श्रीराघवेन्द्रयतिः खण्डार्थः

[[श्रीमच्छन्दोग्योपनिषत्खण्डार्थः Source: EB]]

[

** ॥ श्रीराघवेन्द्रयतिकृत-श्रीमच्छन्दोग्योपनिषत्खण्डार्थः॥**

प्रथमोऽध्यायः।

न उपलब्धः।

**************************************************************************************************

॥ छान्दोग्योपनिषद्‌खण्डार्थः ॥

॥ श्री गुरुभ्यो नमः ॥

॥ हरि :ॐ ॥

?Rअशेषगुणपूर्णाय दोषदूराय विष्णवे ॥ नमः श्री प्राणनाथाय भक्त्ताभीष्यप्रदायिने ॥ 1 ॥
?Rश्रीमच्छान्दोग्यभिमता भाष्यकाराद्युदीरिताः ॥ अर्था ये संग्रहस्तेषां क्रियते साधुतुष्टये ॥ 2 ॥
?Rइहामुत्र फ लभोगविरक्त्तस्य शमदमादि मतो मुमुक्षोरधिकारिणो ऽनिष्यनिवृत्तीष्यप्राप्तिसाधनप्रतिपादनाय प्रवृत्ताया अस्याः छंदोगोपनिषदो हयग्रीवः प्रथमः ऋषि :। रमादेवी तदनंतरऋषि : । शेषशायी हरिर्देवता । वाक्यरूपत्वान्न छंदच्शिता ।
?Rसाम्नः प्रस्तावप्रतिहारोद्‌गीथोपद्रवनिधनभेदान पंच भक्त्तयः । अंशा इति यावत्‌ । तत्रादावुद्गीथलक्षणसामैकदेशे सर्ववेदार्थप्रतिपादकप्रणवाथर्भूतभगवन्निष्ठोपासनामाह॥ओमित्यादिना ॥ उद्गीथमुच्चत्वगीतत्वसर्वस्थानत्वहेतुभिरुद्गीथनमानं हरिमुपासीत तद्विषयश्रवणमननध्यानरूपोपासना कार्येत्यर्थः । उद्गीथं विशिनष्यि । ओमितीति । अव रक्षणगतिकांतिप्रवेशेत्याद्यनेकार्थस्यावतेः अवतेष्यिलोपश्ऱ्चेति सूत्रेणोमिति रूपसिद्धेरुक्त्तत्वात्‌ । ओतमस्मिन्‌ जगदिति सर्वोपजीव्यमिति वा ओतं नियामकतया जगति प्रविष्यमिति वा अवति माति जानातीति व्युत्पत्या जगद्रक्षकं सर्वज्ञमिति वा अधिकोच्चमिति वा अधिकोच्चत्वेन वेदैर्मितामिति वा ॥ आनंदौजोभर्तृरूपमिति वा हेतोः । ओमिति अव्ययपदेनोच्यमानं एतत्सर्वत्र सन्निहितत्वात्‌ । एतदित्युच्यमानं अक्षरशब्दितमुपासीत ॥ ओंकाराथर्गुणयुक्त्ततयोपासीतेति योजना ॥ इत्योमिति सदोपास्यः सोक्षर इति भाष्योक्त्तेः । पदानामवययार्थाः प्राग्वदेव । ॥ ओंनामार्थत्वं हरेः कुत इत्यत आह ॥ ओमिति हीति ॥ उद्गाता गानं कुर्वन्नादावोमित्युच्चार्यैनं हरिमुद्दिश्य गायति हि यतोत ओंनामकत्वं हरेः ।
?Rअन्यथा हरिमुद्दिश्य गायन्‌ ओमिति आदौ कुत उच्चारयेदिति भावः ॥ अधिकोच्चत्वेन वैदै :प्रमितत्वहेतुना ओमित्युच्यते हरिरित्युक्त्तं तद्य्वक्त्तीकतर्ुं प्रतिजानीते ॥ तस्येति ॥ तस्य ओन्नाम्नो हरेरूप उपपन्नं व्याख्यानं सर्वस्माद्विशिष्यत्वरूपं सर्वोत्तमत्वस्याख्यानं निरूपणं क्रियत इत्यर्थः ॥ 1 ॥ तच्चाधिकोच्चत्वं तारतम्यांतगतत्वेन ज्ञातमेव पुमर्थहेतुरिति भावेन संक्षेपेण तारतम्योक्त्तिपूर्वकमुच्चत्वमाह ॥ एषामिति ॥ एषां प्रमितानां स्वावरभूतानां सकाशादिति शेषः ॥ पृथिवीधरादेवी रसः श्रेष्ठा । एवमग्रेपि ।आपः अबभिमानी वरुणः ओषधय ओषधिमानी चंद्रः पुरुषः पौंस्याभिमानी सदाशिवः वाक्‌ वागभिमानिनी सरस्वती ऋक्‌ ऋगभिमानिनी सरस्वत्येव एकापि वाणी प्राणसंयोगविशेषवत्त्वदशायां ऋगभिमानिनी सती तद्धीनत्वादशायां वागभिमानिरूपात्स्वकीयात्‌ श्रेष्ठत्यवस्थाभेदेन वरावरभावो वाण्या युक्त्त इति ध्येयं ॥ सर्वभूतेषु समत्वहेतुना ससामनामा साममानी प्राणः उद्गीथः प्रागुक्त्तनिरुक्तयोद्गीथनामा हरिः रसः श्रेष्ठ इत्यर्थः ॥ यथा सामनाम्नः प्राणस्य वागादितः श्रैष्ठयमेवमुद्गथनाम्नो हरेः प्राणादितः श्रैष्ठयं न किंतु निरवधिकमिति भावेनैषां भूतानामित्यादेः संग्रहरूपवाक्येन हरेर्महांतं विशेषमाह ॥ स इति ॥ अत्र परम इति पूर्वत्रोत्ततत्र चान्वेति ॥ तथाच रसतम इत्यत्र रस रसतर रसतम परमरसतमेति चतस्रः कक्ष्याः । परमपराध्यर् इत्यत्रापि परमर्ध परमपरर्ध परमपरार्ध परमपरार्ध्येति चतस्रः कक्ष्याः ॥ वाक्यद्वयमेलनेयं वचनव्यक्त्ति : ॥परमपराध्यर्रसतम इति ॥तथा चायं अर्थ :। योष्यमोष्य मकक्ष्यात्वेनोक्त्त उद्गीथः ॥ स एष हरि : रसानां श्रेष्ठनां सकाशात्‌ परमपरार्ध्यरसतमः । । आसमंतादृद्धोर्धः पृथिव्या रसत्वं वरुणस्य रसतरत्वं चंद्रस्य रसतमत्वं पुरुषस्य परमरसतमत्वं पुरुषस्य परमरसतमत्वं वाचः परमर्धरसतमत्वं प्राणस्य परमपरर्धरसतमत्वमुद्गीथनाम्नो हरेस्तु परमपरार्धरसतमत्वं भवति । तर्हि परार्ध इत्येव वात्ये परार्ध्य इति किमर्थमुच्यत इति चेत्‌ । प्राणस्य वागादितः श्रैष्ठयवन्न हरेः प्राणात्‌ श्रैष्ठयं किन्तु परमपरार्धरसतमात्‌ श्रीतत्वादप्यसंख्यागोचरत्वेन ज्ञेयो भगवानिति वक्त्तुं परार्ध्य इत्युक्त्तिः ॥ लोके हि पराधर्पर्यंतमेव संख्यापरिगणनं ॥ तत ऊर्ध्वं न संख्याव्यवहारः अतोऽसंख्यागोचरत्वालाभाय परार्ध्य इत्युक्त्तिरिति भावः ॥ वागृचोरवस्थाभेदेन भेदविवक्षायां तु भूतेभ्यः पृथिव्या रसत्वं ततोवरुणस्य रसतरत्वं ततः सोमस्य रसतमत्वं ततः शिवस्य परमरसतमत्वं ततो वाचः परमर्धरसतमत्वं । तत ऋच : परमपरार्धरसतमत्वं । ततः प्राणस्य परपराधर्रसतमत्वं । ततः श्री तत्वस्य परमपरार्धिरसतमत्वं । ततोऽसंख्यागोचरत्वेन परार्धिना ज्ञेयतया परमपरार्ध्यरसतम उद्गीथो हरिरिति ज्ञेयं ॥ 2 ॥ तरतमभावेन निर्दिष्टेषु पृथिव्यादिषु पृथिव्याः तथा ओषध्यब्देवतयोः सोमवरुणयोः रुद्रस्य लिङ्गदेवस्य वाचः द्विरुक्त्तिः ऋगादिस्वरूपज्ञानकुतूहलनिमित्ता इति विमृष्यं विचारविषयीकृतं भवति । ज्ञिज्ञासितं भवतीति यावत्‌ । ऋगादिस्वरूपमाह ॥ वागेवेति ॥ ऋगिति वाङ्मानिनी वाण्येव । ऋ गताविति धातोः प्राणेन संगता सती ऋगित्युच्यत इत्यर्थः । सर्वभूतेषु समत्वात्सामानित्वाच्च प्राणो मुख्यवायुः सामेत्यर्थः
?R। प्रागुक्त्तव्युत्पत्या ओमित्युच्यमानं एतत्सर्वसन्निहितं अक्षरं प्रागुक्त्तव्युत्पत्त्या अक्षरमित्युक्त्तो हरिरेवोद्गीथ इत्यर्थः ॥ 3 ॥ उद्गीथस्य ऋक्सामभ्यां रसत्वोक्त्तिरयुक्त्ता तयोंरतिमहत्वादित्यतो मुक्त्तौ तदायतनत्वादित्याह ॥ तद्वा एतदिति ॥ वाक्च प्राणश्ऱ्च ऋक्च साम चेति यत्तदेतद्द्वयं मिथुनं वै नित्यं दांपत्यरूपेणावियुक्त्तं वै प्रसिद्धं । अवस्थाभेदमादाय वाणीवाणीशयोर्वाक्च प्राणश्ऱ्च साम चेति पृथगुक्त्तिः । तदेतन्मिथुनं दंपती । ओमित्युच्यमाने सर्वसन्निहिते अक्षरनाम्नि हरौ । संसृज्यते संगतौ भवतः मुक्त्ताविति शेषः । शेषादीनां हरौ संसर्गसत्वोपि एतं प्राणं प्रविश्यैतत्प्रसादेनैव न साक्षात्‌ । अनयोस्तु नान्यद्वारा किंतु साक्षादेवेत्यनयोर्विशिष्य तत्संसर्गोक्त्तिः ॥ 4 ॥ वाक्प्राणयोर्मुक्त्तौ भगवत्प्राप्त्यनंतरं किं भवतीत्यत आह । यदा वै मिथुनौ (ने ) दंपती समागच्छतः हरिं प्राप्नुतः तदा तौ वाक्प्राणौ अन्योन्यस्य काममभीष्यमापयतः प्रापयतः प्राप्नुत इति वा इति वा वाक्प्राणयोरुद्गथसंसर्गज्ञानिनः फलमाह ॥ आपयितेति ॥ योधिकारी । एतदक्षरमुद्गीथं सर्वत्र सन्निहितमविनाशादिगुणकतयाक्षरमित्युक्त्तमुद्गीथनामकं हरिमेवं मुक्त्तौ वाक्प्राणायतनत्वेन तदभीष्यदातृत्वेन विद्वानुपास्ते । स :कामनामापयिता प्राप्ता भवति । ह वै प्रसिद्धं ॥ 5 ॥ पूर्वं हरेरोन्नामकत्वमोमिति ह्युद्गायतीति साधितं इदानीं प्रकारांतरेण तत्साधयति ॥ तद्वा एतदिति ॥ तदेतदोमित्यक्षरमनुज्ञा अनुज्ञाप्रदं वै । कथमनुज्ञाक्षरत्वमस्येत्यत आह ॥ यद्धीति । इदं मयाक्रियते भवाननुजानात्विति केनचित्पृष्योन्यः प्राज्ञः हरिस्त्वया क्रियमाणं तथा कुर्यादिति यत्किंचिदनुजानाति अनुज्ञां दत्ते । तत्‌ तत्र तादृशानुज्ञार्थविषये । ओमित्येतदेवाक्षरमाह । िंह यस्मात्तस्मादोन्नामा हरिरिति योज्यं । हरेरोन्नामकत्वाभावे तादृशानुज्ञार्थविषये ओमिति कथं ब्रूयादसंगतिप्रसंगादिति ।ओमित्यस्यानुज्ञाप्रदोहरिरर्थः इति समर्थ्य इदानीं हरेः पूणर्त्वमप्योमित्यस्यार्थ इत्याह- एषो इति ॥ यदनुज्ञा यानुज्ञा यदोमित्यनुज्ञाक्षरं एषो एषा उ एव समृद्धिः । एतत्समृद्धिवाचि तव कामं समृद्धं हरिः करोत्विति वानुज्ञादानविषये । आरेमित्यनुजानाति प्राज्ञः । समृद्धयर्थताभावे समृद्धिदोस्तु हरिरित्यस्मिन्नर्थे ओमिति कथमनुजानीयादिति भावः । समृद्धिदो हरिरोमित्यस्यार्थ इति जानतः फलमाह- समर्द्धयितेति ॥ कामितप्राप्तौ शक्त्तो भवतीत्यर्थः ॥ 6 ॥
?Rओमित्यस्य सर्ववेदार्थबोधकत्वमप्यस्तीति भावेनाह- तेनेति ॥ तेन ओमित्येतदर्थभूतेन विष्णुना स्वप्रतिपाद्यतया विद्यमानेनेयं त्रयीविद्या । ऋग्यजुः सामरूपा प्रणवार्थ विष्णुं प्रतिपादयंत्येव वर्तते प्रवर्तत । इत्यर्थ । तद्य्वनक्त्ति - ॥ ओमितीति ॥ एतस्यैवाक्षरस्य हरेरपचित्यै पूजार्थं ऋगादिवेदः । ओमित्युक्तवा तदर्थमेवोद्गायति । एतस्यौवापचित्या इति वाक्यक्षयेप्यन्वेति । एवमोन्नाम्नो हरेः सर्वोत्तमत्वं सर्ववेदार्थत्वं चोक्तवा सर्वप्रवर्तकत्वं चाह ॥ महिम्नेति ॥ सर्ववेदार्थत्वादिमहिमवता रसेन सारभूतेन तेनोन्नामकेन हरिणा । उ्रअभौ कर्म कुरुतः । का उभौ यश्ऱ्च तदक्षरं एवमुक्त्तमहिमयुक्त्ततया वेद । यश्ऱ्च न वेद तावुभौ ज्ञाज्ञावित्यर्थः ॥ 7 ॥ सर्वोजनस्तेन कर्म करोतीत्यनुक्तवा ज्ञाज्ञाविेभागोक्त्ति : कुतः इत्यतः विद्याविद्ययोर्विलक्षणत्वादित्याह ॥ नानात्विति ॥ विद्याचाविद्याचेति ॥ नाना विलक्षणफलहेतू । अतो विभागेनोक्त्तिरिति । विलक्षणफलहेतुत्वं कथमित्यतः प्राधान्यादन्योपलक्षणत्वेन विद्याफलं दर्शयति ॥ यदेवेति ॥ उपनिषदा स्वयोग्यया विद्या यदेव करोति । तदेव कर्मापरोक्षज्ञानात्पूर्वतनं चेत्‌ साक्षात्कारद्वारा वीर्यवत्तरं मुक्त्तिहेतुर्भवति । भाक्त्तं वा नात्मवित्त्वादित्युक्त्तेः । साक्षात्कारानंतरभावि चेत्‌ मुक्त्तावतिशयफलहेतुर्भवतीत्यर्थः । यदेव विद्ययेति हीति सूत्रात्‌ । पुरुषार्थनयेतु तच्छ्रुतेरिति सूक्षेऽपरोक्षिणा क ृतं कर्म मोक्षतरफलं वीर्यवत्करोतीत्युक्त्तं । यदविद्यया करोति न तस्य वीर्यवत्‌ मुक्त्तिहेतुर्नेत्यप्युपलक्ष्यते । तस्योपव्याख्‌यानमित्युपक्रम्य कृतं प्रणवव्याख्यानमुपसंहरति ॥ इति खल्विति ॥ एवमुक्त्तदिशा खल्वेतस्यैवाक्षरस्योप समीपे वाचप्तया स्थितस्योमित्यस्य व्याख्यानं । अधिकोच्चत्वाद्यर्थकत्थनरूपं व्याख्यानमित्यर्थः ॥ 8 ॥ 1॥ उद्गीथमुपासीतेत्युक्त्तं प्राक्‌ । तदुपासनं कुत्रेत्यत; वायोरेवोद्गीथाख्यविष्णोर्मुख्यापतिमात्वात्तस्य सर्वजीवोत्तमत्वज्ञानपूर्वकं तस्मिन्नेव तत उत्तमत्वेनोपासनं कार्यं । तत्र तथोपासित एवेष्यफलप्रद इति दर्शयितुं तदुत्तमत्वं आख्यायिकयाह ॥ देवासुरा ह इति ॥ प्राजापत्याः कश्यपप्रजापतिपुत्रा उभये वर्गद्वयरूपा देवासुराः यत्र यदा संयेतिरे युद्धसन्नद्धा बभूवु : ह वै तद्द तदा देवाः उद्गीथमुपास्याजह्रुरभीष्यदं चक्रुरनेनोद्गीथेनोपासितेन एनान्‌ असुरानभिभविष्यामः । पराभूतान्‌ करिष्याम इति बुद्धयोद्गीथमाजह्रुरित्यन्वयः ॥ 1 ॥ त एवं निर्णयवंतः कुत्रोपास्याजह्रुरित्यपेक्षायां वायाविति वक्त्तुपुपासना स्थानान्याह ॥ ते हेति ॥ ते देवा नासिक्यं नासिकाभिमानिनं वायुपुत्रं प्राणं सप्तम्यर्थे द्वितीया नासिक्यप्राणे उद्गीथं हरिपुद्दिश्योपासांचक्त्त्रर इत्यर्थः । एवमग्रेप्यर्थो ध्येयः । तं ह नासिक्यप्राणं पाप्मना विविधुः पापवंतमकुर्वत । पाप्मना हि यतो विद्धः तस्मात्तेन प्राणेनोभयं जिघ्रति जीव इत्यर्थः । एवमग्रेपि ॥ 2 ॥ अथ प्राणस्यासुरकृतपापवेधानंतरं वाचं वह्निं वाचीत्यर्थः ॥ 3 ॥ चक्ष ुः चक्षुषि सूर्ये श्रोत्रं श्रोत्रे
?Rसोमे मनः मनसि रुद्रे । उपलक्षणं । अहंमानिनि शेषे चित्तात्मनि गरुडे चेत्यपि ग्राह्यं ॥ तमिति ॥ तस्मिन्‌ मुख्यप्राणे ऋत्वा प्राप्य विदध्वसुः विध्वस्ता अभूवन्‌ । कथ यथा आखणं आदरणीयमश्मानमृत्वा प्राप्य लोष्ठ इति शेष : । विध्वंसेत । एवमिति प्राणप्राप्तासुरविध्वंसनवेदिनः फलमाह ॥ स यथेति ॥ वक्ष्यमादृष्यांतो यथेत्यर्थः । विध्वंसते लोष्ठ इति शेषः । एवं हैव सवै विध्वंसते स कः य एवं विदि प्राणप्राप्तासुरविध्वंसनवेदिनि पापं प्रतीपकरणं कामयते यश्ऱ्चैनं प्राण विदमभिदासति हंतुमिच्छति स इत्यर्थः । स एष प्राणमहिमज्ञानी आखणोश्मा ॥ 4 ॥ प्राणविदः फलांतरं चाह ॥ नैवेति ॥ एतेन प्राणमहिमज्ञानेन सुरभिदुर्गंधि च नैव विजानाति सुरभ्येव जानातीत्यर्थः । तेन ज्ञानेनापहतपाप्मा ह्येष प्राणज्ञानी भवति । पापा विद्धत्वेद्देहस्थो मुख्यप्राणो महानित्युक्त्तं अशनादिना इतर प्राणरक्षकत्वाच्च महानिति भावेनाह … यदिति । सर्वप्राणिशरीरस्थो मुख्यप्राणो यदश्ऱ्नाति यत्पिबति तेनाशनादिना इतरान्‌ घ्राणादिप्राणान्‌ अवति ततश्ऱ्च महानिति योज्य । किंच एतं मुख्यप्राणमेवां ततः सर्वजीवोत्तमत्वेन विदित्वोत्क्रामति मुक्त्तो भवति । मुक्त्तिहेतुज्ञानविषयत्वाच्च महान्‌ प्राण इत्यर्थः । ननु नान्यः पन्था अयनायेत्युक्त्तेः कथमेतदित्यत आह ॥ व्याददात्येवांतत इति । वि विशिष्यं विष्णुं अंततः सर्वोत्तमत्वेनाददात्येव स्वीकारोत्येव मुख्यप्राणप्रसादाज्जानात्येवेति हेतोर्न दोष इत्यर्थः । 5 ॥ न केवलं देवा एव स्वकाय
?Rसिद्धये प्राणमुद्गीथमुमासिवंतः किंतु ऋषयोपीत्याह ॥ तं हेति ॥ तस्मिन्मुख्यप्राणे ह अंगिरा नाम ऋषि : उद्गीथमुपास्तेत्यर्थः । अन्ये च मुनय उपासतेत्यप्युपलक्ष्यते । प्राणे उद्गीथमुपास्य ऋषयो न केवलमभीष्यसिद्धिमाप्ताः किंतु स्वस्वनामानि च भेजिर इति फलवाक्यमप्यत्र ग्राह्यं । अंगिरः प्रभृति मुनिनामानि मुख्यरो वायोरेव तत्प्रसादेनैषा नामानि प्राप्तानीति भावेनाह ॥ एतासु एवेति । मुख्यप्राणमेव मन्यंते प्राज्ञाः । कुतः यत्‌ यस्मादंगानां सर्वप्राणिशरीराणां रसो नियंता तेन कारणेनेति । एवमन्यमुनिनामानिर्वचनमपि प्राणे ग्राह्यं । एवं देवाः अपि प्राणे उद्गीथोपासनया स्वस्वनामानि भेजिरे । तस्यैव तु तानि नामानि मुख्यानीत्याह ॥ तं बृहस्पतिरिति ॥ तस्मिन्‌ प्राण इत्यर्थः ॥ चक्र इत्यनंतरं बृहस्पतिरिति च नाम लेभे इति शेषः । कुत इत्यतो वायावेव तन्नाम्नो मुख्यत्वादित्याह ॥ एतमिति ॥ मुख्यप्राणमिति प्राग्वदर्थः तमिति तस्मिन्नित्यथर्ः । चक्र इत्यनंतरं अयास्येति नाम लेभे इति शेषः । कुतः वायावेव तन्नाम्नो मुख्यत्वादित्याह ॥ एतमिति ॥ अस्यान्मुखादयते गच्छति । दाल्‌भ्यो दल्भ्यपुत्रो बको नाम मुनि : तमुक्त्तमहिमयुक्त्तंय प्राणं विदाचकार ज्ञातवान्‌ ॥ 6 ॥ स प्राणज्ञानी बकः नैमिशीयानां नैमिशारण्यवासिनामुद्गाता बभूव । स ह एभ्यः कामान्कामितान्‌ आगायत गानेन प्रापितवान्‌ । अतः क ारणात्‌ । य एव प्राणमाहत्म्यं ततोतिमाहात्म्यं च हरेः विद्वानक्षरं उद्गीथं हरिमुपासे स कामानामागाता भवति गानेन कामितप्राप्ता भवति इत्यध्यात्मं देहस्थप्राणादिगतोद्गीथोपास्तिमाहात्म्यं निरूपितमित्यर्थः ॥ 7 ॥ 2 ॥ अथाध्यात्मोद्गीथोपास्त्युक्तयनंतरं अधिदैवतगतोद्गीथोपास्तिरुच्यत इत्यर्थः । तदाह ॥ य एवेति ॥ य एवासौ सूर्यमंडलस्थो वायुस्तपति प्रकाशते । तं द्वितीया सप्तम्यर्थे । तस्मिन्नुद्गीथं हरिमुपासीत एष मुख्यवायुः स्वत उदयास्तमयहीनोपि उद्यन्मडलोदयेन प्रजाभ्य उद्यन्निव सन्नुद्गायति । हरिमिति शेषः । उद्यन्मंडलद्वारोद्यन्नुभयं तमः । बाह्याभ्यंतरं तमोपहंति एवं वेदिनः फलमाह ॥ अपहंतेति ॥ एवं उभयतमोहंतृत्वेन प्राणं वेद स उभयस्य तमसोपहंता ह वै भवति ॥ 1 ॥ आध्यात्माधिदैवतोद्गीथोपासनयोर्मध्ये किमुपासनं साध्वित्यतो द्वयमपि समानमिति भावेनोभयत्र स्थितवाय्वो रुष्णत्वादिना साम्यमाह ॥ समान इति ॥ अं देहस्थः । असौ मंडलस्थश्ऱ्च समान एव उ खलु कथमुष्णोयं देहस्थो वायु : । उष्णोसौ सूर्यमंडलगः । इमं देहस्थ ं वायुं स्वर इति । स्वे स्वतंत्रे रमत इति स्वर इतयाचक्षते प्राज्ञाः । अमुं सूर्यमंडलगं प्रत्यास्वर इति आ समंतात्‌ मां प्रति मां मा प्रतीति प्रति पुरूषाभिमुख्येन स्थितमंडलस्थत्वात्‌ स्वे विष्णौ रतत्वाच्च प्रत्यास्वर इत्याचक्षते तस्मादध्यात्माधिदैवगतवाय्वोरुष्णत्वादिना समत्वात्‌ । एतमित्यस्य विवररमिमममुं चेति सप्तम्यौ देहस्थे सूर्यगे च वायावुद्गीधमुपासीतेति ॥ 2 ॥ व्याननिष्ठोद्गीथोपास्तिमाह ॥ अथ खल्विति ॥ स्थलांतरे उपास्त्युक्तयारंभार्थोथ शब्दः । व्यानस्यातिशयद्योतकः खलु शब्दः व्यानं व्यानाख्यमुख्यवायुरूपमेष । उद्गीथं हरिमुपासीत । को विशेषस्तस्येत्यतो हेतुत्रयं विवक्षुरादौ प्राणापानसंधिप्रवर्तकत्वं हेतुं तावदाह । य उद्गीथेनानुप्रविष्यः सन्‌ प्राणापानयोस्संधि : संधिप्रवर्तकः स व्यान इति कौ प्राणपानावित्यतः तल्लक्षाणोक्त्तिपूर्वं तावाह ॥ यद्वा इति ॥ यत्‌ यः प्राणिति ऊध्वर्ं प्राणनं करोति स यत यो अपानिति अधो मलादि नयति सोपान इति वागृक्‌ सामोद्गीथप्रवर्तकत्वं द्वितीयं हेतुमाह या व्यानः । व्यानेनुप्रविष्यः प्राणापानसंधिकर्तोद्गीथः । सा वाक्‌ वाचि तिष्ठति विधे यापरोक्षया सेति स्त्रीलिंगं । वाग्व्यवहारः प्राणादिना किं न स्यादित्यतो नेत्याह ॥ तस्मादिति । व्यानगस्य वग्गतत्वेन वाग्व्यवहारहेतुत्वादेवाप्राणन्ननपानन्‌ प्राणापानौ निरुध्य
?Rवाचमभिव्यांरत्यतो व्यानग एव वाचि गतः सन्‌ वाग्व्यवहोरप्रवर्तक इति । या वाक्‌ वाचिस्थः ।सा ऋक्‌ ऋचिस्थः । तस्मात्‌ व्याने वाचि चानुगतस्योद्गीथस्यैव ऋचि स्थिततया ऋगभिव्याहरणहेतुत्वादेव आप्राणन्नित्यादि प्राग्वत्‌ या ऋक्‌ ऋचिस्थो य उद्गीथनामा हरिः । तत्साम स सामगतः । तस्मात्‌ व्यानवागृगनुगतस्यैव सामगत्वेन सामगानप्रवर्तकत्वादित्यर्थ : । यत्साम । यः सामग; स उद्गीथः सामभेदरूपोद्गीथस्थः तस्माद्यानादष्वनुगतस्यैवोद्गीथरूपसामभेदस्थत्वेन उद्गानप्रवर्तकत्वादित्यर्थः ॥ अत इति ॥ अतो व्यनस्य प्राणादितोतिशयितत्वात्‌ तत्रोद्गथमुपासीतेति योजना ॥ 3 ॥ व्याने उद्गीथोपस्तौ तृतीयमपि हेतुमाह ॥ यानीत्यादिना ॥ यान्यन्यानि वीर्यवंति कर्माणि तान्याह ॥ अग्नेरित्यादिाना ॥ मथनं अरणिभ्यां मथनं आजेः युद्धस्य सणणं गमनं दृढस्य धनुष आयमनं अवनमनं ज्यारोपणमिति यावत्‌ । तानि च कर्माणि अप्राणन्ननपानन्‌ करोतीत्येतस्य हेतोः । एतस्मात्‌ कारणात्‌ व्यानं व्याने उद्गीथमुनोसीतेत्युपसंहारः ॥ 4 ॥ उद्गीथाक्षरप्रतिपद्यप्राणादिस्थितभगवदुपास्तिमाह । अथ खल्वित्यादिना ॥ अक्षराणि अक्षरप्रतिपाद्यप्राणादिस्थितोद्गीथं उपासीतेत्यथर्ः । तान्यक्षराणि निर्दिशति ॥ उद्गीथ इति ॥ अक्षरप्रातिपाद्यान्याह ॥ प्राण एवोदिति ॥ तदुपपादयति ॥ प्राणेनोत्तिष्ठत्युत्पत्त्यादिमद्भवति हि यतोत :प्राण उदित्युच्यत इति वाक्‌ वाणी । गीरित्युक्तं व्यनक्त्ति । वाचो हीति । वाच इति द्वितीयांतं हेति प्रसिद्धिमाह । अन्नंथमित्युक्त्तं व्यनक्त्ति ॥ अन्ने(न )हीति ।सर्वं प्राणिजातं स्थितं स्थितिमत्‌ हि यतोत इति । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायत इत्यादावन्नाभिमानी ब्रह्मा प्रसिद्ध इति भाष्ये तदनुक्त्तिः । द्यौरित्यादिपदैरभिमानिनयन्यायेन तत्तदभिमानिन उदाद्यक्षरवाच्या ध्येयाः वायुः भूतवायुमानी ज्ञानिनः फलमाह ॥ दुग्ध इति ॥ योधिकारी उत्‌ गी थ इति एतान्युद्गीथाक्षराणि एतेषूद्गीथाक्षरेषु उदाद्यक्षरवाच्येषु प्राणादिषु चतुर्वर्गेष्विति यावत्‌ । स्थितं हतिमुपास्ते अस्मै उपासकाय यो वाचोदोहोस्ति प्रसिद्धः तं वाग्दोहं । दुग्धे ददाति । उपासित उद्गीथनामा हरिरिति योजना अन्नवानन्नादश्ऱ्च भवतीत्यर्थः ॥ 5॥ आशिषां समृद्धयर्थं तत्कारणं । त्कारणस्थितभगवदुपासनमाह ॥ अथ खल्विति। आशीस्समृद्धिः । आशिषामाशास्यमानानां समृद्धिः । आशिषामाशास्यमानानां समृद्धिः समृद्धिकारणान्युच्यंत इत्यर्थः ॥ तानि कानीत्यत आह ॥ उपसरणानीति ॥उपसारयंत्यभीष्यमित्युपसरणानि । सामदेवताप्रभृतीनि आशीस्समृद्धिकारणानि । उपसरणानीति मत्वा तानुपासीत । उपसरणान्याह ॥ येनेत्यादिना । येन बृहद्रथंतरादिना साम्ना स्तोष्यन्‌ स्तोत्रं करिष्यन्‌ स्यात्‌ तत्सामोपधावेत्‌ आददीत तत्सामगं हरिं सर्वोत्तमत्वेन ज्ञात्वा तत्साम गायेदित्यर्थः ॥ यस्यामृचीति ॥ साम्नास्तोष्यन्‌ स्यादित्यनुषज्यते तामृचमुपधावेदित्यप्यनुज्यते । एवमग्रेपि । तदृक्‌ स्थितं हरिं सर्वोत्तमत्वेन ज्ञात्वा तदृगध्यूढं साम गायेदित्यर्थः । यदार्षेयं यदृषिकं सामादि तमृषिं तदृषिगतं सर्वोत्तमत्वेन ज्ञात्वा तदृषिकमभिव्याहरेद्यिर्थः । यद्देवतां यां देवतामभिष्योष्यन्‌ स्यात्‌ तां देवतामुपधावेत्‌ तद्देवतास्थं हरिं सर्वोत्तमत्वेन ज्ञात्वा स्तुवीतेत्यर्थः ॥ तच्छंद उपधावेदिति ॥ तच्छंदोभिमानिदेवतास्थं हरिं सर्वाधिक्येन ज्ञात्वा तच्छंद आददीतेत्यर्थ : । तं सोमं । सामोपेतत्रिवृत्पंचदशादिऋग्विशेषसमुदायं उपधावेत्‌ । तत्रत्यं हरिमुक्त्तरूपेण ज्ञात्वा त स्तोममभिव्याहरेदित्यर्थः । यां दिशं अभिप्रति तां दिशं तद्दिगवस्थितं हरिमुक्त्तरूपेण ज्ञात्वोपधावेत्‌ आददीतेति । पूर्वत्र व्यानमुद्गीथमुपासीतेत्यादौ तां दिशमित्येतदंतं हरेस्तदात्मकत्वेनोपास्तिः प्रतीयते । तां प्रतीतिं उपनिषत्स्वयमेव निवारयति ॥ आत्मानिमति । आत्मानं परमात्मानं अंततः सर्वोत्तमत्वेन सर्वत्र सर्वासूपास्तिषु उपसृत्य ज्ञात्वा स्तुवीत उपासीतेति यावत्‌ । कथं कामं स्वकामितं ध्यायन्नुद्दिश्येति यावत्‌ । अप्रमत्तः प्रमादहीनः सन्‌ स्तुवीतेत्यर्थः । यद्यस्मादस्मै स्तोत्रे सकामः अभ्याशः समीप एव शीघ्रमिति यावत्‌ । समृध्येत यत्कामः स्तुवीत स काम इत्यर्थः । द्विरुक्तिस्तात्पर्यद्योतनाथर्ा समाप्त्यर्था वा ॥ 6 ॥ 3 ॥ पूर्वमुद्गीथैकदेशप्रणवोपास्तेः फलानुक्त्तेस्तामनुवदन्‌ मोक्षरुूपफलमाख्यायिकयाह ॥ ओमित्यादिना ॥ पूर्ववदर्थो ध्येयः । तस्य अक्षरस्य हरेः उप वाचकतया समीपस्थस्योमित्यस्य व्याख्यानं तदर्थोपासनस्य मुक्तिहेतुत्वनिरूपणमाख्यायिकापूर्वं क्रियत इत्यर्थः । देवा वै देवाः खलु मृत्योः मारकत्वहेतुना मृत्युनाम्नया दुर्गायास्सकाशाद्बिभ्यतो भीति युक्ताः सन्तः । त्रयीं विद्यां प्राविशन्‌ शरणमिति शेषः । प्रणवेन विना केवलं ऋगादिवेदाध्ययनतदर्थोपासनादि चक्रुरित्यर्थः । अग्निमीले वायवायाहीत्यादि । स्वनाम्ना वेदोपवद्धा इत्यर्थ इत्येके । ते देवाः छन्दोभिः वेदैरात्मानमाच्छादयन्‌ नित्यं तदेकशीला अभूवन्‌ । कथमेतज्ज्ञायत इत्यत आह ॥ यदिति ॥ एभिः छन्दोभिः आच्छादयन्निति यत्‌ तदेव छन्दसां छन्दस्त्वं छन्दः पदप्रवृत्तिनिमित्तमिति कृत्वा ज्ञायत इत्यर्थः । तानु तान्‌ उ तत्रेत्यस्य विवरणं ऋचीत्यादि ऋगादित्रयीवविद्यायां स्थितान्‌ पर्यपश्यत्‌ उ पर्यपश्यदेव मृत्युः । कथं यथा मत्स्यं उदके परिपश्येदेवमिति । ऊर्ध्वा उत्तमास्ते देवाः । वित्त्वा विदित्वा मृत्युरस्मानपश्‌यदिति विदित्वा । ऋचः साम्नो यजुषः ल्यब्लोपे पंचम्यः । ऋगादिपरित्यज्यस्वरमेव प्राविशन्‌
?Rस्वातन्त्ऱ्ात्स्वो विष्णुः तद्रतेः स्वरो वायुः । तत्र स्वराख्ये स्थितम्‌ । स्वरमणतया स्वराख्यम्‌ । विष्णुमेव स्वराख्यप्रणवप्रतिपाद्यम्‌ । शरणं प्राविशन्नित्यर्थः । कथमेतज्ज्ञायत इत्यत आह ॥ यदेति । केवलऋगादीनां मृत्युतो रक्षणे शक्त्यभावादेव खलु इदानीं तनो यदा ऋचमाप्नोति अधीते तदा ओमित्येवाभिस्वरति । प्रणवपूर्वकमेवाधीत इत्यर्थः । एवं प्रणवपूवर्कमेव सामाधीते । यजुरधीत इत्यर्थः । कः स्वरवाच्यः इत्यतः श्रुतिः । स्वयमेवाह एष उ एष एव । स्वरः स्वराख्यप्रणव वाच्यः । यदेतदक्षराख्यं ब्रह्म तस्य महिमानमाह । एतदमृतमभयमिति । तत्प्रविश्य तदुपास्य दवाः अमृता मुक्ता अभया अभवन्निति न केवलं देवा एव प्रणवार्थोपासनया अमृतत्वमाप्ताः किंत्वन्यस्यापि तदुपासनयाऽमृतत्वं भवतीत्याह ॥ स य इति । योधिकारी एतदक्षरं ब्रह्म । एवं प्रणवार्ततयोपासितं सत्‌ देवानां मुक्त्यादिदमिति विद्वान्‌ प्रणौति प्रणवेन स्तौति । स एतदेवाक्षरं स्वरं स्वरप्रतिपाद्यममृतं अभयं हरिं प्रविशति । तदक्षरं प्रविश्य देवाः यदमृताः यस्मान्मत्युतो मृतिहीनाः अभवन्‌ तदमृतः तस्मान्मृत्युतो मृतिहीनो भवति । मुक्तो भवतीति यावत्‌ । 2 । 4 । द्वितीयखण्डे समग्रोद्गीथोपासकस्य एतमु एवान्ततो विदित्वोत्क्रामतीति मोक्षाख्यफलमुक्तमिदानीं बहुपुत्रावाप्तिफलां समग्रोद्गीथनिष्ठमुपास्तिमाख्यायिकयाह । अथ खल्वित्यादिना । अथ शब्दो विद्यान्तरारम्भार्थः । य उद्गीथ उच्चैर्गेयत्वहेतुना उद्गीथनामा हरिः स प्रणवः प्रकृष्यत्वनेतृत्वसर्वगतित्वहेतुभिः प्रणवनामा सन्‌ प्रणवाख्यवायुस्थः यः प्रणवः प्रणवाख्यवायुगः स उद्गीथ इति पुनरुक्तिरभेदोपचारनिवृत्त्यर्था । इति खलु प्रसिद्धमित्यर्थः । यद्वा । इत्युपास्यन्निति शेषः । उद्गीथो वायुग इत्युक्तम्‌ । कुत्र स्थिते वायौ प्रणवनामोद्गीथस्तिष्ठतीत्यत आह ॥ असाविति । असावादित्य आदित्यस्थ उद्गीथो हरिः एष उद्गीथः प्रणवः । आदित्यस्थप्रणवशब्दितमुख्यवायुगत इत्यर्थः । एष आदित्यस्थवायुगत उद्गीथो हरिः । ओमिति स्वरन्‌ एति संचरति । हि प्रसिद्धम्‌ ॥ 1 । एतमु एवादित्यगतमुख्यवायुस्थमोमिति स्वरं तमुद्गीथमेकमहमभ्यगासिषं गानेन स्तुतवान भूवम्‌ । तस्मादेकस्योपासनात्‌ मम त्वमेकोसीति ह कौषीतकिर्नाम मुनिः पुत्रमुवाच । पुत्रं प्रत्यन्यदप्युक्तवानित्याह ॥ रश्मीनिति ॥ हे पुत्र त्वं रश्मीन्‌ रश्मिषु स्थितवायुगतभगवद्रूपाणि । पर्यावर्त्तयतात्‌ उपास्स्व । ते एवं ध्यायतस्तव बहवः पुत्रा भविष्यन्ति । अन्ततो विमुक्तिश्ऱ्च भविष्यतीति च पुत्रमुवाचेति योजना इत्यधिदैवतं पुत्रफलको पास्तिरुक्तेत्यर्थः । 2 । अथाद्यात्मम्‌ । सैवोपास्तिरुच्यत इत्यर्थः । य एवायं देहगो मुख्यप्रणस्तं तस्मिन्नुद्गीथं हरिमुपास्यन्‌ अभ्यगासिषमित्यन्वयः । एष प्रणग ओमिति स्वरन्‌ जपन्नेति । 3 ॥ एतमु एव देहस्थप्रणगतमुद्गीथमहभ्यगासिषं तस्मादित्यादि प्राग्वत्‌ । प्राणान्‌ प्राणेषु स्थितं भूमानं परिपूणर्ं हरिम्‌ । इति पुत्रमुवाचेत्यनुषंगः । 4 । अथ खल्विति विद्यासमाप्तौ पुनरुक्तिः । दुरुक्त्यादिहेतुप्कपापनिवृत्त्यर्थापास्तिमाह ॥ होत्रिति । अग्निर्वै होतेत्युक्तेः होता सदनमाश्रयो यस्य स होतृषदनोग्निः । होतृषदनात्‌ होतृषदनाख्याग्निस्थितात्‌ । ल्यब्लोपे पंचमी । होतृषदनस्थं हरिमुपास्यैव दुरुद्गीतमनु समाहरति । अनुरूपमेव करोतीष्यहेतुं करोतीत्यथः । द्विरुक्तिरादरार्था विद्यासमाप्त्यर्था वा 5 ॥ 5 ॥ वाच ऋग्रसः ऋचः सामरस इति प्रकढतऋवक्सा मयोश्ऱ्चेश्ऱ्वरवर्गत्वात्‌ अधिदैवमध्यात्मं च तदुपास्तिपूर्वं तत्परिवृतोद्गीथोपास्तिमाह । इयमेवेत्यादिना । इयमेव पृथिवीस्थैव वाणी ऋगित्युच्यते । अग्निरग्निस्थोग्निनामा वायुः साम । साममानी वायुः सर्वत्र समत्वात्सामेत्युच्यते तदेतस्यामृचि ऋग्देव्यां वाण्यां अध्यूढमारूढं साम तस्मात्‌ऋग्देव्यां सामनाम्नो वायोरध्यूढत्वादेवाखिलैः जनैः 6च्यध्यूढं बाह्यं साम गीयते । वाणी वाणी शावित्येतद्‌द्वयं एकशरीरं सामनामकं वर्तत इत्याह । इयमित्यादिना । इयमेव पृथिवीस्थैव वाग्देवी सेत्युच्यते । अग्निस्थो वायुरमः तदुभयं मिथुनं सामेत्युच्यते । 1 । एवमन्तरिक्षद्युनक्षत्रादित्यघटिते वाक्यचतुष्ययेपि योजना ध्येया । अन्तरिक्षमन्तरिक्षस्थावाग्देवी वायुः भूतवायुस्थः प्राणः । 2 । द्यौरेव द्युलोकस्था वाणी । आदित्य आदित्यस्थः प्राणः । 3 । नक्षत्राण्येव नक्षत्रस्था वाणी । चन्द्रमाः चन्द्रमस्थः प्राणः । 4 । शुक्लम्भाः शुक्ले भासि प्रकाशे स्थिता वाणी कृष्णं अत्यन्तकृष्णं यन्नीलं तत्रस्थः प्राणः । सैवेति तत्रस्थेत्यर्थः । 5 । किमेतौ वाणीवाणीशौ पधानपूज्यावित्यतोऽन्यसेवकातयेति वक्तुं तत्सेव्यं तन्महिमानं चाह । अथ य इति । अर्थान्तरे अथ शब्दः । य एष आदित्यान्तः पुरुषो हिरण्मयः विलक्षणसुखरूपः स्वर्णवर्ण इति वा दृश्यते ज्ञानदृष्यया हिरण्यश्मश्रुः आप्रणखात्‌ नखपर्यन्तम्‌ । सर्व एव विग्रहः सुवर्णः अत्न्नतसुखरूप इत्यर्थः । 6 ॥ तस्यादित्यस्थस्य हरेः यथा कप्यासं कमुदकं पिबन्नालं कपि तत्रास्त इति पप्यासं पुण्डरीक रक्तपद्मं यथा एवमेतस्यादित्यस्थस्याक्षिणी । कं पिबन्नालसम्बन्धि नलिनाय तलोचन इत्यर्थः । तस्योदिति नाम कुत इत्यत आह । स एष इति । उदितः उद्गतः । ज्ञानिनः फलमाह । उदेतीति । 7 ॥ एवं सेव्यमुक्त्वा तत्सेवकावेतावित्याह । तस्येति । आदित्यस्थस्य ऋक्साम वाक्प्राणौ । गेष्णौ गायकौ तस्मात्‌ वाक्‌ प्राणाभ्यामुद्गीथत्वादानिदत्यस्थः उद्गीथः उच्चोसौ गीयते चेत्युद्गीथः । तस्मादेव वाक्‌ प्राणयोरेतद्गायकत्वादेवोद्गता ऋत्विक्‌ ।
