ‘समावेशात् दशत्वसंख्यासम्भवात् इति भावः ।तस्मात्…….दशकृतम् । तस्मात् हेतोः संवर्गविद्योपास्य दशत्वसंख्यारूपतया कृतायरूपंसत् दशसु दिक्षु विद्यमानम् अन्नमेव भवति । ‘दशाक्षरा विराट्’, ‘अन्नं विराट्’ इति श्रुतेः ॥

सैषा विराडन्नादी । दशत्वसंख्याश्रयत्वात् , ‘दशाक्षरा विराट्’ इति विराट्छन्दोभवति । अन्नमत्ति इति अन्नादी । कृतसंज्ञके अये दशसंख्यायाः भक्ष्यवदन्तर्भूतत्वात्दशत्वसंख्यायाश्च विराट्त्वात् विराजश्च अन्नत्वात् दशत्वसंख्यागर्भककृतायस्थानीयस्यसंवर्गविद्योपास्यस्य पञ्चान्ये पञ्चान्ये इति निर्दिष्टस्य अस्य अन्नादित्वमपि अस्ति इत्यर्थः ।तयेदं सर्वं दृष्टम् । तया–विराजा उपासितया इदं सर्वं – दशदिग्वर्तिपदार्थजातंदशत्वसंख्यासाम्यात् दृष्टम् – भवति उपासितं भवति इत्यर्थः । तदुपासनस्य फलमाहसर्वमस्य वेद । एतदुपासकस्य सार्वज्ञ्यं ब्रह्मलक्षणान्नानुभवश्च भवति इत्यर्थः ।

विद्यासमाप्तिद्योतकं द्विवचनम् ।व्यासार्यैस्तु, ‘छन्दोभिधानात्’ (ब्र.सू.१-१-२६) इति सूत्रे अन्नात् इति पाठमाश्रित्यअन्नं च तत् अत्ति इत्यन्नादिति भोक्तृत्वभोग्यत्वाश्रयपरमात्मपरतया व्याख्यातम् ।अस्याः संवर्गविद्यायाः परमात्मपरत्वमेव ; न प्रसिद्धवायुप्राणविषयत्वम् । ‘यथाकृताय विजितायाधरेऽयाः संयन्ति’ इत्यादिना संवर्गविद्यानिष्ठरैक्वप्रभावे सर्वेषाम् अन्तर्भाववर्णनात् ।

‘आत्मा देवानां जनिता प्रजानां हिरण्यदंष्ट्रो बभसोऽनसूरिः ।महान्तमस्य महिमानमाहुरनद्यमानो यदनन्नमत्ति” ॥

इति इतराविनाश्यत्वे सति सकलविनाशकत्व-सर्वसम्प्रतिपन्नमहामहिमशालित्व -सर्वदेवनियन्तृत्व-ब्रह्मादिसकलप्रजोत्पादकत्व-हिरण्यदंष्ट्रत्वाद्युपलक्षितनरसिंहविग्रहवत्त्वादिप्रतिपादनात्, ‘वै वयं ब्रह्मचारिन्नेदमुपास्महे’ इति कशब्दितप्रजापत्यात्मकसंवर्गप्रत्याख्यानाच्चपरमात्मविषया एव इयं विद्या इति द्रष्टव्यम् ।

एतत्खण्डान्तर्गतवाक्यविषयकमधिकरणमुपन्यस्यते –समन्वयाध्याये – जानश्रुतिं शूद्र इति आमन्त्र्य रैक्वो ब्रह्मविद्याम् उपदिदेश इतिसंवर्गविद्यायां श्रवणात्, विदुरादीनां ब्रह्मविद्या निष्ठानामपि दर्शनात्, अग्निविद्यासाध्ययज्ञादिषुअग्निविद्याशून्यानां शूद्राणां कर्मकाण्डापशूद्राधिकरणन्यायेन अधिकाराभावेऽपि ब्रह्मोपासनेअधिकारः संभवत्येव । न च शूद्रस्य ब्रह्मोपासनोपयुक्तज्ञानासंभवः शङ्कनीयःइतिहासपुराणादिना तज्ज्ञानसम्भवात् । न चैवं यज्ञादिष्वपि तथा प्रसङ्गः – अग्न्यभावात् ।‘तस्माच्छूद्रो यज्ञेऽनवकॢप्तः’ (तै.सं.८-१-६) इति यज्ञानुष्ठानस्य निषिद्धतया च तस्यतदसम्भवेऽपि संवर्गविद्यागतशूद्रशब्दामन्त्रणलिङ्गानुग्रहात् ब्रह्मोपासनाधिकारः अङ्गीकर्तव्यःएव इति पूर्वपक्षे प्राप्ते –उच्यते – ‘शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि’ (ब्र.सू.१-३-३३)।शोचितृत्वप्रवृत्तिनिमित्तकेन शूद्रशब्देन जानश्रुतेः, ‘कम्वर एनमेतत् सन्तं सयुग्वानमिवरैक्वमात्थेति’ हंसोक्तानादरगर्भवाक्यश्रवणात् तदाद्रवणहेतुभूतात् उत्पन्ना शुक् सूच्यते ;न चतुर्थवर्णत्वम् । यौगिकार्थस्य प्रकृतस्य मानान्तराविरुद्धस्य ग्रहणसम्भवेमानान्तरविरुद्धस्य रूढ्यर्थस्य अग्राह्यत्वात् । शूद्रस्य ब्रह्मोपासनौपयिकवैदुष्यलक्षण-सामर्थ्यासम्भवाच्च न ब्रह्मविद्यायाम् अधिकारः । वैदिकविधीनाम् अध्ययनविधिलब्ध-सिद्धवेदजन्यज्ञानवत्त्रैवर्णिकाधिकारिणः आसाद्य निवृत्तानां शूद्राधिकारानाक्षेपकत्त्वात्इति न्यायस्य यज्ञोपासनयोः अविशेषात् ‘तस्माच्छूद्रो यज्ञेऽनवकॢप्तः’ इत्यस्यन्यायसिद्धैकदेशानुवादित्वेन तस्य विनिगमकत्वासम्भवात् ।

‘क्षत्रियत्वगतेश्च’ (ब्र,सू.१-३-३४) । पक्वान्नप्रदत्वराजान्तः पुररक्षकक्षत्तृप्रेषण-रैक्वकन्याप्रदान-अनेकग्रामप्रदानादिना जानश्रुतेः क्षत्रियत्वावगतेश्च । एतेषां क्षत्रियधर्मत्वस्यएव शास्त्रीयत्वात् ‘उत्तरत्र चैत्ररथे न लिङ्गात्’ (ब्र.सू.१-३-३५) । संवर्गविद्यासम्बन्धिनःअभिप्रतारिनाम्नः चित्ररथवंश्यस्य क्षत्रियस्य तादृशेन संवर्गविद्यानिष्ठेन ब्राह्मणेन शौनकेनकापेयेन साहचर्यदर्शनात् इहापि संवर्गविद्यासंबन्धी, रैक्वेन ब्राह्मणेन सहचरितजानश्रुतिरपिक्षत्रियः एव इत्यवसीयते । न तु अभिप्रतारिणः क्षत्रियत्वं कुतोऽवसीयते इति चेत् .

चित्ररथवंश्यत्वात् । न च तदपि कुतः अवसितमिति वाच्यम् – कापेययाज्यत्वात्लिङ्गात् । न च कापेययाज्यत्वेऽपि चित्ररथवंश्यत्वं कुतः इति वाच्यम् – एतेन वैचित्ररथं कापेया अयाजयन्’ (तां.ब्रा.२०-१२-५) इति ‘छन्दोग’ ब्राह्मणे चित्ररथस्यकापेययाज्यत्वश्रवणात् ।

ननु अभिप्रतारिणः कापेययाज्यत्वं वा कुतो अवसीयते । ‘शौनकञ्चकापेयमभिप्रतारिणञ्च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे’ इति एकपङ्क्त्युपवेशमात्रस्यश्रवणात् । नानादेशागतानां परस्परसम्बन्धशून्यानाम् अपि एकपङ्क्त्युपवेशसम्भवात् ।अस्तु वा कथञ्चित् याज्ययाजकभावः । तावता छन्दोगब्राह्मणे चित्ररथस्य कापेययाज्यत्वश्रवणेनचित्ररथत्वमेव सिद्ध्येत्, न तु तद्वंश्यत्वमिति चेत् – उच्यते । कापेयाभिप्रतारिणोःकॢप्तसम्बन्धयोः एकपङ्क्त्युपवेशस्य उदितत्वात् कापेयानां चित्ररथवंश्यानां चयाज्ययाजकसम्बन्धस्य अन्यत्र प्रसिद्धत्वात् अभिप्रतारी अपि कापेययाज्यचित्ररथर्वश्यः‘इत्यव ‘सीयते । न च कापेययाज्यतया चित्ररथत्वमेव अस्तु इति शंक्यम् -अभिप्रतारिसंज्ञावरुद्धे चित्ररथसंज्ञानिवेशासम्भवात् । नायं चित्ररथः अपि तु तद्वंश्यः,समानान्वयानां याज्ययाजकभावस्य लोकवेदप्रसिद्धत्वात् । न च कापेययाज्यस्य चित्ररथस्यक्षत्रियत्वे किं प्रमाणम् इति वाच्यम् – ‘एतेन वै चित्ररथं कापेया अयाजयन् ।तस्माच्चैत्ररथो नामैकः क्षत्रपतिरजायत’ (ता.ब्रा.२०-१२-५) इति चित्ररथोत्पन्नस्यक्षत्रियत्वावेदनात् ।ततश्च उत्तरत्र ब्राह्मणक्षत्रिययोः शौनकाभिप्रतारिणोः संवर्गविद्यासंबन्धश्रवणात्इहापि तद्विद्यासम्बन्धिनोः रैक्वजानश्रुत्योः ‘ब्राह्मण क्षत्रियत्वम् अवसीयते ।‘संस्कारपरामर्शात् तदभावाभिलापाच्च (ब्र.सू.१-३-३६) । ब्रह्मविद्योपदेश-प्रदेशेषु, ‘उप त्वा नेष्ये ; ‘न सत्यादगाः इति’ (छां.उ.७-१-१) ‘तं होपनिन्ये’ (शत.ब्रा.११-५-३-१३) ‘अधीहि भगव इति होपससाद सनत्कुमारं नारदः’ (छां.उ.७-१-१) ‘समित्पाणयोभगवन्तं पिप्पलादमुपसन्नाः’ (प्र.उ.१-१-१) इति संस्कारः परामृश्यते । शूद्रस्यसंस्काराभावोऽभिलप्यते, ‘शूद्रश्चतुर्थो वर्ण एकजातिः’ (महा.भा.१०-४) ‘न शूद्रे पातकंकिञ्चित् न च संस्कारमर्हति’ (महा.भा.१०-१२६) इति ।‘तदभावनिर्धारणे च प्रवृत्तेः’ (ब्र.सू.१-३-३७) । शूद्रत्वाभावनिर्धारणे सत्येवविद्योपदेशाय प्रवृत्तिः दृश्यते, ‘नैतदब्राह्मणो विवक्तुमर्हति । समिधं सोम्याहर । उपत्वा नेष्ये । न सत्यादगाः’ (छां.उ.४-४-५) इति ।‘श्रवणाध्ययनार्थप्रतिषेधात्’ (ब्र.सू.१-३-३८) । ‘पधु ह वा एतत् श्मशानं, यच्छूद्रः ।तस्माच्छूद्रसमीपे नाध्येतव्यम्’ (वा.धर्म.१८-११) इति शूद्रस्य वेदश्रवणप्रतिषेधेन तदध्ययन -तदर्थानुष्ठानयोः सुतरां प्रतिषेधात् ।