?Rएतस्यादित्यस्थस्य गाता हि प्रसिद्धम्‌ । स एष आदित्यस्थः ये च अमुष्मात्‌ स्वर्गात्‌ परांच उपरितनलोकास्तेषां चेष्ये देवकामानां स्वर्ग्य कामानां चेष्ये ईशो वर्तत इत्यधिदैवतमुद्गीथोपास्तिरुक्तेत्यर्थः । 8 । 6 ॥
?Rअथाध्यात्मं देहस्थाक्षिगतस्योपातिरुच्यत इत्यर्थः । वागेव वार्गिन्द्रियस्था वाणी । प्राणः देहस्थप्राणेषु विद्यमानो मुख्यप्राणः । वागेवेत्यारभ्य मनुष्यकामानां चेत्यं तस्य पूर्वत्रेवार्थो ध्येयः ॥ 1 ॥ चक्षुः चक्षुस्थ आत्मा जीवः जीवस्थप्राणः सामेत्यर्थः ॥ 2 ॥ श्रोत्रं श्रोत्रस्थं मनः मनोगतः प्राणः ॥ 3 ॥ शुक्लंभाः शुक्लभासि स्थिता वाणी । परः कृष्णं नीलगतः प्राणः सामेत्यर्थः । सैवेति तत्रस्थेत्यथर्ः ॥ 4 ॥ ताभ्यां सेव्यं भगवन्तमाह ॥ अथेति ॥ दृश्यते ज्ञानदृष्यया सैव चक्षुःस्थः पुरुषः । विधेयापेक्षया स्त्रीलिङ्गनिर्देशः । ऋक्‌ ज्ञानरूपपत्वात्‌ ऋगित्युक्तः । नित्यं समत्वात्तत्‌ अक्षिस्थः पुरुषः सामेत्युच्यते उत्थपकत्वादुक्थं याज्यस्वरूपत्वाद्यजुः पूर्णरूपत्वाद्‌ ब्रह्म तस्यैतस्याक्षिस्थस्य तदेवरूपं यदेव हिरण्मयत्वादिकममुष्य आदित्यगतस्य रूपं तदेवेत्यर्थः । यौ वाक्प्राणावमुष्यसूर्यस्थस्य गेष्णौ तौ गेष्णौ गायकौ । एतस्येत्यनुषज्यते अमुष्य यन्नाम तदेवैतस्य नाम ॥ 5 ॥ स एष एवाक्षिस्थः पुरुषो हरिः एतस्माद्भूलोकादर्वाञ्चोधस्तन लोकास्तेषां च मनुष्यकामानां चेष्य इत्यर्थः । न केवलं वाक्प्राणावेव तस्य गायकौ किन्तु लोके गायकाः सर्वेपि तद्गायका इत्याह ॥ तद्य इति ॥ य इमे लौकिका राजादिपुरतः वीणायां गायन्तीति यत्‌ तत्‌ एतमेव हरिं ते गायन्ति तस्माद्भगवद्गानादेव प्रसन्नाद्राजादौ सन्निहिताद्धरेः सकाशाद्धनसनयो धनप्राप्तिमन्तो भवन्ति । अन्यथा राजादेरस्वातन्त्ऱ्ात्‌ धनप्राप्तिमन्तो न स्युरिति भावः ॥ 6 ॥ एवमधिदैवमध्यात्मं चोक्तप्रमेयज्ञानपूर्वं गानं कुर्वतः फलमाह ॥ अथ य इति ॥ योधिकारी एतत्‌ ऋक्सामयोः हरेश्ऱ्च माहात्म्यमेव मुक्तरूपेण विद्वान्‌ जानन्‌ साम गायति स उभौ आदित्याक्षिस्थौ तद्विषयमिति यावत्‌ साम गायति । तस्य फलान्तरमाह ॥ स एष एव ज्ञानपूर्वं भगवद्गायकः अमुष्मात्स्वर्गात्पराञ्चो ये लोकास्तांश्ऱ्चाप्नोति देवकामांश्ऱ्च । लोककामयोः जयः किं स्वसामर्थ्येन नेत्याह । सोमुनैव लोककामयोर्जयोमुनैव गानविषयेणादित्यस्थेनैवेति ॥ 7 ॥ अथानेनैवाक्षिस्थ हरिणैव ये चैतस्माद्भूलोकादर्वाञ्चोलोकास्तांश्ऱ्चाप्नोति मनुष्यकामांश्ऱ्चेत्यन्योन्यसमुच्चये च शब्दौ । तस्मात्परमात्मगायकस्यातिशक्तत्वादेव ह एवं विदुद्गाता ब्रूयात्‌ ॥ 8 ॥ ते यजमानस्य कं कामं कामितार्थमागायानीति ब्रूयादित्यन्वयः । एष ह्यवे एव ब्रुवन्‌ ज्ञानी कामगानस्येष्ये शक्तो भवति । य एवं विद्वान्‌ साम गायति एष ह्येवेति पूर्वेणान्वयः । अत्र तात्पर्यं गायकस्तस्य विष्णोरित्यादिभाष्याज्ज्ञेयम्‌ । द्विरुक्तिरुक्तार्था ॥ 9 ॥ 7 ॥ उद्गीथाख्यो भगवान्‌ सर्वोत्तम इत्युक्तं तन्मीमांसारूपाख्यायिकया समर्थयत ॥ त्रय इत्यादिना ॥ उद्गीथे सामविशेषे ह प्रसिद्धम्‌ । त्रीन्निर्दिशति । शिलको नामतः शलावत्यां भवः शालावत्यः । दाल्‌भ्यो नामतः चिकितायनस्यापत्यं चैकितायनः । प्रवाहणो नामतः जिविलस्यापत्यं जैबिलिः । इत्येते त्रयः उद्गीथे निपुणतया प्रसिद्धा इत्यर्थः । ते त्रयः अन्योन्यमूचुः हन्त हर्षे । उद्गीथे सामविशेषे वयं कुशलाः स्मः । उद्गीथविषये प्रश्ऱ्नप्रत्युक्तिरूपां कथां वदामः कुर्म इत्युचुः ॥ 1 ॥ तथास्त्वित्युक्त्वा सहोपविविशुः स ह प्रवाहणः उवाचेत्यस्य श्रोष्यामीत्यन्वयः । ब्राह्मणयोः भवतोरिति शेषः । ब्राह्मणयोरित्युक्त्या प्रवाहणः क्षत्रिय क्षत्रिय इति वदन्ति । शिष्यं व्यक्तम्‌ । त्वा त्वां पृच्छेति होवाच दाल्‌भ्य इत्यनुषङ्गः । पृच्छति । का साम्नो गतिरिति । साम्नः सामाभिमानिनोग्नेः का गतिः मुक्तौ प्राप्यः क इत्यर्थः ॥ 2 ॥ उत्तरमाह ॥ स्वर इति । स्वराभिमानी वरुण इत्यर्थः । एवमग्रेपि प्रश्ऱ्नप्रतिवचने ध्यये । सामादिपदानां देवतासु निरक्तिर्भाष्यादवसेया । प्राणः प्राणवायोरभिमानी सूर्यः । अन्नं अन्नाभिमानी दक्षः । आपः अबभिमानी शक्रः । असौ लोकोद्युलोकमानी शिवः । 3 ॥ उत्तरमाह ॥ न स्वर्गमिति । स्वर्गलोकशब्दितं शिवमतिक्रम्य न नयेत्‌ । प्रश्ऱ्नमिति शेषः । न पृच्छेदिति यावत्‌ । वयं स्वर्गं लोकं शिवं प्रति साम संस्थापयामः तत्प्रतिपादनेन पर्यवसितं कुर्म इत्यर्थः । कथं सामस्वर्गसंस्रावं स्वर्गाख्यशिव संस्तुतिपरमेवेति संस्थापयाम इत्यन्वयः । यद्वा हि तः साम स्वर्गसंस्तावमतः स्वर्गं प्रति संस्थापयाम इति । एवमग्रेपि । अप्रतिष्ठितं स्वर्गाख्यप्रतिपादनेन पयर्वसितमित्यर्थः । एवं तर्हि इदानीं स्वर्गसंस्तावं सामेत्युक्तिकाले यस्तु ब्रह्मज्ञानी ते स्वर्गसंस्तावं सामेति वदतस्तव । मूर्धा शिरः विपतेदिति ब्रूयाच्चेत्‌ मूर्धा ते विपतिष्यतीत्युवाच शिलक इत्यन्वयः ॥ 4 ॥ एवं प्रत्याख्यातो दाल्‌भ्यो वक्ति ॥ हन्तेति ॥ भगवत्तोहमेतद्वेदानि स्वर्गलोकगतिं जानीयामिति दाल्‌भ्य उवाचेत्यर्थः । एवमुक्तः शिलक आह ॥ विद्धीति होवाचेति ॥ दाल्भ्यः पृच्छति ॥ अमुष्येति ॥ स्वर्गलोकमानिनः शिवस्येत्यर्थः । उत्तरमायं लोक इति पृथिवीलोक मानी ब्रह्मेत्यर्थः । अस्य लोकस्य चतुर्मुखस्य । प्रतिष्ठां लोकं भूलोकमानि ब्रह्माणं अन्तवद्वै अपर्यवसितं वै ॥ 5 ॥ 8 ॥ शालावत्यः पृच्छति । अस्य लोकस्येति ॥ आ समन्तात्काशते दीप्यते इत्याकाशो विष्णुः इत्युवाच ह । तस्य महिमानमाह ॥ सर्वाणीति ॥ इमानि प्रमाणप्रमितानि सर्वाणि ब्रह्मदिभूतानि आकाशदेव समुत्पद्यन्ते । आकाशं प्रत्यस्तं यन्ति तेन
?Rप्रलीयन्त इति यावत्‌ । एभ्यः सर्वभूतेभ्यः परायणं मुख्याश्रयः । सर्वभूतानामित्यनुषङ्गः । स एष आकाशः परोवरीयान्‌ परमवरीयान्‌ । यद्वा परस्मादुत्तमं प्रोक्तं परो इति ततः परम्‌ । परोवरं परं तस्मात्प्रोक्तं पारोवरीयकमित्युत्तराध्याये वक्ष्यमाणदिशा उत्तमोत्तमोत्तम इत्यर्थः । उद्गीथः । उच्चत्वेन गीतत्वान्‌ उद्गीथः स एषोनन्तो देशकालगुणैरपरिच्छिन्नः । तदाह सूत्रे । आकाशस्तल्लिङ्गादिति ॥ 1 ॥ एतज्ज्ञानिनः फलमाह ॥ परोवरीय इति ॥ योधिकारी एतं परोवरीयां समुद्गीथं हरिमेवं ब्रह्मादिगतित्वाद्युक्तप्रकारेण विद्वाञ्जानन्‌ उपास्ते परोवरीयोऽस्यवेदिनो रक्षको भवति । परोवरीयसो ह लोकानुत्तमोत्तमलोकान्‌ विष्णुलोकान्‌ । जयति उप्राप्नोत्येव । तमेतमाकाशनामकमुद्गीथं विष्णुं शुनकपुत्रोतिधन्वनामा मुनिः उदरशाण्डिल्याय मुनये उक्त्वा फलमुवाच । तदाह ॥ यावत्त इति ॥ एनमुद्गीथं प्रजायां साधुवर्गे वेदिष्यन्ते ज्ञास्यन्ति त्रेतायुगे एभ्यः वेदितृणां एषां यावत्तः यात्कालं यावद्‌द्वापरादि तावत्कालमस्म?िल्लोके जीवनं भविष्यतीत्युवाचेत्यर्थः । न केवलमेतावत्‌ अमुष्मिन्‌ परलोके च जीवनं भविष्यतीत्यनुषङ्गः । द्विरुक्तिर्हर्षातिशयात्‌ विद्यासमाप्तौ वा । एवमुद्गीथोपासकस्य फलमिति जानतोप्येवं फलमित्याह ॥ स य इति ॥ एवं विद्वान्‌ । उद्गीथोपासकस्यैवमुक्तरूपं फलमिति विद्वान्‌ एतमुद्गीथमुपास्त इत्यर्थः ॥ 2 ॥ 9 ॥ सामैकदेशप्रस्तावप्रतिहारोद्गीथनिष्ठां भगवदुपास्तिं वक्तुं तदर्थां काञ्चनाख्यायिकामाह ॥ मटचीत्यादिना ॥ उषस्तिर्नामतः । चक्रमयनं यस्यासौ चाक्रायणः । रथचक्राश्रयेण प्रायस्तिष्ठतीति चाक्रायण इत्युक्तः । अन्नपानार्थं तत्र तत्र प्रद्रवन्‌ प्रद्राणक इत्युक्तः सः मटचीहतेषु स्थूलोकलशब्दिताभिः मटचीभिः हतेषु कुरुषु शिलावषर्हतेषु कुरुदेशस्थेषु आटक्या आसन्नयौवनया जायया सह । इभ्यग्रामे धनिकग्रामे गजाधिपतिग्राम इति वा । उवास । स उषस्तिः इभ्यं धनिकं इभाधिपतिं वा कुल्माषानारण्यमाषान्‌ स्वादन्तं विभिक्षे याचितवान्‌ ॥ 1 ॥ तमुषस्तिमुवाच इभ्यः किमिति । ये मे भक्षणार्थं उपनिहिता इतोन्ये न विद्यन्ते । यच्च यस्मात्तस्माद्दातुं न सन्तीत्युवाचेत्यन्वयः । तमिभ्यं उवाच ह किल उषस्तिः । एतेषां मध्ये कांश्ऱ्चन मे देहीत्युवाच ह तानस्मै उषस्तये प्रददाविभ्यः तान्‌ दत्वाऽनुपानं करपात्रस्थोदकपानं च कुर्वित्युवाच हन्त हर्षे । इत्युक्तः प्रत्युवाच उषस्तिः एतदुदकपाने उच्छिष्यं मे मया पीतं स्यादतो न पिबेयमिति होवाच । इभ्यो वक्ति । न स्विदेते कुल्माषा उच्छिष्या इति । स्विदिति काकुः उच्छिष्या भवन्ति खल्वित्युवाच इभ्य इत्यर्थः । प्राणात्ययसमये उच्छिष्यत्वविचारो ज्ञानिनो न कार्य इति भावेनाह ॥ 2 ॥ न वा इति ॥ इमान्‌ त्वदुच्छिष्यानखादन्‌ न वै नैवाजीविष्यं इति होवाच उषस्तिः । उदपानं तु मे कामः इच्छानुसारी सर्वत्रवर्षेणोदकसौलभ्यादित्युवाच उषस्तिः । तदाह सूत्रे । सर्वान्नानुमतिश्ऱ्च प्राणात्यये तद्दर्शनादिति । सहोषस्तिः खादित्वाऽतिशेषान्‌ शिष्यान्‌ जायायै आजहार आहृतवान्‌ । सा जायग्र एव प्रागेव सुभिक्षा याञ्चया क्षुन्निवृत्तिमती बभूव । अतः तान्‌ पत्युर्हस्तात्‌ प्रतिगृह्य निदधौ सङ्ग्रहं चकार । स होषस्तिः संजिहानः शयनादुत्तिष्ठन्‌ उवाच । भार्यां प्रतीतिं शेषः । तदाह बत खेदे । अन्नस्य मात्रामल्पं वा लभेमहि चेत्‌ तद्भुक्त्वा जीवन्तो धनस्य मात्रां भारं लभेमहि । यद्यस्मादसौ राजा यक्ष्यते यागं करिष्यति । स मा मां सर्वैरार्त्विज्यैः सर्वत्विर्क्कर्मभिः वृणीतेत्युवाचेत्यन्वयः ॥ 3 ॥ तमेवमुक्तवन्तं पतिं प्रति जायोवाच हन्त हर्षे । हे पते इम एव कुल्माषा इति पूर्वेद्युर्निहितान्‌ प्रर्श्योवाचेत्यर्थः । तान्‌ खादित्वा अमुष्य यज्ञं विततं विस्तृतं एयाय जगाम । तत्र यज्ञे आस्तावे आतावाख्ये कर्मणि स्तोष्यमाणान्‌ उद्गातॄन्‌ उपोपविवेश समीपे उपत्तिष्यावान्‌ । उपविष्यः स मुनिः प्रस्तोतारमुवाच । तदाह हे प्रस्तोतः । या देवता प्रस्तावं प्रस्तावाक्षरमन्वायत्ताधिष्ठायास्ते तां चेद्देवतामविद्वान्‌ प्रस्तोष्यसि ते मूर्धा विपतिष्यतीति प्रस्तोतारमुवाचेत्यथर्ः । एवमेवोद्गातारमुवाचेत्येतद्वयनक्ति ॥ उद्गातरिति ॥ उद्गीथं सामभक्तिं एवमेव प्रतिहर्तारमुवाचेत्युक्तं व्यनक्ति ॥ प्रतिहर्तरिति ॥ प्रतिहारं सामभक्तिरूपाक्षरम्‌ । प्रतिहरिष्यसि प्रतिहाराक्षरं वक्ष्यसि । ते ह प्रस्तोत्रादयः । समारताः स्वस्वकर्मभ्यो निवृत्तास्तूष्णीमासाञ्चक्रिरे तूष्णीमासन्‌ ॥ 4 ॥ 10 ॥ यदर्थमाख्यायिकोक्ता तामुपास्तिमिदानीमाह ॥ अथ हैनमिति ॥ अथानन्तरमेनमुषस्तिं यजमानो राजोवाच । भगवन्तं पूज्यं त्वामाहं विविदिषाणि । किन्नामा भवानिति वेदितुमिच्छामीत्युवाचेत्यन्वयः । मुनिराह ॥ उषस्तिरित्यादि ॥ राजाह भगवन्तं त्वामहं एतैः सर्वैरार्त्विज्यैः ऋत्विक्कमर्भिः वरीतुं पर्योषिषम्‌ । अन्वेषितवानस्मि । भगवतो गतेरारवित्त्या अज्ञानेन अन्यानवृषि वृतवानासम्‌ । इदानीं तु भगवान्‌ स्वोचितज्ञानादिमान्‌ भवानेव सर्वैरार्त्विज्यैर्मे वृत इत्युवाच राजेत्यर्थः ॥ 1 ॥ तथेतीति ॥ तथास्त्वित्युक्त्वा मुनिः पुनरुवाच । तर्हि एवं हि सति । अथ र्सात्विर्ज्यस्य मदीयत्वात्‌ मदतिसृष्या मदनुज्ञाताः सन्तः एत एव त्वया पूर्वं वृता एव स्तुवन्तां स्तुवन्तु । किन्तु यावदेतेभ्यो धनं दद्याः तावन्मे दद्याः देहीत्युवाच मुनिरित्यर्थः । तथेति ह यजमान उवाच । तावद्धनं दास्यामीत्युवाचेत्यर्थः ॥ 2 ॥ एवमनुज्ञाता ऋत्विजो मूर्धपातपरिहाराय प्रस्तावादिदेवताज्ञानाय तं मुनिमुपसृत्य क्रमेण पृष्ट्वा देवतां व्यज्ञासिषुरित्याह ॥ अथ हैनं प्रस्तोतेत्दना ॥ मा मां भगवान्‌ पूज्यो भवानवोचत्‌ इति
?Rप्रश्ऱ्नेनोपससादेत्यन्वयः ॥ 3 ॥ इति पृष्यो मुनिरुक्तवानित्याह ॥ प्राण इति होवाचेति ॥ प्राणनामा मुख्यप्राणान्तर्यामी प्रतावदेवतेत्युवाचेत्यर्थः । प्राणस्य प्रस्तावदेवतात्वं जनिरूपप्रस्तावशब्दार्थोक्त्या समर्थयते ॥ सर्वाणीति ॥ भूतानि जीवजातानि प्राणमेवाभिसंविशन्ति सुप्तौ प्रलये च प्रविशन्ति प्राणमभ्युज्जिहते । प्राणान्निः सरन्ति उत्पद्यन्ते । सृष्यिकाले सैषा भूतोत्पत्तिलयहेतुभूता प्राणाख्यदेवता प्रस्तावमन्वायत्ता तां चेदविद्वान्‌ प्रास्तोष्यः प्रस्तावाक्षरमवोचः । तर्हि मया तथोक्तस्य मूर्धाते विपतिष्यतीत्युक्तस्य ते मूर्धा व्यपतिष्यत्‌ । इत्युवाच मुनिरित्यर्थः । एवमुपरितनवाक्येप्यर्थो ध्येयः ॥ 4 ॥ आदित्यः आदित्यस्थः आदित्यनामा हरिः । तस्योद्गीथदेवतात्वमुद्गीथशब्दार्थोक्त्या साधयति ॥ सर्वाणीत्यादिना ॥ आदित्यमादित्यस्थमुच्चैः सन्तं सर्वोत्तमत्वेन स्थितं अन्नं अद्यमानवस्तुगतोन्ननामा हरिः ॥ 5 ॥ अन्ननाम्नो हरेः प्रतिहारदेवतात्वम्‌ । भोजनरूपप्रतिहारशब्दार्थव्युत्पादनेन समर्थयते ॥ सर्वाणि हेत्यादिना ॥ प्रतिहरमाणानि भृञ्जानानि जीवन्ति द्विरुक्तिराख्यायिका पूर्वमुक्तविद्यासमाप्त्यर्था ॥ 6 ॥ 11 ॥ पूर्वत्रोद्गीथोपासकस्य पापाविद्धत्वं मुक्तावानन्दातिशयः । बहुपुत्रोपलक्षितेष्यान्नपानादि च फलान्युक्तानि । तत्रोद्गीथमुपास्य स्वाभीष्यं प्राप्ताः सन्ति किमित्यतः । सन्तीत्याख्यायिकयाह ॥ अथात इति ॥ अथ विद्यान्तरम्‌ । अत उद्गीथोपासनया फलवन्तः सन्ति किमिति पृष्यात्वात्‌ । तत्परिहाराय शौवोद्गीथरूपविद्यान्तरमाख्यायिकयोच्यत इत्यर्थः । शुनोक्तः श्ऱ्वभिरनुष्ठितः शैव उद्गीथः उच्यत इत्यर्थः । दल्भपुत्रो दाल्‌भ्यः मुनिः मित्रया पुत्रार्थमाहूतो ग्लाववत्तूष्णींस्थितत्वात्‌ ग्लावनामा मित्राहूतत्वान्मैत्रेय इत्युक्तः । स्वाध्यायमुद्दिश्योद्वव्राज क्वचिज्जगाम । तस्यानुग्रहार्थं वायुः श्ऱ्वाश्ऱ्वरूपः सन्‌ श्ऱ्वेतः श्ऱ्वरूपैः रुद्रादिभिरितो युक्तः सन्‌ प्रादुबर्भूव । तं श्ऱ्वरूपं वायुमन्ये श्ऱ्वरूपा रुद्रादयो देवा उपसमेत्य समीपं प्राप्योचुः । किमिति । नोस्माकं अन्नमुद्दिश्य भगवान्‌ ज्ञानादिसम्पन्नो भवानागायतु अशनायाम वै अशनमिच्छाम एतच्छुनोक्तं श्रुत्वा बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार । प्रातःकालं प्रतीक्ष्य तस्थावित्यर्थः । ते ह एवमुक्ता अन्ये श्ऱ्वरूपा देवाः यथैवेदं निदर्शनं बहिष्पवमानेन स्तोष्यमाणा ऋत्विजः संरब्धाः संरम्भवन्तः अन्योन्यं कच्छग्रहणेन संरब्धाः पिपीलिकापङ्‌क्त्याकोण सर्पन्त्ये वमाससृपुः । पूर्वेद्युर्निर्दिष्यस्थले प्रसर्पितवन्तः । तेह एवमुपसृप्तास्तेश्ऱ्वानः समुपविश्य हिंचक्रुः हिमित्यूचुः हिं कृत्य च ओं हे मुख्यप्राणान्तर्गत भगवन्नन्नमदाम । ओं भगवन्‌ पिबामोदकम्‌ । देवः गत्यर्थत्वाद्दीव्यतेः । यथायोगं सर्वज्ञो हरिः मुख्यवायुः वरणीयत्वाद्वरुणो हरिः वायुश्ऱ्च । प्रजानां पतित्वात्‌ प्रजापतिः हरिः वायुश्ऱ्च । जगत्प्रसवितृत्वात्‌ सवितेत्युक्तो हरिः वायुश्ऱ्चान्नमिहास्मास्वाहरत्‌ । आनयतु अन्नपते हरे वायो । अन्नमिहाहराहरोमिति मन्त्रं जप्तवन्तः । ततश्ऱ्चाभीष्यं प्राप्तवन्त इत्यपि ध्येयम्‌ ॥ 2 ॥ 12 ॥ सामैकदेशोपास्तेः प्रकृतत्वात्तदेकदेशभूतहावित्यादि त्रयोदशस्तोभाक्षरनिष्ठोपास्तिमाह ॥ अयमित्यादिना ॥ अयं लोकः पृथिवीलोकः तन्मानिनी धरादेवी । हूयते अत्राग्निहोदिकमिति । हावु हावु इत्याक्रियत इति हावुकार इत्युपासीतेति सर्वत्र ध्येयं हावुकार स्तोभो रथन्तरसाम्नि प्रसिद्धः । एवमन्येपि हायिकारादयो वामदेवादिसामसु प्रसिद्धाः । वायुराश्ऱ्चर्यवदायातीति वाहेति सुखमस्मादायातीति वाहायिकरो वायुः । चन्द्रमाः सूर्यानन्तरप्रकाश इत्यथकारः । आत्मा व्याप्तो नारायणः सर्वसामीप्यादिहकार उक्तः । अग्निः सदेन्धनादीकारः । सूर्यः उष्यितः । आतपदाहादादित्य ऊकारः । नितरामाह्वयन्त्येनमिति निहव इन्द्रः एतीत्येकारो विश्ऱ्वेदेवाः सर्वे सुराः औहोयिकार उक्ताः । कथं उच्चत्वादर्विष्णुः तस्य सप्तमी औ इति तस्मिन्‌ विष्णौ हूयन्ते थाप्यन्ते मुक्ताविति व्युत्पत्त्या औहोयिनः तथाऽऽक्रियन्ते इत्यौहोयिकार इति ध्येय । प्रजापतिबर्‌रह्मा निश्ऱ्चयज्ञानवत्त्वाद्धिंकारः । प्राणः शरीरस्थो मुख्यप्राणः स्वे विष्णौ रमयत्येनं जीवमिति स्वरः । अन्नं अत्रा भक्षकेण वायना नीयत इत्यन्नमित्युक्तान्नदेवता सरस्वती याया नित्यं गतिमत्त्वहेतुना ययिरित्युक्तं वायुं गतेति हेतोर्याया । वाक्‌ सर्ववागात्मिका श्रीः विशेषेण राजनाद्विराट्‌ स्तोभदेवता । अनिरुक्तः साकल्येन निर्वचनायोग्यः सम्यक्चरतीति सञ्चरो हरिः आहूत एव पातीति हुप्‌ । हुवित्याक्रियत इति हुष्कारः । त्रयोदशस्तोभदेवता । इत्युपासीतेति सर्वत्र ध्येयम्‌ । एतदुपास्तिफलमाह ॥ दुग्ध इति ॥ योधिकारी साम्नां सामभक्तिभूतस्तोभाक्षराणामेतामुक्तविधामुपनिषदं रहस्यप्रतिपाद्यं वेद अस्मै वेदिने यो वाचोदोहस्तं वाग्दोहं वेदादिवाग्लभ्यं फलं दुग्धे क्षरति । उपासनमिति योज्यम्‌ । यद्वा यो वाचोदोहह्तं दोहं वाग्वाचिस्थो वाङ्‌नामा हरिः दुग्धे इति । द्विरुक्तिः समाप्त्यर्था ॥ 13 ॥ इति श्रीमच्छान्तोग्योपनिषदर्थसङ्ग्रहे राघवेन्द्रयतिकृते प्रथमोध्यायः ॥ 1 ॥
?Rॐ सामैकदेशोद्गीथस्तोभनिष्ठामुपास्तिमुक्त्वा पञ्चभक्तिकसप्तभक्तिकसमस्तसामनिष्ठामुपास्तिमाह द्वितीयाध्यायेन (ॐ) समस्तस्य पूर्णस्य साम्नः सामनाम्नः । समग्रभक्तिसहितसामप्रतिपाद्यस्य हरेः उपासनं कार्यमिति शेषः । कुतः यतः साम सुधु अत इति योजना । कुतः साम साध्वित्यतः सामनः साधुत्वं वृद्धसम्मत्याह ॥ यदिति ॥ यत्खलु सारत्वेन धायर्ं तदेव
?Rहि सारत्वेन मेयं सामेति सामसाध्विति एक एवाथर् इत्याचक्षते वृद्धाः । तत्र व्यतिरेकं चाह ॥ यदिति ॥ यदसाधुसारत्वेनाधार्यं तत्सारत्वेन नमेयमित्याचक्षते इति पूर्वेणान्वयः ॥ 1 ॥ तेपि वा किं बलादेवमाहुरित्यतो वृद्धान्तराणां साधौ साम शब्दप्रयोगादित्याह ॥ तदुताप्याहुरिति ॥ तत्सामसाधुशब्दयोरेकार्थतामुताप्याहुः । वक्ष्यमाणदिशाप्याहुर्वृद्धाः । कतं साम्ना एनं बुद्धस्थिं राजगुर्वादिकमुपागात्‌ प्राप्नोदिति यल्लोके साधुनैनमुपागादित्येव तदाहुः । असाम्नेत्यादिना व्यतिरेकोक्तिः ॥ 2 ॥ तेपि वृद्धाः किं बलादेवमाहुरित्यतो वृद्धान्तराणां साधौ सामशब्दप्रयोगदृष्येरित्याह ॥ अथोताप्याहुरिति ॥ अन्येपि वृद्धा आहुरित्यर्थः । कतं यत्साधु भवति तत्‌ नोस्माकं साम बतहर्षे । तस्यार्थोक्तिः साधुनो बतेत्येव तदाहुरार्या इति । उक्तमेव व्यतिरेकेणाह ॥ असामनो बतेति ॥ यदसाधु भवति तत्‌ नोस्माकं असुधु बतेति तस्य व्याख्यानम्‌ ॥ 3 ॥ असाधु बतेत्येव तदाहुरिति ज्ञानिनः फलमाह ॥ स य इति ॥ स प्रसिद्धो योधिकारी एवं सारत्वेन धार्यं सुधु सारत्वेन सर्वसामभिर्मेयं सामेत्येवं प्रकारेणैतत्‌ साधुसामशब्दयोरेकार्थत्वं विद्वान्‌ जानन्‌ साधु सामेत्युपास्ते एनं समस्तसामप्रतिपाद्यतया भगवदुपासकं यत्‌ ये साधवो धर्माः ते अभ्याशः समीप एव शीघ्रमिति यावत्‌ । आगच्छेयुश्ऱ्च मुक्तौ प्रापनुयुः उपनयेयुश्ऱ्च स्थिराश्ऱ्च भवन्ति । चशब्दावन्योन्यसमुच्चये ॥ 4 ॥ 1 ॥ लोकेषु पञ्चभक्तिकसामप्रतिपाद्यभगवत उपास्तिमाह ॥ लोकेष्विति ॥ लोकेषु पृथिव्यादिषु पञ्चविधं पञ्चरूपभेदेन पञ्चविधतया स्थितं साम सारत्वेन मेयं भगवन्तं पञ्चभक्तिभेदेन पञ्चविधसामप्रतिपाद्यं पृथिव्यादिषु लोकेषु पञ्चसु स्थितमुपासीतेत्यर्थः । तत्क्रमेण व्यनक्ति ॥ पृथिवीति ॥ सस्यादेः प्रथनात्‌ विस्तारात्‌ पृथिवीनामा पृथिवीनामा पृथिवीस्थः प्रद्युम्नः हिंकारः । हिमित्याक्रियत इति हिकाररूपसामभक्तिप्रतिपाद्य इत्यर्थः । एवमग्रपि । अग्निः अदनहेतुनाग्निनामाग्निस्थो वासुदेवः प्रस्तावः प्रस्तावाख्यसामभक्तिप्रतिपाद्यः । अन्तरिक्ष्यत इति वाच्यवधानाभावहेतुना वान्तरिक्षनामान्तरिक्षगो नारायणः उद्गीथः वासुदेवः प्रस्तावः प्रस्तावाख्यसामभक्तिप्रतिपाद्यः । अन्तरीक्ष्यत इति वाच्यवधानाभावेहेतुना वान्तरिक्षनामान्तक्षिगो नारायणः उद्गीथः वासुदेवादिमूर्त्युद्गमनहेतुनोद्गीथाख्यसामभक्त्यार्थः । अयूंष्यादत्त इत्यादित्यनामादित्यस्थोऽनिरुद्धः प्रतिहारः इदं जगत्‌ स्वस्वकार्येषु प्रतिहरति नयतीति प्रतिहाराख्यसामभक्तिवेद्यः । द्यौः क्रीडाहेतुत्वात्‌ द्यौरित्युक्तो द्युलोकस्थः सङ्कर्षणः । निधनं निधन शब्दितसंहृतिहेतुना निधनाख्यसामभक्तिवेद्यः । इत्यूर्ध्वेषूपर्युपरिस्थितलोकस्थ भगवन्मूतर्ीना हिंकारादिसामभक्त्यर्थतयोपासनमुक्तमित्यर्थः ॥ 1 ॥ अथानन्तरमावृत्तेषु द्युप्रभृतिषु पृथिव्यान्तेषु स्थितरूपाणां हिंकारादिसामभक्त्यर्थतयोपासनप्रकार उच्यत इत्यर्थः । तदाह क्रमेण द्यौरित्यादिना । पदानां प्रागुक्त एवावयवार्थो ध्येयः । द्यौः द्युस्थः प्रद्युम्नो हिकारः आदित्यः वासुदेवः प्रस्तावः अन्तरिक्षो नारायण उद्गीथः अग्निः अनिरुद्धः प्रतिहारः पृथिवी सङ्कर्षणो निधनम्‌ । न चैतद्विरुद्धं न स्थानतोषि परस्भयलिङ्गमित्यत्रोक्तदिशा सर्वरूपाणां समस्तगुणपूर्णत्वात्‌ शक्तिव्यक्त्यात्मना नानागुरव्यवस्थोपपत्तेः । प्राप्तेश्ऱ्च समञ्जसमिति सूत्रोक्तदिशोपासकाधिकारिभेदेनाविरोधसम्भवाच्चेति भावः ॥ 2 ॥ ज्ञानिनः फलमाह ॥ कल्पन्तेहेति ॥ योधिकारी एतत्‌ पञ्चभक्तिकसामप्रतिपाद्यं एवमुक्तगुणविशिष्यतयोर्ध्वाधोगोकेषु स्थितत्वप्रकारेण विद्वान्‌ जानन्‌ लोकेषु पञ्चविधं साम । भगवन्तमुपास्ते । अस्मै ऊध्वर्ाश्ऱ्चावृत्ताश्ऱ्च लोका ऊर्ध्वाधोलोकगाः भगवन्मूर्तयः मोक्षादिपुमर्थं कल्पन्ते कल्पयन्तीत्यर्थः ॥ 3 ॥ 2 ॥ वृष्याविति ॥ वृष्यिप्रभृतिषु स्थितं पञ्चरूपात्मकं साम हरिं पञ्चभक्तिकसाम प्रतिपाद्यमुपासीत । तद्वयनक्ति ॥ पुरोवात इति ॥ पुरोवातस्थः प्रद्युम्नो हिकारः । पूर्ववदर्थो ध्येयः । मेघो जायते मिलितो मेघ इत्यर्थः । मिलितमेघस्थो वासुदेवः प्रस्तावः । वर्षति धारासम्पातस्थः नारायणः उद्गीथः विद्योतते स्तनयति गर्जति विद्युद्गर्जनगतोऽनिरुद्धः प्रतिहारः ॥ 1 ॥ उद्‌ गृह्णाति बृष्यिमुपसंहरति वृष्ययुपसंहारस्थः सङ्कर्षणो निधनम्‌ । ज्ञानिनः फलमाह ॥ योधिकारी एतत्‌ पञ्चभक्तिकसामप्रतिपाद्यं एवं उक्तगुणविशिष्यतया वृष्ययादिपञ्चस्थानकतत्वेन विद्वान्‌ वृष्यौ पञ्चावध साम भगवन्तमुपास्ते । अस्मै ज्ञानिने वर्षति वर्षणादिगतो हरिः वर्षत्यभीष्यं वर्षयति चेत्यर्थः ॥ 2 ॥ 3 ॥ अन्यत्रापि पञ्चविधस्य हरेरुपास्तिमाह ॥ सर्वास्विति ॥ सर्वास्वप्सु पञ्चधा स्थितास्वप्सु स्थितं पञ्चधिं पञ्चरूपं साम भगवन्तं पञ्चभक्तिकसामवेद्यमुपासीत । सम्प्लुवते सञ्चरति सञ्चरन्‌ मेघस्थः प्रद्युम्न; हिकारः । यद्वर्षति यद्वर्षणं वर्षणस्थो वासुदेवः प्रस्तावः । याः प्राच्यः प्राङ्मुख्यः स्यन्दन्ते प्रवहन्ति प्राक्‌ प्रवहन्नदीस्थो नारायणः उद्गीथः । याः नद्यः प्रतीच्यः पश्ऱ्चिममुख्यः स्यन्दन्ते तत्स्थोनिरुद्धः प्रतिहारः । समुद्रः समुद्रस्थः सङ्कर्षणो निधनम्‌ ॥ 1 ॥ फलमाह ॥ नेहेति ॥ योधिकारी एतत्‌ पञ्चविधसामभक्तिवेद्यमेवमुक्तगुणविशिष्यत्वेन विद्वान्‌ सर्वास्वप्सु पञ्चविधं पञ्चरूपं साम हरिमुपास्ते स इति शेषः । न हा अप्सु प्रैति म्रियते अप्सुमान्‌ भवति मध्यमपदलोपेन अप्सुस्थितविष्णुमान्‌ भवतीति वा । अपः सूत इत्यप्सूर्भगवान्‌ स एव दीर्घलोपेनाप्सुस्तद्वालन्भवतीति वार्थः । मुक्तो
?Rभवतीति यावत्‌ ॥ 2 ॥ 4 ॥ ऋतुष्विति ॥ ऋतुषु हे मन्तशिशिरयोरैक्यविवक्षया पञ्चस्वृतुषु स्थितं ऋतत्वात्सर्वशास्त्रावगतत्वात्‌ ऋतुनामकं पञ्चरूपं साम हरिं पञ्चसामभक्तिप्रतिपाद्यमुपासीत । तद्वयनक्ति ॥ वसन्त इति ॥ वसन्तस्थो वसन्तनामा प्रद्युम्नः हिकार इत्यादि पूर्ववज्ज्ञेयम्‌ । वसन्तादिशब्दनिरुक्तिः भाष्ये ॥ 1 ॥ फलमाह ॥ कल्पन्त इति ॥ य एतदित्यादि प्राग्वत्‌ । अस्मै उपासकाय ऋतवो ऋतुगतः पञ्चरूपो भगवान्‌ । कल्पन्ते मोक्षादीन्‌ दातुं शक्तो भवतीत्यर्थः । रूपबाहुल्यात्‌ बहुवचनम्‌ । ऋतुमान्‌ रक्षकत्वेन ऋतुगतविष्णुमान्‌ भवतीत्यर्थः ॥ 2 ॥ 5 ॥ पशुष्विति ॥ पाति सुखरूपश्ऱ्चेति पशुनामा तं पञ्चविधपशुषु स्थितं पञ्च साम भक्तिप्रतिपाद्यं पञ्चरूपं साम हरिमुपासीतेति । उक्तं व्यनक्ति ॥ अजा इति ॥ अजादिशब्दनिर्वचनं भाष्ये । भवन्ति हास्य पशव इति प्रसिद्धपशव एव ज्ञेयाः । पशुमान्‌ पशुस्थहरिमान्भवतीत्यर्थः ॥ खं0॥ 6 ॥ प्राणेष्विति ॥ परोवरीयः परस्मादुत्तमं परो ततोप्यत्तमं परोवरं ततोप्युत्तमं परोवरीयः अल्पत्तमोत्तमोत्तमं साम हरिमित्यर्थः । प्राणः श्वासवायुस्थः प्रद्यम्नः । एतानि रूपाणि सर्वाण्यपि परोवरीयांसि वै प्रसिद्धिः । अय वेदिनः परोवरीयो ब्रह्म भवति रक्षकमित्यर्थः । उपसंहरति ॥ इति तु पञ्चविधस्येति ॥ उपास्तिरुक्तेति शेषः ॥ खं0 ॥ 7 ॥ अथनन्तरं सप्तविधस्य सप्तविधसामभक्तिवेद्यस्य सप्तरूपस्य हरेः उपास्ति रुच्यत इत्यर्थः । कुत्रेत्यतो वाचि तावदाह ॥ वाचीति ॥ वाचि सप्तविधायां शब्दरूपायां स्थितं सप्तविधं सप्तरूपं सप्तविधवाक्‌ प्रतिपाद्यं साम हरिमुपासीत । कथमित्यतो व्यनक्ति ॥ यत्किञ्चेति ॥ वाचः शबादस्य हुमिति वाग्विशेषः हुमित्यनानोपक्रमे निवद्धं यद्वाक्यमिति यावत्‌ । तद्वाक्यबोध्यो यः प्रद्युम्नः । स हिमिति सामभक्तिप्रतिपाद्यः । यो हिंकारः प्रद्युम्नः स हुमिति शब्दोपबद्धवाक्यबोध्य इति वोद्देश्यविधेयभावो ध्येयः । यत्प्रेति प्र शब्दोपक्रमं वाक्यं तत्प्रतिपाद्यः प्रस्तावप्रतिपाद्यो वासुदेवः । हुमित्युपक्रम्य प्रशब्दश्रवणपर्यन्तं यावद्वाक्यं तावद्धिंकारार्थप्रद्युम्नार्थकमित्युपासीत । तथा प्रेत्युपक्रम्य आ इत्यक्षरपर्यन्तं यावद्वाक्यं तावत्प्रस्तावार्थवासुदेव बोधकमित्येवं रूपेणाग्रे सर्वत्रार्थो ज्ञेयः । यत्‌ आ इति वाचः शब्दस्य आ इति वर्णविशेषः तदुपक्रमोपेतवाक्यप्रतिपाद्यः आदिः कल्पादिहेतुत्वात्‌ वराहात्मा हरिः । यत्‌ उत्‌ इति वाचः शब्दस्य वर्णविशेषः तदुपनिबद्धवाक्यविशेषप्रतिपाद्यः उद्गीथो नारायणः । यत्‌ प्रतीति वाचःसम्बन्धि प्रतीति यत्पदं तदुपक्रमवाक्यबाध्यः प्रतिहाररूपसामभक्तिप्रतिपाद्योनिरुद्धः । यदुपेति वाचः सम्बन्धि पदम्‌ । तदुपक्रमवाक्यबाध्यः उपद्रवः दुष्योपद्रवहेतुतयोपद्रनामा उपद्रवाक्यसामभक्प्रितिपाद्यो नरसिंहः । यत्‌ नीत्यक्षरं नीत्यक्षरोपक्रमोपेतवाक्यं तद्बोध्यो यस्तन्निधनं निधनाख्यसामभक्तिवेद्यः सङ्कर्षणः । दुग्ध इति वाक्यमुक्तार्थमाद्याध्यायन्ते । खण्डः ॥ 8 ॥ आदित्यनिष्ठां सप्तविधसामनामकभगवदुपास्तिमाह ॥ अथ खल्विति ॥ C-K-1
?Rअथेति विद्यान्तरमुच्यत इत्यर्थः । खलु शब्दः प्रसिद्धयर्थः । आदित्यस्थमादित्यनामानं सप्तविधं साम सप्तविधसामप्रतिपाद्यं सप्तरूपं भगवन्तमुपासीत । सामत्वं हरेः द्वेधा निरुच्य दर्शयति ॥ सर्वदेति ॥ यतः सर्वदा समरूपस्तेन हेतुना सामेत्युच्यते । किञ्च मां प्रतिमां प्रति वर्तत इति सर्वेण लोकेन समः । मां प्रति मां प्रतीति सर्वदृष्यिविषयत्वसाम्यान्मण्डलस्य तत्रत्योपि हरिर्मण्डलस्य तादृशसर्वसाम्यसम्पादकतया सर्वसम इति सामेत्युच्यत इत्यर्थः ॥ 1 ॥ तस्य सर्वभूताश्रयत्वमहिमानमाह ॥ तस्मिन्निति ॥ आदित्यनाम्नयादित्यस्थे हरौ इमानि प्रमाणसिद्धानि सर्वाणि ब्रह्मादिभूतान्यन्वायत्तान्याश्रितानीति विद्यात्‌ । सर्वभूतानां तदाश्रयत्वंस्पष्यमाह ॥ तस्य यत्पुरोदयादिति । तस्यादित्यस्थस्य आदित्यनाम्नो हरेरुदयात्‌ यत्पुरा पूर्वकालः तत्रस्थः स हिकारः हिमिति सामभक्तिप्रतिपाद्यः प्रद्युमनः अस्यादित्यनाम्नो हरेः तत्प्रद्युम्नाख्यं रूपं पशवोन्वयत्ता आश्रिताः । तस्मादित्युक्तहेतुं व्यनक्ति ॥ हिकारेति ॥ हि यस्मादस्यानुदितादित्यस्थस्य साम्नो हरेः सम्बन्धि हिंकाराथर्प्रद्युम्नभाजिनस्तदाश्रयिणस्तस्मात्सुरभ्यादयः पशवो ज्ञानिनो हिकुर्वन्ति हिमिति शब्दं कुर्वन्ति । तज्जातीत्वादाधुनिका अपि पशवस्तथा कुर्वन्तीत्यर्थः । एवमग्रेपि ॥ 2 ॥ अथ यत्प्रथमोदिते सूर्ये यत्‌ यः स प्रस्तावः प्रस्तावार्थवासुदेवः । अस्य प्रथमोदितस्यादित्यनाम्नो हरेः । तत्‌ । वासुदेवाख्यं रूपं मनुष्या अन्वायत्ताः । तस्मादित्यादिप्राग्वद्योज्यम्‌ । प्रस्तुतिकामाः प्रारम्भकामाः प्रशंसाकामाश्ऱ्च भवन्तीत्यर्थः । प्रारम्भावतारत्वात्‌ प्रशंसादेवतात्वाच्च वासुदेवस्येति भावः ॥ 3 ॥ अथ यदिति ॥ सङ्गववेलायां यत्‌ यः स आदिः वराहः अस्य सङ्गववेलागतादित्यनाम्नो हरेः तत्‌ वराहाख्यं रूपं वयांसि पक्षिणः अन्वायत्तानि आश्रितानि तस्मादित्यस्य विवरणमादीत्यादि । अनारम्भणानि अनाधारणानि आत्मानं स्वदेहमादाय पतन्ति सञ्चरन्ति सर्वपक्ष्याधारभूतवराहाश्रयत्वादेवेत्यर्थः ॥ 4 ॥ अथ सम्प्रतीदानीं मध्यन्दिनगते सूर्ये यत्‌ यः स उद्गीथः नारायणः तदस्येत्यादि प्राग्वत्‌ । प्राजापत्यानां ऋषिगन्धवादीनां सकाशादुत्तमा देवा इत्यर्थः । नारायण शब्दार्थत्वे नानन्तगुणपूर्त्या हरेरुपासनादिति भावः ॥ 5 ॥ अथ यदूर्ध्वमिति ॥ मध्यन्दिनादूर्ध्वं अपराह्णात्प्राक्‌
?Rमध्यन्दिनापराह्णमध्यभागगतादित्ये यस्तन्नामा हरिः स प्रतिपारोनिरुद्धः । तस्मादित्यादि पूर्ववद्योज्यम्‌ । ते गर्भाः गर्भीभवन्तः पदार्थाः । पितृदेहादन्यत्र मातृदेहे प्रतिहृता नीता अपि नावपद्यन्ते न नश्यन्ति वर्धन्ते च प्रत्युत तत्रेत्यर्थः ॥ 6 ॥ अथ यदूर्ध्वमपराह्णात्‌ अस्तमयात्‌ प्राक्‌ तन्मध्यभागगतादित्ये यत्‌ यः सः उपद्रवो नरसिंहः । अरण्या अरण्ये भवाः मृगाः कक्षं क्षुद्रतरुसङ्घः श्ऱ्वभ्रं नाम तन्मध्यावकाशः बिलं वा पुरुषं दृष्ट्वा भीता मृगाः कक्षश्ऱ्वभ्रयोः स्थितनरसिंहस्य रक्षकस्याज्ञनेपि ताभ्यां रक्षणं मत्वा कक्षं श्ऱ्वभ्रमिति मत्वा तदुद्दिश्योपद्रवन्ति तत्समीपं गच्छन्ति ॥ 7 ॥ अथ प्रथमास्तमिते आदित्य यत्‌ यः सः निधनं निधनाख्यसामभक्तिप्रतिपाद्यः सङ्कर्षणः । एवं सर्वत्र ज्ञेयम्‌ । तान्‌ पितृन्‌ प्रति निदधनि निक्षिपन्ति पिण्डादीनिति शेषः । एवं खलु उक्तरूपेण खलु सप्तधा स्थितादित्यगतमादित्यनामकं सप्तविधसामभक्तिप्रतिपाद्यं सप्तरूपं सामाख्यं भगवन्तमुपास्ते साधुलोकः तेन च परमपदं चाप्नोतीति ग्राह्यम्‌ ॥ 8 ॥ 9 ॥ सप्तविधस्य साम्नो हरेः ज्ञानानन्दादिभिः ब्रह्मद्यसमत्वस्वात्मरूपसमत्वविषयामुपास्तिमाह ॥ अथ खल्वित्यादिना ॥ अथेति विद्यांन्तरमुच्यत इत्यर्थः । खल्विति अस्या विद्यायाः परमपुमर्थहेतुत्वेनात्यपूर्वार्थत्वेन च प्रसिद्धतोच्यते । आत्मसम्मितं आत्मना मूलरूपेण समितं समानमेव न तु ब्रह्मादिसदृशमित्यथर्ः । अतिमृत्यु मृत्युमतिक्रान्तं अमृत्युं इति यावत्‌ । सप्तविधं पअद्युम्नवासुदेववराहनारायणानिरुद्धनरसिंहसङ्कर्षणरूपेण सप्तधा स्थितं सप्तविधसामभक्तिप्रतिपाद्यं साम भगवन्तमुपासीत । रूपाणां ज्ञानानन्दबलैः समत्वं दर्शयति ॥ हिंकार इति त्ऱ्यक्षरमिति ॥ हिंकार इति त्रीण्यक्षराणि क्रमात्‌ ज्ञानान्दबलवाचीनि । एवमेव प्रस्तावादिपदान्यपि सर्वाणि त्ऱ्यक्षराणि क्रमात्‌ ज्ञानानन्दबलवाचीनि । तथाच तत्तत्प्रतिपाद्यरूपाण्यपि ज्ञानानन्दबलैः समान्येवेति भावेन हिंकारादिसप्तभक्तीनां त्ऱ्यक्षरत्वेन साभ्यमाह ॥ प्रस्ताव इति ॥ त्ऱ्यक्षरं तत्सममिति ॥ 1 ॥ आदिरिति वराहनाम्नो द्वयक्षरत्वेप्यनिरुद्धनाम्नः प्रतिहारेत्यतश्ऱ्चतुरक्षरात्प्रशब्दः आदिनाम्नि योज्यः । तथाच वराहानिरुद्धौ द्वावपि ज्ञानानन्दबलैरक्षरत्रयवाच्यैः समौ भवत इति भावेनाह ॥ आदिरिति द्वयक्षरमिति ॥ ततः प्रतिहारनामत इह आदिनाम्नि एकं प्रेत्यक्षरं योज्यमिति शेषः । तत्‌ नामद्वयं त्रिभिस्त्रिभिर्नारायणनरसिंहवाच्युद्गीथोपद्रवेति नामद्वयं समं ज्ञानादिगुणत्रयवाचितया सममित्यर्थः ॥ 2 ॥ अक्षरं व इत्यक्षरमति शिष्यते अतिरिच्यते तदक्षरं वकाराकारविसर्गभेदेन त्ऱ्यक्षरात्मकतया ज्ञानानन्दबलवाचि सत्‌ क्षीराब्धिशायिनो नारायणस्याष्यमरूपस्य नामेति तदपीतरनामसममित्यर्थः ॥ 3 ॥ सप्तविधस्य हरेरुपास्त्युक्त्यानुषङ्गसिद्धमुपबास्त्यन्तरमाह ॥ तानीति ॥ सप्तविधमपि हरेरूपं प्रत्येकं त्रिविधं सदेकविंशतिर्भवति क्षीराब्धिशायी चैक इति द्वाविंशतिर्मूर्तयः । तथाच तानीत्यादेरयमर्थः । तान्येतानि हिंकारादीन्यक्षराण्युक्तविधया द्वाविंशति सङ्खयाकानीति द्वाविंशतिमूर्तिवाचकानि । ह वै प्रसिद्धमिति ॥ 4 ॥ तत्रैकविंशद्वाविंशमूर्त्युपास्त्योः फलमाह ॥ एकविंशत्येति ॥ नमित्येकविंशाक्षरेण तद्वाच्यकल्किसङ्कर्षणाख्यरूपोपासनयेति यावत्‌ । आदित्यमादित्यस्थमादित्यनामानं कल्किसङ्कर्षणाख्यं रूपमाप्नोतीत्यर्थः एकविंशत्युपास्त्या कथमादित्यस्य प्राप्तिरित्यतः उपास्यरूपसाम्यादित्याह ॥ एकविंशो वा इति ॥ इतः पृथिव्यां स्थितरूपापेक्षयाऽसावादित्य एकविंशो वै । द्वाविंशेन व इत्यक्षरेण व इति द्वाविंशाक्षरवाच्यक्षीराब्धिशायिहर्युपासनयेति यावत्‌ । आदित्यात्‌ आदित्यस्थूपात्‌ परमन्यत्‌ क्षीराब्धिशायिरूपं जयति । प्राप्नोति । उपलक्षणमेतत्‌ । इतरविंशत्यक्षरवाच्य विंशतिरूपोपासनया तानि रूपाण्याप्नोतीत्यपि ग्राह्यम्‌ ॥ इदमत्र ज्ञातव्यम्‌ । हिंकार इत्यारभ्य निधनमित्यन्तानि सप्तभक्त्यक्षराण्युक्तदिशा एकैकभक्तेः त्रित्ऱ्यक्षरत्वेनैकविंशत्यक्षराणि । अतिरिच्यमानं व इत्येकमक्षरं द्वाविंशम्‌ । सप्तभक्तिप्रतिपाद्यानि प्रद्युम्नवासुदेववराहनारायणानिरुद्धनरसिंहसङ्कषर्णभेदेन सप्तरूपाणि । तत्राद्यानि चत्वारिरूपाणि केशवादिदामोदरान्तद्वादशात्मनाप्रत्येकमेकैकं रूपं क्रमात्‌ त्रेधा त्रेधाभिन्नानि भूत्वा चतुर्भक्तिगतहिमादिप्रेत्यन्तद्वादशाक्षरप्रतिपाद्यानि केशवप्रद्युम्न नारायणप्रद्युम्नमाधवप्रद्युम्न गोविन्दवासुदेव विष्णुवासुदेव मधूसूदनवासुदेव त्रिविक्रमवराह वामनवराह श्रीधरवराह हृषीकेशनारायण पद्मनामनायण दामोदरनारायणेत्याख्यायमानानि चैत्रादिफल्गुनां तेषु द्वादशमासेषु तिष्ठन्ति । प्रतिहारोपद्रवनिधनरूपावशिष्यसामभक्तित्रयप्रतिपाद्यान्यनिरुद्धनरसिंहसङ्कर्षणरूपाणि बुद्धं हित्वामत्स्यादिकल्क्यंतनवरूपात्मना प्रत्येकं त्रेधा त्रेधा भिन्नानि भूत्वा क्रमात्‌ हीतीत्यादि नमित्यन्ताक्षरनवकेनोच्यमानानि मत्स्यानिरुद्ध कूर्मानिरुद्ध वराहानिरुद्ध नरसिंहनरसिंह वामननरसिंह भार्गवनरसिंह रामसङ्कर्षण कृष्णसङ्कर्षण कल्किसङ्कर्षणेत्याख्यायमानानि सन्ति । हेमन्तशिशिरयोरैक्येन क्रमात्‌ वसन्तादिऋतुपपञ्चके पृथिव्यन्तरिक्षद्युसूर्येषु तिष्ठन्तीति । एवं च सत्यादित्यस्थो नमित्येकविंशाक्षरार्थः कल्किसङ्कषर्णः पृथिवीमासऋत्वन्तरिक्षद्युलोहकापेक्षया एकविंशो
?Rभवति । द्वादशमासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंश इति श्रुतेः । केशवादिरूपेण ललाटादिषु स्थितेरिति एकविंश इति वा । अतिरिक्त व इत्यक्षरं तु द्वाविंशमिति तदर्थभूतक्षीराब्धिगतरूपोपासनया क्षीराब्धिगतप्राप्तिरिति । एवं तत्तदक्षरवाच्यतत्तद्गततत्तद्रूपोपासनया तत्तन्निष्ठरूपप्राप्तिर्भवतीति ॥ द्वाविंशतिरूपजातस्य महिमानमाह ॥ तदिति ॥ तत्‌ द्वाविंशतिरूपजातं असुखवर्जनात्‌ पूर्णानन्दस्वरूपत्वाद्वा नाकमिति भक्तानां शोकनाशनाद्विशोकमिति चोच्यते ॥ 5 ॥ ननु तत्तद्रूपोपासनया तत्र तत्र स्थितरूपप्राप्त्युक्तौ तत्तद्रूपाणां स्वस्वप्राप्तिमात्रदातृत्वप्राप्त्या रूपेषु गुणानां व्यवस्थितत्वात्‌ कथं सर्वरूपाणामात्मसम्मितत्वोक्तिरित्याशङ्कां पहिरन्नुपासकस्य फलमाह ॥ आप्नोतीत्यादिना ॥ योधिकारी एतत्‌ सर्वसन्निहितं द्वाविंशतिभेदभिन्नरू पजातमिति वा एवं द्वाविंशत्यक्षरवेद्यत्वरूपेण विद्वान्‌ जानन्‌ आत्मसम्मितमतिमृत्युं प्रद्युम्नादिसप्तरूपं साम सप्तविधभक्त्युपेतसामप्रतिपाद्यं हरिमुपास्ते स इति शेषः । सः उपासकः इह पृथिव्यादिस्थितभार्गवादिभगवद्रूपमाप्नोति तत्प्राप्त्या चादित्यस्यादित्यस्थस्दत्यनाम्नः कल्किसङ्कर्षणाख्यरूपस्येति यावत्‌ । जयं प्राप्तिं ह्याप्नोति लभते रूपाणामैक्यात्‌ । आदित्यस्यादित्यस्थस्य उक्तरूपहरेर्जयात्् प्राप्त्या अस्योपासकस्य परोजयः पृथिव्यादिस्थितरूपान्तरजयो भवति रूपाणामै-क्यादेव । अतो नात्मसम्मितत्वोक्त्यायुक्तिरिति भावः । द्विरुक्तिरुक्ताथर्े तात्पर्यज्ञप्त्यर्था ॥ 6 ॥ 10 ॥ पूर्वं सामविशेषनामोक्तिं विना पञ्चविधसप्तवधसामभक्तिप्रतिपाद्यस्य हरेरुपास्तिरुक्ता । अधुना सामविशेषनामोक्तिपूर्वं पञ्चविधतत्तद्भक्तिप्रतिपाद्यस्य हरेरुपास्तिमैहिकामुष्मिकफले तह्रतं चाह मन इत्याद्येकादशपर्वभिः । तत्र गायत्रसामनिष्ठामुपास्तिमाह ॥ मन इति ॥ मनःस्थं मनोनामकं हिंकारः हिमित्याक्रियत इति हिंकाराख्यप्रथमभक्तिप्रतिपाद्यः प्रद्युम्नः । एवमग्रेपि सर्वत्र योजना । वाक्‌ वाङ्‌नामा प्रस्तावः वासुदेवः । चक्षुश्ऱ्चक्षुस्थः चक्षुर्नामा उद्गीथः नारायणः । श्रोत्रं श्रोत्रस्थः श्रोत्रनामकः प्रतिहारोऽनिरुद्धः । प्राणः प्राणस्थः प्राणनामा निधनं सङ्कर्षणः । एतत्‌ प्राणस्थविष्णुवाचितया तत्सन्निहितं गायत्राख्यं सामप्राणेषु प्राणस्थे प्राणनाम्नि हरौ प्रोतम्‌ । तद्वाचकं तन्नियम्यं चेत्यर्थः । ज्ञानिनः फलमाह ॥ स य इति ॥ योऽधिकारी एवमित्यस्य विवरणमेतदित्यादि । यद्वा हिंकारादिपञ्चभक्तिभिर्मनः प्रभृतिपञ्चस्थानगतप्रद्युम्नादिभगवद्रूपप्रतिपादकत्दप्रकारेणैतद्गायत्रं प्राणेषु प्राणस्थहरौ प्रोतं तद्वाचकं तन्नियम्यं चेति वेद स वेदी प्राणी भवति प्राणस्थप्राणनामकविष्णुलाल्यतया तद्वान्‌ भवति सर्वमायुर्मोक्षमेति । ऐहिकफलमाह । ज्योक्‌ स्वयोग्यसर्ववित्सञ्जीवतीत्यादि । तस्य व्रतमाह ॥ महामना इति ॥ गायत्रसामवेदिनो महामनस्त्वं व्रतमित्यर्थः । खण्डः ॥ 11 ॥ रथन्तरसामप्रतिपाद्यभगवदुपास्तिमाह ॥ अभीति ॥ यो हिंकारः प्रद्युम्नः स अभिमन्थति अरणिमथनगतः । प्रस्तावो वासुदेवो यः सः धूमो जायते जायमानधूमगतः । उद्गीथो नारायणो ज्वलति ज्वालागतः । प्रतिहारोनिरुद्धोङ्गारावस्थापन्नवह्निगतः । निधनं सङ्कर्षणः उपशमसंशमशब्दितसावशेषनाशनिः शेषनाशोभयगतः । एतत्‌ अग्निस्थहरिवाचितया तत्समीपस्थं रथन्तराख्यं सामाग्नौ अग्निस्थेग्निम्नि हरौ प्रोतम्‌ । तद्वाचकं तन्नियम्यं चेत्यर्थः ॥ 1 ॥ स य इत्यादि फलवाक्यं प्राग्वत्‌ । एतत्सामार्थवेदिनो व्रतमाह ॥ न प्रत्यञ्चमग्निमिति ॥ अग्न्यभिमुखतया नाचामेत्‌ न निष्ठीवेत्‌ किञ्चित्प्रत्यपि श्लेष्मनिरसनं न कुर्यात्‌ । प्रत्यञ्चमग्निं न निष्ठीवेदिति वा ॥ 1 ॥ 12 ॥ वामदेवसामार्थविष्णूपास्तिमाह ॥ उपेति ॥ उपमन्त्रयते रन्तुं सम्भाषते ज्ञपयते सुखमनुभवति । स्त्रिया सह शेते एकपर्यङ्कगमनम्‌ । प्रति स्त्रीसह शेते मैथुनकरणम्‌ । कालं गच्छति पारं गच्छति मैथुनसमाप्तिगमनम्‌ । मिथुने मिथो नयतीति व्युत्पत्त्या मिथुननाम्नि हरौ ॥ 1 ॥ मिथुनी मिथुननामक विष्णुलाल्यत्वात्तद्वान्‌ भवति । मिथुनात्‌ मिथुनस्थितभगवतः सकाशात्प्रजायते प्रकृष्यो जायते कर्मवशादनेकस्त्रीपरिग्रहे सति तासु काञ्चन न परिहरेत्तद्‌व्रतम्‌ ॥ 2 ॥ 13 ॥ बृहत्सामवेद्यभगवदुपास्तिमाह ॥ उद्यन्निति ॥ उदयं प्राप्नुवन्नादित्ये स्थितहिकाराख्यः प्रद्युम्नः । आदित्यस्यैकत्वेप्युदयाद्यवस्थाभेदाद्भेदः । मध्यन्दिनो मध्यन्दिनगतः । अपराह्णोपराह्णगतः । अस्तं यन्‌ प्राप्नुवन्‌ बृहत्‌ बृहदाख्यं साम । उदयाद्यवस्थाभेदेन पञ्चधा भिन्नादित्यस्थे आदित्यनाम्नि प्रद्युम्नादिपञ्चधा भिन्ने शेते प्रोतम्‌ । बृहत्सामनिष्ठस्य व्रतमाह ॥ तपन्तं न निन्देदिति ॥ खण्डः ॥ 14 ॥ वैरूपाख्यसामवेद्यभगवदुपास्तिमाह ॥ अभ्राणीति ॥ सम्प्लवन्ते इतस्ततस्सञ्चरन्ति इतस्ततो मेघसञ्चरणक्रियेहेतुस्तन्निष्ठः हिकारार्थप्रद्युम्न इत्यादिरर्थोध्येयः । मेघो जायते वर्षानुकूलतया जायते विद्योतत इति विद्युत्स्तनयित्नूमयगतः । उद्गृह्णाति वर्षमुपसंहरतीत्यर्थः । पर्जन्ये पर्जन्यस्थे पर्जन्यनाम्नि विरूपानजाविप्रभृतीन्‌ सरूपानेकजातीयान्‌ गवादीनवरुधे प्राप्नोति ॥ खण्डः ॥ 15 ॥ वैराजाख्यसामवेद्यहर्युपास्तिमाह ॥ वसन्त इति ॥ हेमन्तशिशिरयोरैवयेनाह ॥ हेमन्त इति ॥ ऋतुषु ऋतुस्थिते ऋतुनाम्नि बहुरूपत्वात्‌ बहुवचनम्‌ ॥ खण्डः ॥ 16 ॥ शक्वर्याख्यसामवेद्यहर्युपास्तिमाह ॥ पृथिवीहिंकार इति ॥ देशनादाज्ञापनाद्दिशो दिङ्‌नामा दिग्गतः प्रतिहारोनिरुद्धः समुद्रेकाद्गुणैः समृद्धत्वात्समुद्रमाना समुद्रस्थः एताः शक्वर्यः
?Rशक्वर्याख्यं साम बहुवचनं रेवत्य इव शब्दस्वाभाव्यात्‌ । लोकेषु प्रकाशरूपतया लोकनाम्नि लालेकस्थे हरौ बहुवचनं प्राग्वत्‌ । लोकस्थलोकनामकहरिलाल्यत्वात्तद्वान्‌ भवतीत्यर्थः ॥ खण्डः ॥ 17 ॥ रेवत्याख्यसामवेद्यहर्युपास्तिमाह ॥ अजा इति ॥ पशुषु पशुनामके पशुगते पञ्चात्मनि हरौ रेवत्य इति बहुवचनं शब्दस्वाभाव्यात्‌ ॥ खण्डः ॥ 18 ॥ यज्ञा यज्ञीयाख्यसामवेद्यहयर्ुपास्तिमाह ॥ लोमेत्यादिना ॥ लोपकत्वहेतुना लोमनामा लोमस्थः । तवः शब्दितप्रकाशरूपत्वहेतुना त्वङ्‌नामा त्वचि स्थितः । मादनात्साररूपत्वान्मांसनामा मां सस्थः । स्थिरमासनात्‌ उपवेशनात्‌ अस्थिनामास्थिगतः । मदस्य जननात्‌ मज्जानामा मज्जगतः । अङ्गेषु अङ्गगतत्वहेतुना देहावयवभूताङ्गस्थेङ्गनाम्नि हरौ अङ्गस्थविष्रुमानिति हेतोरङ्गी भवतीत्यर्थः । अङ्गेनाङ्गस्थेन हरिणातत्प्रसादेनेति यावत्‌ । न विहूर्च्छति कुटिलाङ्गवान्न भवति मज्ञ इति द्वितीयाबहुवचनं मांसविशेषानित्यर्थः । मज्ञु मांसविशेषं कदापि नाश्ऱ्नीयादित्यर्थः ॥ खण्डः ॥ 19 ॥ राजनाख्यसामवेद्यनिष्ठोपास्तिमाह ॥ अग्निरिति ॥ अदनादग्निनामाग्निस्थः वानात्‌ ज्ञानादायुष्ट्वाच्च वायुनामा वायुस्थः स्वातन्त्ऱ्यहेतुना नक्षत्रनामा नक्षत्रस्थः परमानन्दत्वाच्चन्द्रनामा चन्द्रस्थः देवतासु देवतास्थे हरौ सार्ष्यितां सामीप्यम्‌ ॥ खण्डः ॥ 20 ॥ सर्वाख्यसामवेद्यभगवदुपास्तिमाह ॥ त्रयीत्यादिना ॥ ज्ञानरूपत्वहेतुना त्रयीविद्या नामा त्रय्यां विद्यायां स्थितः इमे लोकाः प्रकाशरूपतया लोकनामा लोकस्थः प्रागुक्तनिरुक्त्याग्निवाय्वादित्यस्थः । वि शब्दार्थाकाशेअयनाद्वयोनामा वयः शब्दितपक्षिषु स्थितः । प्रमितरुक्त्वात्‌ मरीचिनामा मरीचिस्थितः । सर्पणहेतुना गोधरत्वहेतुना सृष्यिहेतुत्वहेतुना च सर्पगन्धर्वपितृनामा सर्पादिस्थः । एतत्सर्वं सर्वाख्यं साम सर्वस्मिन्‌ सर्वाख्यसाम्नि स्थिते सर्वगणिपूर्णे हरौ । स्वयोग्यसर्वपूर्तिमान्‌ भवतीति भावेन सर्वं हि भवतीति फलोक्तिः ॥ 1 ॥ उक्तार्थे मत्रं पठति ॥ तदेष इति ॥ तत्‌ तत्र यानि हिंकाराद्यर्थभूतानि पञ्चविधप्रद्युम्नादिपञ्चरूपाणि प्रत्येकं ऋगादित्रित्रिस्थानभेदेन त्रिधा त्रिधा स्थिततया त्रीणि त्रीणि वर्तन्ते तेभ्यो भगवद्रूपेभ्यः परं ज्यायोन्यन्नास्ति त्रयीविद्यादिपञ्चवर्गेभ्यो ज्यायः श्रीतत्त्वमस्तीति परंज्याय इत्युक्तम्‌ । परंज्यायो भगवद्रूपमेव नान्यदिति भावः । यस्तत्परमज्यायो भगवद्रूपं नान्यदित्येतद्वद स सर्वं वेद सर्ववेदप्रमेयस्य ज्ञानादिति भावः । सर्वा दिशः सर्वदिगवस्थिताः प्रजाः बलिं पूजामस्मै ज्ञानिने हन्ति सर्वाख्नयसामोपासकस्य व्रतमाह ॥ सर्वमिति ॥ असनात्‌ मितिरूपत्वादस्मीत्युक्तं भगवद्रूपं सर्वं परिपूर्णमित्युपासीत तद्व्रतम्‌ । द्विरुक्तिस्तात्पर्यज्ञत्प्यर्था ॥ 2 ॥ 21 ॥ सामनाम्नो हरेः व्यस्तसमस्तसामो पास्तिरुक्ता तत्र साम्न उद्गानप्रकारं सप्रभेदमाह ॥ विनर्दीत्यादिना ॥ साम्नः सामनाम्नो हरेः विनर्दि गानप्रकारं विशिष्यो नर्दो नादोस्यास्तीति विनर्दि विशिष्यनादोपेतं गानं सपादैकवर्षवृषभस्वरवद्वा मेघस्वरवद्वा स्थिरस्वरोपेतं सामनामभगवत्कर्तृकं विनर्दि शब्दितं गानमहं वृणे । तादृशस्वरोपेतमेव सामगगानं कुर्यामित्युपेर्वाक्यम्‌ । उद्रातुर्वा । तादृशस्वरस्यैव सर्वोत्तमत्वात्तादृशस्वरेणैवोद्गाता साम गायेदिति भावः । तादृशस्वराशक्तौ स्वरान्तरेण गातव्यमिति भावेन तत्प्रभेदानाह ॥ पशव्यमित्यादिना ॥ पशब्दमित्यग्रेः । अग्रेरुद्गीथ उद्गानं पशव्यमिति । इति शब्दः प्रकारवाची । स्त्रीपशुसम्बन्धिस्वरप्रकारमित्यर्थः । प्रजापतेः ब्रह्मण उद्गीथ उद्गानं अनिरुक्तः अनुपमो गम्भीर इत्युर्थः । सोमस्योद्गीथः निरुक्तः साक्षात्‌ घण्टानिनादवत्‌ । वायोरुद्गीथः मृदु श्ऱ्लक्ष्णं मृदु मेघस्वरवत्‌ विंशतिवर्षवृषभस्वरवद्वा । इन्द्रस्योद्गीथः श्ऱ्लक्ष्णं बलवत्‌ तीव्रमेघगर्जनवत्‌ । बृहस्पतेः क्रौञ्चपक्षिस्वरवत्‌ उद्गीथः । वरुणस्योद्गीथः अपध्वान्तं विस्वरः । तान्‌ सर्वानेवोपसेवेत एतैः सर्वैरपि स्वरैर्गायेदिति यावत्‌ । वारुणं त्वेवापस्वरं वर्जयेत्‌ ॥ 1 ॥ गाने इतिकर्तव्यतामाह ॥ अमृतत्वमित्यादिना ॥ इति मनसाध्यायन्निति सर्वत्रान्वेति । मुख्यवायुश्ऱ्चेदुद्गाता सः देवेभ्योऽमृतत्वं मुक्तिमागायानि गानेन साधयामीति मनसा ध्यायन्‌ साम गायेत्‌ । तथा गाने हि स्वस्यापि देवान्तर्भावान्मुक्तिसिद्धिरिति भावः । मुख्यवायुतोन्यश्ऱ्चेदुद्गाता स मद्धृदिस्थो वायुः देवेभ्यः अमृतत्वमागायतीति मनसा ध्यायन्‌ गायेदित्यर्थः । एषवमग्रेपि । पितृभ्यः स्वाधां श्राद्धादिभागमुद्दिश्यागायानीति मनसा ध्यायन्नागायेदित्यनुषङ्गः । मनुष्येभ्य आशां आशासितमिष्यामिति यावत्‌ । पशुभ्यः तृणोदकमिति द्‌न्द्वैकवद्गावः । आगायानीति मनसा ध्यायन्नागायेदित्यन्वेति । आत्मने स्वस्मै प्रणस्थविष्ण्वे । प्राण एव चेदुद्गाता तदा स्वात्मगतविष्णवेऽन्नगानेऽर्थात्स्वस्यान्नभुजिर्भवति । प्राणादन्यश्ऱ्चेत्स्वगतमुख्यवायुस्थविष्णवेऽन्नगाने स्वस्याप्यन्नभुजिरर्थसिद्धेति ज्ञेयम्‌ । एतानि अमृतत्वमागायानीत्याद्युक्तानि । यद्वा सर्वे स्वरा इत्यादिना वक्ष्यमाणानि । मनसा ध्यायन्‌ अप्रमत्तः प्रमादहीनः स्तुवीत सामोपेतर्ग्भिः स्तोत्रं कुर्यात्‌ ॥ 2 ॥ ध्यायन्नित्युक्तध्येयान्याह ॥ सर्व इति ॥ सर्वे स्वराः अकाराद्यज्वर्णाः इन्द्रस्य इदं रातीति व्युत्पत्त्या वायोरात्मनः अधिष्ठानभूताः । सर्वे ऊष्माणः शषसहाः प्रजापतेः प्रजाः पातीति प्रजापतिनाम्नो विष्णोः आत्मानः । विष्णुस्वामिकाः । सर्वे स्पर्शाः ककारादिमावसानाः पञ्चवर्गगा वर्णाः मृत्योर्मारयितृत्वहेतुना मृत्युनाम्नो रुद्रस्यात्मानः । अस्खलितेष्वपि स्वरादिषु केनचिदसुरवर्गेणोपालम्भे कृते वक्तव्यमाह ॥ तं
?Rयदिति ॥ तं सम्यक्‌ स्वरानुच्चारयन्तं यदि कश्ऱ्चिदसुरस्वभावः स्वरविषये उपालभेत निन्द्यात्‌ तदेति शेषः । इन्द्रं इन्द्रशब्दितं वायुं शरणं रक्षकं प्रपन्नः प्राप्तोभूवम्‌ । स इन्द्रख्यो वायुः त्वा त्वां प्रति वक्ष्यति प्रत्युत्तरं दास्यतीत्येनं निन्दकं ब्रूयात्‌ ॥ 3 ॥ एवमुष्मशब्दितवर्णानुच्चारयन्तत्वा त्वाम्‌ । प्रति धक्ष्यति भस्मसात्करिष्यति ॥ 4 ॥ स्वरादेर्रिद्राद्यात्मतोक्तेः कृत्यमाह ॥ सर्व इति ॥ अकारादयः सर्वेस्वराः इन्द्रे ऐश्ऱ्वर्यादिन्द्रनामके वायौ बलं ददानीति मनसा ध्यायन्‌ स्वरवन्तः ध्वनिविशेषयुक्ताः बलवन्तो विवृताख्यप्रयत्नवन्तो वक्तव्याः । उद्गातुर्वायुत्वे तु वायुपदयोग्यानां बहुत्वात्‌ यजमानभूतवायुपदयोग्यस्य विष्णुतो मुक्तिदानमेव बलदानं ज्ञेयं प्रजापतेः विष्णोरात्मानं स्वात्मानं परिददानि समर्पये इति ध्यायन्‌ सर्वे ऊष्माणः अग्रस्ता अदष्या अनिरस्ताः अनतिद्रुतोच्चारिता विवृतप्रयत्नका वक्तव्याः विवृतमूष्मणां स्वराणां चेति शिक्षाग्रन्थोक्तेः । मृत्यो रुद्रात्‌ आत्मानं जीवजातं परिहराणि मृत्युवर्जितान्‌ मुक्तियोग्यान्‌ करिष्यमीति ध्यायन्‌ सर्वे स्पर्शाः लेशेनानभिहताः । लेशतोप्यसंसृष्या वक्तव्याः । वायुश्ऱ्चेदुद्गाता मुक्तियोग्यं करोत्येव । अन्यश्ऱ्चेन्मद्गतो वायुः करोतीति ध्यायन्‌ स्पर्शानुच्चरयेदित्यर्थः ॥ 5 ॥ 22 ॥ व्यस्तसमस्तसाम्ना सामनाम्नो हरेरुपासकानां स्वर्गमोक्षौ फलत्वेनोक्तौ तत्र केषां किमिति जिज्ञासायां तद्विवेकेनाह ॥ त्रय इति ॥ धर्मस्कन्धाः धर्मसङ्घाः त्रयः तदाह ॥ यज्ञ इति ॥ प्रथमस्कन्ध इत्यन्वेति । तपः कृच्छ्रचान्द्रायणेन्द्रियजयादिकं द्वितीयस्कन्धः । ब्रह्मचार्याचार्यकुलवासी सन्‌ अत्यन्तमात्मानमाचार्यकुले वसादयेदिति यत्‌ स तृतीयस्कन्धः । एते यज्ञादिनिष्ठाः सर्वे पुण्यलोकाः पुण्यः पुण्यप्राप्यः स्वर्गादिलोको एषां ते पुण्यलोका भवन्ति ॥ तत्रयं विवेकः । यज्ञाध्ययनदानैः गृहीसोमलोकं याति । यतिस्तपसा सूर्यम्‌ । वनस्थो ब्रह्मचारी च ऋषिलोकमिति । उक्तेषु मध्ये यदि कश्ऱ्चिद्ब्रह्मसंस्थो ब्रह्मज्ञानी तर्हि अमृतत्वं मुक्तिमेति ॥ 1 ॥ प्रायो मुमुक्षुजप्यो मन्त्रः वेदद्यर्थतया सर्वसारत्वादोङ्कारऐत्याख्यायिकयाह ॥ प्रजापतिरित्यादिकया ॥ प्रजापतिः विष्णुः सारान्‌ विवेक्तुं शब्दात्मलोकानभ्यतपत्‌ अपश्यत्‌ । तेभ्यः शब्दात्मकलोकेभ्य अभितप्तेभ्यः दृष्येभ्यः त्रयीविद्या ऋगादिरूपा सम्प्रास्रवत्‌ सारत्वेन भगवता व्यज्ञायत । तामित्यादि वाक्यत्रयमप्येवं व्याख्येयम्‌ । ॐ कारस्योक्तं सर्वसारत्वं दृष्यान्तपूर्वं व्यनक्ति ॥ तद्यथेति ॥ वक्ष्यमाणं निदर्शनम्‌ । यथा शङ्कुना सर्वाणि पणर्ानि सन्तृण्णानि प्रोतानि एवमोङ्कारेण भगवन्नामभूतेन सर्वा वाक्‌ सन्तृण्णा प्रोता । सर्ववाचां तदर्थविवृतिपरत्वात्‌ । इदं प्रकृतमोङ्कार एव सर्वम्‌ । अर्थपूर्तिवाचिनः सर्वपदस्य नपुंसकतया तदन्वितत्वादिदमित्यपि नपुंसकं कृतं अयमोङ्कारः सर्वं अर्थपूर्ण इत्यर्थः । द्विरुक्तिरुक्तार्था ॥ 2 ॥ 23 ॥ सामनामकभगवदुपास्त्या स्वर्गमोक्षावुक्तौ तत्र प्राप्तविघ्नपरिहारहेतुभूतवस्वादिनिष्ठभगवदुपास्तिं शिष्यगुर्वाफेपसमाधिरूपाख्यायिकयाह ॥ ब्रह्मवादिन इति ॥ यत्‌ यदि वसूनां प्रातःसवनं भूलोकश्ऱ्चेत्युपलक्ष्यते । रुद्राणां माध्यन्दिनं सवनं अन्तरिक्षलोकश्ऱ्चेत्यपि ग्राह्यम्‌ । आदित्यानां विश्ऱ्वेषां देवानां च तृतीयसवनं स्वर्गलोकश्ऱ्च क्व तर्हि यजमानस्य लोकः । तेषां वस्वादीनां तत्तल्लोकाधिपत्यादिति ब्रह्मादिनः शिष्याः वदन्ति । आक्षेपवाचमाहुरित्यर्थः । भूलोकादिस्वामिवस्वादिषु स्थितहरिं लोकद्वारादिवक्ष्यमाणमन्त्रैः प्रार्थ्य भूरादिवसुपभृतिलोकमेव यजमानो यातीति भावेन तत्र गुरुभिरुक्तं समाधिमाह ॥ स य इत्यादिना ॥ प्रयच्छन्तीत्यन्तेन खण्डत्रयेण । योधिकारी तल्लोकद्वारादिमन्त्रैः वस्वादिस्थ हरिप्रार्थनया तत्तद्वस्वादिलोकप्राप्तिरित्येतत्‌ प्रमेयं न विद्यात्तर्हि सः अज्ञः कथं कुर्यात्‌ । यज्ञादीति शेषः । अथ तस्मात्‌ प्राप्य फलाज्ञाने तद्धेत्वनुष्ठानायोगाद्विद्वानुक्तमर्थं जानन्नेव कर्म कुर्यात्‌ ॥ 1 ॥ कर्मकृतौ विद्वानित्युक्तज्ञातव्यमाह ॥ प्रातरिति ॥ प्रातरनुवाकस्य शस्त्रस्योपाकरणात्‌ उपक्रमात्‌ । पुरा पूर्वं गार्हपत्यस्य जघनेन पश्ऱ्चाद्भागे उदङ्मुखः स्थिरमुपविश्य स यजमानः वासवं वसुगतवस्वादिनामकभगवत्सम्बन्धि वासवं सम गायति गायेत्‌ । तत्सामाह ॥ लोकेति ॥ लोकस्य भूलोकस्य द्वारं अपावृणु आवरणं तिरस्कृरु । वयं त्वा त्वां पश्येम रा इत्यस्य राज्यायेत्यर्थलाभाय ज्यायेति पदेनान्वयः । तस्यार्थः भूलोकप्राप्तय इति । इति वस्वन्तर्गतवसुनामकं हरिं प्रार्थ्याथानन्तरं जुहोति । अग्रयेऽग्न्यन्तर्गतायाग्निनाम्ने हरये नमः लोकक्षिते । तस्य विवरणं पृथिवीक्षित इति । भूलोकप्राप्तये यजमानाय । त्वदाराधकाय मे मह्यं लोकं भूलोकं विन्द प्रापय । यद्वा पृथिवीक्षित इत्यग्नय इत्यस्य विशेषणं भूलोकस्वामिने इत्यर्थः । एवमग्रेपि यजमानस्य लोको वै आयुषः परस्तात्‌ । अत्र भूलोके एतास्म यजमानोहं गन्तास्मि । स्वाहापरिघं भूलोकप्राप्तिप्रतिबन्धकमनादिपरिघं भो अग्निगताग्निनामकहरेऽपजहि तस्य सवनं तत्सम्बन्धि भूलोकं प्रयच्छन्ति ॥ 2 ॥ 24 ॥ पुरेत्यादि खण्डद्वयमपि प्राग्वेदेव योज्यम्‌ । आग्नीघ्रीयस्य । आग्नीघ्रीयाख्यदक्षिणाग्नेः रौद्रं रुद्रान्तर्गतरुद्रनामक हरिविषयं साम । तत्सामाह ॥ लोकेति ॥ अत्रापि विरा इत्यस्य ज्याय इत्यनेन विराज्यायान्तरिक्षलोकप्राप्तये इत्यर्थलाभायान्वयः । अन्तरिक्षलोकप्राप्तिबन्धकानादिपरिघनिवृत्तये वायुगतभगवत्प्रार्थनामाह ॥ नमो वायव इति ॥ वायुगताय वायुनाम्ने हरये रुद्राः रुद्रस्थाः माध्यन्दिनं सवनं अन्तरिक्षलोकम्‌
?R॥ खण्डः ॥ 24 ॥ आदित्यमादित्यान्तर्गतविषयं वैश्ऱ्वदेवं विश्ऱ्वदेवान्तर्गतविषयं च स्वारा इत्यस्य ज्यायेत्यनेन स्वाराज्याय स्वर्लोकाप्तय इत्यर्थलाभायान्वयः । आदित्येभ्यः आदित्यान्तःस्थेभ्यः एवं विश्ऱ्वेभ्यो देवेभ्य इत्यत्रापि । प्रवहत प्रवर्तयत तृतीयसवनं स्वर्लोकं वस्वाद्युपासनयैव यजमानः स्वर्गादि लभते किमित्यतस्तदन्तर्गतभगवदुपास्त्यैवेत्याह ॥ एष ह वा इति ॥ योधिकारी एवमुक्तरीत्या वस्वादिस्थभगवदुपास्त्यैव तत्तल्लोकावाप्तिरिति वेद स एव यज्ञस्य मात्रां मातारं त्रातीति मात्रां शब्दस्वाभाव्यात्स्त्ीत्वम्‌ । यज्ञस्य निर्मातृपुरुषरक्षकं हरिं वेद स एव च स्वर्गादिभाक्‌ नान्य इति भावः । अत्र तात्पर्यं भाष्ये व्यक्तम्‌ ॥ खण्डः ॥ 26 ॥
इति श्रीमच्छन्दोग्योपनिषत्खण्डार्थे राघवेन्द्रयतिकृते द्वितीयोध्यायः सम्पूर्णः ॥ 2 ॥ C-K-2