‘स्मृतेश्च’ (ब्र.सू.१-३-३८)। अथ हास्य वेदमुपशृण्वतः त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्,उदाहरणे जिह्वाच्छेदः, धारणे शरीरभेदः’ (गौ.ध.सू.१२-५-६) इति स्मृत्या च श्रवणादिकंशूद्रस्य प्रतिषिद्धम् । अतो न ब्रह्मविद्यायां शूद्रस्य अधिकारः। विदुरादयस्तुभवान्तराधिगतज्ञानाप्रमोषात् ज्ञानवन्तः । प्रारब्धकर्मवशाच्च ईदृशजन्मयोग इति तेषांब्रह्मनिष्ठत्वम् । ननु शूद्राणां ब्रह्मोपासनानधिकारे पञ्चरात्राद्यागमोक्ततान्त्रिकमन्त्रानु- सन्धानपूर्वकब्रह्मोपासनेऽपि अधिकारः न स्यात् । नारदस्य शूद्रजन्मनि महर्षिवचनात्अनुष्ठितम् अच्युतोपासनमपि अप्रामाणिकं स्यात् इति चेत् – न हि ब्रह्मोपासनमात्रे शूद्रस्यअनधिकारे ब्रूमः ; अपितु संवर्गविद्यादिषु वैदिकेषु उपासनेषु । अतो नात्र तद्दोषशंकावकाशः ।

ननु ‘सम्बन्धादेवमन्यत्रापि’ (ब्र.सू.३-३-२०) इत्यधिकरणे व्याहृतिविद्यायाःअध्यात्माधिदैवतस्थानभेदेन भेदस्य प्रतिपादितत्वात् संवर्गविद्यायाः अपिअध्यात्माधिदैवतस्थानभेदेन भेदः स्यात् । न च इष्टापत्तिः, ‘अनु म एतां भगवो देवतां शाधियां देवतामुपास्से’ इति ब्रह्मविद्यामात्रार्थिने जानश्रुतये विद्याद्वयोपदेशस्य अयुक्तत्वात् इतिचेत् मैवम् – व्याहृतिविद्यायाम् , ‘य एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्’ (बृ.उ.५-५-२)इत्यत्र इव वायौ, प्राणे इत्येवं वायुप्राणयोः स्थानत्वेन निर्देशाभावात् स्थानभेदप्रयुक्त –विद्याभेदाप्रसक्तेः । ‘यां देवतामुपास्से’ इति रेक्वोपास्यदेवताप्रश्नस्य उपासनप्रकारपर्यन्तत्त्वात्तत्प्रकारे पृष्टे, रैक्वोपास्यसंवर्गस्य देवतात्मलक्षणस्थानभेदेन उपासनाद्वयसम्बन्धम् अभिप्रेत्यउपासनाद्वयोपदेशे दोषाभावाञ्च । न च, ‘विकल्पोऽविशिष्टफलत्वात्’ (ब्र.सू.३-३-५७) ।इति न्यायेन रैक्वस्य विद्याद्वयानुष्ठानाभावात् स्वानुष्ठीयमानविद्यामात्रोपदेशः एव युक्तः ।नाधिकः इति वाच्यम् – अप्रयोजकत्वात् । परोपदेशे स्वावगतेः एव प्रयोजकत्वेनंस्वानुष्ठानस्य अप्रयोजकत्वात् इति स्थितम् । प्रकृतमनुसरामः ॥


॥ इति तृतीयखण्डभाष्यम् ॥


०४

चतुर्थः खण्डः


[षोडशकलब्रह्मविद्या]


[जाबालसत्यकामोपाख्यानम्]


सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे – ब्रह्मचर्यं भवति !विवत्स्यामि । किंगोत्रोऽहमस्मीति ॥ १ ॥

प्र. – षोडशकलब्रह्मविद्या प्रस्तौति – सत्यकामो……चक्रे । ह इति ऐतिह्यार्थः ।जबालासुतः सत्यकामनामा जबालां मातरम् आमन्त्रितवान् । किमिति इत्यत्राहब्रह्मचर्यं……अहमस्मीति । हे भवति ! स्वाध्यायग्रहणाय आचार्यकुले ब्रह्मचर्यंविवत्स्यामि । मे गोत्रं किमिति पृष्टवान् ॥


सा हैनमुवाच – नाहमेतद्वेद तात! यद्गोत्रस्त्वमसि । बह्वहं चरन्ती परिचारिणीयौवने त्वामलभे । साऽहमेतन्न वेद, यद्गोत्रस्त्वमसि । जबाला तु नामाहमस्मि ।सत्यकामो नाम त्वमसि । स सत्यकाम एव जाबालो ब्रवीथा‘ इति ॥ २ ॥


प्र.–सा……ब्रवीथा इति । अहं भर्तृगृहे अतिथ्यभ्यागतादिभ्यो बहुपरिचर्याजातंचरन्ती परिचारिणी – गुर्वादिपरिचरणशीला च सती तव्द्यासङ्गेन गोत्रानभिज्ञा एव यौवनकालेत्वां लब्धवती । अतः गोत्रं न जाने । अतः जाबालायाः पुत्रः सत्यकामनामा अहमस्मि ।नाहं गोत्रं वेद इति गुरुसमीपे ब्रूहि इत्युक्तवती इत्यर्थः ॥


स ह हारिद्रुमतं गौतममेत्योवाच – ब्रह्मचर्यं भगवति वत्स्यामि उपेयांभगवन्तमिति ॥३॥


प्र.–सः उवाच । अथ सः सत्यकामः हरिद्रुमत्पुत्रं गोत्रतोगौतममेत्य उक्तवान् । उक्तिमेवाह – ब्रह्मचर्यं…. भगवन्तमिति । भगवतिपूजावति त्वयि ब्रह्मचर्य वत्स्यामि शिष्यत्वेन भगवन्तम् उपगच्छानि इत्युक्तवान् ॥


तँ होवाच – किंगोत्रो नु सोम्यासीति । स होवाच, नाहमेतद्वेद भो !यद्गोत्रोऽहमस्मि । अपृच्छं मातरम् ! सा मा प्रत्यब्रवीत् – बह्वहं चरन्तीपरिचारिणी यौवने त्वामलभे । साऽहमेतन्न वेद, यद्गोत्रस्त्वमसि । जबाला तुनामाहमस्मि । सत्यकामो नाम त्वमसीति । सोऽहँ सत्यकामो जाबालोऽस्मिभो इति ॥ ४ ॥

प्र. – तं……असीति । हे सोम्य ! किंगोत्रस्त्वम् ? ज्ञातकुलगोत्रः उपनेतव्यः ।अन्ततः शूद्रत्वाभावो वा (हि) निश्चेतव्य इत्यभिप्रायः । स होवाच । सः सत्यकामःप्रत्युवाच इत्यर्थः । तदेवाह – न भोः इति । स्पष्टोऽर्थः ॥

[सत्यकामस्य प्रतिज्ञा]


तँ होवाच – नैतदब्राह्मणो विवक्तुमर्हति । समिधँ सोम्याहर । उपत्वानेष्ये । न सत्यादगा इति । तमुपनीय कृशानामबलानां ‘चतुःशता‘ गा निराकृत्योवाचइमाः सोम्यानुसंव्रजेति । ता अभिप्रस्थापयत्रुवाच – नासहस्त्रेणावर्तेयेति । स हवर्षगणं प्रोवास । ता यदा सहस्त्रं संपेदुः ॥५॥


॥ इति चतुर्थः खण्डः ॥

प्र–तं……होवाच । तं गौतमः प्रत्युवाच । किमिति । नैतद् इति । एतत्एतादृशम् आर्जवयुक्तं वचः न अब्राह्मणः विशेषेण वक्तुम् अर्हति । अत्र ब्राह्मणशब्दःत्रैवर्णिकमात्रपरः । अब्राह्मणः – अत्रैवर्णिकः शूद्रः इति यावत् । शूद्रो न विवक्तुम्अर्हति ः शूद्राणां कुटिलस्वभावत्वात् इति भावः । हे सोम्य ! उपनयनसंस्कारार्थंसमिधम् आहर । त्वाम् उपनेष्ये न सत्यादगाः सत्यं नातिक्रान्तवानसि । सत्यमेवउक्तवान् असि । अतः त्वाम् उपनेष्ये इत्यर्थः । सूत्रितञ्च, ‘तदभावनिर्धारणे च प्रवृत्तेः’(न.सू.१-३-३७) इति । शूद्रत्वाभावनिश्चये सत्येव, ‘उपत्वा नेष्ये’ इत्युपनयनप्रवृत्तेःदर्शनात् इत्यर्थः । अतः अब्राह्मणशब्दः शूद्रपरः तमुपनीय – उवाच । तमेवम् आचार्यःउपनीय कृशानाम् अबलानां गवां मध्ये अतिदुर्बलानि कृशानि गवां चत्वारि शतानिनिराकृत्य – पृथक्कृत्य इदं वक्ष्यमाणम् उवाच इत्यर्थः । इमा…….व्रजेति । हे सोम्य ।सोमार्ह ! इमाः गाः अनुगच्छ इत्युवाच इत्यर्थः । ताः……आवर्तेयेति । सः सत्यकामः****‘सहस्रसंख्यापूरणात् प्राक् न प्रतिनिवृत्तः भवानि’ इति, गाः अरण्यम् अभिप्रस्थापयन्उवाच इत्यर्थः । स ह वर्षगणं प्रोवास । चिरकालं तृणोदक’ पूर्ण वने गाः प्रवेश्यउषितवान् । ताः……. सम्पेदुः । यस्मिन्काले ताः सहस्रं सम्पन्नाः बभूवुः, तावन्तंवर्षगणं वने उषितवान् इत्यर्थः ॥