********************************************************************************************

तृतीयोऽध्यायः।

वस्वादिदेवा उपासिता उपासकस्य निर्विघ्नं स्वर्गादि प्रयच्छन्तीत्युक्तं ते तु नानादितः स्वमहिम्नैव वसुपदादिमन्तः वसुनामेवैकोभूत्वेत्यादेः । अतः कस्यचिदुपास्तेति वाच्यम्‌ । कोसौ तदुपास्य इत्यत्तदुपास्यं पञ्चवि
?Rधं प्रपञ्चेनाह ॥ असौ वा इत्यादिना ॥ असौ आदित्वततत्त्वज्ञानरूपत्वहेतुभिः आदित्यनामादित्यस्थो विष्णुः देवमधु । मदः सुखानुभवोस्मिन्धीयते निधीयत इति मधु । सुखानुभवपूर्णो मधु शब्दार्थः । देवोपजीव्यत्वाद्देवमधु । प्रसिद्धमधुवदयमादित्यस्थो विष्णुः देवोपजीव्यमध्वित्यर्थः । एतद्विद्यायाः हृद्यारोहाय प्रसिद्धमधुसादृश्यं सर्वमप्याह ॥ तस्येति ॥ आदित्याख्यमधुनो हरेः । द्यौः प्रकाशदिगुणैः द्युनाम्नी द्युस्था श्रीः तिरश्ऱ्चीनवंशः तिर्यक्‌ स्थित्वा प्रणन्ति कृत्वा वशे करोति हरिमिति तिरश्ऱ्चीनवंश इत्युक्ता मध्वाश्रयापूपस्थानीयमारुताश्रयत्वात्तिर्यक्‌ स्थितवंशस्थानीया । स्वान्तस्सम्यक्‌ हरीक्षणहेतुनान्तरिक्षस्थो वायुस्तिर्यग्वंशलग्नमध्वाश्रयापूपः । आप्यो हरिरुपतिष्ठत्यत्रेति भगवत्सन्निधिविशेषयुक्तत्वादपूप इत्युक्तः प्रसिद्धमधुपटलस्थानीयः । आदित्यनाम्नो हरेः मधुशब्दितस्यान्तरिक्षे स्थितेरिति भावः । मरीचयः रश्मयः मरीचिषु स्थिताः । वसुरुद्राद्याः मधुपकारिणस्तत्पुत्राः मरीच्याद्याः मरीचिस्था इत्यर्थः ॥ 1 ॥ तस्यादित्यस्य । ये प्राञ्चः पूर्वदिगवस्थिता रश्मयः रश्मिषु स्थिताः रतिशंमानरूपत्वहेतुना रश्मिनामा वासुदेवः ता एव । विधेयापेक्षया स्थीत्वम्‌ । बहुवचनमधिष्ठानबहुत्वाद्रूपबाहुल्याद्वा । रश्मिषु स्थितस्तन्नामा वासुदेव एवेति यावत्‌ । अस्य मध्वपूपस्य प्राच्यो मधुनाड्यः पूर्वदिगवस्थितमधुनाडीषु स्थितः । अंशिनं मूलरूपमाप्तुमंशैः वासुदेवादिभिः विना नालं न समर्थः । पुमानिति व्युत्पत्त्या नाडी नामा । लडयोरभेदात्‌ । स्थीत्वं शब्दस्वाभाव्यात्‌ । बहुवचनं प्राग्वत्‌ । एवमग्रपि । ऋचः ऋग्वेद मानिनः । प्रातः सवने अर्च्यत्वहेतुना ऋङ्‌नामानो वह्नयाद्या वसवः मधुकृतः मधुनामकविष्णव्यिक्तिकृत्त्वान्मधुमक्षिकानिभाः । ऋग्वेद एव पुष्पं ज्ञानपोषकत्वापुष्पमित्युक्तः प्रसिद्धपुष्पनिभः । ता आपः आ समन्तात्पीयन्ते विचार्यन्ते देवैरित्यप्‌ शब्दिता ऋच एवामृताः नित्यत्वादमृता इत्युक्ताः । प्रसिद्धामृतनिभाः ता वा एता ऋचो ऋङ्मानिनो ऋङ्‌नामानो वसवः ॥ 2 ॥ एतमृग्वेदमभ्यतपन्‌ श्रवणमननादिभिः व्यचारयन्‌ । अभितप्तस्य विचारितस्य तस्य वेदस्य सकाशात्‌ यशः ज्ञानान्दात्मकः । तेजः प्रकाशरूपः । इन्द्रियं परमैश्ऱ्वर्यरूपः । वीर्यं सर्वानुग्रहशक्तः । अन्नाद्यं बलरूपः । रसः श्रेष्ठः अन्नायं सर्वानुग्रहशक्तः । रसो बलरूप इति वाथर्ः । वासुदेवाख्यो हरिः अजायत अभिव्यक्तोभूत्‌ ॥ 3 ॥ तत्‌ यशः प्रभृतिगुणयुक्तं रस शब्दितं वासुदेवाख्यं ब्रह्म धर्ममोक्षादीन्‌ देवानां व्यक्षरत्‌ प्रादात्‌ । तत्‌ वासुदेवाख्यं ब्रह्म । आदित्यमभितः अदित्यप्राग्रश्मीन्‌ । आश्रयत्‌ तत्रतिष्ठत्‌ । तद्वै ऋग्वेदोक्तं वासुदेवाख्यं ब्रह्म । एतद्वै यदादित्यस्य (रो)लोहितं रूपं लोहिताकारं सत्‌ प्राग्रश्मिगतलोहितरूपगमिति ॥ 4 ॥ 1 ॥ अथ सङ्कर्षणाख्यरूपोपासनोक्तिरारभ्यत इत्यर्थः । य एवास्यादित्यस्य दक्षिणाः । दक्षिणदिगवस्थिताः । रश्मयो रश्मिगताः रतिशंमानरूपतया रश्मिनामकः सङ्कर्षणः । बहुवचनं प्राग्वत्‌ । ता एव तत्रत्यसङ्कर्षण एव । अस्य मध्वपूपस्य दक्षिणा नाड्यः । दक्षिणमधुनाडीस्थः । प्रागुक्तव्युत्पत्त्या नाडी नामकः । बहुवचनं प्राग्वत्‌ । यजूंष्येव यजुर्मानिनो वायुमुखा रुद्राः मध्वाख्यहरिव्यञ्जकत्वान्मधुमक्षिकानिभाः । यजुर्वेद एव पुष्पं ज्ञानपोषकत्वात्‌ पुष्पमित्युक्तः । प्रसिद्धपुष्पकल्पं तस्यापि भ्रमरपोषकत्वात्‌ । आपः प्रागुक्तनिरुक्त्या यजूंषि ता आपः ॥ 1 ॥ तानि यजूंषि यजुर्वेद इति यावत्‌ अमृताः नित्यत्वादमृतशब्दिताः प्रसिद्धपुष्पामृततुल्याः । तानि वा एतानि यजूंषि यजुर्मानिनो वायुमुखा रुद्राः एतं यजुर्वेद मभ्यतपन्‌ व्यचारयन्‌ । तस्य विचारितस्य सकाशात्‌ । यश इत्यादि प्राग्वत्‌ । रसः सङ्कर्षणः ॥ 2 ॥ तत्‌ सङ्कर्षणाख्यं ब्रह्म । आदित्यमभितो दक्षिणरश्मीनश्रयत्‌ । तत्रातिष्ठत्‌ । तत्‌ सङ्कर्षणरूपमेतद्वै । यदादित्यस्यशुक्लं रूपं शुक्लवर्णं सत्‌ शुक्लरूपगमेतदित्यर्थः ॥ 3 ॥ 2 ॥ अथेति ॥ प्रद्युम्नस्योपास्तिप्रकार उच्यत इत्यर्थः । अस्यादित्यस्य ये प्रत्यञ्चो रश्मयः प्रत्यग्रश्मिस्थो रश्मिनामा प्रद्युम्नः स एवास्य मध्वरूपस्य प्रतीच्यो मधुनाड्यः प्रत्यङ्मधुनाडीस्थो मधुनाडी नामकः । सामान्येव सामाभिमानिनः मासेषु समभोगतया सामनामानः विष्णुवर्जिताः इन्द्रमुखाः
?Rसर्वे आदित्याः । मधुकृत इत्यादि सर्वं प्राग्वत्‌ ॥ 1 ॥ सामानि सामाभिमानिनः प्रागुक्तः ॥ 2 ॥ तत्‌ सामवेदोदितं प्रद्युम्नरूपम्‌ । एतद्वै यदेतदादित्यस्य कृष्णं रूपं श्यामवर्णं सत्‌ कृष्णरू पगम्‌ ॥ 3 ॥ 3 ॥ अथेति प्राग्वत्‌ । अस्यादित्यस्य ये उदञ्चो रश्मयः रश्मिस्थो रश्मिनामकोनिरुद्धः । ता वै सोनिरुद्ध एव अस्य मध्वपूपस्योदक्‌ दिगवस्थितमधुनाडीगतो नाडी नामकः अथर्वाङ्गिरस एव अधरं वर्तयन्ति वृष्यिम्‌ । मनः प्राणाभिमानितया गानां रसश्ऱ्चेति अङ्गिरसो नामकाः इतिहासपुराणाथर्ववेदमानिनः सोममुखा मरुतः मधुकृतः । इतिहासपुराणं द्वन्द्वैकवद्भावः । ता एवापः आपीयन्त इत्यप्‌ शब्दितेतिहासादिवाक्यान्येवामृताः प्रसिद्धामृतनिभानि ॥ 1 ॥ ते वा इत्यादि प्राग्वात्‌ ॥ 2 ॥ आदित्यमभितः उदग्रश्मीनश्रयत्‌ । तत्‌ इत्रतहासपुराणाथर्ववेदोक्तमनिरुद्धाख्यं रूपमेतद्वै । यदादित्यस्य परः कृष्णं अत्यन्तनीलं रूपम्‌ । सुनीलवर्णं सदत्यन्तनीलरूपगतं एतद्वै इति ॥ 3 ॥ 4 ॥ अथेति ॥ ऊर्ध्वा रश्मयो रश्मिनामको नारायणः । गुह्यादेशाः सर्वगुह्योपदेष्ठतया गुह्यादेशा इत्युक्ताः ब्रह्ममुखास्सर्वे ऋजवः ब्रह्मैव वेदराशिरेव । ता एवापो वेदवाचो अमृताः ॥ 1 ॥ तत्‌ सर्वदेदोक्तं नारायणाख्यं रूपं प्रोद्यदादित्यवर्णं सत्‌ आदित्यस्य(मण्डलस्य)मध्ये महामरीचिषुञ्जेन क्षोभत इवाचलोपि चलती वास्ते ॥ 2 ॥ 3 ॥ ते वा एते वासुदेवाद्याः पञ्च भगवद्रूपविशेषा रसानां रसाः । तद्वयनक्ति ॥ वेदा हि रसा इति ॥ तानि वा एतानि वासुदेवादिरूपाणि तेषाममृतानां वेदानाममृतानि नित्यताप्रदानि ॥ 4 ॥ 5 ॥ एवं पञ्च रूपिणं भगवन्तं मधुतयोक्त्वा अधुना के कस्य सेवकाः किञ्च तेषां तत्फलमित्यतः तत्सर्वं पञ्चभिः पर्वभिराह ॥ तद्यदिति ॥ तत्‌ प्रागुक्तं यत्प्रथमममृतं वासुदेवाख्यं तद्वसव उपजीवन्ति । पश्यन्त्यग्निना मुखेन । देवा वसवः तद्दशर्नपर्यन्तं नवै नैवाश्ऱ्नन्ति । न पिबन्त्यन्यभोगहीना वतर्न्ते । एतदेवामृतं वासुदेवं दृष्ट्वा तृप्यन्ति ॥ 1 ॥ ते वन्ह्याद्या वसवः एतदेव वासुदेवरूपं अभि स्वेच्छया संविशन्ति मुक्ताः सन्तः प्रविशन्ति । एतस्माद्रूपात्स्वेच्छयोद्यन्ति निगर्च्छन्ति ॥ 2 ॥ एवं प्राप्तपदानां वसूनां मुक्तिरूपफलमुक्त्वाधुना प्राप्स्यमानपदानां तत्पदयोग्यानां मधूपास्त्या तत्पदप्राप्त्यादिकं फलमाह ॥ स इति ॥ योधिकारी एतदेवामृतं वासुदेवाख्यं वेद स ज्ञानी वसूनामेव मध्ये एको भूत्वा वसुपदवीं प्राप्याग्निनैव मुखेनैतदेवामृतं वासुदेवं दृष्ट्वा तृप्यति । स पश्ऱ्चान्मुक्तावेतदेव रूपं वासुदेवं संविशति । स्वेच्छयैवैतस्माद्रूपादुदेति । बहिः गच्छति ॥ 3 ॥ वसूनामेवैको भूत्वेति मधूपासकस्य वसुपदप्राप्तिरुक्ता तत्किं रूपमिति जिज्ञासायामाह ॥ स यावदिति ॥ स वसुपदयोग्यो वासुदेवज्ञानी आदित्यः पुरस्तात्‌ उदयाद्रौ । उदेता । दृष्यिविषयो भवन्‌ यावत्कालं यावद्देशं वासं चरन्‌ । पश्ऱ्चादस्ताद्रावस्तमदर्शनं एता गन्ता भवति वसूनां तावद्देशतावत्कालाधिपत्यं यहितीयमित्यादिखण्डचतुष्ययेप्येवमेवार्थो ध्येयः । द्वितीयममृतं सङ्कर्षणाख्यं उपजीवन्ति पश्यन्ति इन्द्रेण मुखेन वायुना मुखेन ॥ 1 ॥ 2 ॥ स य एतदेवामृतं वेदेत्यादेः पूर्वत्रेव गमनिका तद्वदेवार्थश्ऱ्च ज्ञेयः । इन्द्रेणैव वायुनैव ॥ 3 ॥ रुद्राणां कियद्देशकियत्कालाधिपत्यमित्यत आह ॥ स इत्यादिना ॥ स द्वितीयामृताख्यसङ्कर्षणज्ञानी । रुद्राणां तावदाधिपत्यं स्वाराज्यं पर्येतेत्यन्वयः । कियद्देशकालमाधिपत्यं रुद्राणामित्यतो वसुभोज्यदेशकालयोरधर्देशकालमित्याह ॥ दक्षिणत इत्यादिना ॥ आदित्यस्य मेरुं प्रदक्षिणी कृत्य सञ्चरतोस्तगिरावेतद्दशीयानामदर्शनं प्राप्तस्य मेरोः पश्ऱ्चिमभागे दक्षिणदेशादुत्तरदेशं गच्छतो दक्षिणोत्तरदेशयोः यथाक्रमं उदयास्तमयौ मेरुपश्ऱ्चिमभागस्थजनानां भवतः । तत्र तत्र मानसगिरौ निम्नोन्नतस्थलसत्त्वादुदयास्तमयौ ध्येयौ । तथा चादित्यः यावद्दक्षिणत उदेतोत्तरतोस्तमेता । मेरुपश्ऱ्चिमदेशगतजनानां दक्षिणतो दृष्यिविषयो भूत्वा यावद्देशकालं गच्छन्‌ तत उत्तरदेशे किञ्चित्‌ दिशि गत अदर्शनं प्राप्नोति तावद्देशकालं रुद्राणामाधिपत्यम्‌ । कियद्देशकालं मेरुपश्ऱ्चिमभागे दक्षिणतः उत्तरदिग्गमनमित्यतस्तद्देशकालपरिमाणमाह ॥ यावदिति ॥ उदयाद्रौ उदेत्य पश्ऱ्चिममस्तं यावद्देशकालं याति तावद्देशकालं द्विर्द्विगुणितं भवेदिति रुद्रभोज्यदेशकालाहिगुणितो भवेत्‌ राद्रो देशकालद्विगुणितो वसुकालो यावान्‌ तावान्‌ भवतीति तदर्धदेशः अर्धरात्रकालश्ऱ्च रुद्रभोज्याविति फलितोर्थः ॥ 4 ॥ 7 ॥ तृतीयममृतं प्रद्युम्नाख्यं वरुणेन वरणीयत्वहेतुना इन्द्रेण ॥ 1 ॥ 2 ॥ वरुणेनैव इन्द्रेणैव ॥ 3 ॥ एवं दक्षिणत उदेत्योत्तरतोस्तङ्गतो रविः यदा मेरुपश्ऱ्चिमदेशीयानामस्तङ्गतो यदास्तङ्गदेशात्‌ मेरुवायव्यभागात्‌ पश्ऱ्चिमात्‌ पूर्वं देशं मेर्वीशान्यभागं प्रत्यायाति तदा मेरूत्तरभागस्थानां जनानां पश्ऱ्चिमपूर्वावुदयास्तमयदेशौ तावद्देशकालावादित्यभोग्यौ रौद्रदेशकालार्धदेशकालावित्याह ॥ स यावदित्यादिना ॥ पश्ऱ्चादिति वाक्येपि यावदिति ग्राह्यं पश्ऱ्चादुदेत्य पुरस्तादस्तं यावद्देशकालं याति तावद्देशकालमादित्यानामाधिपत्यम्‌ । तदेव कियदित्यत उक्तम्‌ यावदिति । दक्षिणोत्तरयोरुदयास्तमयदेशकालौ आदित्यदेशकालाहिगुणितौ सन्तौ यावन्तौ भवतः तावदिति । रुद्रोपभोग्यदेशकालार्धदेशकालाविति यावत्‌ ॥ 4 ॥ 8 ॥ चतुर्थममृतमनिरुद्धाख्यम्‌ ॥ 1 ॥ 2 ॥ 3 ॥ मरुतामादित्योपभोग्यदेशकालार्धदेशकालाधिपत्यमित्याह ॥ स यावदादित्य
?Rइत्यादिना ॥ पूर्ववद्योजना । उत्तरतः मेरोरीशान्यभागादुत्तरदेशीयानामस्तमयदेशात्‌ । दक्षिणतो मेरोः किञ्चिदाग्नेयभागेस्तमेता । मेरोः पूर्वदेशीयानां उत्तरदक्षिणयोरुदयास्तमयौ भवतः ॥ 4 ॥ 9 ॥ पञ्चमममृतं नारायणाख्यम्‌ । साध्याः साध्यनामकाः ब्रह्मपदयोग्याः ऋजवः । सुपर्णशेषसरस्वतीसुपर्णावारुण्यश्ऱ्च ब्रह्मणा विरिञ्चेन ॥ 1 ॥ 2 ॥ 3 ॥ मरुतामुपभोग्यदेशकालार्धदेशकालौ साध्यनामकानामित्याह ॥ स यावदित्यादिना ॥ मेरोः किञ्चिदाग्नेययुक्तपूर्वभागे ह्यैन्द्रपुरम्‌ । तत्रोदयगिरौ निम्नोन्नतभागोस्ति तत्रादित्य उदयाद्रेरूर्ध्वभागादधोभागं यदा याति तद्देशस्थानामर्ध्वमुदयोधोस्तमयः । तद्देशकालौ मरुद्देशकालार्धदेशकालौ साध्योपभौग्यौ ॥ 4 ॥ 10 ॥ खं प्रलये तु भगवान्‌ कथं तिष्ठतीत्यत आह ॥ अथेति ॥ स्थित्यनन्तरम्‌ । ततः सूर्यमण्डलादूर्ध्व उदेत्योद्गत्योर्ध्वं गतः सन्‌ वैकुण्ठलोकं प्राप्य । नैवोदेता नास्तमेता एकलव एकप्रकार एव अद्वितीय एवेति वा । मध्ये प्रलये स्थाता । तत्र उक्तेर्थे एष वक्ष्यमाणः श्ऱ्चलोकः संवादी भवति ॥ 1 ॥ नवै(नैव)तत्र वैकुण्ठलोके । तत्र किं नैवेत्यत उदयास्तमयौ नैवेति । तद्वयनक्ति । न निम्लोचो नास्तमयः कदाचन नोदियाय उदयहीनः । हे देवाः तेन सत्येन ब्रह्मणा हरिणा तत्प्रसादेनेति यावत्‌ । अहं माविराधिषि । देवतात्वसिद्धिराहित्यं न प्राप्नुयामित्यर्थः । इति शब्दः श्ऱ्लोकसमाप्तौ ॥ 2 ॥ एतद्विद्यावेदिनः महत्त्वं प्रकाशयन्‌ मोक्षफलमाह ॥ न हवा इति ॥ योधिकारी एतां ब्रह्मोपनिषदं ब्रह्मप्रतिपादिकां मधुविद्यां वेद अस्मै ज्ञानिने न हवा उदेति न निम्लोचति तस्य तात्पर्योक्तिः सकृद्दिवा हैवास्मै भवतीति । मुक्तस्य वैकुण्ठं नित्यं दिवैव भवतीत्यर्थः । 3 ॥ महदुपदेशपरम्परागता चैषेति विद्यां प्रशंसति ॥ तद्धैतदिति ॥ तदेतदादित्याख्यं पञ्चविधदेवमध्वाख्य ब्रह्मरूपं ब्रह्मा भगवान्‌ विष्णुः प्रजापतये उवाच । प्रजापतिः मनवे । मनुः प्रजाभ्यः । उवाचेति सर्वत्रानुषङ्गः । तद्वैतद्ब्रह्म उद्दालक आरुणये ज्येष्ठाय पुत्राय प्रोवाच(स्म) ॥ 4 ॥ तत्‌ तस्मात्‌ सम्प्रदायागतत्वात्‌ । अद्यतनोपि पिता प्रणाय्याय प्रणयवते ज्येष्ठपुत्राय अन्तेवासिने वा इदं ब्रह्म प्रब्रूयात्‌ ॥ 5 ॥ नान्यस्मै कस्मै च नेति । एतद्विद्योपदेष्युः सदृशगुरुदक्षिणाभावाच्चैषा महतीत्याह ॥ यदीति ॥ अस्मै एतद्विद्योपदेष्य्रे । धनस्य धनेन पूर्णां अद्भिः सप्तसमुद्रैः परिगृहीतां परिवृतामपीमां पृथिवीं यदि दद्यात्‌ । एतदेव मधुविद्यादानमेव । ततस्तादृशगुरुदक्षिणातः भूयः अधिकं तद्विद्यादानाय दक्षिणा नैव पूर्यत इत्यर्थः । इति शब्दः समाप्तौ । द्विरुक्तिस्तात्पर्यज्ञप्त्यर्था ॥ 6 ॥ 11 ॥ मूर्यान्तर्गतस्य हरेः सर्ववेदप्रतिपाद्यत्वेन प्रकृतस्य
?R वेदमातृगायत्रीनामार्थत्वेनोपास्तिमाह ॥ गायत्रीत्यादिना ॥ यदिदं किञ्च सर्वं सर्वान्तर्गतं भूतं प्रभूतं परिपूणर्ं मत्स्याद्यवतारजातं इदं सर्वं गायत्री वै गायत्ऱ्यां संस्थितस्सन्् गायत्री नामकः स्थीरूपः सूर्यसप्रभो भगवान्‌ वै प्रसिद्धम्‌ । गायत्ऱ्यनुषक्तवागादिनिष्ठानि भगवदुपास्त्यन्तराण्याह ॥ वाग्वै गायत्रीति ॥ गायत्री नामा हरिः वाग्वै । वक्तीति व्युत्पत्त्या वाङ्‌नामा स्त्रीरूपो वाचि स्थितो हयशीर्षो वै । कुतः इदं सर्वं भूतं देशकालगुणपरिपूर्णं मत्स्याद्यवतारजातं वाग्वै । हयशीर्षाख्यं तदभिन्नं वै । यतोतस्तदभिन्नं गायत्रीरूपात्मकमित्यर्थः । केन निमित्तेन गायत्रीनामा हरिरित्यत आह ॥ गायति च त्रायते चेति ॥ निखिलवेदानुच्चारयति त्रायते च जगदिति गायत्रीत्यर्थः । एतेन वर्णसमावेशे रूढगायत्री पदस्य कथं योगेनापहार इति निरस्तम्‌ । वाचनिकयोगस्याज्ञरूढितो बलवत्त्वस्य कम्पनादित्यत्र सिद्धत्वात्‌ । तदुक्तं सूत्रे छन्दोभिधानादित्यादौ ॥ 1 ॥ या वै सा प्रसिद्धा गायत्री गायत्री नामा हरिः । इयमेव सा । या इयं पृथिवी पृथुत्वहेतुना पृथिवी नामा पृथिव्यां स्थितः स्त्रीरूपः पीतवर्णो हरिः सा पृथिवी इयमेव । गायत्रीनामको भगवानेव । न मात्रयापि तद्रूपयोः भेदोस्तीत्येवकारार्थः । कुतोस्य पृथिवीपदनिर्दिष्यस्य ब्रह्मतेत्यतस्तल्लिङ्गद्वयादिति भावेन लिङ्गद्वयमाह ॥ अस्यामिति ॥ पृथिव्यां पृथिवीनाम्नि हरौ इदं प्रमाणप्रमितं सर्वं भूतं जगत्‌ प्रतिष्ठितं तदधीनसत्ताप्रवृत्तिप्रतीत्यादिमत्‌ । एतेन पूर्वत्र भूतपदस्य मत्स्याद्यवतारार्थकत्वादिह जगदर्थत्वस्वीकारे प्रकृतत्यागाप्रकृतस्वीकारौ स्यातामिति निरस्तम्‌ । उपजीवकत्वश्रवणरूपबाधकेन प्रकृतस्यागस्यादोषत्वात्‌ । एतामेव पृथिवीमेव पृथिनामकं हरिं नातिशीयन्ते केपि नातिशेरते । अयमेव सर्वातिशयी सर्वोत्तम इति यावत्‌ । सर्वाश्रयत्वसर्वोत्तमत्वलिङ्गद्वयात्‌ पृथिवीनामा हरिरेवेति भावः ॥ 2 ॥ या वै सा प्रसिद्धा पृथिवी पृथिवीनामा हरिः सा इयमेव । यदिदमस्मिन्‌ पुरुषे जीवे अन्तः शरीरं शं रूपत्वरतिररूपत्वजगत्प्रेरणहेतुभिः शरीरनामा देहान्तः पुरुषशब्दितं जीवमभिव्याप्य स्थितः योयं वर्तते इयमेव सा अयमेव सः पृथिवीशब्दित इत्यर्थः । शरीरशब्दितस्य विष्णुत्वे पूर्ववदेव लिङ्गद्वयमाह ॥ अस्मिन्निति ॥ शरीरशब्दिते । प्राणा इन्द्रियाणि प्राणादिवायवश्ऱ्च ॥ 3 ॥ हरेः जीवहृदयाधिष्ठितत्वं तन्नामकत्वं चाह ॥ (यद्वैतदिति ॥ तद्वा एतदिति ॥ पुरुषे जीवे । जीवं व्याप्य स्थितं शरीरनामकं भगवद्रूपमन्तःपुरुषे जीवान्तर्हृदयं हृद्ययते तिष्ठतीति व्युत्पत्त्या हृदयनामकं हृदयस्थं हरेरूपं तदिदमेवेति योजना । हृदयनाम्नो विष्णुत्वेपि लिङ्गद्वयमाह ॥ अस्मिन्निति ॥ 4 ॥ एवं
?Rगायत्रीभूतवाक्पृथिवीशरीरहृदयलक्षणषडिवधत्वं तदनुवदंश्ऱ्चतुविधत्वमाह ॥ सैषेति ॥ सैषा षड्‌िवधा गायत्री चतुष्पदा । आत्मना सह षडपो गयत्री शब्दितहरिश्ऱ्चतुष्पदा पादचतुष्योपेता इति योजना । छान्दसत्वाट्टाबृचीति सूत्रे ऋचीत्युक्तमनादृत्य चतुष्पदेति टावेव कृतः । प्रतिज्ञातं चतुष्पात्त्वं व्यनक्ति ॥ तदेतदिति ॥ गायत्रीनाम्नो हरेश्ऱ्चतुष्पात्त्वं ऋचा अभि सम्यगुक्तम्‌ ॥ 5 ॥ तदाह ॥ तावानिति ॥ अय पुरुषस्य सहस्रशीर्षत्वादिना पूर्वोक्तो महिमा तावान्‌ । काकुस्वरत्वादेतावानेव न भवतीत्यर्थः । किन्तु ततो ज्यायांश्ऱ्च पूरुषः । ज्यायस्त्वमेवाह ॥ पाद इति अस्य पुरुषनाम्नो हरेः सर्वा सर्वाणि भूतानि जीवचेतनानि एकः पादः । अस्य त्रिपात्‌ अमृतम्‌ । पादत्रयं नारायणवासुदेववैकुण्ठनामकम्‌ । दिवि द्योतमानतया । चित्प्रकृत्यात्मकत्वेन वा लक्षयोजनान्तरिक्षलोकादुपरि स्थिततया वा द्युशब्दिते श्ऱ्वेतद्वीपानन्तासनवैकुण्ठनामके दिवि क्रमात्तिष्ठतीत्यर्थः । तदाह सूत्रे ॥ भूतादिपादव्यपदेशोपपत्तेश्ऱ्चैवमिति । एतेन पुरुषसूक्तोक्तो गायत्रीपदोक्तश्ऱ्चैक इति दर्शितम्‌ । अन्यथासङ्गतेः ॥ 6 ॥ प्रकारान्तरेण गायत्रीनाम्नो हरेश्ऱ्चतुष्पात्त्वमाह ॥ यद्वैतदिति ॥ यद्वेति पक्षान्तरे । एतत्‌ गायत्ऱ्याख्यं रूपं ब्रह्म । सर्वगतरूपात्मकमित्यर्थः । स एकः पादो गायत्रीनाम्न इत्यर्थः । इदं सर्वगतं ब्रह्म वाव सर्वगतं ब्रह्मैव पुरुषात्‌ जीवात्‌ । बहिर्धा बहिः । शरीरहृदयाकाशः हृदयाकाशगत आकाशनामा योयं वर्तते अयं तत्‌ स इत्यर्थः । स द्वितीयपाद इति ज्ञेयम्‌ । एतस्य जीवान्तर्व्यापिरूपाभेदमाह ॥ योयं बहिर्धेति । योयं बहिर्धा पुरुषात्‌ शरीरहृदयाकशगत आकाशनामा अयं वाव सः ॥ 7 ॥ स कः योयमन्तःपुरुषे जीवान्तःस्थिताकाशगत आकाशनामा जीवान्तर्व्याप्तोस्ति स इत्यर्थः । स तृतीयपादो गायत्रीनाम्नः । तस्य चतुर्थपादस्थानीयजीचैतन्यहृदयाकाशगतेनाभेदमाह ॥ य इति ॥ यो वैसोन्तः पुरुष आकाशः पुरुषान्तव्यर्ाप्यस्थित आकाशनामा हरिर्यो वर्तते अयं वाव सः । स कः सोयमन्तर्हृदय आकाशः । जीवहृदयान्तर्वर्त्याकाशगतः आकाशनामा यो वर्तते अयं स इत्यर्थः । एव वा चतुष्पात्त्वमिति यद्वेत्यस्यार्थः । मन्त्रोक्तचतुष्पत्त्वपक्षे जीवः भिन्नपादः । पादत्रयं तु स्वरूपात्मकमिति वैरूप्यम्‌ । अस्मिन्‌ पक्षे तु सर्वगतजीवशरीरहृदयाकाशगत जीवान्तर्व्याप्यस्थितजीवचैतन्यहृदयाकाशगतरूपचतुष्ययस्यापि स्वरूपात्मकपादत्वमिति सारूप्यम्‌ ॥ 8 ॥ एवं पड्‌िवधत्वादिना निरूपितस्य हरेः स्वरूपमाह ॥ तदेतदिति ॥ तदेतत्‌ पड्‌िवधत्वादिनोक्तं भगवद्रूपं पूर्णं अप्रर्त्यत इत्यप्रवर्ति । स्वतन्त्रमिति यावत्‌ ज्ञानिनः फलमाह ॥ पूर्णामिति ॥ पूर्णां भगवदन्याप्रवतिर्नीं श्रियं लभेत योधिकारी ब्रह्मा एवमुक्तरूपेण गायत्ऱ्याख्यं रूपं वेदेति ॥ 9 ॥ 12 ॥ यदिदमस्मिन्नन्तःपुरुषे हृदयमिति योयमन्तर्हृदय आकाश इति च हृत्पुरगतत्वेन प्रकृतस्य हरेरुपास्तिं तत्पुरद्वरपमहिमोपास्तिफलनामुक्त्याह ॥ तस्येति तस्यैतस्य भगवदधिष्ठितहृदयस्य पञ्चदेवसुषयो देवनिर्गमद्वाराणि । क्रमेण पञ्चद्वाराणि द्वारपांश्ऱ्चाह ॥ स य इति ॥ स प्रसिद्धो योस्य हृदयस्य प्राक्‌ सुषिः पूर्वद्वारम्‌ । सः तद्‌द्वारपः प्राणः श्ऱ्वासवायुमानी । सोपि क इत्यत आह ॥ तच्चक्षुरिति ॥ विधेयापेक्षया दिति नपुंसकम्‌ । एवमग्रेपि । तत्‌ स प्राणमानी चक्षुश्ऱ्चक्षुरभिमानी सोपि कः आह ॥ स चक्षुर्मानी ॥ आदित्य इति ॥ तदेतत्‌ तमेतं प्राणचक्षुर्मान्यादित्यं पूवर्द्वारपं तेजोन्नाद्यं तेजोन्नाद्यभिमानीत्युपासीत । तदुपास्तेः फलमाह ॥ तेजस्वीति ॥ व्यक्तोर्थः ॥ 1 ॥ अथेत्यर्थान्तरे । अस्य हृदयस्य यो दक्षिणः सुषिः दक्षिणद्वारं स तद्‌द्वारपः व्यानः व्यानाख्यवाय्वभिमानी । श्रोत्रमानी च । स चन्द्रमाः तदेतत्‌ तमेतं व्यान श्रोत्रमानिनं दक्षिणद्वारपम्‌ । श्रीः लावण्यरूपः । दिगन्तव्याप्तकीर्तिमानित्युपासीत । तत्फलोक्तिः श्रीमानित्यादि ॥ 2 ॥ अथेत्यादिवाक्यत्रयस्यैवं योजना । प्रत्यक्‌ सुषिः पश्ऱ्चिमाद्वारम्‌ । सोपानः तद्‌द्वराधिपोपानवाय्वभिमानी । वाक्‌ वागिन्द्रियमानी । तदेतत्‌ तमेतम्‌ । अपानवागभिमानिनं पश्ऱ्चिमद्वारपमग्निम्‌ । ब्रह्मवर्चसं वेद लभ्य तेजोमानी अन्नाद्यमानीत्युपासीत । तत्फलोक्तिः ब्रह्मवर्चस्वीति छान्दसः समासान्तभावः ॥ 3 ॥ उदक्‌ सुषिः उत्तरदिगवस्थितद्वारम्‌ । तत्समानः तदधिपः समानवायुमानी मनोभिमानी च । पर्जन्यः पर्जन्यनामेन्द्रः । तदेतत्‌ तमेतम्‌ । समानमनोमानिनं उवरद्वारपमिन्द्रम्‌ । कीर्तिः पुरस्तुत्यकीर्तिमान्‌ । व्युष्यिरैश्ऱ्वर्यवानित्युपासीत । कीर्तिमानित्यादि फलोक्तिः ॥ 4 ॥ ऊर्ध्वः सुषिः उपरितनं द्वारम्‌ । स ऊर्ध्वद्वारपः उदानः उदानवायुमानी उन्नतेरुदाननामा यः स वायुर्मुख्यवायुः । आकाशः सर्वज्ञात्वादाकाशनामा । तदेतत्‌ तमेतमूर्ध्वद्वारपं उदानमानिनं मुख्यवायुं ओजः ऊर्जितः महश्ऱ्च पूर्णश्ऱ्चेत्युपासीत हृदयस्थब्रह्मणो द्वारपाः स्वर्गलोकस्य विष्णुलोकस्य च द्वारपाः । जयविजयादयो बहिर्द्वारपाः सूर्यादयोन्तर्द्वारपाः इति ज्ञेयम्‌ । स्वर्गद्वारपज्ञानिनः फलमाह ॥ स इति ॥ स प्रसिद्धो योधिकारी । अस्य ज्ञानिनः । वीरः सुसन्ततिर्जायते । पुनर्य एतानित्युक्तिः स्वर्गलोकं प्रतिपद्यत इति विष्णुलोकप्राप्तिरूपफलोक्त्यर्था ॥ 6 ॥ त्रिपादस्यामृतं दिवीति द्युस्थस्य योयमन्तर्हृदय आकाश इत्युक्तहृदयगतस्य च भेदधीनिरासाय इदं वाव तदित्यादिना ऐक्यं वक्तुं द्युस्थतया