॥ इति चतुर्थखण्डभाष्यम् ॥


०५

पञ्चमः खण्डः


[ऋषभेण सत्यकामाय चतुष्कलैकपादोपदेशः]


अथ हैनमृषभोऽभ्युवाद – सत्यकामा ३ इति । भगव इति ह प्रतिशुश्राव ।प्राप्ताः सोम्य सहस्रँ स्मः । प्रापय न आचार्यकुलम् ॥ १ ॥


प्र.–अथ……इति । एवं गवां रक्षणेन प्रीतदेवताविशेषाधिष्ठितः ऋषभःसत्यकामा ३ इति अभ्यवाद -आमन्त्रितवान् । सत्यकामा ३ इति ‘दूराद्धूते च’(पा.सू.८-२-८४) इतिप्लुतः । भगव इति ह प्रतिशुश्राव । प्रतिशुश्राव – प्रत्युत्तरंददौ । सत्यकामः इति शेषः। ऋषभः आह – प्रापय आचार्यकुलम् । सहस्रं .सहस्रसंख्यां वयं प्राप्ताः स्मः । तव प्रतिज्ञा च निर्व्यूढा । अस्मान् आचार्यकुलं प्रापयइत्यर्थः ॥


ब्रह्मणश्च ते पादं ब्रवाणीति । ब्रवीतु मे भगवानिति । तस्मै होवाच‘प्राची दिक् कला ; प्रतीची दिक् कला; दक्षिणा दिक् कला; उदीची दिक्कला । एष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान् नाम‘ ॥ २ ॥


प्र.–ब्रह्मणश्च ते पादं ब्रवाणीति । प्रीतश्च तेऽहं ब्रह्मणः पादं ब्रवाणीतिवृषभ उवाच इत्यर्थः । इतर आह – ब्रवीतु मे भगवानिति । तस्मै होवाच । ऋषभइति शेषः । किमिति ।**प्राची..नाम । कलाः-.**अवयवाः, एकैकस्य हि गोः पादस्य चत्वारःअवयवाः पुरतः खुरद्वयं, पृष्ठतः पार्ष्णिद्वयं च । अतः पादः चतुष्कलो भवति । अतःप्रागादिदिक्चतुष्टयं ब्रह्मणः पादत्वेन प्रकाशवन्नामकत्वेन च उपास्यम् इत्यर्थः ॥


[चतुष्कलैकपादोपासनस्य फलम् ]


‘स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणः, प्रकाशवानित्युपास्ते,प्रकाशवानस्मिन् लोके भवति । प्रकाशवतो ह लोकान् जयति, य एतमेवंविद्वाँश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते” ॥ ३ ॥


॥ इति पञ्चमः खण्डः ॥


प्र. – एतं – पादम् उक्तप्रकारेण य उपास्ते, स इह लोके प्रकाशवान् भवति इत्यर्थः ।न एतावन्मानं फलम् इत्याह – प्रकाशवतो ह लोकान् जयति इत्यादिना । कस्य इदंफलम् इत्यत्र उक्तम् अधिकारिणम् उपसंहरति – य एतमेवं विद्वाँश्चतुष्कलं पादंब्रह्मणः प्रकाशवानित्युपास्ते । उक्तोऽर्थः ॥


॥ इति पञ्चमखण्डभाष्यम् ॥


०६

षष्ठः खण्डः


[अग्निना सत्यकामाय ब्रह्मणः द्वितीयपादोपदेशः]


‘अग्निष्टे पादं वक्ते‘ति । स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार । तायत्राभिसायं बभूवुः । तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेःप्राङ्मुखोपविवेश ॥१॥

प्र.–अग्निष्टे पादं वक्तेति । एवं स्वयं पादम् उक्त्वा पादान्तरम् अग्निःउपदेक्ष्यति इत्युक्त्वा ऋषभः तूष्णीं बभूव इत्यर्थः । सः विवेश । स ह– सत्यकामःश्वोभूते – अपरेधुः नित्यनैमित्तिकं कर्म कृत्वा आचार्यकुलाभिमुख्येन गाः प्रस्थाप्य –सर्वाः गावः यत्र – देशे सायंकाले अभिबभूवुः – परितः स्थिताः भवन्ति । तत्र अग्निम्आहत्य गाश्च उपरुध्य सन्ध्याम् उपास्य समिदाधानं कृत्वा ऋषभवचः ध्यायन् अग्नेः पश्चात्प्राङ्मुखः उपविष्टवान् इत्यर्थः ॥


तमग्निरभ्युवाद सत्यकामा ३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥


प्र.-तमग्निरभ्युवाद इत्यर्थः । तं एवम् उपविष्टं सत्यकामम् अग्निःआमन्त्रयाञ्चकार इत्यर्थः । शिष्टं स्पष्टम् ॥


ब्रह्मणः सोम्य ! ते पादं ब्रवाणीति । ब्रवीतु मे भगवानिति । तस्मैहोवाच – ‘पृथिवी कला, अन्तरिक्षं कला, द्यौः कला, समुद्रः कला । एष वैसोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान् नाम‘ ॥ ३ ॥

प्र.-ब्रह्मणः सोम्य ! ते पादं ब्रवाणीति इत्यादि । पादं द्वितीयम् इत्यर्थः ।अनन्तवान्नाम अनन्तवन्नाम्ना उपास्यः इत्यर्थः ॥


[द्वितीयपादोपासनस्य फलम्]

‘स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिन् लोके भवति । अनन्तवतो ह लोकान् जयति, य एतमेवं विद्वाँश्चतुष्कलंपादं ब्रह्मणोऽनन्तवानित्युपास्ते’ ॥ ४ ॥

॥ इति षष्ठः खण्डः ॥

प्र. – फलमाह – सः……भवति । अनन्तवान् – केनचिदपि पारं गन्तुम् अशक्यःइत्यर्थः । अजेयः इति यावत् । अनन्तवतो ह लोकान् जयति । अनन्तवतःअविनाशिनः इत्यर्थः । शिष्टं स्पष्टम् ॥


॥ इति षष्ठखण्डभाष्यम् ॥


०७

सप्तमः खण्डः


[हसंस्य सत्यकामाय तृतीयपादोपदेशः]


हँसस्ते पादं वक्तेति । स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार । तायत्राभिसायं बभूवुः तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेःप्राङ्पोपविवेश ॥१॥


प्र. – हंसस्ते पादं वक्तेति, इत्यादि । सर्वं स्पष्टम् ॥तँ हँस उपनिपत्याभ्युवाद, सत्यकामा ३ इति । भगव इति ह प्रतिशुश्राव ॥२॥


ब्रह्मणः सोम्य ! ते पादं ब्रवाणीति । ब्रवीतु मे भगवानिति । तस्मैहोवाच ‘अग्निः कला, सूर्यः कला, चन्द्रः कला, विद्युत्कलैष वै सोम्य !चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान् नाम ॥३॥


स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते,ज्योतिष्मानस्मिल्लोके भवति । ज्योतिष्मतो ह लोकाञ्जयति, य एतमेवं विद्वाँश्चतुष्कलंपादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४ ॥


॥ इति सप्तमः खण्डः ॥


प्र.–ज्योतिष्मानस्मिन्लोके भवति । तेजस्वी भवति इत्यर्थः । ज्योतिष्मतोह लोकान् जयति । अग्निसूर्यादिलोकान् इत्यर्थः ॥ ४ ॥


॥ इति सप्तमखण्डभाष्यम् ॥

०८

अष्टमः खण्डः


[मद्गोः सत्यकामाय चतुर्थपादोपदेशः, तस्य फलञ्च]


मद्गुष्टे पादं वक्तेति । स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार । तायत्राभिसायं बभूवुः, तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेःप्राङुपोपविवेश ॥१॥


तं मद्गुरुपनिपत्याभ्युवाद, सत्यकामा ३ इति । भगव इति ह प्रतिशुश्राव ॥ २॥


ब्रह्मणः सोम्य ! ते पादं ब्रुवाणीति । ब्रवीतु मे भगवानिति । तस्मैहोवाच प्राणः कला, चक्षुः कला, श्रोत्रं कला, मनः कला । एष वै सोम्य !चतुष्कलः पादो ब्रह्मणो आयतनवान् नाम ॥ ३ ॥


स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मण आयतनवान् इत्युपास्ते,आयतनवानस्मिन् लोके भवति । आयतनवतो ह लोकान् जयति, य एतमेवंविद्वाँश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ ४ ॥


॥ इति अष्टमः खण्डः ॥


प्र.–मद्गुष्टे पादं वक्तेति । मद्गुः जलपक्षिविशेषः । हंसमद्गू अपिवृषभवदेव देवताविष्टौ द्रष्टव्यौ ॥ १-२-३॥आयतनवान् – आश्रयवान् भवति इत्यर्थः । आयतनवतः -सावकाशान् इत्यर्थः ।शिष्टं पूर्ववत् ॥ ४ ॥


॥ अष्टमखण्डभाष्यम् ॥


०९

नवमः खण्डः


[गुरुणा सत्यकामाय घोडशकलोपदेशः]


प्राप हाचार्यकुलम् । तमाचार्योऽभ्युवाद सत्यकामा ३ इति । भगव इतिह प्रतिशुश्राव ॥ १ ॥

प्र. – प्राप हाचार्यकुलम् । गोभिः सह सत्यकामः इति शेषः । शिष्ट स्पष्टम् ॥


ब्रह्मविदिव वै सोम्य भासि ; कोनु त्वाऽनुशशासेति । अन्ये मनुष्येभ्यइति ह प्रतिजज्ञे । भगवाँस्त्वेव मे कामे ब्रूयात् ॥ २ ॥


प्र. – ब्रह्मविदिव वै सोम्य भासि कोऽनु त्वाऽनुशशासेति । को वा ते ब्रह्मउपदिष्टवान् इत्यर्थः । शिष्ट स्पष्टम् । अन्ये मनुष्येभ्य इति ह प्रतिजज्ञे । मनुष्याः मां नअनुशिष्टवन्तः । न हि भगवतः शिष्यं मां कश्चित् मनुष्योऽनुशासितुम् उत्सहते । अपितु देवाः एव अनुशिष्टवन्तः इति प्रतिज्ञातवान् । भगवांस्त्वेव मे कामे ब्रूयात् । कामे .इच्छायां सत्यां मे भगवानेव वक्ष्यति । अतो मम किमर्थम् इतरप्रार्थनम्? इत्यर्थः ॥श्रुतँ ह्येव मे भगवदृशेभ्यः, आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापदिति ।तस्मै हैतदेवोवाच अत्र ह न किञ्चन वीयायेति वीयायेति ॥ ३ ॥

॥ इति नवमः खण्डः ॥

प्र.-किञ्च श्रुतं……प्रापदितिआचार्यादेव विद्या अधिगता साधिष्ठंसाधुतमत्वं प्रापत् इति प्राप्नोति इति भगवदृशेभ्यः – भवादृशेभ्यः मे – मया श्रुतम् ।अतो नाहं भगवत्तः अन्यस्मात् अनुशासनं वाञ्छामि इति भावः । तस्मै हैतदेवोवाचएवमुक्तः आचार्यः तस्मै – सत्यकामाय एतदेव – षोडशकलब्रह्मविज्ञानमेव उवाच ।तदेव अन्यूनानतिरिक्तम् उवाच इत्यर्थः । तत्र हेतुमाह – अत्र ह न किञ्चन वीयायेतिवीयायेति । अत्र षोडशकलविद्यायां किञ्चिदपि न वीयाय – वैविध्यं न प्राप्तम् ।अतः हेतोः विद्याप्रकारे भेदाभावात् अन्यूनानतिरिक्तं तदेव उवाच इत्यर्थः । द्विरुक्तिः‘विद्यासमाप्त्यर्था ॥


॥ इति नवमखण्डभाष्यम् ॥


१०

दशमः खण्डः


[उपकोसलविद्या – उपकोसलस्य गुरुशुश्रूषा]


उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास । तस्यह द्वादश वर्षाण्यग्नीन् परिचचार । स ह स्मान्यान् अन्तेवासिनः समावर्तयँस्तँह स्मैव न समावर्तयति ॥१॥


प्र.-उपकोसलविद्यां वक्तुमाह – उपकोसलो……उवास । कमलसुतःउपकोसलनामा अत्र पूर्वोक्ते जाबाले सत्यकामे विद्यार्थं ब्रह्मचर्यम् अवात्सीत् ।तस्य……परिचचार । तदग्निशुश्रूषां द्वादशवर्षं कृतवान् । स ह……समावर्तयति ।स्वाध्यायार्थिनः इतरान् ब्रह्मचारिणः स्वाध्याय ग्राहयित्वा समावर्तयन् । तं ब्रह्मविद्यार्थिनंज्ञात्वा, चिरसेवाम् अन्तरेण ब्रह्मविद्या न उपदेष्टव्या इति मत्वा, तमेव न समावर्तयति स्म ॥


तं जायोवाच, तप्तो ब्रह्मचारी कुशलमग्नीन् ‘पर्यचारीत् । मा त्वाऽग्नयःपरिप्रवोचन् ; प्रबृह्यस्मा इति । तस्मै हाप्रोच्यैव प्रवासाञ्चक्रे ॥ २ ॥


प्र.–तं जायोवाच । तस्य आचार्यस्य पत्नी वक्ष्यमाणम् उवाच इत्यर्थः । तप्तःइति । तपसा तप्तः ब्रह्मचारी कुशलं – सम्यक् अनिशुश्रूषां कृतवान् । एतस्य विद्यानुपदेशेतत्परिचरणप्रीता अग्नयः एव तव गर्हाँ कुर्युः । अतः यथा त्वां मा परिप्रवोचन् अग्नयः, तथाअस्मै – उपकोसलाय विद्याम् उपदिश इति तस्य भार्या उक्तवती इत्यर्थः ।

तस्मै हाप्रोच्यैवप्रवासाञ्चक्रे । एवं जायया उक्तोऽपि आचार्यः तस्य विद्याम् अनुपदिश्यैव देशान्तरं प्रोषितः ॥स ह व्याधिनाऽनशितुं दध्ने । तमाचार्यजायोवाच – ब्रह्मचारिन् ! अशान ;किन्तु नाश्नासीति । स होवाच – बहव इमेऽस्मिन् पुरुषे कामाः नानात्ययाः ।व्याधिभिः प्रतिपूर्णोऽस्मि । नाशिष्यामीति ॥ ३ ॥

प्र.-स ह व्याधिनाऽनशितुं दध्नेसः उपकोसलः व्याधिना – मानसेनदुःखेन पीडितस्सन् अनशनाय मतिं चक्रे’ इत्यर्थः । ‘धृञ् अवस्थाने” (धा.पा.९००)इति हि धातुः । तम् इति । अशान – भुङ्क्ष्व इत्यर्थः । शिष्टस्य स्पष्टोऽर्थः । स होवाचसः ब्रह्मचारी अस्मिन् पुरुषे – जीवे ब्रह्मप्राप्तिव्यतिरिक्ताः **कामाः–**काम्यमानाःविषयाः नानात्ययाः नानाविधगर्भ-जन्म-जरा-मरणादिलक्षणफलजनकाः मनसिविपरिवर्तमानाः सन्ति । अतः तद्विषयभयरूपव्याधिभिः पूर्णोऽस्मि । अतो न भुञ्जे इतिप्रत्युवाच इत्यर्थः ॥


अथ हाग्नयः समूदिरे – तप्तो ब्रह्मचारी कुशलं नः ‘पर्यचारीत्‘ ।हन्तास्मै प्रब्रवामेति । तस्मै होचुः ॥ ४ ॥

प्र.–अथ हाग्नयः समूदिरे । एतद्वाक्यं श्रुत्वा तत्परिचरणप्रीताः गार्हपत्यादयःअग्नयः दयमानमानसाः सम्भूय उक्तवन्तः इत्यर्थः । किमिति? तप्तो–प्रब्रवामेतिहन्तइति अनुकम्पायाम् । प्रब्रवाम । ब्रह्म इति शेषः । शिष्टस्य स्पष्टोऽर्थः ।तस्मै होचुः । तस्मै – उपकोसलाय अग्नयः वक्ष्यमाणम् ऊचुः इत्यर्थः ॥

[अग्निभिः उपकोसलाय ब्रह्मोपदेशः]


‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति‘ । स होवाच – ‘विजानाम्यहं यत् प्राणोब्रह्म ; कं च तु खं च न विजानामी‘ति । ते होचुः, ‘यद्वाव कम् , तदेव खम् ,यदेव खम् तदेव कमि‘ति प्राणं च हास्मै तदाकाशं चोचुः ॥ ५ ॥


॥ इति दशमः खण्डः ॥


प्र. – तदेवाह – प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेतिस होवाच । एवमुक्तः सःउपकोसलः उवाचविजानामि– न विजानामीति । अस्य अयमभिप्रायःन तावत् प्राणादिप्रतीकोपासनम् अग्निभिः अभिधीयते, जन्मजरामरणादिभवभयभीतस्यमुमुक्षोः मोक्षोपदेशाय प्रवृत्तत्वात् । अतः ब्रह्मैव उपास्यम् उपदिष्टम् । तत्र प्राणादिभिःसमानाधिकरणं ब्रह्म निर्दिष्टम् । तत्र सकलजगत्प्राणयितृत्वयोगेन प्राणशब्दितत्वस्यब्रह्मणः उपपन्नत्वात्, यत् प्राणो ब्रह्म इत्युक्तम्, तत् जानामि । कं ब्रह्म खं ब्रह्म इत्युक्तंतु न विजानामि । यद्यपि कंशब्दस्य सुखम् अर्थः – खम् इत्यस्य च आकाशोऽर्थः ।ततश्च वैषयिकसुखशरीरकम् आकाशशरीरकञ्च ब्रह्म इत्यभिप्रायः । ‘उत कम् इत्यनेनसुखम् अभिधीयते । खम् इत्यनेन आकाशवाचिना अपरिच्छिन्नत्वम् अभिधीयते ।तयोः अन्योन्यविशेषणविशेष्यभावे अपरिच्छिन्नसुखं ब्रह्म इत्यस्य अर्थो लभ्यते । ततश्चअनयोः मध्ये कस्मिन्नर्थे तात्पर्यम् इति न जाने इति । ते– – –कमिति । तदभिप्रायज्ञाःअग्नयः कंखम् इत्यनयोः विशेषण-विशेष्यभावोऽभिप्रेत इति स्वाभिप्रायम् उक्तवन्तःइत्यर्थः । ननु यद्वाव कं तदेव खम् इति अनेनैव विशेषणविशेष्यभावप्रतिपादनेनअपरिच्छिन्नसुखं ब्रह्म इत्यस्य अर्थस्य लाभात् यदेव खं तदेव कमिति पुनरुक्तिः व्यर्थाइति चेत् न – दार्ढ्यथँ वा, अपरिच्छिन्नसुखत्वेन, सुखरूपापरिच्छिन्नत्वेन, च उपासनासिद्ध्यर्थंवा परस्परविशेषणविशेष्यभावोपदेशसार्थक्यात् ।प्राणञ्च हास्मै तदाकाशं चोचुः । जगत्प्राणयितृत्वेन प्राणत्वविशिष्टं यद्ब्रह्म,तदेव अपरिच्छिन्नसुखरूपञ्च इति अग्नयः उक्तवन्त इत्यर्थः ॥