?Rप्रागुक्तमनुवदति ॥ अतेति ॥ अर्थान्तरे । यत्‌ यद्रूपत्रयं नारायणवासुदेववैकुण्ठनामकं श्ऱ्वेतद्वीपानन्तासनवैकुण्ठाख्यं द्युस्थितत्वेनोक्तं तदिति शेषः । तद्रूपत्रयम्‌ । अतो दिवः पृथिव्यां द्यौरित्यादिप्रमाणेन द्युशब्दार्थत्वेन प्रसिद्धात्‌ मेरुसूयर्मण्डलेन्द्रसदनाख्यलोकत्रयात्‌ । क्रमात्परः उपरितनस्थं सत्‌ ज्योतिः शब्दितं नारायणादिरूपत्रयं दीप्यते प्रकाशमानमास्ते । कुत्रेत्यत आह ॥ सर्वत इति ॥ सर्वतः सर्वलोकेभ्यः । पृष्ठेषून्नतेषु । विश्ऱ्वतः विश्ऱ्वेभ्यः । मेरुवैजयन्तसत्यलोकाख्यब्रह्मसदनेभ्यः । पृष्ठेषूच्चेषु अनुत्तमेषूत्तमान्तररहितेषु । उत्तमेषु श्ऱ्वेतद्वीपानन्तासनवैकुण्ठेषु । दीप्यत इति पूवर्ेणान्वयः । एवं द्युस्थमेव रूपत्रयं कयाचिद्विवक्षया द्युपरत्वेनानूद्याधुना तद्रूपत्रयस्य हृद्गतरूपेणाभेदमाह ॥ इदमिति ॥ इदं प्रागुक्तं ज्योतिः शब्दितं रूपत्रयं तत्‌ वाव तदेत्‌ । तत्किं यदिदमस्मिन्नन्तःपुरुषे जीवहृदयान्तर्वर्तमानं ज्यातिस्तदेवेत्यर्थः । तदेव ज्योतिर्हृद्गतमित्यत्र स्पर्शनश्रवणे प्रमाणयति ॥ तस्येति ॥ तस्य पुरुषान्तः प्राणाग्नौ स्थितस्य ज्योतिराख्यहरेरेषा दृष्यिः तद्विषयकमेतत्‌ । प्रत्यक्षदर्शनम्‌ ॥ 7 ॥ किंतद्दर्शनमित्यत आह ॥ यत्रेति ॥ यस्मिन्नस्मिन्‌ शरीरे हस्तसंस्पर्शेनोष्णिमानमौष्ण्यं विजानातीत्येतदेव दृष्यिशब्दितं तस्य दर्शनमित्यर्थः । तस्येति कर्मणि षष्ठी । हृद्गतस्य ज्योतिराख्यहरिविषयिणी प्राणेन क्रियमाणा एषा श्रुतिरूपा श्रुतिः घोषः । सा केत्यत आह ॥ यत्रेति ॥ यत्र यदा । एतत्‌ एतां श्रुतिम्‌ । कर्णावपि गृह्य हस्ताभ्यां पिधाय वर्तमान इति शेषः । उपृणोति कथमिव । निनदमिव समुद्रघोषमिव । नदथुरिव मेघघोषमिव प्रज्वलतोग्नेः शब्दमिवेति । तदेतत्‌ हृदयाकाशगतम्‌ । ज्योतीरूपं ब्रह्म दृष्यं च श्रुतं चेत्युपासीत । कुतः य एवं वेद दृष्यत्वादिरूपेण वेद उपास्ते जानाति चापरोक्षतः स चक्षुष्यः दिव्यचक्षुष्मान्‌ चक्षुषि ब्रह्मण्येव यातीति चक्षुष्य इत्यर्थः । श्रुतः कीर्तिमांश्ऱ्च भवति । मुक्तो भवतीति यावत्‌ । अतः उपासीतेति । द्विरुक्तिर्विद्यासमाप्त्यर्था । तात्पर्यज्ञप्त्यर्था वेति ॥ 8 ॥ 13 ॥ हृद्गतोपास्तिप्रकारपूर्वं इदं वाव तद्वदिदमस्मिन्पुरुषे ज्योतिरिति हृद्गतेन बहिष्ठस्यैक्यमुक्तम्‌ । तदयुक्तं हृद्गतस्याणुत्वाद्बाह्यस्य महत्त्वादणुमहतोरैक्यायोगादित्यतो हृद्गते महत्त्वस्यापि सत्त्वादैक्यमुक्तमिति भावेनाह ॥ सर्वमिति ॥ सर्वान्तः स्थितत्वेनाति सामीप्यादिदमित्युक्तं विष्ण्वख्यं ब्रह्म । सर्वं गुणपूर्णम्‌ । खलु प्रसिद्धम्‌ । तद्ब्रह्म जलान्‌ जले प्रलयोदके अनिति चेष्यमानं आस्त इति शान्तोधिकारी उपासीत विद्यात्‌ । कुत एवं ज्ञेयमित्यतो ज्ञानाधीनशुभप्राप्तिमत्त्वात्‌ जीवस्य तज्ज्ञानमावश्यकमित्याह ॥ अथेति ॥ पुरुषो जीवः । क्रतुमयः । ज्ञानप्रधानः । तद्वयनक्ति ॥ यथेति ॥ यथाक्रतुयर्ादृशभगवद्विषयकनिश्ऱ्चयवान्‌ । अस्मिन्‌ लोके पुरुषोभवति । मृतिकाले तथा तदनुरूपः । इतो लोकाद्देहात्‌ प्रेत्य निर्गत्य भवति यतोथ तस्मात्‌ क्रतुं भगवद्विषयज्ञानम्‌ । सोधिकारी कुर्वीत सम्पादयेदित्यर्थः ॥ 1 ॥ प्रकारान्तरेण हरेः ज्ञानसम्पादनमाह ॥ मनोमय इति ॥ मनोमयः पूर्णज्ञानः । प्राणशरीरः भारूपः प्रकाशरूपः । सत्यसङ्कल्पोऽबाधितसङ्कल्पः । आसमतात्काशते दीप्यत इत्याकाशः । सर्वकर्मा सर्वकरणशक्ति रूपः । सर्वकामः सर्वविषयेच्छवान्‌ सर्वगन्धः सर्वशुभगन्धरूपः । सर्वरसः सर्वशुभरसरूपः । सर्वमिदं जगत्‌ अभ्यात्तः प्राप्तः । अवाक्यः लौकिक इव निरर्थकवाक्यरहितः । अनादरः आत्मसम्भावनारहितः । अवाक्यनादर इति पाठे अवाक्यश्ऱ्चासौ नादर इति विग्रहः । उक्त एवार्थः ॥ 2 ॥ महता बाह्यरूपेणैक्यघटनायाणुत्वमनुवदन्‌ महत्त्वमाह ॥ एष म इत्यादिना ॥ लोकेभ्य इत्यन्तेन । जायान्‌ वृद्धतमः पृथिव्यादितोप्यधिकपरिमाणवानित्यर्थः ॥ 3 ॥ पूर्वं सर्वगन्ध इति चिदानन्दाद्यात्मकसर्वगन्धादिमत्त्वमुक्तम्‌ । पुनरत्र सर्वकर्मेत्याद्युक्तिस्तद्भोक्तृत्वमप्यस्तीति वक्तुमिति सर्वमभ्यात्त इत्युक्तिरादरार्था । मे अन्तर्हृदये स्थित आत्मा एष उक्तज्यायस्त्वादिकः । एतद्ब्रह्म । बहिर्व्याप्तभगवद्रूपमित्यर्थः । उक्तरूपेण भगवन्तमभिसम्भवितास्मि प्राप्तास्मीत्यद्धा निश्ऱ्चयो यस्य स्यात्‌ तत्र विचिकित्सा संशयो यस्य नास्ति स याति पुरुषोत्तममिति शेषः । इति ह स्माह शाण्डिल्यः द्विरुक्तिक्तार्था । एतेन म इति शाण्डिल्यस्य चनमिति ज्ञायते ॥ 4 ॥ 14 ॥ एतेभ्यो लोकेभ्यो ज्यायानिति भगवान्महानित्युक्तं तर्ह्याकाशवदशरीर इति धीनिरासाय विग्रहेण महानित्याह ॥ अन्तरिक्षोदर इति ॥ कोशः कं सुखं उश इच्छा । आनन्देच्छारूपत्वात्‌ कोश इत्युक्तो भगवाननन्तरिक्षोदरः बहुव्रीहिः । भूमिबुध्नः भूमिः पृथिवी पादबुद्धयोः पादोपरिभागयोः यस्य स भूमिबुद्धः । न जीर्यति नित्यमजरः । अस्य कोशस्य स्रक्तयो बाहवः दिशः धर्मज्ञानादि देशनाद्दिङ्‌नामनो दिगाश्रया इत्यर्थः । अस्य कोशस्य द्यौरुत्तरं बिलं शिरोविवरम्‌ । वसवो देवा धीयन्तेत्रेति वसुधानः । स एष कोशो हरिर्देवानां निधानम्‌ । तस्मिन्‌ हरौ सर्वमिदं जगत्‌ श्रितम्‌ ॥ 1 ॥ स्रक्तयो दिश इत्युक्तम्‌ । तत्र को भुजः किं दिक्‌ प्रवर्तकः किन्नामकश्ऱ्चत्यत आह ॥ तस्येति ॥ तस्य कोशाख्यस्य हरेः प्राची दिक्‌ पूर्वदिगाश्रयः प्राचीनामा प्राक्‌ दिक्‌स्थितः । दक्षिणोर्ध्वबाहुः जुहोति हु दानादनयोः । अनेन भुङ्‌क्त इति वा । चक्रेण शत्रून्‌ जुहोति संहरतीति वा चक्रधरो जुहरित्युच्यते । नाम प्रसिद्धं दक्षिणा दक्षिणदिक्‌ स्थिता दक्षिणाधरस्रक्तिः सहमाना । मानं
?Rवेदरूपं प्रमाणं तदात्मकशंखो मान शब्दार्थः । मानेन शङ्खेन सहिता सहिता सहमानेत्युच्यते । प्रतीची प्रतीच्यां स्थिता वामोर्ध्वस्रक्तिः राज्ञी राजीयुक्तगदायुक्तत्वाद्राज्ञीत्युक्ता । नाम प्रसिद्धम्‌ । उदीची उत्तरदिगवस्थिता वामाधरस्रक्तिः सुभूता भूत(ति)शब्दितलक्ष्म्ाश्रितपद्मोपेतत्वात्‌ सुभूतेत्युच्यते । नाम प्रसिद्धम्‌ । तासां दिङ्‌नामिकानां दिगाश्रयस्रक्तीनां वायुः मुख्यप्राणो वत्सः पुत्रः । तज्ज्ञानिनः फलमाह ॥ स य इति ॥ योधिकारी एतमेव मुख्यवायुं दिशां वत्सं वेद स न पुत्ररोदं रोदिति पुत्रो भूत्वा रोदनं न करोति मुक्तो भवतीत्यर्थः । एवं ज्ञात्वा तादृशफलभाक्कश्ऱ्चिदस्ति किमित्यतोस्तीत्याह ॥ सोहमिति ॥ सोहमेतमेवं वायुं दिशां वत्सं जानामि । अतः पुत्ररोदं मारुदं पुत्रो भूत्वा रोदनं नाकरवम्‌ । अनादिकालतो मुक्त एवाभूवम्‌ ॥ 2 ॥ अणिष्यं अविनष्यं कोशं आनन्देच्छारूपं हरिं प्रपद्ये प्राप्तवानभूवम्‌ । किं स्वसामर्थ्येन नेत्याह ॥ अमुना भगवता तत्प्रसादेनेति यावत्‌ । त्रिरुक्तिः केवलं तत्प्रसादेनैव नतु मत्प्रयत्नेनेति सूचयितुम्‌ । प्राणं सर्वप्रणेतारं वासुदेवम्‌ ॥ 3 ॥ प्राणं प्रपद्य इत्यादिवाक्यचतुष्ययं स्वयमेव विवृणोति ॥ स इति ॥ C-K-3
?Rसोहमित्यनुषङ्गः । प्राणं प्रअपद्य इत यदवोचं यदिदं किञ्च भूतं प्रभूतं मत्स्याद्यवतारजातं इदं सर्वं प्राणो वै प्राण शब्दितवासुदेवो वै । तत्‌ तस्मात्तमेव मत्स्याद्यवतारात्मकं प्राणमेव प्रप्स्यथ । हे जना इत्युवाच लक्ष्मीरिति शेषः । साहमिति वक्तव्ये सोहमिति फुल्लिङ्गोक्तिः पुंशक्तियुक्तत्वादिति ज्ञेयम्‌ ॥ 4 ॥ अथेति वाक्यान्तरव्याख्यानारम्भे । एवमग्रेपि । ज्ञानेन भूषयतीति व्युत्पत्त्या भूर्नामकं सङ्कर्षणं प्रपद्य इति यदवोचं तत्‌ पृथिवीं स्वात्मप्रथनहेतुना पृथिवीनामकं पृथिवीस्थितं अन्तरीक्ष्यत इत्यन्तरिक्षनामकं अन्तरिक्षगतं क्रीडाकरत्वेन द्युनामकं प्रपद्ये इत्योवावोचम्‌ ॥ 5 ॥ भावयत्युत्पादयति जगदिति भुवर्नामकं प्रद्युम्नं प्रपद्य इति यदवोचं तत्‌ वह्नौ हुतमत्तीत्यग्निनामानमग्निगतं वात्यायुश्ऱ्चेति वायुनामकं वायुगतं आददात्यायुरित्यादित्यनामकं आदित्यस्थं प्रपद्ये इत्येवावोचमित्यर्थः ॥ 6 ॥ परानन्दस्वरूपत्वहेतुना स्वर्नामकमनिरुद्धं प्रपद्य इति यदवोचं तत्‌ ऋचं ज्ञानं वेदयत इति ऋग्वेदनामकं ऋग्वेदगतं यज्ञं वेदयत इति यजुर्वेदाख्यं यजुर्वेदगतं साम्यं वेदयत इति सामवेदाख्यं सामवेदगतं प्रपद्ये इत्येवावोचमित्युवाच लक्ष्मीरिति ॥ 7 ॥ 15 ॥ अनेकाः उपास्तय उक्ताः वक्ष्यन्ते च तासामनुष्ठानमायुषः क्षणिकत्वात्‌ स्थायिचेदपि तस्य रोगोपहतत्वादशक्यमित्यतः आयुर्वृद्धयर्थं रोगपरिहारार्थं च पुरुषयज्ञरूपामुपास्तिमाह ॥ पुरुषो वाव यज्ञ इत्यादिना ॥ पुरुषो जीवः यज्ञः भगवत्पूजार्थयज्ञः । विष्णुपूजार्थयज्ञोहमित्युपासीत पुरुष इत्यर्थः । पुरुषस्य यज्ञत्वे कानि सवनानीत्यत आह ॥ तस्य यानीत्यादिना ॥ पुरुषस्यायुर्वार्हस्पत्यादि मानभेदेन वा द्वापरादि युगभेदेन वा षोडशोत्तरशतसङ्खयाकं भवति । तत्र यानि तस्य पुरुषयज्ञस्य पूर्वचतुर्विशतिवषर्ाणि तत्‌ तानि प्रातः सवनम्‌ । कथं पूर्ववयसः प्रातः सवनतेत्यतः सवने जप्यऋगक्षरसाम्यादित्याह ॥ चतुर्विंशत्यक्षरेति ॥ ततः किमित्यत आह ॥ गायत्रमिति ॥ प्रातस्सवनं गायत्री च्छन्दस्कमन्त्रोपेतम्‌ । तद्देवता आह ॥ तदस्येति ॥ तस्यास्य चतुर्विंशतिवर्षरूपप्रातस्सवनस्य वसवोन्वायत्ताः अधिष्ठातारो देवता इति यावत्‌ । तथाच तैत्तिरीयश्रुतिः । वसुमद्गणस्य सोमदेवतेति मतिविदः प्रातः सवनस्य गायत्रच्छन्दस इत्यादि । के वसव इत्यत आह ॥ प्राणा वा(व(वसव इति ॥ कथं वसुत्वमित्यत आह ॥ एते हीति ॥ प्राणा हीदं प्राणिजातं (ए)तस्मिन्वयसि प्रातस्सवनाख्ये वासयन्तीति वासनहेतुतया पुरुषयज्ञे प्राणा वसव इत्यर्थः ॥ 1 ॥ तं चेत्‌ विष्णुपूजार्थयज्ञरूपं पुरुषम्‌ । एतस्मिन्प्रातस्सवनरूपचतुर्विंशतिवर्षमध्ये वयसि किञ्चिज्ज्वरादिकं उपतपेत्‌ बाधेत । तदा स पुरुषो ब्रूयात्‌ प्रार्थवीत । हे प्राणा वसव इदं मे प्रातः सवनं प्रातः सवनरूपं प्रथमं वयः । माध्यन्दिनं सवनं अनुसन्तनुत तावत्पर्यन्तं नयत । अहं प्राणानां वसूनां मध्ये यज्ञो भगवद्यज्ञरूपोहं मा विलोप्सीय लुप्तो मा भूवमिति ब्रूयादित्यन्वयः । एवं प्रार्थने किं भवतीत्यत आह ॥ अद्धैवेति ॥ ततः ज्वरादितः एति उद्गतो भवति । अद्धैव सत्यमेव । तद्वयनक्ति अगदः अरोगो भवति ॥ 2 ॥ अथानन्तरं यानि चतुश्ऱ्चत्वारिंशद्वर्षाणि तस्येत्यनुषङ्गः । पूर्ववद्योजना । त्रैष्युभं त्रिष्युप्‌छन्दस्कऋग्युक्तम्‌ ॥ 3 ॥ 4 ॥ अथ यान्यष्याचत्वारिंशदित्याद्यपि पूर्ववद्धयेयम्‌ । इदं सवर्ं शब्दादिविषयजातं आददते गृह्णन्ति ॥ 5 ॥ आयुरनुसन्तनुत यावदायुस्तावन्नयत ॥ 6 ॥ यज्ञत्वेनायुरुपास्त्या निर्विघ्नमायुः प्राप्तवानस्ति किमित्यतोस्तीत्याह ॥ एतद्ध स्मेति ॥ महिदासनामक इतरातनयः कश्ऱ्चिदृष्यिः एतत्पुरुषयज्ञप्रकारं वस्वादिमार्थनयातत्तद्वयसि प्राप्तरोगनिर्तनं च विद्वान्‌ जानन्‌ । एतद्वक्ष्यमाणमाह ॥ हे गद स त्वं मे मम एतत्‌ शरीरं किं किमर्थं उपतपसि क्लेशयसि योहमनेन तापेन न प्रेष्यामि मृतो न भविष्यामीत्याहेत्यन्वयः । स ऋषिः षोडशशतवर्षमजीवत्‌ । एतज्ज्ञानिनः फलमाह ॥ स हेति ॥ योधिकारी एवमुक्तरीत्या पुरुषयज्ञादि वेद सः षोडशोत्तरवर्षशतं जीवति ॥ 7 ॥ 16 ॥ प्रसिद्धयज्ञे दीक्षाः उपसदः स्तुतशस्त्राणि दक्षिणा चास्ति तान्यपि पुरुषयज्ञे सन्तीत्याह ॥ स यदिति ॥ सः भगवत्पूजार्थयज्ञरूपः पुमान्‌ अशिशिषति भोक्तुमिच्छति । पिपासति
?Rपातुमिच्छतीति यत्‌ न रमत इति यत्‌ ताः विधेयापेक्षया स्त्रीत्वम्‌ । अस्य दीक्षाः ॥ 1 ॥ तदुपसदैः तैरशनपानरमणरूपैरुपसदाख्ययजमानव्यापारैरेति ॥ 2 ॥ अथ ह सतीति यत्‌ जक्षति खादतीति यत्‌ मैथुनं चरतीति यत्‌ यदन्यत्कृत्यं तत्करोतीति यत्‌ तत्‌ तैः तदात्मकैरेव स्तुतशस्त्रैः स्तोत्रशस्त्रैरेति वर्तते । स्तोत्रं ऋगक्षरोपेतसामगानम्‌ । शस्त्रं केवलं मन्त्रपठनम्‌ ॥ 3 ॥ अथ तपः कुच्छचान्द्रायणादि परापरतत्त्वचिन्तं वा । आर्जवं मनोवाक्कर्मस्वैकरूप्यं इति यत्‌ ता अस्य पुरुषयज्ञस्य दक्षिणाः ॥ 4 ॥ यत्सर्वं सत्राख्यं कर्म यत्‌ एतत्‌ आत्मदक्षिणं वै बहुव्रीहिः । तस्मादायुषो यज्ञसादृश्यात्‌ प्रसिद्धयज्ञे सोष्यति सवनं करिष्यति । असोष्य सवनमकरोदिति यदाहुस्तत अस्य यजमानस्य पितृत उत्पादनं प्रथमं मातुस्सकाशात्पुनरुत्पादनमेवाहुः । अस्य पुरुषयज्ञस्य मरणमेवावभृतः ॥ 5 ॥ तद्धैतत्‌ तदेतदायुयर्ज्ञप्रकारं घोरनामा आङ्गिरसो अङ्गिरःपुत्रः । देवक्याख्‌यस्त्रीपुत्राय कृष्णनाम्ने कस्मैचिद्विष्णववतारभिन्नाय मुनये उक्त्वा वक्ष्यमाणविष्णूपासनप्रकारं चोवाच ऋषिः । अपिपासः उपलक्षणमेतत्‌ । अशिशिषतीत्यादिनोक्तदीक्षादिमान्‌ बभूवेत्यर्थः । स एवमायुर्यज्ञतयात्मानं ध्यायन्‌ पुरुषोन्तवेलायां प्राणात्ययसमये एतत्रयं वक्ष्यमाणं प्रतिपद्येत जपेत । तन्मन्त्रत्रयमाह ॥ अक्षितमसीति । भगवन्‌ त्वमक्षितमसि अक्षयोसि । अच्युतमसि गुणैरच्युतोसि । प्राणात्‌ शंसितं अधिकसुखोपेतोसि । इति प्रतिपद्येतेत्यर्थः । उक्तप्रकारेण भगवदुपास्त्या तस्य किं भगवतीत्यतस्तदपरोक्षज्ञानं तेन तत्प्राप्तिश्ऱ्च भवतीत्यभिप्रेत्याभिप्रेतार्थे द्वे ऋचौ प्रमाणत्वेनाह ॥ तत्रेति ॥ भगवदुपास्त्या तदपरोक्षज्ञानं तेन च तत्प्राप्तिरित्यर्थद्वये क्रमादृचौ प्रमाणत्वेन भवत इत्यर्थः ॥ 6 ॥ आदिदिति ॥ आदित्‌ प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम्‌ । परो यदिध्यते दिवा । आदित्‌ अस्मादेव भगवत्प्रासादादेव । प्रत्नस्य पुरातनस्यानादेः । रेतसो रतिरूपस्य हरेज्यर्ोतिः वासरमं वासेन रमयतीति हेतुना वासर शब्दितं पश्यन्ति । यज्ज्योतिर्दिवा दिवः । परः परतो वैकुण्ठे इध्यते ऋद्धतममेव सद्दीप्यमानमास्ते इति प्रथम मन्त्रार्थः । उद्वयमिति द्वितीयमन्त्रस्य तु उत्तरमुत्तमं ज्योतिः पश्यन्तः तदेवोत्तरं ज्योतिः स्वः आनन्दरूपं च परिपश्यन्तः वयं पश्यन्त उत्तरमिति द्विरुक्तिस्तात्पर्यार्था । तमसः उदगन्म उद्गताः स्मः । यद्वा उदिति भगवन्नाम उत्‌ उदाख्यं उत्तमं देवदिवं देवानां देवं सूरिप्राप्यत्वेन सूर्यशब्दितं ज्योतरगन्म प्राप्ताः स्मेत्यर्थः । उत्तरमुत्तममुत्तमामिति पदत्रयस्योत्तमोत्तमोत्तममित्यर्थः ॥ 7 ॥ 17 ॥ लब्धायुषः पुरुषस्यायुषः सार्थक्यायाध्यात्ममधिदैवतं च भगवदुपास्तिं तत्फलंचाह ॥ मनो ब्रह्मेति ॥ मनुत इति मनोनामा मनःस्थो नारायणः ब्रह्मेत्युपासीतेत्यध्यात्ममुपास्तिरुक्तेत्यर्थः । अथेत्यर्थान्तरे । अधिदैवतमुपास्तिरुच्यत इत्यर्थः । आ समन्तात्काशत इत्याकाशनामाऽऽकाशगतो नारायणः ब्रह्मेत्युपासीतेत्यनुषङ्गः । उपसंहरति । अध्यात्ममधिदैवतं चोभयमुपासनमादिष्यमुपदिष्यं भवतीति ॥ 1 ॥ तदतेद्ब्रह्म चतुष्पात्‌ । नारायणाख्यं अध्यात्माधिदैवगतं ब्रह्म वासुदेवादिरूपचतुष्ययोपेतमित्यर्थः । तद्विवृणोति वागिति । वक्तीति वाक्‌ नामा वागिन्द्रियस्थो वासुदेवः एकः पादः । प्राणः प्राणनहेतुतया प्राणनामा घ्राणेन्द्रियस्थः सङ्कर्षणः पादः । चष्य इति चक्षुर्नामा चक्षुःस्थः प्रद्युम्नः पादः । ृणोतीति श्रोत्रनामा श्रोत्रस्थोनिरुद्धः पादः इत्यध्यात्मं पादचतुष्यमुक्तमित्यर्थः ।अथाधिदैवतं तदुच्यत इत्यर्थः । अत्तीत्यग्निनामाग्निस्थो वासुदेवः एकः पादः वायुनामा वायुस्थः सङ्कर्षणः पादः आदित्यनामादित्यस्थः प्रद्युम्नः पादः दिङ्‌नामा दिक्षु स्थितोऽनिरुद्धः पादः । रूपबाहुल्याद्बहुवचनम्‌ । उपसंहरति ॥ इत्युभयमिति ॥ अध्यात्ममधिदैवतं चेत्युभयमेवादिष्यमुपदिष्यं भवति ॥ 2 ॥ अध्यात्माधिदैवतगतरूपाणां भेदशङ्कायां नेत्याह ॥ वागेवेति ॥ वाङ्‌नामा वाचिस्थितो ब्रह्मणश्ऱ्चतुर्थः पादो वासुदेव एव अग्निनाग्निनाम्ना ग्निस्थेन ज्योतिषा स्वात्मरूपेण भाति च । दुष्यान्स्तपति च । फलमाह ॥ भाति चेति ॥ योधिकारी एवमध्यात्माधिदैवगतमनआकाशगतस्य तन्नाम्नो नारायणस्य वाचि स्थितो वाङ्‌नामा वासुदेवाख्य इतरपादत्रयापेक्षया चतुर्थपादत्वेनोक्तः । आग्निस्थात्मरूपज्योतिषा भाति । दुष्यान्स्तपतीत्येवं प्रकाणेण वेद स ज्ञान ब्रह्म प्राप्य मुक्तौ कीर्त्या यशसा ज्ञानसुखात्मना ब्रह्मवर्चसेन वेदा भासजन्यतेजोविशेषण भाति च अज्ञानादि तपति चेत्यर्थः ॥ 3 ॥ प्राण एव प्राणनामा घ्राणेन्द्रियस्थः सङ्कर्षणः । वायुना वायुगतेन वायुनाम्ना सङ्कर्षणाख्यस्वात्मरूपज्यातिषा । भातीत्यादि प्राग्वत्‌ । एवं नारायणाख्यब्रह्मणः सङ्कर्षणाख्यप्राणगतश्ऱ्चतुर्थः पादः वायुगतज्तषा भाति तपति चेत्येवं वेदेत्यर्थः ॥ 4 ॥ चक्षुरेव लक्षुर्गतश्ऱ्चक्षुर्नामा प्रद्युम्नः आदित्येन ज्योतिषा आदित्यस्थप्रद्युम्नाख्यस्वात्मज्योतिषा । शिष्यं प्राग्वत्‌ ॥ 5 ॥ श्रोत्रमेव श्रोत्रस्थः श्रोत्रनामानिरुद्धः ॥ 6 ॥ 18 ॥ यत्प्राप्त्या कीर्त्यादिफलभाग्‌ भवति तत्प्राप्तिसम्पादिकामादित्यनिष्ठां काञ्चन विद्यामाह ॥ आदित्यो ब्रह्मेति ॥ आदित्यस्थ आदित्यनामा हरिर्ब्रह्मेत्युपासीतेति शेषः । इत्यादेश उपदेशः । कथमादित्यस्य जीवस्य ब्रह्मत्वेनोपास्तिरित्यतः तद्धटनाय प्रलयप्रकारं वदन्नादित्यस्योत्पत्तिप्रकारोक्त्या तत्र हरेः प्रादुर्भावमाह ॥ तस्येति ॥ तस्य
?Rआदित्ये ब्रह्मत्वोपासनस्योपपत्त्यर्थं व्याख्यानं सृष्यिनिरूपणं क्रियत इत्यर्थः । इदमग्रे अस्य प्रपञ्चस्याग्रे पूर्वं प्रलय इति यावत्‌ । केनाप्यगम्यत्वहेतुना असन्नामकं नारायणाख्यं ब्रह्मासीत्‌ तत्‌ ततः असन्नाम्नो नारायणात्‌ । ज्ञानिगम्यतया सन्नामकं वासुदेवाख्यं रूपं आसीत्‌ प्रादुरभूत्‌ । तत्‌ नारायणाख्यचित्प्रकृत्या समभवत्‌ सम्भोगमकरोत्‌ । तत्‌ ततः आण्डं निरवर्तत अजायत । तत्‌ आण्डं संवत्सरस्य मात्रां संवत्सरपर्यन्तं अशयत अशेत पश्ऱ्चात्तदण्डं निरभिद्यत ऊर्ध्वार्धोभेदेन भिन्नमभवत्‌ । ते आण्डकपाल रजतं च सुवर्णं चाभवताम्‌ ॥ 1 ॥ तद्यद्रजतं सेयं पृथिवी रजताण्डकपाले पृथिव्यादिसप्तलोकास्तिष्ठन्तीत्यर्थः । यत्सुवर्णं सा द्यौः । सुवर्णकपाले द्यौरुपरितनलोकास्तिष्ठन्तीत्यर्थः । यज्जरायु स्थूलं गर्भपरिवेष्यनं ते पर्वताः । उल्वं सूक्ष्मं गर्भपरिवेष्यनं स मोघो नीहारश्ऱ्च । या धमनयो नाड्यः ता नद्यः । यत्‌ वास्तेयमुदकं वस्तिसम्बन्धिनाभेरधो विद्यमानम्‌ । स समुद्रः ॥ 2 ॥ अथानन्तरं यत्‌ वस्तु । तत्‌ तत्राण्डे । अजयत । सोसावादित्यः आदित्यजीवनियन्ता आदित्यमण्डलस्थः आदित्यनामा भगवानथ तस्मादादित्यो ब्रह्मेत्युपासीतेति । अथशब्दो हेत्वर्थे वा । तं जायमानं आदित्यमण्डलगतं हरिं उलूलवः उरूरवः रलयोरभेदात्‌ । अतिमहान्तः गायत्ऱ्यादि वेदघोषाः अनूदतिष्ठन्‌ । तथा सर्वाणि च भूतानि ब्रह्मादीनि सर्वे च कामाः सर्वमङ्गलद्रव्याणि चानूदतिष्ठन्नित्यन्वयः । ब्रह्मादयः सर्वे देवाः मङ्गलद्रव्यैर्गन्धाक्षतपुष्पादिभिः गायत्ऱ्यादिवेदघोषैः उपातिष्ठन्त अस्तुवन्नित्यर्थः । तस्माद्ब्रह्मादिभिरेवं कृतत्वादद्यतनान्यपि भूतानि प्राणिजातानि तस्यादित्यनाम्नो हरेरुदयं प्रति । प्रत्यायनं अस्तं च प्रति । उलूलवो गायत्ऱ्यादिघोषाः गन्धाक्षतादिमङ्गलद्रव्यरूपकामाश्ऱ्चनूत्तिष्ठन्ति ॥ 3 ॥ ज्ञानिनः फलमाह ॥ स य इति ॥ स प्रसिद्धो योधिकारी एतत्‌ आदित्यस्य ब्रह्मत्वं एवमसदेवेदमग्रे इत्याद्युक्तप्रकारेण विद्वानादित्यं ब्रह्मेत्युपास्ते एनमुपास्ते एनमुपासकं साधवो घोषाः समीचीनवेदघोषाः यत्‌ एते आचगच्छेयुः उप सीमपे निम्रेडेरंश्ऱ्च मुक्तौ वेदानां नित्यावासभूतो भवतीत्यथर्ः ॥ 4 ॥ 19 ॥
इति श्रीचन्धोग्योपनिषदर्थसङ्ग्रहे राघवेन्द्रयतिकृते तृतीयोऽध्यायः ॥ 3