॥ इति दशमखण्डभाष्यम् ॥


११

एकादशः खण्डः


[गार्हपत्याग्निना स्वविद्यारूपाग्निविद्योपदेशः]


अथ हैनं गार्हपत्योऽनुशशास – ‘पृथिव्यग्निरन्नमादित्यः‘ इति । य एषआदित्ये पुरुषो दृश्यते सोऽहमस्मि ; स एवाहमस्मी‘ति ॥ १ ॥

प्र.-एवं ब्रह्म उपदिश्य अग्निभिः एतद्विद्याङ्गभूता अग्निविद्यापि उपदिष्टाइत्याह अथ……शशास । जगत्प्राणयितृ अपरिच्छिन्नसुखरूपं च ब्रह्म इत्युपदिश्य,एवम् उपदिष्टब्रह्मविद्यम् एनं – उपकोसलं गार्हपत्योऽग्निः स्वविद्यां वक्ष्यमाणाम् उपदिदेशइत्यर्थः । अथशब्दश्च प्रकृतविषयत्वद्योतनार्थः । अत्र च अथैनम् इति शब्दाभ्यांवक्ष्यमाणाग्निविद्यायाः प्रकृतब्रह्मविद्याङ्गत्वम् उच्यते । अनुशासनप्रकारमेवाह – पृथिवीइति । मे गार्हपत्याग्नेः एताः चतस्रः तनवः इत्यर्थः । यः इति । पृथिव्यग्न्यन्नादित्यलक्षणानांचतुर्णां रूपाणां मध्ये अग्न्यादित्यरूपयोः पक्तृत्वप्रकाशकत्वरूपधर्मसम्बन्धात् ऐक्यम् ।अग्नेः आदित्येन यादृशमैक्यम्, न तादृशमैक्यं पृथिव्यन्नाभ्याम् । तस्मात् आदित्य एवअहमस्मि इति अग्निः उवाच इत्यर्थः ॥

[गार्हपत्याग्नेः उपासनाफलम्]


स य एतमेवं विद्वानुपास्ते अपहते पापकृत्यां ; लोकीभवति ; सर्वमायुरेति ;ज्योग् जीवति ; नास्यावरपुरुषाः क्षीयन्ते । उपवयं तं भुञ्जामोऽस्मिँश्चलोकेऽमुष्मिँश्च, य एतमेवं विद्वानुपास्ते ॥२॥


॥ इति एकादशः खण्डः ॥


प्र. – स – क्षीयन्ते । एतदुपासकः ब्रह्मप्राप्तिविरोधि पापकर्म अपहन्ति । लोकीभवतितद्विरोधिनि ‘पाप्मनि’ निरस्ते ब्रह्मलोकं प्राप्नोति इत्यर्थः । यद्यपि ब्रह्मप्राप्तिविरोधिपापनिवृत्तेःब्रह्मप्राप्तेश्च प्रधानभूतब्रह्मविद्याफलत्वमेव तथापि अङ्गिफलेन अङ्गं स्तूयते इति द्रष्टव्यम् ।यद्वा पापशब्दो ब्रह्मविद्योत्पत्तिप्रतिबन्धकपापपरः । लोकशब्दो ब्रह्मलोकप्राप्तिमार्ग-भूताग्निलोकपरो द्रष्टव्यः । सर्वमायुरेति । ब्रह्मोपासनसमाप्तेः यावत् आयुः अपेक्षितम् ।तत् सर्वमेति । ज्याग् जीवति । व्याध्यादिभिः अनुपहतो यावत् ब्रह्मप्राप्तिः उज्ज्वलोजीवति । नास्यावरपुरुषाः क्षीयन्तेअस्य अवरपुरुषाः शिष्यप्रशिष्यादयः,पुत्रपौत्रादयोऽपि न क्षीयन्ते । ब्रह्मविदः एव भवन्ति इत्यर्थः । सन्ततौ ब्रह्मविद्यानुवृत्तेः,‘नास्याब्रह्मवित् कुले भवति’ (मुं.उ.३-२-९) इति श्रुत्यन्तरे ब्रह्मविद्याफलत्वेन श्रवणात् ।उप……उपास्ते । य एवम् उपास्ते, तम् अस्मिंश्च लोके अमुष्मिंश्च लोके वयं–अग्नयःउपभुञ्जामः – यावद्ब्रह्मप्राप्ति विघ्नेभ्यः परिपालयामः इत्यर्थः । एवम् उत्तरत्रापि द्रष्टव्यम् ॥


॥ इति एकादशखण्डभाष्यम् ॥


१२

द्वादशः खण्डः


[अन्वाहार्यपचनाग्निविद्या]


अथ हैनमन्वाहार्यपचनोऽनुशशास – ‘आपो दिशो नक्षत्राणि‘ चन्द्रमा इति ।‘य एष चन्द्रमसि पुरुषो दृश्यते, सोऽहमस्मि, स एवाहमस्मीति ॥ १ ॥


प्र.- अथ……अनुशशास । अन्चाहार्यपचनः – दक्षिणाग्रिः । आपो दिशोनक्षत्राणि चन्द्रमा इति मे रूपाणि इत्यर्थः । य……अस्मीति । चन्द्रस्य अग्नेश्चप्रकाशकत्वसाम्यात् इति भावः ॥


[दाक्षिणानेरुपासनाफलम्]


स य एतमेवं विद्वानुपास्ते, अपहते पापकृत्याम् , लोकी भवति, सर्वमायुरेतिज्योग् जीवति, नास्यावरपुरुषाः क्षीयन्ते । उप वयं तं भुञ्जामोऽस्मिँश्चलोकेऽमुष्मिँश्च, य एतमेवं विद्वानुपास्ते ॥ २ ॥


॥ इति द्वादशः खण्डः ॥

प्र.–स य एतमेवं विद्वान् इत्यादि । व्याख्यातम् ॥


॥ इति द्वादशखण्डभाष्यम् ॥


१३

त्रयोदशः खण्डः


[आहवनीयाग्निना उपकोसलाय स्वविद्याग्निरूपोपदेशः]


अथ हैनमाहवनीयोऽनुशशास–प्राण आकाशो द्यौर्विद्युदिति । य एषविद्युति पुरुषो दृश्यते ; सोऽहमस्मि, स एवाहमस्मीति ॥ १ ॥

प्र.–अथ हैनमाहवनीयोऽनुशशास इत्यादि । प्राण आकाशो द्यौविद्युदिति ।इत्येतानि मद्रूपाणि इत्यर्थः । य एषः……अहमस्मीति । विद्युत्पुरुषस्यापि प्रकाशकत्वात्आहवनीयैक्यं द्रष्टव्यम् ॥


[आहवनीयाग्न्युपासनाफलम् ]


स य एतमेवं विद्वानुपास्ते, अपहते पापकृत्याम् लोकी भवति, सर्वमायुरेति,ज्योग्जीवति, नास्यावरपुरुषाः क्षीयन्ते । उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च,य एतमेवं विद्वानुपास्ते ॥ २ ॥


॥ इति त्रयोदशः खण्डः ॥


प्र. – स य एतमेवं विद्वान् – इत्यादि । पूर्ववत् ॥


॥ इति त्रयोदशखण्डभाष्यम् ॥


१४

चतुर्दशः खण्डः


[अग्नीनामुपकोसलं प्रति वचनम् ]


ते होचुः – उपकोसल ! एषा सोम्य ! तेऽस्मद्विद्या चात्मविद्या च ।आचार्यस्तु ते गतिं वक्तेति ॥ आजगाम हास्याचार्यः । तमाचार्योऽभ्युवाद,उपकोसला ३ इति ॥ १ ॥


प्र. – ते होचुः……वक्तेति । प्रत्येकम् अनुशासनानन्तरं मिलित्वा ते अग्नयः अब्रुवन्अस्मद्विद्या – अग्निविद्या । आत्मविद्या – परमात्मविद्या इत्यर्थः । चशब्दः अङ्गाङ्गीभूत-विद्ययोः उपदेशक्रियायां समुच्चयद्योतनार्थः, न तु समप्राधान्यद्योतनार्थः । अग्निविद्या चआत्मविद्या च उपदिष्टा इत्यर्थः । आचार्यस्तु ते गति वक्तेति । एवं वदताम् अग्नीनाम्अयमभिप्रायः – हे उपकोसल ! ब्रह्मविद्याम् अनुपदिश्य प्रोषुषि गुरौ तदलाभात् अनाश्वासंत्वाम् उज्जीवयितुं ब्रह्मस्वरूपमात्रं तदङ्गभूताम् अग्निविद्याञ्च उपादिक्षाम । आचार्याद्धैवविदितायाः विद्यायाः साधिष्ठत्वात् आचार्य एव संयद्वामत्वादिगुणकं ब्रह्म, अक्षिरूपं चतदुपासनस्थानम् , अचिरादिकाञ्च गतिम् उपदिशतु इति । ततश्च गतिं वक्ता इत्यस्य अवशिष्टंवक्ता इत्यर्थः । न तु गतिमात्रम् इति द्रष्टव्यम् ॥ आजगाम……इति । स्पष्टोऽर्थः ॥


भगव इति ह प्रतिशुश्राव । ब्रह्मविद इव सोम्य ते मुखं भाति । को नुत्वाऽनुशशासेति । को नु माऽनुशिष्याद्भो इतीहापेव निह्नुते, इमे नूनमीदृशाअन्यादृशा इति हाग्नीनभ्यूदे । किं नु सोम्य किल तेऽवोचन्निति ॥ २ ॥

प्र. – भगव इति ह प्रतिशुश्राव इत्यादि । ब्रह्मविदः इव सोम्य ते मुखं भातिकोनु त्वाऽनुशशासेति । गुरुणा एवमुक्तः उपकोसल आह – को नु माऽनुशिष्याद्भो इती ।हे भगवन् ! त्वयि प्रोषिते इह मां को अनुशिष्यात् ? इत्यर्थः । हापेव निह्नुते – ह इति भेदे ।अपनिह्नुते इव इत्यर्थः । नापनिह्नुते – न यथावत् अनिभिः उक्तमित्यपि ब्रवीति इत्यभिप्रायः ।कञ्चित्कालम् अपह्नुत्य, अथाग्नीन् निर्दिश्य हमे एव नूनम् उपदिष्टवन्तः इत्याह – इमे……अभ्यूदे‘ ।ये इदानीम् ईदृशाः ज्वलनाकारतया परिदृश्मानाः, एते एव अग्नयः पूर्वम् अन्याकाराः सन्तःमम उपदिष्टवन्तः इत्युक्तवान् इत्यर्थः । आचार्यः आह – किं नु सोम्य । किल तेऽवोचन्निति ॥

इदमिति ह प्रतिजज्ञे । लोकान् वाव किल सोम्य ! तेऽवोचन् । अहं तुते तद्वक्ष्यामि, यथा पुष्करपलाश आपो न श्लिष्यन्ते, एवमेवंविदि पापं कर्म नश्लिष्यत इति । ब्रवीतु मे भगवानिति । तस्मै होवाच ॥ ३ ॥


॥ इति चतुर्दशः खण्डः ॥


प्र.–इतर आह – इदमिति ह प्रतिजज्ञे । एतावत् उपदिष्टम् इति प्रतिज्ञातवान् ।इतरः आह लोकान् – इति । हे सोम्य ! ते अग्नयः पृथिव्यादीन् लोकानेवकार्त्स्न्येन तव उक्तवन्तः । अङ्गभूताम् अग्निविद्यां कार्त्स्न्येन उक्तवन्तः इत्यर्थः । न तुज्ञातव्यं ब्रह्म कार्त्स्न्येन । अहं तु ते पद्मपत्रजलाश्लेषतुल्यसर्वपापाश्लेषापादकविद्याविषयभूतंब्रह्म वक्ष्यामि, यदि शुश्रूषसे इत्यर्थः । पापाश्लेषो नाम पापहेतुभूतकर्माचरणेऽपि पापोत्पत्ति-प्रतिबन्धकशक्तिमत्त्वम् । इदञ्च प्रामादिकपापविषयम् । पापशब्दश्च सुकृतदुष्कृतसाधारणः ।एतञ्च तत्रतत्र उक्तं तत्रैव अनुसन्धेयम् । इतर आह – ब्रवीतु मे भगवानिति । तस्मैहोवाच । तस्मै – एवम् उपसन्नाय उपकोसलाय आचार्यो वक्ष्यमाणम् आह इत्यर्थः ॥

१५

पञ्चदशः खण्डः


[अक्षिपुरुषविद्या – अक्षिपुरुषोपासना]


य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच ; एतदमृतमभयम् एतत्ब्रह्मेति । तद्यद्यप्यस्मिन् सपिर्वोदकं वा सिञ्चति, वर्त्मनी‘ ह्येव‘ गच्छति ॥ १ ॥


प्र.–य एषोऽक्षिणि……ब्रह्मेति । योगिभिः योऽक्ष्यन्तर्वर्ती पुरुषो दृश्यते,अयमात्मा – नियन्ता इत्यर्थः । अमृतत्वं – निरतिशयभोग्यत्वं अभयत्वं – दुःखासभित्रत्वम् ।ब्रह्मत्वं निरतिशयबृहत्वम् । तद् – गच्छति । तत् – तस्मात् निर्लेपस्थानिप्रभावात्,अस्मिन् – अक्षिणि यद्यपि सपिर्वा उदकं वा कश्चित् सिञ्चेत्, तत् वर्मनीतत्पार्श्वद्वयमेव हि गच्छति । न तत् तत्र लिप्यते ॥


[अक्षिपुरुषः संयद्वामः]


एतँ संयद्दाम इत्याचक्षते । एतँ हि सर्वाणि वामान्यभिसंयन्ति । सर्वाण्येनंवामान्यभिसंयन्ति, य एवं वेद ॥२॥



प्र. – एतं……आचक्षते । संयन्ति – सङ्गतानि वामानि – वननीयानि प्रार्थनीयानियस्मिन् सः संयद्वामः । सर्वकल्याणगुणाश्रयत्वं सत्यसङ्कल्पत्वं वा संयद्वामत्वम् ।सर्वाण्येनं……वेद । तदुपासकस्यापि तत्क्रतुन्यावात् तद्भवति इत्यर्थः ॥


एष उ एव वामनीः । एष हि सर्वाणि वामानि नयति । सर्वाणि वामानिनयति, य एवं वेद ॥ ३ ॥


प्र.–एष उ……वेद । वामनीत्वं स्वाश्रितेषु शोभनधीप्रापकत्वम् ।‘तत्क्रतुन्यायात्’ तद्गुणोपासकस्यापि तद्भवति इत्यर्थः ॥


[अक्षिपुरुषः भामनीः]


एष उ एव भामनीः एष हि सर्वेषु लोकेषु भाति । सर्वेषु लोकेषु भाति,य एवं वेद ॥ ४ ॥

प्र. – एष……वेद । भामनीत्वं सर्वलोकव्याप्तदीप्तिमद्विग्रहयुक्तत्वम् । उपासकस्यापितद्भवति अपेक्षायाम् इत्यर्थः । अत्र, संयद्वामत्व-वामनीत्व-भामनीत्वेषु फलकथनंफलरूपतात्पर्यलिङ्गोपन्यासेन तेषु गुणेषु तात्पर्यप्रदर्शनार्थम् । न तु ‘सर्पिर्वोदकं वासिञ्चति’ इत्यत्र इवार्थवादमात्रतया स्तुतिरूपत्वम्’ इति प्रदर्शनार्थम् । ‘सर्पिर्वा’ इति वाक्यस्यस्तुतित्वं व्यासार्यैः उक्तम् ॥


[उपासकस्य अर्चिरादिमार्गेण ब्रह्मप्राप्तिः]


अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति, यदि च नार्चिषवाभिसम्भवन्ति,अर्चिषोऽहः, अह्नः आपूर्वमाणपक्षम्, आपूर्यमाणपक्षाद्यान् पडुदङ्ङेति मासाँस्तान्, मासेभ्यः संवत्सरम्, संवत्सरादादित्यम् , आदित्याच्चन्द्रमसम्, चन्द्रमसोविद्युतम्, तत्पुरुषो अमानवः ॥ ५ ॥


स एनान् ब्रह्म गमयति । एष देवपथो ब्रह्मपथः । एतेन प्रतिपद्यमानाइमं मानवमावर्तं नावर्तन्ते नावर्तन्ते ॥ ६ ॥