******************************************************************************************

चतुर्थोऽध्यायः

?Rमनो ब्रह्मेत्यादिकण्डे भाति च तपति चेत्यादिना भानादिफलकविद्योक्ता । अत्र तु सार्वज्ञादिसम्पादकसंवर्गविद्यामाख्यायिकया त्रिभिः पर्वभिराह ॥ जानश्रुतिरिति ॥ जनश्रुतस्यापत्यं जानश्रुतिः पुत्रायणस्य गोत्रापत्यं पौत्रायणः । श्रद्धया देयमस्य श्रद्धादेयः । बहुदायी यथेष्यदाता । बहुवाक्यः बहुमानवाक्यवान्‌ । बहुश्रुतो वा । आस बभूव । स राजा सर्वतः । सवर्त्र । आवसथान्‌ गृहान्‌ । मापयाञ्चक्रे कारयामास । कुतः सर्वत आगत्य मे मदीयमन्नमत्स्यन्ति अद्युरिति बुद्धयाऽन्नसत्रगृहान्‌ कारयामास सर्वत्रेत्यर्थः ॥ 1 ॥ अत्र एवं राज्ञि स्थिते तत्यनन्तरे कदाचिन्निशायां रात्रौ हंसाः पक्षिणः प्रासादे मञ्चे शयानं राजानं अभिपेतुः गगनमार्गे परिपतितवन्तः । तद्ध तदैव । हंसः कश्ऱ्चिदन्यहंसं पुरुतः उत्पतंतमभ्युवाद । हो हो यि भो भो हंस । भल्लाक्ष भल्लाक्ष मन्दाक्ष । जानश्रुतेः पौत्रायणस्य समम्‌ । दिवा द्युलोकपर्यन्तम्‌ । ज्योतिराततं व्याप्तमस्ति । तत्‌ ज्योतिः । त्वं मा प्रसांक्षीः तत्प्रसञ्जनं सम्बन्धं मा कार्षीः । कुतः तत्‌ तेजः त्वा त्वां मा प्रधाक्षीः तग्धं न करोतु । अत इति योजना । मध्यमपुरुषश्छन्दसः ॥ 2 ॥ इत्येकेन हंसेनोक्तः परो हंसः तमेवं ब्रुवाणं हंसं प्रत्युवाच । किमिति अरे हंस एतत्सन्तं एतस्मिन्‌ प्रासादे सन्तम्‌ । एनं पौत्रायणम्‌ । कं कीदृक्‌ प्रभावं मत्वा । सयुग्वानं शकटयुगाश्रितं नामतो रैक्वमिवात्थ वदसीति प्रत्युवाचेत्यर्थः । इति प्रत्युक्तोन्यो हंस आह । त्वयोक्तः स युग्वा रैक्वः यो नु को नु कथं कीदृक्‌ प्रभाववानिति ॥ 3 ॥ उत्तरमाह हंसः ॥ स यथेति ॥ वक्ष्यमाणदृष्यान्तो यथेत्यर्थः । कृताय विजिताय सम्यक्कर्मकरणेन कृतयुगे जिते सति । अधरेयाः त्रेतादयः । संयन्ति जितफला भवन्ति । एवं यत्किञ्चेमाः प्रजाः साधु पुण्यं कर्म कुर्वन्ति । स्वयोग्यं तत्सर्वमेनं संवर्गविद्यावेदिनं रैक्वं अभिसमेति प्राप्नोति । यः कोपि । यत्‌ ज्ञातव्यम्‌ । वेद तत्सर्वं स रैक्वो वेद । स रैक्वो मया एतदुक्तोनेन प्रकारेणोक्त इत्युवाच हंस इत्यर्थः ॥ 4 ॥ तदु ह हंसोक्तमात्मानादररूपं रैक्वप्रशंसारूपं च वाक्यं जानश्रुतिः पौत्रायणः उपशुश्राव । स ह राजा । संजिहानः तल्पादुत्थितः सन्नेव । क्षत्तारं सारथिं उवाच । किमित्यतस्तदाह ॥ अङ्गेति ॥ अरे अङ्ग भो प्रिय क्षत्तः । रैक्वो नाम मुनिस्त्वया विचार्यः । कुत इति चेत्पृच्छसि रात्रौ प्रासादे शयनकाले केचन हंसा अतिपेतुः । तदैकं हंसं प्रति अरे मन्ददृष्ये हंस । जानश्रुतेः ज्योतिर्द्युलोकपर्यन्तं व्याप्तमस्ति । तत्स्पर्शनं न कुरु । तथात्वे त्वां धक्ष्यतीत्यन्येनोक्तो हंसोऽभ्युवाद । कम्वर एनमेतत्सन्तमित्येतावद्वाक्यं स युग्वानमित्यतः प्राग्योज्यम्‌ । मयैतदुक्त इति वाक्यानन्तरमेवं हंसोक्तमतस्त्वाया स ज्ञातव्य इति क्षत्तारमुवाचेत्यर्थो ज्ञेयः वाक्यस्यार्थः प्रागुक्त एव ॥ 5 ॥ 6 ॥ एवमुक्तः क्षत्ता सर्वत्रान्विष्य नाविन्दं नलब्धवानस्मीति वदन्‌ प्रत्येयाय प्रत्यागतवान्‌ । तं क्षत्तारं राजा पुनरुवाच । अरे क्षत्तः यत्र ब्राह्मणस्यान्वेषणा अनुमार्गणम्‌ । भवति तत्‌ तत्र । एनं रैक्वमृच्छ गच्छ । तत्रान्वेषणं कुर्वित्यर्थः ॥ 7 ॥
?Rएवमुक्तः स क्षत्ता तथैवान्विष्य क्वचिच्छकटस्याधस्तात्पामानं कषमाणं कण्डूयमानं दृष्ट्वा तत्समीपे उपविष्यवान्‌ । उपविष्यः सन्‌ तं रैक्वमभ्युवाद । किमिति । हे भगवः भगवन्‌ त्वं नु सयुग्वा रैक्वोसि नु किमित्यभ्युवादेत्यर्थः । इति पृष्यः समुनिराह । अरे अहं हि रैक्वहिः प्रसिद्ध इति प्रतिजज्ञे प्रतिज्ञामकरोत्‌ प्रत्युवाचेति यावत्‌ । पामकषणभावे अरा इति प्लुतिः । स ह क्षत्ता अविदं ज्ञातवानस्मि रैक्वमिति प्रत्येयाय ॥ 8 ॥ 1 ॥ तदु ह तदैव । तेन ज्ञात्वा अभ्यागतत्वादेवेति वार्थः । जानश्रुतिः पौत्रायणः गवां षट्‌शतानि निष्कं हाररूपम्‌ । अश्ऱ्वतरीभिः युक्तं रथमश्ऱ्वतरीरथम्‌ । अश्ऱ्वतर्यश्ऱ्चाश्ऱ्वैर्गर्दभीषु जाताः । आदाय तत्‌ तत्र रैक्वस्थचे । प्रतिचक्रमे गतवान्‌ । तत्र गत्वा तं रैक्व अभ्युवाद ॥ 1 ॥ हे रैक्व गवामिमानि षट्‌शतानि अयं निष्कः अयं अश्ऱ्वतरीरथः एतत्सर्वं गृहीत्वा प्रसन्नः सन्‌ हे भगवः त्वं यां देवतां उपास्से एतां देवतां मे मह्यं अनुशाधि शिक्षय उपदिशेति यावत्‌ ॥ 2 ॥ तं राजानं परो रैक्वः प्रत्युवाच । अह हे शूद्र । हंसकृतानादरश्रवणजातशोकाधिक्येनागततया शूद्रेत्युक्त राजन्‌ । तदाह सूत्रेषु शुगस्य तदनादरश्रवणात्तदावद्रवणात्सूच्यते हीत्यादि । हारे त्वा हारश्ऱ्चेत्वा रथश्ऱ्च हारेत्वानौ हारेत्वानावेव हारेत्वा । व्यत्ययेन द्विवचनस्यैकवचनं हारेण हहित इत्वा हारेत्वेति वा । सेदुराजेत्यादिवत्‌ हार इति भिन्न पदं वा । गोभिः हस तवैवास्तु । इति ह प्रत्युवाचेत्यन्वयः । तदु ह तस्मेदेव तेनैवं प्रत्याख्यातत्वादेव ह । पुनर्जानश्रुतिः पौत्रायणो राजा । पुरमागत्य गवां सहस्रं निष्कं अश्ऱ्वतरीरथं दुहितरं कन्यां चादाय तत्‌ तत्र । प्रतिचक्रमे । जगाम ॥ 3 ॥ गत्वा तं रैक्वमभ्युवाद । हाहे रैक्व इदं गवां सहस्रं अयं निष्कोऽयमश्ऱ्वतरीरथः इयं जाया यस्मिन्‌ ग्रामे त्वमासे तिष्ठसि अयं च ग्रामः तत्सर्वं गृहीत्वा हे भगवः मा मां अनुशाध्येव अवश्यमनुशाधीत्यर्थः ॥ 4 ॥ तस्याः राजकन्यायाः । मुखमुपोद्गह्णन्‌ पश्यन्‌ इमाः गुरुदक्षिणाः आजहार स्वीकृतत्वान्‌ । राजानं प्रत्युवाच रैक्वः हे शूद्र हंसकृतानादरश्रवणजातेन शोकेनाद्रुत हे राजन्‌ गुरुशुश्रूषां विनाऽनेन हारादिमुखेनैवमालापयिष्यथा ॥ 3 ॥ इत्यवाचेत्यर्थः । आलापयिष्यसीत्येकवचनार्थे बहुवचनं प्लुतिः सन्तोषातिशये वेदपुरुष आह । ते हैते राजदत्ता ग्रामाः । महावृषेषु देशेषु रैक्वपर्णा नाम प्रसिद्धाः । यत्र ग्रामेषु । अस्मै राजार्थम्‌ । उवास रैक्वः त एत इति पूर्वेणान्वयः । दक्षिणां स्वीकृत्य प्रसन्नो मुनिः तस्मै राज्ञे संवर्गविद्यामुवाच ॥ 5 ॥ 2 ॥ रैक्वेनोक्तामधिदैवमध्यात्मं च संवर्गविद्यांसंवर्गस्वरूपं च विस्तरेणाह वेदपुरुषः । वायुर्वाव मुख्यवायुरेव । संवर्गः संहतर्ृतया संवर्गः इत्युक्तः । संहर्तृत्वमेव व्यक्तमाह ॥ यदेति ॥ उद्वायति नश्यति । वायुं अप्येति प्राप्नोति । अग्न्यादयोत्र देवता ज्ञेयाः ॥ 1 ॥ आपः अवभिमानिनः । स्वत एवाग्न्यादयो नाशमिताः वायुमपि यन्ति किमित्यत आह ॥ वायुरिति ॥ एतानग्न्यादिदेवान्‌ संवृङ्‌क्ते संहरति । इत्यधिदैवतं संहर्तृतया संवर्गाख्यं वायोरूपमुक्तमित्यर्थः ॥ 2 ॥ अथाध्यात्मं तादृग्रपमुच्यत इत्यर्थः । प्राणाख्यमध्यात्मगतं वायोरूपं संवर्ग इत्युक्तम्‌ । संहर्तृत्वप्रकारमाह ॥ स यदेति ॥ स जीवः । यदा स्वपिति तदा वागादयोत्राद्‌यात्मगतवह्नयादिदेवताः । प्राणं चक्षुरित्यादावप्येतीत्यनुषज्यते । एतान्संवृङ्‌क्ते उपसंहरति । इति शब्दोध्यात्माधिदैवरूपोक्तिसमाप्तौ ॥ 3 ॥ उक्तमर्थं सङ्गृह्याह ॥ तौ वा एतौ द्वाविति ॥ प्राणेषु वागादीन्द्रियेषु विषयसप्तमी देवप्राणविषये । संवर्गौ संहर्तृतया संवर्गनामकौ ॥ 4 ॥ उभयत्र मुख्यवायुः संवर्ग इत्युक्तमाख्यायिकयोपपादयति ॥ अथे हेति ॥ शुनकस्यापत्यं शौनकः । कपेरपत्यं कापेयः तम्‌ । नामतोभिप्रतारिणम्‌ । कक्षसेनस्यापत्यं काक्षसेनिः । परिविष्यमाणौ अन्नं परिवेषयन्तौ । कश्ऱ्चिद्ब्रह्मचारी बिभिक्षे अन्नं याचितवान्‌ । तस्मै याचितवते । न उनैव । ददतुर्ह ॥ 5 ॥ सब्रह्मचारी तावुवाच । यो भुवनस्य गोपाः रक्षकः । एको देवश्ऱ्चतुरो महात्मनः प्रागुक्ताग्निसूर्यादीन्‌ जगार गृ निगरणे जग्रास । एतं मर्त्याः बहुधा वसन्तं नाभिपश्यन्ति । हे कापेय हे अभिप्रतारिन्‌ । स कः यस्मै वा य्य वै एतदन्नं तस्मै एतदन्नं दत्तं प्रयच्छतमित्युवाचेत्यन्वयः ॥ 6 ॥ शौनकः कापयः तदु ह ब्रह्मचारिपृष्यमेव । प्रतिमन्वानः विचारयन्‌ । प्रत्येयाय ज्ञातवान्‌ । ज्ञात्वा च ब्रह्मचारिणं प्रत्युवाच चेति ग्राह्यम्‌ । तदाह ॥ आत्मेत्यादिना ॥ देवा नामात्मा आदानादिकर्ता स्वामीति यावत्‌ । प्रजानां जनिता जनयिता । हिरण्यदंष्य्रः बभसः भक्षकः । अनः चेष्यकः । सूरिर्ज्ञानी चेत्यनसूरिः प्राण इत्यर्थः । अस्य प्राणस्य महान्तं महिमानमाहुः प्राज्ञाः । तमेव महिमानमाह । अनद्यमानोनन्नमन्यैरत्तुमशक्य मग्न्याद्यन्नमत्ति । यद्यस्मात्तस्मात्‌ महान्तं महिमानमस्याहुरित्यर्थः । इति प्रत्युवाचेतीति पदस्यान्वयः । भो ब्रह्मचारिन्‌ ते तज्ज्ञानिनो वयं एतं प्राणमुपास्महे । अस्मै प्राणाय ब्रह्मचारिस्थिताय । भिक्षां दत्त प्रयच्छत । भृत्या इति चोवाचेत्यर्थः ॥ 7 ॥ एवमुक्ताः ते अस्मै भिक्षां ददुः । एवं तर्हि प्राण एव सर्वमुत्पाद्य संहर्ता किमित्यतो नेत्याह ॥ ते वा इति ॥ एते वायुना सहाग्न्यादयो येधिदैवगताः पञ्च तथाध्यात्मगताश्ऱ्च प्राणेन सहान्ये वागादयः पञ्च दश सन्त; दशसङ्खयाका भूत्वा तत्कृतं तत्‌ दशदेवताजातं कृतं पूर्णं पूर्णमन्नमित्यर्थः । तस्मादग्न्यादेरधिदैवाध्यात्मभेदेनाष्यत्वेपि
?Rवायुना सह दशसङ्खयापूरणात्सर्वासु दिक्षु स्थिताः दशदेवताः कृतं पूर्णमन्नं एते दश कस्यान्नमित्यत आह ॥ सैषेति ॥ सा प्रसिद्धा एषा अन्नदेवता विराट्‌ विशेषेण राजमानो विष्णुरेवान्नादी सर्वात्तृत्वोपयुक्तं सार्वज्ञमाह तया विराट्‌ शब्दितविष्णुदेवताया । इदं सर्वं जगत्‌ दृष्यम्‌ । फलमाह ॥ सर्वमिति ॥ योऽधिकारी । एवं वायुः स्वयं सकलसंहर्तृतया संवर्गनामा सन्‌ हरेरन्नमिति यो वेद सोन्नादो भवति । अस्य अनेन । स्वयोग्यं सर्वं दृष्यं भवति । सर्वज्ञो भवतीत्यर्तः ॥ 8 ॥ 3 ॥ पूर्वं तदेतच्चतुष्पाद्ब्रह्म वाक्‌ पाद इत्यादिना वासुदेवादिचतुर्मूर्तिविद्योक्ता अधुना प्रत्येकं चतूरूपाणां वासुदेवादीनामेव विद्यामाख्यायिकयाह षड्‌िभः खण्डैः ॥ सत्यकाम इत्यादिभिः ॥ सत्यकामो नामतः । जबालापुत्रो जाबालः आमन्त्रयाञ्चक्रे सम्बोधितवान्‌ । भवति हे भवति । ब्रह्मचर्यं ब्रह्मचारित्वं विवत्स्यामि वै । ब्रह्मचर्यमुद्दिश्याचार्यकुले विशेषेण वासं करिष्यामि । किं गोत्रः बहुव्रीहिः । अहमस्मीत्यामन्त्ऱ्य मातरमुवाचेत्यर्थः ॥ 1 ॥ सा मातैनमुवाच । हे तात पुत्र । यद्गोत्रस्त्वमसीत्येतदहं न वेद । कुत इत्यत आह ॥ अहं भर्तृगृहे बहु कमर् चरन्ती कुर्वन्ती परिचर्यकारिणी यौवने त्वामलभे लब्धवत्यस्मि । अतो व्यासक्तचित्ता अहं यद्गोत्रस्त्वमसीत्येतन्न वेद । जबाला तु नामाहमस्मि । सत्यकामो नाम त्वमसि । सत्यकाम एव जाबालोहस्मीत्वाचार्यं प्रति ब्रूया इत्युवाचेत्यथर्ः ॥ 2 ॥ स सत्यकामः । हारिद्रुमतोपत्यं गौतममेत्य प्राप्योवाच । भगवति पूज्ये त्वयि । ब्रह्मचर्यमुद्दिश्य वत्स्यामि । भगवन्तं त्वामुपेयां उपगतच्छमि शिष्यो भवानीत्युवाचेत्यर्थः ॥ 3 ॥ तं सत्यकामं गौतम उवाच ह । हे सोम्य किं गोत्रोसीति । इति पृष्यः सत्यकाम उवाच ॥ नाहमित्यादिना जाबालोस्मि भो इत्यन्तेन । अपृच्छं पृष्यवानस्मि । मा मां । नाहमित्यादेः प्राग्वदर्थः ॥ 4 ॥ एतत्‌ यथा स्थितत्वं अब्रह्मणो त्रैवर्णिकान्यो विवक्तुं नार्हत्यतोयं ब्राह्मबण इति तदीयर्जवेन निश्ऱ्चित्य तं सत्यकाममुवाच । हे सोम्य सोमपानार्ह समिधमाहर । त्वा त्वां उपनेष्यामि उपनीतं करिष्यामि । यस्मात्‌ त्वं सत्यात्‌ सत्यवचनान्नागाः । सत्यवचनं न त्यक्तवानसि । अत इति योजना । तं सत्यकाममुपनीय गौतमः कृशानां अबलानां बलहीनानां मध्ये चतुः शतं गाः गवां चत्वारि शतानि निराकृत्य बहिर्निष्क्राम्य हे सोम्येमाः गाः अनुगच्छ अरण्यं नीत्वा तृणादनादिकारयेत्युवाच । सत्यकामस्ताः अभिप्रस्थापयन्‌ बहिर्गमयन्‌ । असहस्रेण सहस्रं गा असम्पद्य नावर्तेयं नागच्छेयमित्युवाच । स एवमुक्तवान्‌ सत्यकामो गाः वनं नीत्वा तत्रैव वर्षगणं गोसहस्रसम्पत्तिपर्यनतमब्दसङ्घं प्रोवास प्रवासं चक्रे । ताः गावः । यदा सहस्रं सम्पेदुः सम्पन्नाः ॥ 5 ॥ 4 ॥ अथ तदा । एनं सत्यकाममृषभः ऋषभाविष्यो वायुः । अभ्युवाद उच्चैरुवाच । हे सत्यकामा 3 आमन्त्रिते चेति प्लुतः । इत्यभ्युवादेत्यन्वयः । हे भगव इति प्रतिशुश्राव श्रावयति स्म ह हे सोम्य सहस्रं सहस्रसङ्खयां वयं प्राप्ताः स्मः नोऽस्मानाचार्यकुलं आचार्यगृहं प्रापय ॥ 1 ॥ ते तुभ्यं ब्रह्मणः पादं ब्रवाणि इति चोवाच ऋषभस्थो वायुरित्यर्थः । एवमुक्तः सत्यकाम आह । मे मह्यं भगवान्‌ ब्रवीत्विति । तस्मै होवाच ऋषभाविष्यो वायुः प्राच्यां दिशि तन्नियन्तृतया स्थितः प्राचीदिङ्‌नामा वासुदेववासुदेवात्मा कला एकं ब्रह्मणः पादस्याद्यं रूपम्‌ । प्रतीचौ दिक्‌ प्रतीची दिङ्‌नामा प्रतीच्यां दिशि स्थितो वासुदेवसङ्कर्षणात्मककला ब्रह्मणः पादस्य वासुदिवस्य दिद्वतीयं रूपं । दक्षिणा दिक्‌ दक्षिणादिशि स्थितो दक्षिणदिङ्‌नामा वासुदेवप्रद्युम्नकला ब्रह्मणः पादस्य तृतीयं रूपम्‌ । उदीची दिक्‌ उदग्दिक्‌स्थित उदग्दिङ्‌नामा वासुदेवानिरुद्धः कला ब्रह्मणः पादस्य चतुर्थं रूपम्‌ । उपसंहरति ॥ एवमिति ॥ हे सोम्य ब्रह्मणो हरेरेष वासुदेवाख्यः चतुष्कलः उक्तदिशा वासुदेवादिचतुरात्मकः पादः । प्रकाशवान्नाम प्रसिद्धम्‌ । प्रकाशवानिति संज्ञक इति यावत्‌ ॥ 2 ॥ योधिकारी । एतं ब्रह्मणः प्रथमपादभूतं वासुदेवरूपम्‌ । एवं चतुरात्मना प्राच्यादिदिङ्‌नामकतया चतुर्दिक्षु वर्तत इत्येवं प्रकारेण विद्वान्‌ जानन्‌ ब्रह्मणो हरेः चतूरूपात्मकपादं वासुदेवं प्रकाशवानित्युपास्ते प्रकाशवान्‌ प्रख्यातः इत्यैहिकफलं व्यक्तम्‌ । य एतदिति पुनर्वचनं प्रकाशवत इत्यामिष्मिकफलोक्त्यार्थं ॥ 3 ॥ 5 ॥ अग्निरिति ॥ C-K-4
?Rवृषभाविष्यो वायुर्वासुदेवाख्यमेकं ब्रह्मणः पादमुक्त्वा ते अग्निर्देवतासङ्कर्षणाख्यं पादं वक्ता वक्ष्यतीत्युवाचेत्यथर्ः । स आचार्यकुलं नः प्रापयेति वृषभाविष्यवायुनोदितः सत्यकामः । श्ऱ्वो भूते परेद्युः । गाः अभि आचार्यगृहं प्रति । प्रस्थापयाञ्चकार यापितवान्‌ । ताः आचार्यगृहाभिमुखा गावः यत्र देशे अभिसायंबभूवुः सायंप्रतिबभूवुः सायंप्राप्ता इति यावत्‌ । तत्र देशे गाः उपरुध्य निरुध्याग्निमुपसमाधाय प्रतिष्ठाप्य । समिधमाधाय अग्नेः पश्ऱ्चात्‌ प्राङ्मुखः उपोपविवेश ॥ 1 ॥ तमग्निरित्यादेस्तस्मै स होवाचेत्यन्तस्य प्रागिवार्थो ध्येयः ॥ 2 ॥ पादं सङ्कर्षणाख्यं रूपम्‌ । तस्य पादस्य चतुष्कलत्वमाह ॥ पृथिवीति ॥ प्रथितत्वहेतुना पृथिवीनामकं पृथिवीनियन्तृतया पृथिवीसंस्थं सङ्कर्षणवासुदेवाख्यम्‌ । कला एकं रूपं ब्रह्मणः पादभूतस्य सङ्कर्षणस्य । एवमग्रेपि ध्येयम्‌ । अन्तरिक्षनियन्तृतयां तरिक्षस्थमन्तरिक्षनामकं सङ्कर्षणसङ्कर्षणात्मकं कला द्वितीयं रूपम्‌ । द्यौः द्युनियन्तृतया द्युस्थं द्युनामकं सङ्कर्षणप्रद्युम्नाख्यं कला तृतीयं रूपम्‌ । समुद्रनियन्तृतया समुद्रस्थं
?Rतन्नामकं सङ्कर्षणानिरुद्धाख्यं कला चतुर्थं रूपम्‌ । एष वा इत्यादेः प्राग्वदर्थः । अनन्तवान्‌ नाम अनन्तवत्संज्ञकः ॥ 3 ॥ 4 ॥ 6 ॥ एवमग्निदेवः सङ्कर्षणाख्यं चतूरूपं ब्रह्मणः पादमुक्त्वा । हंसः हंसरूपी चतुर्मुखः । ते पादं प्रद्युम्नाख्यं ब्रह्मणः पादं वक्तेत्युवाचेत्यर्थः । स ह श्ऱ्वो भूत इत्यादिप्राग्वत्‌ ॥ 1 ॥ हंसः हंसरूपी ब्रह्मा । उपनिपत्य आगत्य ॥ 2 ॥ पादं प्रद्युमनाख्यं रूप । आग्निः कलेति । अग्निनियन्तृतया अग्निस्थितमग्निनामकं प्रद्युम्नवासुदेवाख्यं ब्रह्मणः पादभूतस्य प्रद्युम्नस्य कला आद्यं रूपम्‌ । सूर्यनियन्तृतया सूर्यस्थितं सूर्यनामकं प्रद्युम्नसङ्कर्षणाख्यं कला द्वितीयं रूप । चन्द्रनियन्तृतया चन्द्रस्थं चन्द्रनामक प्रद्युम्नप्रद्युम्नाख्यं कला तृतीयं रूपम्‌ । विद्युन्नियन्तृतया विद्यद्गतं विद्युन्नामकं प्रद्युम्नानिरुद्धाख्यं कला ब्रह्मणः पादस्य प्रद्युम्नस्य चतुर्थं रूपम्‌ । एष वा इत्यादि प्राग्वत्‌ । तस्य प्रद्युम्नस्य संज्ञामाह ॥ ज्योतिष्मान्नामेति ॥ 3 ॥ 4 ॥ 7 ॥ एवं हंसरूपी विरिञ्चः प्रद्युम्नाख्य वासुदेवादिचतुरात्मना स्थितं ब्रह्मणः पादमुक्त्वा । मद्गुर्जलवायसरूपो वरुणस्तेऽनिरुद्धाख्यं ब्रह्मणः पादं वक्तेत्यप्युवाचेत्यर्थः । स ह श्ऱ्वो भूत इत्यादि प्राग्वत्‌ ॥ 1 ॥ मद्गुः जलवायुसरूपो वरुणः । उपनिपत्यागत्य ॥ 2 ॥ पादमनिरुद्धाख्यं रूपम्‌ । ब्रवाणीत्यभ्युवाद । प्राणः कला प्राणनियन्तृतया प्रा(घ्रा)णेन्द्रियस्थं प्राणनामकं अनिरुद्धवासुदेवाख्यं ब्रह्मणः पादभूतानिरुद्धस्य कला आद्यं रूपम्‌ । चक्षुर्नियन्तृतया चक्षुःस्थं चक्षुर्नामकं अनिरुद्धसङ्कर्षणाख्यं कला पादभूतानिरुद्धस्य द्वितीयं रूपम्‌ । श्रोत्रस्थं श्रोत्रनामकं निरुद्धप्रद्युम्नाख्यं कला तृतीयं रूपम्‌ । मनःस्थं मनोनामकं अनिरुद्धनिरुद्धाख्‌यं कला चतुर्थं रूपम्‌ । आयतनवान्‌ अवस्थानवान्‌ । शिष्यं प्राग्वद्धयेयम्‌ ॥ 3 ॥ 4 ॥ 8 ॥ वनान्निर्गतः सत्यकामो मार्गे त्रिरात्रीर्नीत्वा चतुर्थेह्नि आचार्यकुलं प्राप ह तं सत्यकाममाचार्योभ्युवाद । सत्यकामेत्यादि प्राग्वत्‌ ॥ 1 ॥ हे सोम्य ब्रह्मविदिव भासि प्रकाशसे । त्वा त्वाम्‌ । को नु शशस शिक्षितवान्‌ । इत्याचार्योभ्युवादेत्यर्थः । मनुष्येभ्योन्येऽनुशिक्षितवन्त इति सत्यकामः प्रतिजज्ञे । प्रतिज्ञातवान्‌ । उवाचेति यावत्‌ । तर्हि मयानुशासितव्यं नास्ति किमित्यत आह ॥ भगवानिति ॥ मे कामे कामाय । मदभीष्यसिद्धयथर्ं भगवांस्त्वेव ब्रूयात्‌ ॥ 2 ॥ कुतो मयैव वाच्यमित्यत आह ॥ श्रुतमिति ॥ भगवदृशेभ्यो महानुभावेभ्यः । श्रुतमेव । तथाप्याचार्यादेव हि विद्या विदिता साधिष्ठं स्थिरत्वं साधुत्वं च प्राप्नोति हि । यतो तस्त्वयैव वाच्यम्‌ । त्वमेव हि मया आचार्यत्वेन त्तृतो न वृषभाविष्यवाय्वग्निब्रह्मवरुणाः । तेपि नाजार्यबुद्धया मामनुशिक्षितवन्तोऽतस्त्वयैव कामाय मे वाच्यमिति । तदाह सूत्रे । लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपीति । एवं प्रार्थित आचार्यः एतस्मै सत्यकामाय । एतदेव वाय्वादिभिरुक्तमेवोवाच । गुरुत्वेन वृताद्भवतोन्येभ्यः श्रवणेन ममापराधो जातः किमिति भावयन्तं प्रत्याह ॥ अत्र हेति ॥ देवेभ्यः श्रुतविषये न किञ्चन वीयाय न काचिद्धानिरभूत्‌ । देवेभ्यः श्रवणेन ते न कोप्यपराधो जात इत्यर्थः । उक्तमेव निर्धारयति अत्र हीति पुनर्वचनेन ॥ 3 ॥ 9 ॥ प्रकारान्तरेण चतुर्मूर्तिविषयविद्याम्‌ । ज्ञानिना ज्ञातव्यं मुक्तिकाले गन्तव्यमार्गं च वक्ष्यंस्तदुपयुक्तां तावत्परापरब्रह्मनिष्ठां विद्यामाख्यायिकयाह ॥ उपकोसल इति ॥ उपकोसलो नामतः । कामलस्यापत्यं कामलायनः । ब्रह्मचर्यं ब्रह्मप्राप्त्यर्थं चरणमुद्दिश्योवास । तस्य सत्यकामस्य । अग्नीन्‌ गार्हपत्याहवनीयान्वाहार्यपचनरूपांस्त्रीनग्नीन्‌ द्वादशवर्षाणि परिचचार । सः सत्यकामः । अन्यानन्तेवासिनः शिष्यान्‌ । समावर्तयन्‌ ब्रह्मोपादिश्य समावर्तनं कारयन्‌ । स्वस्वगृहं प्रति गन्तु मनुजानन्‌ तमुपकोसलं नैव समावर्तयति । ह स्मेत्याश्ऱ्चर्ये ॥ 1 ॥ तं भर्तारम्‌ । सत्यकामं जायोवाच । ब्रह्मचारी तप्तः क्लिष्यः सन्‌ अग्नीन्‌ कुशलं यथा तथा परिचचारीत्‌ पर्यचारीत्‌ । च शब्दात्‌ त्वां मां च पर्यचारीदित्यर्थः । ब्रह्मचारिणो परिचारिता अप्यग्नयस्त्वां प्रति ब्रहमास्मै प्रब्रूहीति मा परिप्रोचन्‌ नैवोक्तवन्तः । प्रब्रूह्यस्मा इत जायोवाचेत्यन्वयः । तस्मै उपकोसलायाप्रोच्यैव । ब्रह्मानुपदिश्यैव प्रवासाञ्चक्रे । प्रोषितवान्‌ ॥ 2 ॥ स उपकोसलः । व्याधिना विशिष्याधिना महामनोव्यथया । अनशितुमभोक्तुम्‌ । दध्रे मनश्ऱ्चकार । तमुपाकोसलं । अशान भुंक्ष्व । किन्नु किमर्थं नाश्ऱ्नासि न भुक्ष । स उपकोसल उवाच । नानात्ययाः नानाप्रकाराः बहवः कामाः अस्मिन्पुरुषे कामाः कामनाविषयाः बहवः सन्ति व्याधिभिः महामनोव्यथाभिः परिपूर्णोस्म्यतो नाशिष्यामीत्युवाचेत्यन्वयः ॥ 3 ॥ अथ गुरोर्निर्गमनानन्तरमिति वा गुरुणा ब्रह्मणोनुपदिष्यत्वादिति वा आत्मनां परिचर्या करणादिति वाथेत्यस्यार्थः । अग्नयः गार्हपत्यादयस्त्रयोग्निदेवाः समूदिरे परस्परमूचुः । किमिति तप्तो ब्रहमचारी कुशलं यथा तथा नोऽस्मान्‌ परिचारीत्‌ पर्यचारीत्‌ । अस्मै ब्रह्मचारिणे ब्रह्म प्रब्रवाम । हन्त हर्षे । इत्यूचुरित्यन्वयः । इत्यन्योन्यं सम्भाष्य होमकुण्डेभ्य उत्थितास्त्रयोग्निदेवास्तस्मै ब्रह्मोचुर्ह ॥ 4 ॥ कथं प्राणो ब्रह्मब क ब्र=?Rह्म खं ब्रह्मेति । प्राणो बलदेवतामुख्यवायुः ब्रह्म अपरं ब्रह्म । कं नैजपरिपूर्णसुखरूपं विष्ण्वाख्यं ब्रह्म । खं परिपूर्णज्ञापबलात्मकं विष्ण्वाख्यं ब्रह्मेत्यूचुरित्यर्थः । सूत्रभाष्ये तु ब्रह्म पदं न विशेष्यपरं किन्तु कखयोः पूर्णत्वरूपविशेषणपरमित्यभिप्रेतम्‌ । तदाह सूत्रे । सुखविशिष्याभिधानादेव चेति । स एवमुक्त उपकोसल उवाच । प्राणो
?Rब्रह्मेति यदुक्तं तद्विजानामि । प्राणस्य मुख्यवायुतया प्रसिद्धेः । कं च तु खं च न विजानामि । ते किं प्राणादिवान्योन्यं भिन्ने उताभिन्ने इति न विजानामीत्वाचेत्यर्थः । एवमुक्तास्ते अग्नयस्तयोरभेदमूचुः ॥ यद्वाव कमिति ॥ यदेव खं तदेव कमिति पुनर्व्यत्यासेन वचनं मात्रयापि न भेदः । केवलं विशेषबलेनानन्दरूपो ज्ञानबलरूप इत भेदेन व्यवहारमात्रमिति द्योतयितुम्‌ । प्राणं मुख्यवायुं आ समन्तात्‌ काशते दीप्यत इति व्युत्पत्त्याकाशाख्यं व्याप्तं हरिं च परापरब्रह्मद्वयमूचुरित्यर्थः ॥ 5 ॥ 10 ॥ एवमग्निभिः सम्भूयोक्तं परापरब्रह्मनिष्ठां विद्यामुक्त्वा प्रत्येकं प्रत्येकं तैरुक्तां चतुर्मूर्तिविषयां विद्यामाह वेदपुरुषः ॥ अथ हैनमित्यादि त्रिभिः पर्वभिः ॥ अथेत्यस्य विद्यान्तरमुच्यत इत्यर्थः । एवमग्रेपि । एनमुपकोसलमनुशशास । तत्प्रकारमाह ॥ पृथिवीति ॥ पृथुत्वहेतुना पृथिवीनामकम्‌ । ब्रह्मेति चतुर्ष्वपि योज्यम्‌ । अङ्गनेतृत्वे नाग्निनामकं अग्निस्थं ब्रह्म । अत्तृत्वहेतुनान्ननामकमन्नस्थं ब्रह्म । नित्यमादिरूपतया आदित्यनामकमादित्यस्थं ब्रह्मेति पृथिव्यादिनामकानि चत्वारि रूपाणि पृथिवी ब्रह्मेत्दरूपेणानुशासेत्यर्थः । स्थानभेदेन रूपाणां भेदो न शङ्कय इति भावेन पृथिव्याद्यन्तर्यामिणः स्वान्तर्यामिणश्ऱ्चाभेदमाह ॥ य एष इति ॥ आदित्य इत्युपलक्षणं पृथिव्यग्न्यन्नादित्येषु य एष पुरुषो हरिर्दृश्यते दिव्यदृष्यिविषयोस्ति सोहमहेयत्वहेतुना चेतनखण्डतया वर्तमानोस्मि । इन्द्रार्जुनादिवदवान्तरविशेषोपि नेतिभावेनाह ॥ स एवाहमस्मीति ॥ सोहमस्मीति पूर्वोक्तिरभेदे तात्पर्याधिक्यज्ञापनार्था । इति चानुशशासेतीति पदस्य पूर्वेणान्वयः ॥ 1 ॥ योधिकारी एतं पृथिव्यादिचतुष्ययान्तर्यामिणमेवं गार्हपत्यान्तर्याम्यभेदेन विद्वानुपास्ते सः पापकृत्यामपहते अपहन्ति । लोकी भगवल्लोकवान्‌ भवति सर्वमायुरेति उत्तरावधिशून्यायुष्मान्‌ भवति । ज्योक्‌ प्रकाशवान्‌ जीवति । अस्योपासकस्याप(व)रपुरुषाः भृत्यजनाः । न क्षीयन्ते भृत्यवानेव भवतीत्यर्थः । य एवं विद्वानुपास्ते तं वयमुपभञ्जामः पालयामो लोकद्वयेपीत्यग्नय ऊचुरित्यर्थः ॥ 2 ॥ 11 ॥ अथ गार्हपत्योपदेशानन्तरम्‌ । अन्वाहार्यश्ऱ्चरुः पच्यतेत्रेत्यन्वाहार्यपचननामा दक्षिणाग्निः । किमित्यनुशशासेत्यत आह ॥ आपो दिशो नक्षत्राणि चन्द्रमा इति । प्रत्येकं ब्रहमपदान्वयः । आसमन्तात्‌ पालनहेतुनाऽप इत्युक्तोप्सुस्थितः ब्रह्म । अभीष्यदेशनाद्दिङ्‌नामा दिक्षुस्थितः ब्रह्म । अनन्याधीनत्वहेतुना नक्षत्रनामा नक्षत्रगतः ब्रह्म । आनन्दरूपतया चन्द्रनामा चन्द्रान्तः स्थो यः स ब्रह्मेत्यर्थः । य एष इत्यादेः पूर्ववदेव गमनिकार्थश्ऱ्च ज्ञेयः ॥ 1 ॥ 2 ॥ 12 ॥ अथेति प्राग्वत्‌ । प्राणो ब्रह्म आकाशो ब्रह्म द्यौर्ब्रह्म विद्युद्ब्रह्मेत्यनुशशासेत्यन्वयः । प्राणस्थो बलरूपत्वात्प्राणनामा । पदार्थपूरणावकाशदातृतयाकाशनामाकाशस्थः । प्रकाशरूपत्वात्‌ द्यौर्नामा । वेदनाद्विद्युन्नामेत्यर्थः । य एष विद्युदितीत्यादि पूर्ववत्‌ ॥ 1 ॥ 2 ॥ 13 ॥ एवं तित्रेग्निभिः सम्भूय प्रत्येकं चोपदिश्योक्तं द्विरूपोपदेशं निष्कृष्यानुवदन्‌ । अन्यदपि तैरुक्तमित्याह श्रुतिः ॥ ते होचुरित्यादिना ॥ सोहमित्यादिनोक्ता । अन्तर्यामिविषयत्वादस्मद्विद्या कं ब्रह्मेहत्दनोक्ता व्याप्तरूपविषयत्वादात्मविद्या अस्माभिरुक्ता । आचार्यस्तु ते गतिं कर्मणि करणे च व्युपादनीयोयं शब्दः । प्राप्यं तत्प्राप्त्युपायभूतं मार्गं च वक्ता वदिष्यतीति चोचुरित्यर्थः । आजगामेत्यादि व्यक्तम्‌ ॥ 1 ॥ को नु त्वानुशशासेति प्रश्ऱ्नस्य कतं को नु मानुशिष्यादिति मृषोक्तिरित्यतः स्वाभिप्रायं व्यनक्ति ॥ इहेति ॥ इह च अवचेति इहावे । इहेति भूमिगा मनुष्याः । अवेति पातालस्था असुराः । उभये भगवन्तं निह्नुतः अपलापं कुरुतः । अत एव न वक्तुं शक्ताः किन्तु देवा एवेत्याह ॥ इम इति ॥ ईदृशाः ज्वालारूपाः अयादृशाः करचरणादिमन्तः । इति हाग्नीनभ्यूदे स्पष्यमुवाच । आचार्या वक्ति किं नु सोम्येति । हे सोम्य तेग्नयः किमवोचन्‌ ॥2 ॥ इति प्रश्ऱ्नस्योत्तरं इदमिति प्रतीकपूर्वं प्रतिजज्ञे प्रतिज्ञातवान्‌ । लोकान्‌ पृथिव्यादिलोकस्थ भगवद्रूपाणि । तेवोचन्नित्यादि सत्यकामवाक्यम्‌ । वक्ष्यमाणब्रहमविद्यायामादरजननायादावेव मायासङ्गत्वापादकज्ञानविषयत्वमहिमानमाह ॥ तद्यथेति ॥ वक्ष्यमाणनिदर्शनम्‌ । यथा पुष्करपलाशे पद्मपत्रे । एवं एवं वक्ष्यमाणप्रकारेण भगवज्ज्ञानिनि पापं कर्म न श्ऱ्लिष्यते न लिप्तं भवति यज्ज्ञानात्पापाश्ऱ्लेषरूपमुक्तिभ; भवति तद्वस्तु अहं वक्ष्यामीत्यावचार्याऽवोचदित्यर्थः । ब्रवीतु भगवानित्युपकोसल उवाच । तस्मै उपकोसलायोवाच हाचार्यः ॥ 3 ॥ 14 ॥ आचार्योक्तविद्यामाह श्रुतिः ॥ य एष इति ॥ अन्तरक्षणि अक्ष्यन्तः पुरुषः पूर्णषड्‌गुणतया पुरुषनामा । य एष दृश्यते दिव्यदृष्यिविषयः सन्नास्ते । एष पुरुष आत्मा । आदानादिकर्तृत्वेन वा आदेयं उपादेयं सुखं मात्यनुभवतीति वा आत्मेत्युक्तः । तस्य गुणानाह ॥ एतदिति ॥ विधेयापेक्षया नपुंसकम्‌ । एषः आत्मेत्युक्ताक्ष्यन्तस्थः पुरुष अमृतमभयमेतद्ब्रह्म पूर्णमित्युवाच हेत्यर्थः । तदाह सूत्रे । अन्तर उपपत्तेरिति । एतस्मिन्‌ चक्षुःस्थे हरौ । न किञ्चन श्ऱ्लिष्यति लिप्तं न भवति । तत्र ज्ञापकमाह ॥ तद्यदिति । तत्‌ तस्मादसङ्गभगवत्स्थानत्वाद्यत्‌ यदि । अस्मिन्‌ चक्षुषि कश्ऱ्चित्सर्पिर्वा उदकं वा अपि पदादन्यद्वा सिञ्चति तत्‌ वर्त्मनी अधरोत्तरपार्श्ऱ्वौ प्रत्येव गच्छति न श्ऱ्चिष्यतीति चोवाचेत्यर्थः ॥ 1 ॥ चक्षुषोसङ्गत्वापादकस्यासङ्गपुरुषस्य विष्णुत्वे
?Rज्ञापकान्तरमप्याह ॥ एतमिति ॥ एतं चक्षुःस्थासङ्गपुरुषं संयद्वामः संयन्ति प्राप्नुवन्ति वामानि भद्राण्यस्येति संयद्वाम इत्याचक्षते प्राज्ञाः । कुतः हि यस्मादेतं सर्वाणि वामानि भद्राण्यभिसंयन्त्यत इत्यर्थः ज्ञानिनः फलमाह ॥ सर्वाणीति ॥ एनं ज्ञानिनं वामानि भद्राण्यभिसंयन्ति भद्राण्यभिसंयन्ति प्राप्नुवन्ति ॥ 2 ॥ एष चक्षुरन्तस्थो हरिः । वामनिः । उ खल्वित्यर्थः । कुतः । हि यस्मादेष चक्षुरन्तस्थः सर्वाणि वामानि । वामं सौन्दर्यं तत्प्रधानत्वात्स्त्ीकदम्बानि नयति प्रेरयत्यत इत्यर्थः । वामनीरेव वामनिः । ह्रस्वश्छन्दसः । ज्ञानिः फलमाह ॥ सर्वाणीति ॥ अनेकस्त्रीनियन्ता मुक्ताविह च भवति य एवं वेदेत्यर्थः ॥ 3 ॥ एष एव भामनिः भामं ओजः तत्प्रधानत्वात्पुरुषजातानि । तानि नयतीति । भामनीरेव भामनिः । सर्वपुरुष नेतेत्यर्थः । तस्य गुणान्तरं चाह ॥ एष हीति ॥ अक्षिस्थः हि प्रसिद्धम्‌ । ज्ञानिनः फलमाह ॥ सर्वोष्विति ॥ तदाह सूत्रे । स्थानादिव्यपदेशाच्चेति ॥ 4 ॥ चाक्षुषपुरुषज्ञानिनो माहात्म्यं प्रकाशयन्‌ तस्य गम्य मार्गं चाह ॥ अथेति ॥ अर्थान्तरे । यदु च यद्यप्यस्मिन्‌ चाक्षुषपुरुषस्योक्तरूपस्य ज्ञानिनि मृते । श्यं शवसम्बन्धि दहनाद्युत्तरकर्म कुर्वन्ति । यदु च यदि च न कुर्वन्ति । स ज्ञानी अर्चिषमार्चिर्लोकमेवाभिसंविशति प्राप्नोति । यद्वा पूर्वमस्मिन्निति ज्ञानिसमुदायाभिप्रायं तेर्चिषमभिसंविशन्ति प्राप्नुवन्तीति यथ श्रुत एव न विपरिणामः । अर्चिषोर्चिर्लोकात्‌ । अहः अहरभिमानिलोकम्‌ । संविशन्तीति सर्वत्रानुषज्यते । अह्नो अहर्लोकादापूर्यमाणपक्षम्‌ । शुक्लपक्षाभिमानिलोकम्‌ । तस्मात्‌ तान्‌ षण्मासान्‌ उदङ्‌ याति सूर्यः उत्तरायणशभिमानिलोकमिति यावत्‌ । तस्माच्च संवत्सराभिमानिलोकं तस्माच्चादित्यमण्डलं तस्माच्च तस्माच्चन्द्रमण्डलं तस्माच्च वैद्युतं विद्युन्नामकवायुपत्नीलोकम्‌ । तत्पुरुषः तस्या विद्युन्नाम वाण्या भर्ता । मानवो वायुः । व्यिल्लोकात्तमिति शेषः । अभिसंविशतीत्यनुषङ्गः ॥ 5 ॥ स वायुः एनान्‌ चाक्षुषपुरुषज्ञानिनः । ब्रह्म गमयति प्रापयति । तदाह सूत्रे । श्रुतोपनिषत्कगत्यभिधानादिति । वैद्युतेनैव ततस्तच्छतेरिति च । अत्र प्रतीकालम्बनान्‌ कायर्ब्रह्म चतुर्मुखं नयत्यप्रतीलम्बनान्‌ परं ब्रह्म नयतीति ब्रह्म पद्य कार्यब्रह्मपरब्रह्मोभयपरत्वमधिकारिभेदेन ज्ञयम्‌ । तदाह सूत्रकारः । कार्यं बादरिरस्य गत्युपपत्तेः । परं जैमिनिर्मुख्यत्वात्‌ । अप्रतीकालम्बनान्नयतीत्यादि । अर्चिरादेः जडत्वभ्रान्तिं निवारयति । एष देवपथो देवैरभिमन्यमानमार्गः ब्रह्मपथः ब्रह्मप्राप्तिमार्गः । एतेनार्चिरादिना पथा प्रतिपद्यमानाः ब्रह्म प्राप्नुवन्ते । इमं मानवमावर्तं मानवा मनुष्याः यत्रावर्तन्ते सोयं मानवावर्तः । स एव मानव आवर्तः अलुक्‌ समासः । तं मानवमावर्तं जननमरणादिरूपसंसारं प्रति । नावर्तन्ते मुक्ता एव भवन्तीति । विकारावर्ति च तथा हि दर्शयतीति सूत्रभाष्यादौ तु मानवमावर्तं संसारं नावर्तन्ते नावर्तवन्तीत्यर्थमुपेत्य मुक्तानां संसारिविषयव्यापारो नेत्यर्थपरतया व्याख्यातम्‌ ॥ 6 ॥ 15 ॥ पूर्वत्र संवर्गविद्या विषयत्वेनोपक्रान्तो वायुः प्राणो ब्रह्मेत्यपरब्रह्मत्वेन प्रकृतः । स एनान्‌ ब्रह्मेत्यव्यवधानेन पूर्वं परामृष्यश्ऱ्चेति । तद्विषयामन्यामपि यज्ञविद्यामाह ॥ एष हेत्यादिना ॥ योयं पवते वाति एष वायुर्यज्ञो ह वै । सर्वयज्ञाभिमानी यमे सन्निहितो यज्ञ नामा । कथमित्यतो निर्वक्तिः ॥ एष इति ॥ एष वायुः यन्‌ गच्छन्नेव सर्वमिदं पुनाति पवित्रयति । यद्यस्मादेष वायुः गच्छन्नेवेदं सर्वं पुनाति तस्माद्धेतोः एष वायुरेव यज्ञः । इण्‌ गतावित्यस्य शतृ प्रत्यये सुबादौ यन्निति रूपम्‌ । ज्ञ शुद्धभाव इति धातोः क्विपि ज्ञ इति रूपं निरुक्तिबलात्पूर्वपदान्त्यलोपे यज्ञ इति सिद्धेरिति भावः । यज्ञाख्यवायोः पादावस्थितिस्थानमाह ॥ तस्येति ॥ तस्य वायोः मनश्ऱ्च वाक्च वर्तनी पादौ । मनो वाचो र्वर्तेते द्वौपादावित्यर्थः ॥ 1 ॥ तयोः पादयोरन्यतरां मनः संस्थां वर्तनिन्दक्षिणपादम्‌ । ब्रह्मा ब्रह्मर्त्विक्‌ मनसा मौनेन संस्करोति पूजयति । होताध्वर्युरुद्गातेति त्रयो ऋत्विजः वाचा उपलक्षणम्‌ । क्रमाद्वाचा मन्त्रैः । अध्वर्युर्होमादिकर्मणा । सामगानेनोद्गाता चान्यतरां वाचि स्थितां वर्तनिं वामपादं संस्करोतीत्यनुषज्यते । प्रत्येकमन्वयः । ब्रहमर्त्विजः कदा मौनं तद्भङ्गे च किमनिष्यमित्यतः तद्भङ्गेऽनिष्योक्त्या मौनकालं नियमयति ॥ अथेति ॥ यत्र यदि । प्रातरवानुके उपाकृते उपक्रान्ते । परिधानीयायाः कर्मसमापिकायाः अन्त्याया ऋचः जपात्‌ पुरा ब्रह्मा व्यपवदति वाचं विसृजति ॥ 2 ॥ तदा होद्यिस्त्रय ऋत्विजः अयतरां वाचिस्थितां वामवर्तनिमेव संस्कुर्वन्ति पूजयन्ति । हीयते अन्यतरा मनःस्थता दक्षिणवर्तनिः । ततश्ऱ्च किमित्यत आह ॥ स यथेति ॥ एकपात्‌ मनुष्यो व्रजन्‌ रथो वा एकेन चक्रेण वर्तमानस्तिष्ठन्‌ रिष्यति नश्यति । एवमस्य यजमानस्य यज्ञो रिष्यति । रिष्यन्तं यज्ञमनु यजमानो रिष्यति । तद्वयनक्ति । स यजमान इष्ट्वा पापीयान्‌ भवतीति ॥ 3 ॥ तर्हि मौनस्याभङ्गे किं भवतीत्यत आह ॥ अथ यत्रेति ॥ न यपवदतीत्यन्वयः । शिष्यं ॥ 4 ॥ 5 ॥ 16 ॥ ब्रह्मादि ऋत्विजां मौनादिनियमभङ्गे प्रसक्तयज्ञपादलोपसन्धायकं व्याहृतिहोमं वक्ष्यन्‌ व्याहृतिमाहात्म्यं क्रमाद्वदंस्ताभिर्होमप्रकारं चाह ॥ प्रजापतिरित्यादिना ॥ प्रजापतिर्भगवान्‌ लोकानभ्यतपत्‌ सारत्वेन व्यजानात्तेषां लोकानां तप्यमानानां भगवता विज्ञायमानानां सकाशात्‌ रसान्‌ सारान्‌ प्रबृहत्‌ निरगमयत्‌ । तद्वयनक्ति ॥ अग्निमिति ॥ पृथिव्या अग्निं प्राबृहदित्यनुषङ्गः ।
?Rवायुं नासिक्यवायुमन्तरिक्षात्‌ । आदित्यं दिवः ॥ 1 ॥ प्रजापतिः एतास्तिस्ग्न्ादिदेवताः । अग्नेरित्यादि पञ्चमी । ऋचः ऋचामभिमानी ब्रह्मा । वायोः नासिक्यवायुतः । यजूंषि यजुषामभिमानी हरः । आदित्यात्‌ सामानि । साम्नामभिमानी वायुः ॥ 2 ॥ ऋग्भ्यः ऋङ्मानिचतुर्मुखात्‌ । भूरिति नामानं वराहं प्रबृहन्‌ रसत्वेनोदबर्हयत्‌ । यजुर्भ्यः यजुर्मानिरुद्रात्‌ । भुव इति नामानं नृसिंहं प्रबृहत्‌ । सामभ्यः साममानिवायुतः । स्वरिति नामानं पपिलं प्रबृहत्‌ ॥ 3 ॥ तत्‌ तस्माद्वयाहृतीनां सर्वसारत्वाद्यदि ऋक्तः रिष्येत्‌ ऋग्वेदात्‌ रिष्येत्‌ । ऋग्‌जपमौनादिहान्या यज्ञो वैगुण्यं प्राप्नुयात्‌ तर्हि भूः स्वाहेत्युक्त्वा गार्हपत्ये जुहुयात्‌ । ऋचां तद्रसेन तस्य विवरणं ऋचां वीर्येण । भूरित्यनेन होमे कृत इति शेषः । यज्ञस्य ऋचां सकाशात्‌ सप्राप्तां विरिष्यिं भ्रंशं सन्दधाति ॥ 4 ॥ अथ यजुष्य इत्यादि वाक्यद्वयेप्येवमर्थो ध्येयः ॥ 5 ॥ 6 ॥ उक्तेमेव विरिष्यिसन्धानमनुभवारूढं करोति ॥ तद्यथेति ॥ तन्निदर्शनं । यथा भिन्नसुवर्णानामग्निपाके लवणक्षारेण द्रवीभूयैकीभवनरूपसन्धनदृष्योरीति भावः । शिष्यं स्पष्यम्‌ ॥ 7 ॥ एवमेषां पृथिव्यादि लोकानां आसामग्न्यादिदेवतानामस्यास्त्रय्याविद्याया वीर्येण भूरित्यादि व्याहृतित्रयेण यज्ञस्य विरिष्यिं सन्दधाति । एवं सन्धितो यज्ञः सम्यक्‌ समाप्तयज्ञवत्फलं दद्यात्‌ किमित्यत आह ॥ भेषजेति ॥ यत्र यज्ञे एवं विद्वान्‌ यज्ञपादभङ्गादिपरिहारज्ञानी ब्रह्मा भवति । एष यज्ञः भेषजकृतः रोगार्तः पुमान्निपुणाचिकित्सककृतौषधेन नीरोग इव । भेषजकृतः प्रायश्ऱ्चित्तरूपव्याहृतिहोमाख्यौषधकृतः ॥ 8 ॥ तर्हि फलं नद्यात्‌ किमित्यतो दद्यादेवेत्याह ॥ एष हवा इति ॥ यत्र यज्ञे एवं विद्ब्रह्म भवति एष यज्ञः उदक्‌ प्रवणः ऊर्ध्वप्रवणः । ऊध्वर्लोकानुसारीत्यर्थः । मौनादिनियमभङ्गात्‌ भग्नमपि यज्ञं सन्धित्वा यजमानादेः फलप्रदं करोति ब्रह्मेत्यत्र गाथास्तीत्याह ॥ एवमिति ॥ एवं विदं भग्नयज्ञसन्धानविदं ब्रह्माणमृत्विजमनु । तन्निमित्ता तद्विषयिणी तत्स्तुतिरूपा गाथा । ह वै प्रसिद्धास्ति । तामाह ॥ यतो यत इति ॥ यजमानो यज्ञस्य दुरिष्ययायतो यतः पुण्यलोकस्थानादावर्तते तत्तत्स्थानमेवं विदा ब्रह्मर्त्विजा गच्छति ॥ 9 ॥ मानवो मौनेन भगवन्तं ध्यायन्‌ ब्रह्मैक एव ऋत्विक्‌ कुरून्‌ यज्ञकर्तॄन्‌ यजमानादीन्‌ सर्वान्‌ अश्ऱ्वा । आशु वाति जानाति यज्ञभ्रंशमित्याश्ऱ्वा । आश्ऱ्वैव अश्ऱ्वा शीघ्रं तत्तदीयं दोषं ज्ञात्वाभिरक्षति सर्वानित्यर्थः । गाथार्थं स्वयमेव श्रुतः व्यनक्ति ॥ एवं विदिति ॥ तस्माद्भग्नयज्ञसन्धयकत्वाद्ब्रह्माणं ऋत्विजं कुर्वीत । नानेवं विदमिति द्विरुक्तिरादरार्था ॥ 10 ॥ 17 ॥