॥ इति पञ्चदशः खण्डः ॥


प्र.–अथ……गमयति । अथशब्दः प्रकृतविषयत्वद्योतनार्थः । अस्मिन् –ब्राह्मविदि । सामान्याभिप्रायत्वात् अस्य एकवचनस्य, उत्तरत्र अभिसम्भवन्ति इतिबहुवचनेन न विरोधः । यत् यदि शव्यं – शवदहनादिकर्म पुत्रादयः कुर्वन्ति, यदि यान कुर्वन्ति, सर्वथा अपि ते अर्चिषमेव अभिसम्भवन्ति । अर्चिरादिशब्दाश्च आतिवाहिकास्तल्लिङ्गात्(ब्र.सू.४-३-४) इति न्यायेन तदभिमानिदेवतापराः इति अन्यत्र स्थितम् ।‘अत्र केचित् – उपकोसलविद्याङ्गभूताग्निविद्यावैभवेन शवदहनादिवैगुण्येऽपि,उपकोसलविद्यानिष्ठस्य न क्षतिः । विद्यान्तरनिष्ठस्य दहनादिवैगुण्ये किञ्चित् वैगुण्यम् अस्तीतिपदन्ति । तन्न – ‘न कर्मणा लिप्यते’ (बृ.उ.४-४-२३) इति श्रुतिसिद्धार्थानुवादित्वात् अस्यवाक्यस्य एतादृशार्थप्रत्यायकत्वाभावात् । अतः अथ यदु चैवास्मिन् इत्येतत्सर्वब्रह्मवित्साधारणमेव ।यान् षडुदङ्ङेति मासांस्तान् । यान् षण्मासान् उदक् – उत्तरदिशायामआदित्य एति तान् मासान् इत्यर्थः । शिष्ट स्पष्टम् ।एष……नावर्तन्ते । देवैः – आतिवाहिकैः नीयमानः पन्थाः देवपथः । ब्रह्मप्रापकःपन्थाः ब्रह्मपथःएतेन मार्गेण प्रतिपद्यमानाः इमं घोरं मानवमावर्त घटीयन्त्रवत्जननमरणप्रापकं मनुष्यादिशरीरोपलक्षितं संसारं नावर्तन्ते– पुनः न प्रतिपद्यन्ते।द्विरुक्तिः विद्यासमाप्त्यर्था । अत्र च यत् किञ्चिद्वक्तव्यम् उत्तरत्र वक्ष्यते ॥अत्र पञ्चाग्निविद्यायाम् उपकोसलविद्यायाञ्च अचिरादिगतेः पाठात्, यस्यां विद्यायाम्अर्चिरादिगतिः श्रूयते । तन्निष्ठानाम् एव अर्चिरादिगत्या ब्रह्मप्राप्तिः न अन्येषाम् । न च,‘तद्य इत्थं विदुः ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’, (छां.उ.५-१०-१) श्रद्धां सत्यमुपासते’(बृ.उ.६-१२-१५) इति सर्वब्रह्मविद्यासाधारण्यं श्रुतमिति वाच्यम् । तथा सतिउपकोसलविद्यायाम् अर्चिरादिगतिश्रुतिवैयर्थ्यप्रसङ्गात् इति पूर्वपक्षे प्राप्ते – उच्यते‘अनियमः सर्वेषामविरोधः शब्दानुमानाभ्याम्’ (ब्र.सू.३-३-३२) । सर्वेषांसर्वोपासननिष्ठानाम् अर्चिरादिमार्गेणैव गन्तव्यत्वात् एतद्विद्यानिष्ठानामेव इति नियमो नास्ति ।तथा हि नियमे सति ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ (छां.उ.५-१०-१) ‘श्रद्धांसत्यमुपासते’ (बृ.उ. ६-२-१५) ।अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥” (भ.गी.८-२४)इति श्रुतिस्मृतिभ्यां विरोधप्रसङ्गः । उपकोसलविद्यायां पुनराम्नानं तु ये चेमेऽरण्ये श्रद्धातप इत्युपासते इति पञ्चाग्निविद्या वाक्यप्राप्त सर्वब्रह्मविद्यासाधारणार्चिरादिगतेःअपुनरावृत्तिविधानार्थम् अनुवादः इति स्थितम् ।उपकोसलविद्यायाः परमात्मविद्यात्वं च, ‘अन्तर उपपत्तेः’ (ब्र.सू. १-२-१३)इत्यत्र स्थितम् । तथा हि – ‘य एषोऽक्षिणि पुरुषो दृश्यते’ इति निर्दिश्यमानः प्रतिबिम्बात्माप्रसिद्धवन्निर्देशात् । दृश्यते इति अपरोक्षाभिधानाञ्च । जीवो वा स्यात् । चक्षुषि तस्यविशेषेण संनिधानात् प्रसिद्धिः उपपद्यते । उन्मीलितचक्षुरुद्वीक्षणेन जीवस्य स्थितिगतिनिश्चयात्दृश्यते इत्युक्तिः उपपद्यते । न तु परमात्मा, तस्य अनाधारत्वात् अदृश्यत्वाञ्च । न च आत्मत्व-अमृतत्व-अभयत्व-ब्रह्मत्वादिविरोधः । एष आत्मेति होवाच इति इतिकरणेन मनोब्रह्मेत्युपासीत (छां.उ. ३-१८-१) इतिवत् पदार्थाविवक्षाया दर्शितत्वात् इत्येवं प्राप्ते-अभिधीयते .अन्तर उपपत्तेः (ब्र.सू.१-२-१३) अक्ष्यन्तरः परमात्मा । तस्यैव आत्मत्व-अमृतत्व-संयद्वामत्व-वामनीत्व-भामनीत्वादिधर्माणां उपपत्तेः । न च इतिकरणे न एतेषाम् अविवक्षाशङ्क्या । यत्र उच्यमानस्य अर्थस्य आप्तवचनसम्बन्धः प्रतिपाद्यः तत्र इतिशब्दोनार्थविवक्षां वारयति यथा इति हस्मोपाध्यायः कथयति इति । तस्मादिह अमृतत्वादीनाम्आचार्यवचनसम्बन्धस्य प्रतिपाद्यत्वात् इतिशब्दः मनो ब्रह्मेति इत्यादाविव नअविवक्षाकारकः । ततश्च स्वाभाविकामृतत्वादीनां जीवेऽसम्भवात् । तथा प्रतिबिम्बे,‘रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः’ (बृ.उ.५-५-२) इति चक्षुःप्रतिष्ठितत्त्वेन श्रुतिप्रसिद्धादित्यरूप-देवताविशेषे च असम्भवात् परमात्मैव अक्ष्यन्तर्वर्ती ।यदुक्तम् – निराधारस्य परमात्मनः चक्षुरवस्थितिः न सम्भवति इति, तत्राह‘स्थानादिव्यपदेशाच्च‘ (ब्र.सू.१-२-१४)। ‘यश्चक्षुषि तिष्ठन्’ (बृ.उ.३-७-३) इत्यादौअन्तर्यामिब्राह्मणे चक्षुषि स्थितिनियमनादेः परमात्मधर्मतया श्रवणात्, योगिदृश्यतयादृश्यते इत्यस्य उपपत्तेश्च अक्ष्यन्तर्वर्तिनः परमात्मत्वे न अनुपपत्तिः ।‘सुखविशिष्टाभिधानादेव च’ (ब्र.सू.१-२-१५) । ‘कं ब्रह्म खं ब्रह्मेतिअपरिच्छिन्नत्वविशिष्टसुखरूपस्य अग्निभिः उपदिष्टस्य ब्रह्मणः एव ‘य एषोऽक्षिणि पुरुषोदृश्यते’ इति वाक्ये प्रकृतपरामर्शिना य एष इति सर्वनाम्ना अभिधीयमानत्वाञ्च । न चतद् ब्रह्म अग्निविद्यया व्यवहितम् इति वाच्यम् । अग्निविद्याया अपि ब्रह्मविद्याङ्गत्वेन ‘नहि स्वाङ्गम्’ इति न्यायेन अव्यवधायकत्वात् । तदङ्गत्वञ्च तत्प्रकरणमध्यपातात्, ‘अथहैनं गार्हपत्योऽनुशशास’ इति ब्रह्मविद्याधिकृतस्यैव अग्निविद्योपदेशः इति प्रतिपादनात् ;ब्रह्मविद्योपयुक्तफलव्यतिरिक्तफलान्तराश्रवणाच्च ।ननु ‘कं ब्रह्म खं ब्रह्म’ इति वाक्येन अपरिच्छिन्नसुखरूपं ब्रह्म इति न उपदिश्यते,अपि तु ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इति त्रिभिः वाक्यैः मुख्यप्राणे लौकिकसुखे आकाशे चब्रह्मदृष्टिः विधीयते । तत्राह ‘अत एव च स ब्रह्म’ (ब्र.सू.१-२-१६)। अत एवअपरिच्छिन्नसुखस्य ब्रह्मत्वाभिधानादेव अपरिच्छिन्नसुखरूपं ब्रह्मैव अत्र प्रतिपाद्यते – न अब्रह्मणिब्रह्मदृष्टिः, अब्रह्मभूतेषु मुख्यप्राणलौकिकसुखाकाशेषु ब्रह्मदृष्टिविधिरूपत्वे तत्र अनुपपत्तेःअभावेन ‘विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामि’ इति प्रश्नस्य ‘यद्वाव केतदेव खं यदेव खं तदेव कम् इति’ प्रतिवचनस्य च असङ्गतत्वापत्तेः । तदसङ्गतिप्रकारश्च प्रागेववर्णितः । इतश्च परं ब्रह्म, श्रुतोपनिषत्कगत्यभिधानाच्च (ब्र.सू.१-२-१७)। श्रुतोपनिषत्कस्यअधिगतपरमपुरुषयाथात्म्यस्य अनुसन्धेयतया श्रुत्यन्तरप्रतीयमाना अचिरादिका गतिःया तामपुनरावृत्तिलक्षणपरमपुरुषप्राप्तिकरीम् उपकोसलाय अक्षिपुरुषं श्रुतवते अथ यदु चैवास्मिञ्छव्यकुर्वन्ति’ इत्यादिना आचार्यः उपदिशति । ‘अतोऽप्ययमक्षिपुरुषः परमात्मा’ । ‘अनवस्थितेःअसम्भवाच्च नेतरः’ (ब्र.सू. १-२-१८) । प्रतिबिम्बादीनाम् अक्षिणि नियमेन अनवस्थानात्,अमृतत्वादीनां च निरुपाधिकानां तेषु असम्भवात् न परमात्मेतरः छायादिः अक्षिपुरुषोभवितुमर्हति इति स्थितम् । प्रकृतमनुसरामः ॥

॥ इति पञ्चदशखण्डभाष्यम् ॥


१६

षोडशः खण्डः


[यज्ञस्य क्षतप्राप्तौ प्रायश्चित्तं, ब्रह्मणः मौनं च]

एष ह वै यज्ञो योऽयं पवते । एष ह यन् इदँ सर्वं पुनाति । यदेष हयन्निदँ, सर्वं पुनाति, तस्मादेष एव यज्ञः । तस्य मनश्च वाक् च वर्तनी ॥१॥

प्र–रहस्यप्रकरणे प्रसङ्गात् आरण्यकत्वसाम्याच्च यज्ञे क्षते उत्पन्ने व्याहतयःप्रायश्चित्तार्थहोममन्त्रतया विधातव्याः । तदभिज्ञस्यैव ब्रह्मत्वलक्षणमार्त्विज्यम्। तस्यच ब्रह्मणो मौनमावश्यकम्’ इत्येवमादिविध्यर्थम् इदम् आरभ्यते । एष ह वै यज्ञोयोऽयं पवते । योऽयं पवते वायुः, स एव यज्ञः इत्यर्थः । कथं वायोः यज्ञत्वम् इत्यत्राहएष ह यन् इदँ सर्वं पुनाति । एषः वायुः ह यन् – गच्छन् सर्वं पुनाति ।वर्षवातातपैः वस्तुशुद्धिः स्मृतिप्रसिद्धा । यन् पुनातीति पदद्वयगतयोः यकारनकारयोःयज्ञशब्दे प्रत्यभिज्ञानात् , जकारस्य नकारविकारत्वात् यज्ञशब्दस्य यन् पुनातीति निर्वचनमितिभावः । उक्तमेव उपसंहरति – यदेषः……यज्ञः इति ।एवं यज्ञस्य वायोश्च अभेदप्रतिपादनेन यज्ञस्य गन्तृत्वं सम्पाद्य गन्तः यज्ञस्य मार्गमाह –तस्य……वर्तनी । ‘प्रवृत्तिसाधनभूतो बाङ्मनसमयो मार्गः इति यावत्॥


तयोरन्यतरां मनसा सँस्करोति ब्रह्मा, वाचा होताऽध्वर्युरुद्गाताऽन्यतराम् ।

स यत्रोपाकृते‘ प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा ‘व्यवदति ॥ २ ॥


प्र.–तयोः अन्यतराम् । तयोरन्यतरां यज्ञस्य मनोलक्षणमार्ग मनसाप्रणिहितेन ब्रह्मा संस्करोति । होत्राद्याः त्रयोऽपि वाचैव सम्यक्प्रयुक्तया वाचं संस्कुर्वन्तिइत्यर्थः ।

स यत्र उपाकृते । व्यवदति – अत्र क्षेपार्थो नञो नलोपः । ‘तिङि क्षेपे’ इतिनिन्दायां नलोपः । यत्र – यज्ञे प्रातरनुवाकशस्रे उपाकृते – आरब्धे सति परिधानीयायाःऋचः प्राक् ब्रह्मा व्यवदति – विशब्दो विविधार्थः । नञश्च निन्दितत्वमर्थः । विविधंनिन्दितं च वदति, मौनं त्यजति चेत् इत्यर्थः ॥


अन्यतरामेव वर्तनीँ सँस्कुर्वन्ति, हीयतेऽन्यतरा । स यथा एकपाद्व्रजन्, रथो वैकेन चक्रेण वर्तमानो रिष्यति एवमस्य यज्ञो रिष्यति, यज्ञँ रिष्यन्तंयजमानोऽनुरिष्यति, स इष्ट्वा पापीयान् भवति ॥ ३ ॥


प्र.–तदा अन्यतरामेव……हीयतेन्यतरा । तदा मनःप्रणिधानस्य नाशेनमनोलक्षणयज्ञवर्तनीसंस्कारकस्य ब्रह्ममनसः अभावात् एषा वर्तनी नश्यति । होत्रादि-वाक्संस्कार्या वाग्रूपा यज्ञवर्तनी परम् आस्ते इत्यर्थः । तर्हि को दोष इत्यत्राह-सयथा……भवति । गच्छन् एकपात् पुरुषो वा एकेन चक्रेण प्रवर्तमानो रथो वा यथारिष्यति – नश्यति, एवमस्य – यजमानस्य यज्ञः नश्यति । विगुणो भवति इति यावत् ।तस्मिन् नष्टे यजमानोऽपि नष्टफलः पापी च भवति इत्यर्थः ॥

अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यववदति,उभे एव वर्तनी सँस्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४ ॥


स यथोभयपाद् व्रजन्, रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठतिएवमस्य यज्ञः प्रतितिष्ठति ; यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति, स इष्ट्वाश्रेयान् भवति ॥ ५ ॥


॥ इति षोडशः खण्डः ॥

प्र.–अथ……अन्यतरा । न व्यवदति इति सम्बन्धः । अत्र वर्तन्यौ इतिवक्तव्ये, ‘सुपां सुलुक्’ (पा.सू.७-१-३९) इति छान्दसो लुक् । शिष्टं स्पष्टम् ।स यथा……भवति । यज्ञः प्रतितिष्ठति साद्गुण्यवान् भवति इत्यर्थः ।यजमानः प्रतितिष्ठति – लब्धफलो भवति इत्यर्थः । शिष्टं स्पष्टम् ॥


॥ इति षोडशखण्डभाष्यम् ॥


१७

सप्तदशः खण्डः


[व्याहतीनां उत्पत्तिक्रमः तेषां प्रशंसा च]


प्रजापतिर्लोकानभ्यतपत् । तेषां तप्यमानानाँ रसान् प्राबृहत् अग्निं पृथिव्याः,वायुमन्तरिक्षात् । आदित्यं दिवः ॥ १ ॥


प्र.–तत्र ‘यज्ञभ्रेषे’ व्याहतिहोमः प्रायश्चित्तमिति वक्तुं प्रस्तौतिप्रजापतिर्लोकानभ्यतपत् । लोकसारजिघृक्षया लोकान् उद्दिश्य अतपत् । ‘तपआलोचने’, (श्रौतोऽयं धातुः) आलोचनरूपं ज्ञानं कृतवान् इत्यर्थः । तेषां……प्राबृहत्प्राबृहत् – उद्धृतवान् । जग्राह इत्यर्थः । अग्निं……दिवः । लोकान् आलोच्य त्रिलोक्याःअग्निवाय्वादित्याः सारभूता इति निश्चिकाय इत्यर्थः । एवम् उत्तरत्रापि ॥


स एतास्तिस्रो देवता अभ्यतपत् । तासां तप्यमानानाँ रसान् प्राबृहत् –अग्नेः ऋचः वायोर्यजूंषि सामान्यादित्यात् ॥ २ ॥


प्र.–स……आदित्यात् । अग्निवाय्वादित्यसारतया त्रयीं निश्चितवान् इत्यर्थः ॥


स एतां त्रयीं विद्यामभ्यतपत् । तस्यास्तप्यमानाया रसान् प्राबृहत् –भूरिति ऋग्भ्यः भुवरिति यजुर्व्यः, ‘सुवरिति‘ सामभ्यः ॥ ३ ॥


प्र.–स एतां……सामभ्यः । त्रयीसारतया व्याहृतित्रयं निरचिनोत् इत्यर्थः ।शिष्टं स्पष्टम् ॥

[प्रायश्चित्तार्थं ब्याइतिहोमविधानम् ]


तद्यदृक्तो रिष्येत्, भूः स्वाहेति गार्हपत्ये जुहुयात् । ऋचामेव तद्रसेनऋचां वीर्येण ऋचां यज्ञस्य विरिष्टं सन्दधाति ॥ ४ ॥

प्र.-तत् …..जुहयात् । तत् – तस्माद्धेतोः ऋक्त; – ऋचः निमित्तात् यदि,यज्ञः रिष्येत् – क्षतं प्राप्नुयात् इत्यर्थः । तर्हि तत्प्रायश्चित्तार्थं भूस्वाहेति मन्त्रणगार्हपत्येऽग्नौ जुहुयात् इत्यर्थः । ऋचामेव सन्दधाति। यत् ऋचां – ऋक्सम्बन्धि,तद्विरिष्टं – तत् यज्ञस्य क्षत ऋचां वीर्येण – औजसा ऋचा रसेन – सारभूतेन चभूरिति व्याहृत्या सन्दधाति – समाधत्ते इत्यर्थः ॥


अथ यदि यजुष्टो रिष्येत् , भुवः स्वाहेति दक्षिणाग्नौ जुहुयात् , यजुषामेवतद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टँ सन्दधाति ॥ ५ ॥


प्र. – अथ……सन्दधाति । यजुष्टः यजुषो निमित्तात् । शिष्टं पूर्ववत् ॥


अथ यदि सामतो रिष्येत्, सुवः स्वाहेत्याहवनीये जुहुयात् । साम्नामेवतद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टँ सन्दधाति ॥ ६ ॥


प्र.–अथ सन्दधाति । आहवनीये – अग्नौ । पूर्ववदर्थः ॥

तद्यथा लवणेन सुवर्णं सन्दध्यात् सुवर्णेन रजतँ, रजतेन त्रपु त्रपुणासीसँ, सीसेन लोहं लोहेन दारु दारुचर्मणा ॥ ७ ॥

प्र.-तद्यथा……दारुचर्मणा । सुवर्णस्य सन्धानं नाम ‘खरस्य’ मृदुतापादनम् ।क्षाररसस्य सम्पर्कपूर्वकतापेन हि सुवर्णस्य परस्परसन्धानयोग्यमृदुता भवति इत्यर्थः ।शिष्टं स्पष्टम् ॥


एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टँसन्दधाति । भेषजकृतो ह वा एष यज्ञः, यत्रैवंवित् ब्रह्मा भवति ॥ ८ ॥

प्र. – एवं……सन्दधाति । व्याहृतीनां पृथिव्यादिलोकसारभूताग्नयादिदेवता-सारभूतत्रयीसारत्वात् तद्वीर्यत्वाञ्च एषां उक्तानां वीर्येण एवं – सुवर्णादिसन्धानवदेवयज्ञक्षतं समाहितं भवति इत्यर्थः । भेषजकृतो….भवति । यस्मिन् यज्ञे एवंवित्ब्रह्मनामा ऋत्विक् भवति सः यज्ञः कृतभेषजः – कृतौषधः, समीचीनेन चिकित्सकेनयथा रोगार्तः पुमान् कृतभेषजो भवति, तथा इत्यर्थः ॥

एष ह वा उदक्प्रवणो यज्ञः यत्रैवंविद् ब्रह्मा भवति । एवंविदँ ह वा एषाब्रह्माणमनु गाथा – यतो यत आवर्तते तत्तद्गच्छति ॥ ९॥


मानवः । ब्रह्मवैक ऋत्विक्कुरूनश्वाभिरक्षति ॥ एवंविद्ध वै ब्रह्मा यज्ञंयजमानँ सर्वाश्चर्त्विजोऽभिरक्षति । तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदंनानेवंविदम् ॥ १० ॥


॥ इति सप्तदशः खण्डः ॥


॥ इति चतुर्थप्रपाठकः समाप्तः ॥

प्र. – एष ह भवति । उदक्प्रवणः – ‘उत्तरमार्ग’ प्रतिपत्तिहेतुः इत्यर्थः । एवंविदं……गाथा । एवंविदं ब्रह्म नामानं ऋत्विजम् अनुगता एषा – वक्ष्यमाणा गाथाभवति इत्यर्थः ।यतो यत आवर्तते तत्तद्गच्छति । यतो यतः–यत्रयत्र यज्ञस्य क्षतम् आवर्ततेआसमन्ताव्द्याप्य वर्तते । आ ईषद्वा वर्तते । तत्सर्वं गच्छति – समाधत्ते इत्यर्थः ।क इत्यत्र मानवः इति । मानवः मननशीलः ब्रह्माख्य ऋत्विक् इत्यर्थः ।ब्रह्मैवैकः……अभिरक्षति । अश्वा-बडवा आरूढान् योधान् यथा रक्षति एवमेकएव ब्रह्मा ऋत्विक् कुरून् – कर्तृृन् ऋत्विजो रक्षति ।एवं विद्ध……रक्षति । अत्र ब्रह्मणः वेदनेन यजमानादीनाम् ऋत्विजाञ्चरक्षणप्रतिपादनेन उद्गातृप्रभृतीनां वेदनानियमः सूच्यते इति, ‘अङ्गेषु यथाश्रयभावः’इत्यधिकरणे ‘दर्शनाच्च‘ (ब्र.सू.३-३-६४) इति सूत्रितम् । उक्तब्रह्मवेदनस्तुतिं प्रयोजनेनउपसंहरति तस्मात्……नानेवंविदम् । द्विरुक्तिः अध्यायसमाप्त्यर्था ॥

॥ इति चतुर्थप्रपाठकप्रकाशिका ॥


॥ चतुर्थप्रपाठकभाष्यम् समाप्तम् ॥