इति श्रीमच्छान्दोग्योपनिषत्खण्डार्थे राघवेन्द्रयतिकृते चतुर्थोऽध्यायः सम्पूर्णः ॥ 4

*************************************************************************************************

पञ्चमोऽध्यायः

?Rसंवर्गाविद्यायामग्न्यादि सर्वभक्षकतया यज्ञविद्यायां सर्वसिद्धिर्कृत्वेन वायुः प्रकृतः । मुमुक्षोस्तत्प्रसादस्य सर्वथापेक्षितत्वात्तद्विषयां प्राणविद्यामाह ॥ यो ह वा इति ॥ प्रसिद्धो योधिकारी । ज्येष्ठं वयसोत्तमम्‌ । श्रेष्ठं गुणत उत्तमम्‌ । वेद स मुक्तौ स्वजातीयानां मध्ये ज्येष्ठश्ऱ्च श्रेष्ठश्ऱ्च भवति ह वै । को वा ज्येष्ठश्ऱ्च श्रेष्ठश्ऱ्चेत्यत आह ॥ प्राणो वा इति ॥ 1 ॥ यो ह वै वसिष्ठं वसतामुत्तमम्‌ । वाक्‌ वागिन्द्रियमानी वह्निः । वसिष्ठः समीपे वसतामुत्तमः ॥ 2 ॥ प्रतिष्ठां स्थितिहेत्विन्द्रियदैवतम्‌ । प्रतितिष्ठाति यत्र स्थातुमिच्छति तत्र सुखं तिष्ठतीत्यर्थः । चक्षुश्ऱ्चक्षुर्मानी सूर्यः ॥ 3 ॥ सम्पदं सम्पद्धेत्विन्द्रियमानिनम्‌ । सम्प्रपद्यन्ते दैवाश्ऱ्च मानुषाश्ऱ्च कामा इत्यन्वयः । श्रोत्रं श्रोत्रमानीन्द्रः ॥ 4 ॥ आयतनं गृहप्रासादाद्यायतनहेत्विन्द्रियमानिनम्‌ । मनः मनोभिमानी रुद्रः ॥ 5 ॥ वायोः संहर्तृत्वोपुक्तमतिबलिष्ठत्वं मीमांसया साधयति ॥ अथ हेति ॥ प्राणाः वागादीन्द्रियमानिनः । अहं श्रेयसि अहं श्रेयानहं श्रेयानित्येवं स्वस्वश्रैष्ठयविषये । व्यूदिरे विवादं कृतवन्तः । अहं श्रेयसीत्युक्तं व्यनक्ति ॥ अहमिति ॥ इति व्यूदिरे इत्यन्वयः ॥ 6 ॥ ते एवं विवदमानाः । प्राणाः वागाद्यभिमानिनो वन्ह्याद्याः । पितरं प्रजापतिं ब्रह्माणमेत्य प्राप्य । हे भगवन्‌ नोस्माकं मध्ये कः श्रेष्ठ इत्यूचुरित्यन्वयः । वः युष्माकं मध्ये यस्मिन्नुत्क्रान्त इदं मदीयं शरीरं पापिष्ठतरमिव हेयमिव शवतुल्यं दृश्येत । वः युष्माकं मध्ये स श्रेष्ठ इत तात्प्राणानुवाच ह ब्रह्मेति योजना ॥ 7 ॥ एवं प्रजापतिनोक्ता देवाः ब्रह्मदेहादुत्क्रन्ताः । तथापि देहो न पापिष्ठ आसीन्मुख्यवायोरुत्क्रान्तौ ततासीदित्याह ॥ सा हेति ॥ वागादयो देवा इति ज्ञेयम्‌ । उच्चक्राम विरिञ्चदेहान्निर्ययौ । प्रोष्य प्रवासं कृत्वा । पर्येत्य आगत्य । मदृते जीवितुं कथमशकत शक्ता अभवन्‌ भवन्त इति देहस्थानन्यान्‌ देवानुवाचेति योजना ॥ 8 ॥ एवमग्रऽपि ज्ञेयम्‌ ॥ 9 ॥ 10 ॥ अमनसः प्राणषतरमनोभिमान्यनधिष्ठितमनस्काः ॥ 11 ॥ पट्वीशाङ्कून्‌ हयबन्धनरज्ज्वाश्रयाणीन्‌ । समखिदत्‌ उद्बबर्ह । तं प्राणम्‌ । सर्वे वागादयो देवाः अभिसमेत्य हे भगवन्‌ एधि भव । आस्खोति यावत्‌ । मोत्क्रमीः । नोऽस्माकं मध्ये त्वं श्रेष्ठोसी त्यूचुः ॥ 12 ॥ श्रेष्ठोऽसीत्युक्तं गुणत आदिख्यं विविच्याह ॥ अथ हैनमिति ॥ वसिष्ठत्वादयो वागादीनां ये गुणाः ते सर्वे प्राणे मुख्याः । वागादिष्वस्मासु त्वौपचारिकास्त्वदधीना इति वागादयः प्राणं विज्ञापितवन्त इतिवागुवाचेत्यादि वाक्यचतुष्यय स्यार्थः । अहं वसिष्ठास्मीति यत्‌
?Rतद्वसिष्ठस्त्वमसीत्यादियोजना ॥ 13 ॥ 14 ॥ वसिष्ठत्वादिकं प्राणादक्षनमित्यत्र ज्ञापकमाह ॥ न वै वाच इत्यादिना ॥ वागादींन्द्रियाभिमानिनः न वागादयोभवन्‌ । स्वातन्त्ऱ्ेण स्वस्वव्यापरदक्षा न भवन्तीत्याचक्षते प्राज्ञाः । तर्हि किमधीनास्सन्तः स्वस्वव्यापारदक्षा इत्यत आह ॥ प्राण(णा)इति ॥ वागादीन्द्रियजातं प्राण इत्येवाचक्षते कुतः हि यस्मात्सर्वाणि एतानि वागादीनि प्राण एङव भवति प्राणोधिष्ठाता तेषामत इति ॥ 15 ॥ 1 ॥ त्वं नः श्रेष्ठोसीत्युक्त्या श्रेष्ठश्ऱ्चेदहं तर्हि ममान्नं सर्वैः कल्प्यतामित्याह ॥ सहेति ॥ स प्राणः किमन्नं मे भविष्यतीत्युवाच । श्ऱ्वपक्षिपर्यन्तं प्राणिजातं यत्किञ्चिदिदं योग्य मन्नमात्ति तत्तेन्नमित्यूचुरित्यर्थः । प्राणैरग्न्यादिभिर्दत्तमन्नं पूर्वमपि तदीयमेवेत्याह ॥ तद्वा एतत्सर्वप्राणिभिरद्यमानं अनस्य प्राणस्यान्नं वै कुत इत्यतस्तस्य सर्वेन्द्रियाधिष्ठातृत्वादित्याह ॥ अनो हवै नाम प्रत्यक्षमिति ॥ अक्षेषु इन्द्रियेषु प्रति प्रतिस्थितः । शब्दस्वाभाव्यान्नपुंसकता । फलमाह ॥ न ह वा इति ॥ एवं विदि सर्वं प्राणस्यान्नमिति ज्ञानिनि । किञ्च नान्नं न भवति ह वै । सर्वमस्यान्नं भवतीत्यर्थः ॥ 1 ॥ किं मे वासो वसनम्‌ । भविष्यतीति स प्राणः पुनरुवाच । आपः प्राणिभिः पीयमाना आपस्ते वास इति प्राणा ऊचुरित्यर्थः । तत्र वृद्धाचारं प्रमाण्यति ॥ तस्मादिति ॥ प्राणस्यान्नमानिनो वस्त्ररूपत्वादेवैतदन्नं आशिष्यन्तो भोक्ष्यमाणाः पुरस्तादुपरिष्याच्चाद्भिः पारिदधाति आदयन्ति पूर्वोत्तरापोशनं कुर्वन्ति । वासो वसनम्‌ । लम्भुक्तो लब्धो भवति । अनग्नौ भवति प्राण इति बुध्द्याद्भिः परिदधतीत्यर्थः । यद्वा प्राणस्य वस्त्रबुध्द्या भोजनोभयतोपः पिबन्‌ इहामुत्र च वासो लम्भुको भवत्यनग्नो भवतीति ज्ञानपूर्वकमनुतिष्ठतः फलवाक्यमिदम्‌ ॥ 2 ॥ इयं प्राणविद्या परम्परागता चेत्याह ॥ तद्धैतदिति ॥ तदेतत्‌ । तामेतां प्राणविद्यां सत्यकामो जाबालो नाम्ना गोश्रुतये वैय्याघ्रपद्याय व्याघ्रअपात्पुत्रायोक्त्वा फलं चोवाच । तत्फलमाह ॥ यद्यपीति ॥ प्राणविद्यायां योग्यो यदि कर्मवशात्‌ स्थाणुतां प्राप्यास्ते । तादृशाय शुष्काय स्थाणवेपि यदि एतत्‌ एतां प्राणविद्यां ब्रूयात्‌ । अस्मिन्स्थाणौ शाखाः जायेरन्‌ । पलाशानि पर्णानि प्ररोहेयुः इत्युवाचेत्यन्वयः ॥ 3 ॥ प्राणोपास्त्यङ्गभूतं महत्त्वप्रापकं होमं द्रव्यमन्त्रहोमप्रकारादिपूर्वमाह ॥ अथ यदीत्यादिना ॥ C-K-5
?Rमहत्‌ महत्त्वम्‌ । जिगमिषेत्‌ । प्राप्तुमिच्छेत्‌ । सर्वौषधस्य सर्वधान्यस्य । मन्थं वितुषीकरणेनालोडितं पिष्यम्‌ । दधिमधुनोः । दधिमधुभ्याम्‌ । उपमथ्य संपिष्य । अ=?Rज्यस्य हुत्वा आज्याहुतिं ज्येष्ठाय श्रेष्ठाय स्वाहेति कृत्वा । आज्यस्य सम्पातं सम्पातनं धारां मन्थे अवनयेत्‌ ॥ 4 ॥ एवं वसिष्ठायेत्यादि वाक्यचतुष्ययस्याप्यर्थो ध्येयः ॥ 5 ॥ अथेत्यार्थान्तरे । मन्थं प्रतिसृप्य प्राप्यां जलौ निधाय जपति जपेत्‌ । मन्त्रमाह ॥ अमोनामेति ॥ मन्थमानिनं प्राणं प्रत्युच्यते । हे अम अमित । त्वं अमोनामासि अमितोसि । कुतः हि यतः इदं सर्वं ते तव त्वत्स्वामिकम्‌ । अतः स हि मन्थदेवः प्राणः ज्येष्ठः राजा अधिपतिः । स मन्थदेवः मा मां समानेभ्यः ज्यैष्ठयं श्रैष्ययं राज्यं आधिपत्यं च गमयतु । अहमेवेदं सर्वं स्वयोग्यपूर्णः असानि भवानीति जपतीत्यन्वयः ॥ 6 ॥ एवं मन्थं जप्त्वा मन्त्रपूर्वं तद्भक्षणमाह ॥ अथेति ॥ अनन्तरं एतया वक्ष्यमाणया ऋचा आचामति चमु अदने अत्तीत्यर्थः । तत्सवितुरिति मन्त्रेण पच्छः पादशः । त्रिरवदाय भक्षयित्वा । चरमपादेन सर्वं भक्षयेदित्याह ॥ तत्सवितुरिति ॥ तत्सवितुः जगत्प्रसवितुः । देवस्य विष्णोः सकाशात्‌ । वयं भोजनम्‌ । रक्षां सर्वभोगांश्ऱ्च । वृणीमहे प्राप्नुवाम । भगस्य समग्रैश्ऱ्वर्यादिसर्वगुणस्वरूपस्य विष्णोः । भृत्यरूपं तुरं वायुम्‌ । सर्वधातमं सर्वधातृषूत्तमं च । धीमहि ध्यायेमेति मन्त्रार्थः ॥ 7 ॥ कंसं चमसं वा मन्थपात्रम्‌ । निर्णिज्य प्रक्षाल्याग्नेः पश्ऱ्चात्संविशति स्वपेत्‌ । चर्मणि कृष्णाजिने । व्याघ्रचर्मणि वा स्थण्डिले वा केवलायां वा भुवि । वाचं यमो मौनी । अप्रसाहः स्त्रीरहितः । संविशतीति पूर्वेणान्वयः । स यदि स्वप्ने स्त्रियं सुमङ्गलीं पश्येत्‌ समृद्धं सफलं कर्मेति विद्यात्‌ ॥ 8 ॥ स्त्रीदर्शनं कमर्समृद्धिज्ञापकमित्यत्र श्ऱ्लोकं प्रमाणयति ॥ तदेष इति ॥ तत्‌ उक्तेर्थे काम्येषु कर्मसु क्रियमाणेषु । यदा यदि तत्र तर्हि । स्वप्ननिदर्शने स्वप्नाख्यदृष्यान्ते । जाते सति समृद्धिं जानीयादित्यर्थः । तदाह सूत्रे सूचकश्ऱ्च हि श्रुतेराचणक्षते च तद्विद इति ॥ 9 ॥ 2 ॥ यो हवै ज्येष्ठमित्यादिना स्वसमानाधिक्यापादकविद्योक्ता । सर्वपापा लेपपुण्यलोकापादकपञ्चाग्निविद्यां सोपाद्धातमाख्यायिकयाष्यभिः पर्वभिराह ॥ श्ऱ्वेतकेतुरित्यादिकया ॥ श्ऱ्वेतकेतुर्नामतः । अरुणेरपत्यमारुणेयः । पञ्चाचाना पञ्चालदेशीयजनानां समिति सभामेयाय प्रप्तवान्‌ । तं ह श्ऱ्वेतकेतुं प्रवाहणो नाम राजा जिविल्यापत्यं जै-विसलिरूवाच । हे कुमारा3 इति सम्बोध्य ते पिता त्वा त्वं अनुशिषत्‌ अन्वशिषत्‌ विद्यामुपादिष्यवान्‌ किमित्युवाचेत्यर्थः । कुमार आह हे भगवः । अनुशिषदित्यनुकर्षः । अनुशिष्योस्मि पित्रेत्युचेत्यर्थः ॥ 1 ॥ इति तेनोक्तो राजा पप्रच्छेत्याह ॥ श्रुतिः ॥ वेत्थेति ॥ यत्‌ अधि अधिकृत्य । इतो लोकात्प्रयन्ति गच्छन्ति । तद्वेत्थ जानासि किमिति प्रपच्छ राजेति योज्यम्‌ । कुमार आह नेति न वेद्मि भगव इति कुमार उवाच । एवमग्रेऽपि प्रश्ऱ्नप्रत्युत्तरे ज्ञेये । व्यावर्तना
?Rव्यावर्तनानि । मध्ये प्राप्यस्थानानि । यथा येन प्रकारेणवर्तते तं प्रकारं वेत्थ किमित्यर्थः ॥ 2 ॥ असौ लोकः परलोकः । इतो गतैर्न सम्पूर्यते तद्वेत्थ किमिति । सर्वत्र प्लुतिः प्रश्ऱ्नद्योतिका । पञ्चम्यामाहुतौ आहूयते स्थाप्यते अत्रेत्याहुतिः प्रक्षेपस्थानम्‌ । तस्यां हुता इति शेषः । यत्र पञ्चमस्थाने प्रक्षिप्ताः आपः अबादिपञ्चमहाभूतोपलक्षिता जीवाः पुरुषवचसः पुमांसं इति स्त्रिय इति शब्दभाजो भवन्ति तद्वेत्थ किमित्यर्थः ॥ 3 ॥ राजा वक्ति ॥ अथेति ॥ अथ नु एवं तर्हि किमर्थमनुशिष्योस्मीत्यवोचथाः उक्तवानभूः । यो हीमानि मा पृष्यानि प्रमेयाणि न विद्यात्‌ स कथमनुशिष्योस्मीति ब्रवीत्‌ ब्रूयादिति राजोवाचेत्यर्थः । स श्ऱ्वेतकेतुः । आयस्तः सखेदः । पितुरर्धं स्थानमेयाय जगाम । तं पितरमुवाच । हे भगवन्‌ मा माम्‌ । अननुशिष्य अनुपदिश्यैव किल । त्वा त्वाम्‌ । अनुशिषं अन्वशिषमित्यब्रवीत्‌ भगवान्‌ ॥ 4 ॥ राजन्यबन्धुः राजाधमः मा माम्‌ । पञ्चप्रश्ऱ्नानक्षीत्‌ प्रष्यव्यार्थान्‌ पृष्यवान्‌ । तेषां मध्ये एकं च न विवक्तुं विविच्य वक्तुम्‌ । नाशकं शक्तो नाभूवम्‌ । तान्‌ मे ब्रूहि इत्युवाचेत्यपि ज्ञेयम्‌ । क्रोधाद्राजन्यबन्धुरित्युक्तिः । स पुत्रेणैवमुक्तः पिता । हे तत । तात त्वं एतान्‌ प्रश्ऱ्नान्‌ । यथा यथावद्वक्तुं मा मामवदः । एषां मध्ये अहं यथा यथावत्‌ । किञ्चन किमपि । न वेद न जानामि । यद्यहमिमान्‌ प्रश्ऱ्नार्थानवेदिष्यं ज्ञातवानभविष्यम्‌ । कथं ते नावक्ष्यमित्युवाच पिता ॥ 5 ॥ स गौतमो राज्ञोद्धै स्थानमेयाय गतवान्‌ । प्राप्ताय तस्मै गौतमयार्हां पूजां चकार राजा । स कृतार्हणो गौतमः उषित्वा परेद्युः प्रातः काले । सभागः सभागधेयः । सोपायनः उदेयाय राजानमुपागतवान्‌ । राजा दैववित्तलिप्सयाऽयमागतवानिति तन्मनोगतं ज्ञात्वा तं गौतमम्‌ । हे भगवन्‌ गौतम मानुषस्य वित्तस्य हस्त्यश्ऱ्वगोहिरण्यादोर्वित्तस्य । वरं प्राप्तिं वृणीताः भजस्वेत्युवाच । स एवमुक्तो गौतमः । हे राजन्‌ मानुषं वित्तं तवैवास्तु कुमारस्यान्ते समीपे यामेव वाचमभाषथाः तामेव मे मह्यं ब्रूहीत्युवाच ह ॥ 6 ॥ स एवमुक्तो राजा तत्पृष्यस्य गोप्यत्वाकृच्छ्री क्लेशयुक्तो बभूव । नासंवत्सरवासिने प्रब्रूयादीति शास्त्रमनुसरन्‌ राजा तं गौतमम्‌ । चिरं वसेत्याज्ञापयांचकार तं गौतममुवाच । हे गौतम त्वम्‌ । मा मां यां विद्याम्‌ । यथा यथावत्‌ । वक्तुमवदः इयं तु विद्या त्वत्‌ त्वत्तः प्राक्‌ ब्राह्मणान्‌ । यथा यथावत्‌ । न गच्छति पुरा । नागच्छत्‌ । इयं पञ्चाग्निविद्या ब्राह्मणेषु नासीत्‌ । तस्मादेव कारणात्‌ । सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनं राज्यरक्षादिरूपमभूदित्युक्त्वा राजा तस्मै गौतमाय व्यिमुवाचेत्यर्थः ॥ 7 ॥ 3 ॥ पञ्च प्रश्ऱ्नविषयानर्थान्‌ युत्क्रमेण सप्तभिः खण्डैरुपदिदिक्षुरादौ चरमप्रश्ऱ्नविषयपञ्चाग्निविद्यां वेत्थ पञ्चम्यामाहुतावाप इत्येतदुत्तरस्य प्रथमादिसापेक्षत्वात्तदुक्तिपूर्वमाह ॥ असौ वावेत्यादि पञ्चभिः खण्डैः । असौ लोकः द्युलोकस्थः । असुस्थत्वात्‌ प्रकाशरूपत्वाच्चासौ लोक इत्युक्तो नारायणः अग्निः अत्तीति वा अङ्गनेतृत्वाद्वा अग्निनामा । वावेत्यवधारणे । तस्य द्युलोकस्थस्य नारायणस्य आदित्यः आदत्त इत्यादित्यनामादित्यस्थो नारायणनारायणात्मा । समित्‌ समेधनात्‌ समिदित्युच्यते । रतिशंरूपत्वेन रश्मिनामा रश्मिगतो नारायणवासुदेवात्माधूत्करोति निराकरोत्यज्ञानादीनिति धूमनामोच्यते । बहुरूपत्वाद्बहुवचनम्‌ । एवमग्रेऽपि । तमस अहननीयत्वादहर्नामाहर्गतो नारायण सङ्कर्षणात्मा अर्चिः अरञ्चितत्वेन अर्चिरित्युच्यते । सुखरूपत्वाच्चन्द्रमा नामा चन्द्रगतः नारायणप्रद्युम्नात्मा । अङ्गाराः अङ्गेषु रमणहेतुनां गारा इत्युक्तः । अनन्यराजत्वेन नक्षत्रनामा नक्षत्रगतः नारायणानिरुद्धत्मा । मत्स्यादिरूपेण विविधं स्फुरणात्‌ विस्फुलिङ्गा इत्युक्तः ॥ 1 ॥ तस्मिन्‌ द्युलोकस्थे नारायणे । एतस्मिन्नारायणनारायणाद्यात्मना प्रत्येकं पञ्चधा स्थिते । अग्नौ अग्निनामके जीवाख्‌यहवीरूपहोमाधारतयाग्निस्थानीये देवाः । श्रद्दां श्रद्धापूर्वं यज्ञादिकर्तारम्‌ । श्रद्धोपलक्षितावादिपञ्चभूतयुक्तं जीवमित्यर्थः । उपसंहारे इति तु पञ्चमन्यामाहुतावाप इत्यप्‌शब्देन भूतानामुक्तेः । तदाह सूत्रे । प्रथमे श्रवणादिति चेन्न ता एव ह्युपपत्तेरिति । जुह्वति प्रक्षिपन्ति । तस्या आहुतेः तस्मात्‌ होमाधारस्थनारायणात्‌ द्युलोकाग्नितः । सोमो राजा सम्भवति सोमराजानं प्रापयन्ति देवा इत्यर्थः ॥ 2 ॥ 4 ॥ पर्जन्यः परमस्य जन्यमस्तीति पर्जन्यनामा मेघचक्रगतो वासुदेवः । अग्निः प्रागुक्तनिरुक्त्याऽग्निनामाग्निस्थानीयः तस्य पर्जन्यस्य वासुदेवस्य । वायुः ज्ञानरूपत्ववायुरूपत्वाभ्यां वायुनामा वायुगतो वासुदेवनारायणात्मा । समित्‌ प्रागुक्तनिरुक्त्या समिदित्युच्यते । अपां भरणादभ्रनामाभ्रगतो वासुदेववासुदेवात्मा धूमः । विद्योतनाद्विद्युन्नामा विद्युद्गतः वासुदेवसङ्कर्षणात्माऽचिर्ः । अशनादशनिनामाऽशनिगतो वासुदेवप्रद्यम्नात्मा अङ्गाराः । निह्रादनात्‌ ह्रादुनिनामा ह्रादुनिशब्दितमेघनादगतो वासुदेवानिरुद्धात्मा विस्फुलिङ्गाः ॥ 1 ॥ तस्मिन्नेतस्मिन्नग्नौ नारायणाद्यात्मना वाय्वादौ पञ्चधा स्थिते पर्जन्यगते वासुदेवे । सोमं राजानं सोमराजं प्राप्तं श्रद्दापदेनोक्तं जीवम्‌ । तस्याः आहुतेः पर्जन्याख्यस्थानात्‌ । वर्षः वृष्यिस्थम्‌ । कुर्वन्ति देवा इत्यर्थः ॥ 2 ॥ 5 ॥ पृथिवी प्रथितत्वात्पृथिवीनामा पृथिवीस्थः सङ्कर्षणः अग्निः । तस्याः पृथिवीस्थसङ्कर्षणस्य । संवत्सरः वासयतीति संवत्सरनामा संत्सरवगतः सङ्कर्षणनारायणात्मा समित्‌ सम्यक्‌ प्रकाशनात्‌ । आकाशनामा आकाशगतः सङ्कर्षणवासुदेवात्मा धूमः ।
?Rरतिदानाद्रात्रिनामा रात्रिस्थः सङ्कर्षणसङ्कर्षणात्माऽर्चिः । दिशतीति दिङ्‌नामा दिक्षुस्थितः सङ्कर्षणप्रद्युम्नात्मा अङ्गाराः । अवान्तरं दिशतीत्यवान्तरदिङ्‌नामावान्तरदिक्षु स्थितः सङ्कर्पणानिरुद्धात्मा विस्फुलिङ्गाः ॥ 1 ॥ तस्मिन्नेतस्मिन्‌ संवत्सरादौ नारायणाद्यात्मनापञ्चधा स्थिते पृथिवीस्थे सङ्कर्षणे । वर्षं वृष्यौ स्थापितं जीवम्‌ । तस्या आहुतेः पृथिवीस्थानादन्नं अद्यमानवस्तु सम्भवति तत्र स्थापयन्तीत्यर्थः ॥ 2 ॥ 6 ॥ पुरुषः । पुरुत्वात्पूर्णत्वात्पुरुषनामा पुरुषगतः प्रद्युम्नः अग्निः । तस्य पुंगतस्य प्रद्युमनस्य वक्तृत्वाद्वाङ्‌नामा वाचि स्थितः प्रद्युम्ननारायणात्मा समित्‌ । प्राणनात्‌ प्राणनामा प्राणस्थः प्रद्युम्नवासुदेवात्मा धूमः । जिह्वा हूयते अद्यतेनेनेति जिह्वानामा जिह्वागतः प्रद्युम्नसङ्कर्षणात्मा अर्चिः । चष्ये पश्यति सर्वमिति चक्षुनर्ामा चक्षुःस्थः प्रद्युम्नः प्रद्युम्नात्मा अङ्गाराः । श्रवणात्‌ श्रोत्रनामा श्रोत्रगतः प्रद्युम्नानिरुद्धः विस्फुलिङ्गाः ॥ 1 ॥ तस्मिन्नेतस्मिन्नारायणादिरूपेण पञ्चात्मना वागादौ स्थिते प्रद्युम्नाख्ये पुरुषगतेऽग्नौ । अन्नमद्यमानवस्तुगतं जीवम्‌ । तस्या आहुतेः पुरुषरूपस्थानाद्रेतः रेतःस्थं कुर्वन्तीत्यर्थः ॥ 2 ॥ 7 ॥ योषा सर्वैर्जोष्यत्वाद्योषानामा योषिद्गतोऽनिरुद्धः अग्निः । तस्याः योषिद्गतानिरुद्धाख्याग्नेः उपस्थः उपस्थितेः उपस्थनामोपस्थगतः अनिरुद्धनारायणात्मा समित्् । उपमन्त्रयते रत्यथर्ं सम्भाषत इति यत्‌ सः तत्रत्योऽनिरुद्धवासुदेवात्मोपमन्त्रणनामा धूमः । युनक्ति मिश्रीकरोतीति योनिनामा योनिस्थोनिरुद्धसङ्कर्षणात्मा अर्चिः । अन्तः योन्यन्तः करोतीति यत्‌ ते अन्तःकरणगतक्रियागतोनिरुद्धप्रद्युम्नात्मा अङ्गाराः । रूपबाहुल्याद्बहुवचनमित्यवोचाम प्राक्‌ । अभिनन्दाः अभिनन्दीत्यभिनन्दनामाभिनन्दगतोनिरुद्धानिरुद्धात्मा विस्फुलिङ्गाः ॥ 1 ॥ तस्मिन्नेतस्मिन्नारायणाद्यात्मनोपस्थादौ पञ्चधा स्थिते योषिद्गतेऽनिरुद्धाख्याग्नौ रेतोगतं जीवम्‌ । तत्त्वाभिमानिनो देवाः जुह्वति प्रक्षिपन्ति योनिद्वारेति योज्यम्‌ । तस्या आहुतेः योषिद्रूपहोमस्थानात्‌ । गर्भः सम्भवति शरीरवान्‌ भवति । तदाह सूत्रे योनेः शरीरमिति ॥ 2 ॥ 8 ॥ वेत्थ पञ्चमनयामिति स्वकृतप्रश्ऱ्नस्यापेक्षिताग्निचतुष्ययपूर्वं योषिदाख्यपञ्चममग्निमुक्त्वाधुनोत्तरमाह ॥ इति त्विति ॥ प्रागिवाथर्ो ध्येयः । इति शब्दश्ऱ्चरमप्रश्ऱ्नोत्तरसमाप्तौ । अत्र वेत्थ पञ्चम्यामाहुतावाप इति पश्ऱ्नवाक्ये इति तु पञ्चम्यामाहुतावाप इति प्रतिवचनवाक्ये चाप शब्दः पञ्चमहाभूतोपश्ऱ्लिष्यजीवपरः । तदाह सूत्रेषु तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ऱ्ननिरूपणाभ्यां । त्ऱ्यात्मकत्वात्तु भूयस्त्वादित्यादिषु । एवं चरमप्रश्ऱ्नं परिहृत्यावशिष्यप्रश्ऱ्नचतुष्ययं परिजिहीर्षुस्तदुपयुक्तमाह ॥ स गर्भ उल्बावृतः जरायुणा वेष्यितः दशमासान्वा यावद्वा कालं स्थातव्यं तावत्कालं वान्तः योषिदन्तः शयित्वा । अथानन्तरं जायते ॥ 1 ॥ स जातः यावदायुषं जववति । तं प्रेतं मृतं दिष्यं कर्मिणं यत एव द्युलोकाख्याग्नितः । इतः इमं लोकं प्राप्तः । यतः योषिदाख्याग्नितः सम्भूतः जातो भवति तादृशद्वयाद्यग्नये । इतो लोकाद्धरन्ति । नयन्तीति ॥ 2 ॥ 9 ॥ केन मार्गेण हरन्तीति शङ्कां परिहरन्‌ वेत्थ यथा देवयानस्येति तृतीयप्रश्ऱ्नोत्तरेणैवाद्यद्वितीयप्रश्ऱ्नपरिहारः सिद्धयतीति भावेन तस्योत्तरमाह ॥ तद्य इति ॥ येधिकारिणः इत्थमुक्तप्रकारेण तत्‌ । पञ्चाग्निस्वरूपं विदुः । ये चामी अरण्ये श्रद्धातपः इति शब्दः प्रभृत्यर्थः । श्रद्धापूर्वकं तपः प्रभृत्यनुतिष्ठन्ति निवृत्तकर्मानुष्ठानपूर्वं भगवध्द्यानादिकं कुवन्ति ते ज्ञानिनोर्चिषमर्चिर्लोकमभिसम्भवन्ति प्राप्नुवन्ति तदाह सूत्रे । अर्चिरादिना तत्प्रथितेरिति । अर्चिष इत्यादि पञ्चमी । अहः अहरभिमानिलोकम्‌ । आपूर्यमाणपक्षं पूर्वपक्षमानिलोकम्‌ । सम्भवन्तीति क्रियापदं सर्वत्र योज्यम्‌ । उदङ्‌ उत्तरतः यान्‌ मासानादित्य एति । उत्तरायणमानिलोकम्‌ ॥ 1 ॥ संवत्सरं संवत्सरमानिलोकं विद्युतं विद्युन्मानिलोकम्‌ । तत्पुरुषः । तस्या विद्युतो भारत्य
?Rाः पुरुषः पतिः मानवो वायुः । स एनान्‌ अर्चिरादिना विद्युल्लोकपर्यन्तमागतान्‌ ब्रह्म गमयति । अस्य वाक्यस्योपकोसलप्रकरणगतवाक्य इवार्थो ध्येयः । इत्येषदेवयानः पन्था इति ॥ 2 ॥ अथ य इमे ग्रामे स्थिताः सन्त इष्यं यजनं पूतर्ं तटाकादि दत्तं दानम्‌ । इति शब्दः आद्यर्थः । उपासते ग्रामे स्थित्वा प्रवृत्तकर्मिणो ये । ते धूममभिसम्भवन्ति धूमाभिमानिलोकं प्राप्नुवन्ति । सम्भवन्तीति सवत्र योज्यम्‌ । रात्रिं रात्रिमानिलोकं अपरपक्षं कृष्णपक्षमानिलोकम्‌ । यान्‌ पष्मासानादित्यो दक्षिणां दिशमेति तान्मासानेति दक्षिणायनमानिलोकं प्राप्नुवन्तीत्यर्थः । एकवचनं बहुवच नार्थे । ते धूममित्युपक्रमात्‌ ॥ 3 ॥ मासेभ्यः संवत्सरं संवत्सरात्पितृलोकमिति योज्यम्‌ । आकाशं विनायकलोकम्‌ । एष सोमो राजा चन्द्रः देवानां तत्‌ प्रसिद्धममृताख्यमन्नम्‌ तदन्नं देवाः भक्षयन्ति ॥ 4 ॥ चन्द्रं प्राप्तास्ते काम्यकमिर्णः तस्मिन्‌ चन्द्रे यावत्संपातं यावत्पतनमुषित्वा अथानन्तरं एतमेवाध्वानं पुनरावर्तन्ते । एतमित्युक्तमार्गः क इत्यत आह ॥ यथेतमिति ॥ यथा येन मार्गेण द्युलोकं प्रति इतं गतं एतमेवाध्वानमित्यर्थः । कियत्पर्यन्तं गतमार्गेणागमनमित्यतश्ऱ्चन्द्रादाकाशपर्यन्तं यथेतं तदनन्तरमन्यथेत्याह ॥ आकाशमिति ॥ आकाशं प्रति यथेतं पुनस्तथैवाकाशं यान्ति आकाशात्तु पितृलोकादिकं पूर्वप्राप्तं हित्वा वाय्वादिदेवं प्राप्नुवन्तीत्यर्थः । तदाह यथेतमनेवं चेति सूत्रकारः । वायुर्भूत्वा वायुदेवता सायुज्यादिमान्‌ भूत्वा धूमो
?Rभवति धूमदेवसायुज्या दिमान्‌ भवति । एवमग्रञऽपि । तदाह सूत्रे तत्स्वाभाव्यापत्तिरुपपत्तेरिति ॥ 5 ॥ प्रवर्षति वृष्ययन्तर्गता भवन्ति वृष्यन्तर्गताः कर्मिणः व्रीहियवाः । जीवान्तराभिमन्यमानव्रीहियवादिषु । परगृहे इव प्रविष्यास्तिष्ठन्तीति तेषु जातेषु जायन्त इवोच्यन्ते । इति शब्दः आद्यथर्ः । तदाह सूत्रे अन्याधिष्ठते पूर्ववदभिलापादिति । ततो व्रीह्यिदिप्रवेशानन्तरम्‌ । दुर्निष्प्रपतनं भवति । दुष्यपतनमेव व्यनक्ति ॥ यो यो हीति ॥ यो यो जनः अन्नं व्रीह्यादिरूपमद्यमानमत्ति । अत्तृषु मध्ये यः पुमान्‌ रेतो योषिति सिञ्चति चद्भूय एव अद्यमानवस्तुद्वारा रेतः सेचकपुरुषं प्रविश्य तद्भुक्तान्नपरिणतिसारभूतेरतोगतः सन्‌ तन्मयो भवतीत्यर्थः । तदाह सूत्रे रेतस्सिग्योगोथेति ॥ 6 ॥ एतमध्वानमावर्तन्ते इत्युक्त्वा इत्युक्त्वा पुनरागमने आकाशवाय्वादीनि रेतस्सिक्‌ पर्यन्तानि बहूनि स्थानान्युक्तानि । तर्हि बहुस्थानागमनात्‌ कल्पान्तपर्यन्तमागमनं भवति किमित्यतो नेति भावेन योनिप्राप्तिं च यथायोग्यमाह ॥ तद्य इति ॥ तत्‌ तत्र कर्मिणां मध्ये । इह लोके । ये रमणीयचरणाः शुभकर्माणः । ते रमणीयां योनिम्‌ । तद्वयनक्ति ब्राह्मणयोनिं क्षत्रिययोनिं वैश्ययोनिं वा प्रपद्येरन्निति यत्‌ तदभ्याशः शीघ्रमेव । एकसंवत्सरकाल एव । तदाह सूत्रे नातिचरेण विशेषादिति । अथेत्यर्थान्तरद्योतकः । कपूयचरणाः कुत्सितकमर्ाणः । पूर्ववद्योजना । कपूययोनिमेव व्यनक्ति श्ऱ्वयोनिमित्यादिना । चरणशब्दोत्राथ य इमे ग्राम इत्यादिना प्रकृतेष्यापूर्तादिकर्मपरो न कर्माङ्गाचारमात्रपरः । तदाह सूत्रे सुकृतदुष्कृते एवेति तु बादरिरिति । एतेन देवयानपितृयाणरूपमार्गद्वयोक्त्या आद्यद्वितीयप्रश्ऱ्नयोरुत्तरमुक्तं ध्येयम्‌ । यद्यप्यत्र इष्यापूर्ते इत्याद्युपक्रमाद्रमणीयचरणा एव प्रकृतास्तथापि । अथेति वक्ष्यमाणचतुर्थप्रश्ऱ्नपरिहारोपयुक्ततया तेपि प्रसञ्जिता इति ध्येयम्‌ ॥ 7 ॥ चतुर्थप्रश्ऱ्नपरिहारमाह ॥ अथेति ॥ एतयोः तद्य इत्थं विदुरित्यादिना अथ य इमे ग्राम प्रकृतयोः पथोः देवयानपितृयाणरूपमार्गसाधनभूतयोः ज्ञानकर्मणोः । ज्ञानाख्येन देवयानमार्गोपायेन वा कर्माख्यपितृयाणमार्गोपायेन वा कतरेण च अयतरेणापि न तिष्ठन्ति ज्ञानं वा कर्म वा न सम्पादयन्तीति यावत्‌ । तदाह सूत्रे विद्याकर्मणोरिति तु प्रकृतत्वादिति । तानीमानि भूतानि जन्तूनि क्षद्रमिश्राणि सुखदुःखमिश्राणि असकृदावर्तीनीत्यस्य विवरणं जायस्व म्रियस्व पुनः पनः जायन्ते म्रियन्ते चेत्येतत्तृतीयं स्थानं स्वर्गापवर्गापेक्षया तृतीयं स्थानम्‌ । तेनासकृदावर्तनहेतुना असौ लोकस्तृतीयस्थानरूपः । न सम्पूर्यते न समाप्यते तस्मात्तादृशस्थानाज्जुगुप्सेत विरज्येत ॥ 8 ॥ कपूयचरणाः क इत्यतः श्ऱ्लोकेन तानाह ॥ तदेष इति ॥ श्ऱ्लोकः स्पष्यार्थः ॥ 9 ॥ पञ्चाग्निविद्यां स्तौति ॥ अथे हेति ॥ योऽधिकारी एवमुक्तदिशा एतान्‌ द्वयादिपञ्चाग्नीन्वेद स ज्ञानी तैः उक्तपञ्चपातकिभिराचरन्नपि पाप्मना न लिप्यते । एवं ज्ञानिनः फलमाह ॥ शुद्ध इति ॥ य एवं ज्ञानी पापेन न लिग्यते इति वेद सोपि स्वयं शुद्धः पावयत्यन्यानिति । पूतः अन्तर्णीतण्यर्तः पुण्यलोको भवतीति ॥ 10 ॥ 10 ॥ सर्वपापविधूननेन पूण्यलोकावाप्तिकारणपञ्चाग्निविद्योक्ता । सर्वलोकगतजवाद्यान्नात्तृत्वापादकवैश्ऱ्वानरविद्यामाख्यायिकयाष्यभिः पर्वभिराह ॥ प्राचीनशाल इत्यादिकया । प्राचीनशालो नामतः । उपमन्योरपत्यमौपमन्यवः । सत्ययज्ञो नामतः पुलुषस्यापत्यं पौलुषिः । इन्द्रद्युम्नो नामतः । भल्लवाया अपत्यं भाल्लवेयः । जनो नामतः शर्कराक्षस्यापत्यं शर्कराक्ष्यः । अश्ऱ्वरराश्ऱ्वस्यापत्यं आश्ऱ्वतराश्ऱ्विः । बुडिलो नामतः । ते हैते पञ्च प्रत्यब्दयज्ञकृत्त्वेन महाशालाः । वेदवेदातर्वित्त्वेन महाश्रोत्रियाः समेत्य क्वचिन्मिलित्वा मीमांसां चक्रुः व्यचारयन्‌ । किमिति ॥ नोऽस्माकं आत्मा आदानादिकतर्ा । स्वामीति यावत्‌ । ब्रह्म गुणपूर्णं वस्तु किमिति मीमांसां चक्रुरित्यन्वयः ॥ 1 ॥ अन्योन्यमेवमात्मस्वरूपस्य विचारेणापि निर्णयमलभमानास्ते निर्णयार्तमुद्दालकं सम्पादयाञ्चक्रुः । सम्पायन्योन्यभूचुश्ऱ्च । तत्किमूचुरित्यत आह ॥ उद्दालक इति ॥ अरुणस्यापत्यमारुणिः भगवन्तः आरुणिरुद्दालकः सम्प्रति इदानीमिममात्मानं विश्ऱ्वरसम्बन्धितया वैश्ऱ्वानरनामकमध्येति अधिकं जानाति । तमुद्दालकम्‌ । हन्त हर्षे । अभ्यागच्छामेत्यन्योन्यमूचुरिति योज्यम्‌ । इति निश्ऱ्चित्य तमुद्दालकमभ्याजग्मुः ॥ 2 ॥ स उद्दालकः । मनसान्यं सम्पदयाञ्चकार । निश्ऱ्चितवान्‌ । किमर्थमित्यत आह ॥ प्रक्ष्यन्तीति ॥ महाशाला महाश्रोत्रिया इमे मां प्रक्षन्ति प्रश्ऱ्नान्‌ करिष्यन्ति । तेभ्यो वक्तुमिति शेषः । सर्वं पृष्यं वक्तुं न प्रतिपत्स्ये न ज्ञास्यामवेतीवशब्दो निर्धारणे । अतोन्यमनुशासानि वदानि । हन्त हर्षे । इति निश्ऱ्चित्य ॥ 3 ॥ तान्‌ उवाच ह । तदाह ॥ अश्ऱ्वपतिरित्यादिना ॥ हे भगवन्तः अश्ऱ्वपतिः कैकेयः केकयदेशाधिपतिरयं राजा सम्प्रतीदानीमिममात्मानं वैश्ऱ्वानरं अध्येति तम्‌ । हन्ताभ्यागच्छम इत्युक्तास्ते सर्वे तमभ्याजग्मुर्ह ॥ 4 ॥ तेभ्यो ह प्राप्तेभ्यो राजा । पृथक्‌ प्रत्येकं प्रत्येकम्‌ । अर्हाणि तत्तद्योग्यपूजाः कारयाञ्चकार भत्यैः । स राजा परेद्युः प्रातः सञ्जिहानः शयनादुत्थितः उवाच । किमिति । किं चोरादिभीत्या समागताः किंवा धनार्थित्वेन । नाद्यः अभावादित्याह ॥ नम इति ॥ मे मम जनपदे देशे । स्तेनश्ऱ्चोरो नास्ति । न कदर्यो
?Rयथाकालमाचारहीनः । न मद्यपः । स्वैरी जारः । कुतः स्वैरिणी काम चारिणी । अयक्ष्यमाणो वा कुतः । स्तेनादिरयक्ष्यमाणो वा कुतो नास्तीत्यत आह ॥ अहमस्मीति ॥ हे भगवन्तः चण्डशासनो हमस्मि तिष्ठामि । अतो न स्तेनादिरिति भावः। धनार्थिनश्ऱ्चेदागतास्तर्हि यक्ष्यमाणोहमस्मीति वान्वयः । यावद्धनं एकैकस्मै ऋत्विजे दास्यामि तावद्भगवद्भयो दास्यामि । वसन्तु भगवन्त इत्युवाचेत्यन्वयः ॥ 5 ॥ एवं राज्ञोक्तास्ते पुरुषो येनार्थेन प्रयोजनेन हेतुना चरेत्‌ तमेवार्थं वदेत्तं पुरुषं प्रति । वयं तु नाथर्कामनया चरामः । किन्तु ब्रह्मज्ञानकामनया । त्वं तु आत्मानमेवैनं वैश्ऱ्वानरं सम्प्रत्यध्येषि तमेव नोस्मभ्यं ब्रूहीत्यूचुः ॥ 6 ॥ तान्‌ होवाच राजा । वः युष्मान्‌ प्रति प्रातर्वक्तास्मीति । ते ह परेद्युः प्रातः काले समित्पाणयः पूवर्ाह्णे प्रतिचक्रमिरे । राजसमीपं प्राप्ताः । तान्‌ ह राजाऽनुपनीय शिष्यत्वेनास्वीकृत्यैव एतत्‌ वीयमाणमुवाच ॥ 7 ॥ 11 ॥ एभिरवगतं वैश्ऱ्वानरं क्रमेण पृष्ट्वा तन्नामधेयं फलं च स्वयं वदन्‌ विशेषाज्ञाने बाधकं चाह ॥ औपमन्यव इत्यादिना ॥ इत्येतदुवाचेत्यन्वयः । हे भगवो राजन्‌ क्रीडात्मकत्वेन दिवमित्युक्तमात्मानमहमुपास इत्युवाच औपमन्यवः । यं त्वमात्मानमुपास्से एष वै द्युनामा । अतितेजस्त्वात्सुतेजा इत्युक्तः द्युलोकाधार आत्मा वैश्ऱ्वानरः । तस्मात्तदुपाकत्वात्तव कले सुतं प्रसुतमासुतं पुत्रः पौत्रः तत्पुत्रश्ऱ्च दश्यते ॥ 1 ॥ अन्नमत्सि । प्रियं च पश्यसि । योऽधिकारी एतमेवं त्वदुपास्यमेवात्मानं वैश्ऱ्वानरमेवं सुतेजस्त्वादिनोक्तप्रकारेणोपास्ते सोन्नमत्ति पश्यति प्रियम्‌ । अस्य कुले ब्रह्मवर्चसं भवति । आत्मनस्तु हरेः एष द्युनामा त्वयो पास्यः मृर्धा शिरः । एवमेकावयवोपासकस्त्वं यत्‌ यदि मां नागमिष्यस्तहि ते मूर्धा व्यपतिष्यदित्युवाच राजेति ॥ 2 ॥ 12 ॥ अथानन्तरम्‌ । सत्ययज्ञं पौलुषिमुवाचह ॥ हे प्राचीनयोग्य । कं त्वमात्मानमुपास्स इति । स आह ॥ आदित्यमेवेति ॥ आयुषामादानादादित्यनामानमात्मानमुपासे इत्युवाचेत्यर्थः । राजाह ॥ एष इति ॥ त्वं यमात्मानमुपास्से एष वै विश्ऱ्वरूपः सर्व रूपातिदर्शनात्‌ । विश्ऱ्वरूपनामा वैश्ऱ्वानर आत्मा वै । तस्माद्विश्ऱ्वरूपोपासकत्वादेव । तव कुले गृहे । बहुविश्ऱ्वरूपं अतिबहुवस्तुजातम्‌ । दृश्यते ॥ 1 ॥ तद्वयनक्ति ॥ प्रवृत्त इत्यादिना ॥ एवमुपासकस्य पलमाह ॥ अत्त्यन्नमित्यादिना ॥ आत्मन एतत्तु त्वयोपास्यमादित्याख्यमादित्यधारमङ्गम्‌ । चक्षुरेव । न सर्वाङ्गम्‌ । अन्ध इत्यादि प्राग्वज्ज्ञेयम्‌ । इत्युवाच राजेत्यर्थः ॥ 2 ॥ 13 ॥ अथ होवाचेत्यादिप्रश्ऱ्नप्रतिवचने प्रागिव ध्येये । हे वैयाघ्रपद्य व्याघ्रपात्पुत्रेति सम्बुद्धिः । ज्ञानायुरूपत्वाद्वायुनामकं वाय्वाधारम्‌ । एष त्वयोपास्यो वायुः पृथग्वर्त्मा प्राणादिभिरशक्यकार्यकर्तृत्युक्तः । पृथक्‌ नानाविधाः बलयः आवलयः आयन्ति । तद्विवृणोति ॥ पृथग्रथश्रेणय इति ॥ गजाश्ऱ्वाद्यावलीनामुपलक्षणमेतत्‌ ॥ 1 ॥ एवमुपासकस्य फलमाह ॥ अत्त्यन्नमित्यादि ॥ आत्मनो वैश्ऱ्वानरस्यैष त्वयोपास्यो वायुः प्राणः प्राणाख्यावयवः ॥ 2 ॥ 14 ॥ अथेत्यादिप्राग्वत्‌ । आ समन्तात्कशते दीप्यत इत्याकाशाख्यमात्मानमुपास इति होवाच । विस्तीर्णत्वादेष बहुल इत्युक्तः । तस्माद्बहुलोपासकत्वात्‌ ॥ 1 ॥ एष त्वयोपास्यो बहुल आत्मनः सन्दे(दो)हो मध्यदेहः । व्यशीर्यत्‌ विशीर्णमभविष्यत्‌ ॥ 2 ॥ 15 ॥ अप एवेति ॥ व्याप्तत्वादाप इत्युक्तमात्मानमुपास इत्युवाच । रयिः रतिजनकत्वात्‌ रयिनामा ॥ 1 ॥ वस्तिस्त्वेष इति । वैश्ऱ्वानरात्मनो वस्तिरूपावयव इत्यर्थः । व्यभेत्स्यत्‌ भिन्नोऽभविष्यत्‌ ॥ 2 ॥ 16 ॥ पृथिवी प्रथनात्‌ विस्तीर्णगुणत्वेन पृथिव्याख्यम्‌ । प्रतिष्ठिति हेतुत्वात्प्रतिष्ठा ॥ 1 ॥ एतावात्मनः पादौ । एताविति विधेयापेक्षया पुल्लिङ्गं द्विवचनं च । व्यम्लास्येताम्‌ । भज्येयाताम्‌ ॥ 2 ॥ 17 ॥ एवं तैः षड्‌िभः प्रत्येकमुपास्यं भगवतः सुतेजः प्रभृतिनामकं शिर आद्यङ्गमेवेत्यपिदिष्यमनुवदन्‌ समग्रवैश्ऱ्वानरस्वरूपं तदुपास्तिफलं चोवाच राजेत्याह श्रुतिः ॥ तान्‌ होवाचेत्यादिना ॥ एते प्रसिद्धाः यूयम्‌ । खलु वैश्ऱ्वानरमात्मानं पृथगिवैकैकावयवम्‌ । विद्वांसो जानन्तोन्नमत्थ भक्षयथ । भगवदवयवानां भेदाभावात्‌ पृथगिवेत्युक्तम्‌ । यस्तु अधिकारी तु शब्दो देवरूपाधिकारिविशेषद्योतकः । एतं सर्वप्राणिसन्निहितम्‌ । वैश्ऱ्वानारमात्मानम्‌ । प्रादेशमात्रं प्रादेशपरिमितहृदयकमलव्यापित्वाद्वा तावत्परिमाणव्यक्त्या वा प्रादेशमात्रम्‌ । हृद्यपेक्षयेति सूत्रोक्तन्यायात्‌ । अभिविमानं अभितो विगतं मानं मर्यादा यस्येत्यभिविमानम्‌ । एवमुक्तदिशा शिरः प्रभृति सर्वाङ्गोपेततयोपास्ते स सर्वेष्वित्यादि । भूतेष स्थावरादिजडेषु । आत्मसु चेतनेषु । देवत्वादेवोपासकस्य तस्य मुख्यं फलं अन्येषां यथायोग्यम्‌ । वैश्ऱ्वानरोऽत्रविष्णुर्ज्ञेयो न भूताग्निः तदभिमानिदेवो वा । तदाह सूत्रे । वैश्ऱ्वानरः साधारणशब्दविशेषादिति ॥ 1 ॥ भगवदङ्गानामुक्तं नामधेयं सर्वथनुसन्धेयमिति भावेन तदनुवदन्‌ होमापेक्षितमाह ॥ तस्येत्यादिना ॥ तस्य वैश्ऱ्वानरनाम्नो हरेः मूर्धैव सुतेजाः । अतितेजस्त्वेतुना सुतेजो नामाद्युलोकाश्रयः । तस्य चक्षुः विश्ऱ्वरूपः र्स्वपदार्थविषयकतया विश्ऱ्वरूपनामा विश्ऱ्वरूपाख्यादित्याश्रयः । तस्य हरेः प्राणः पृथग्वर्त्मा । प्राणादिभिरशक्यकार्यकर्तृत्वात्पृथग्वर्त्मनामा वाय्वाश्रयः । तस्य हरेः सन्दे(दो)हः मध्यदेहः बहुलनामा आकाशमान्याश्रयः ।
?Rतस्य नाभ्यधोभागवस्तिरूपोऽवयवो रयिः रतिदत्वहेतुना रयिनामा अपामाश्रयः । तस्य पादौ प्रथितत्वहेतुना पृथिवी नानौ पृथिव्याश्रयौ । तस्य वैश्ऱ्वानरस्य हरेः उरो वक्षः वेदिः वेद्यभिमानिनी तदाश्रितेत्यर्थः । आश्रयाश्रयिभावाभिप्रायाऽभेदोक्तिः । एवमग्रेऽपि बर्हिरादिशब्दा अभिमानिपराः । तदाह सूत्रे पुरुषविधमपि चैनमधीयत इति ॥ 2 ॥ 18 ॥ इति कर्तव्यतासहितं होममाह ॥ तद्यदिति ॥ C-K-6
?Rतत्‌ प्रसिद्धं भोज्यं यत्‌ भक्तमन्नं प्रथममागच्छेदास्यं प्रति तद्धोमीयं होमसाधनद्रव्यम्‌ । होममन्त्रनाहुतितृप्यांश्ऱ्चाह ॥ स यामित्यादिना ॥ स भुञ्जानः । जुहुयात्‌ होमं कुयात्‌ । जुह्वीत कुर्वीत । प्राणाय स्वाहेत्याहुत्या । प्राणः प्राणवायोरभिमानिभूतं यदादित्यस्य रूपं हृदयकमलगतस्य वैश्ऱ्वानराख्यस्य हरेः पूर्वद्वारपालकं तत्तृप्यति ॥ 1 ॥ प्राणमानिरूपे तृप्यति चक्षुर्मानि यदादित्यस्य रूपं तत्तृप्यति । चक्षुर्मानिरूपे तृप्यति आदित्यः रविबिम्बमानिसूर्यरूपं तृप्यति । त्रिरूपे आदित्ये तृप्यति द्यौर्द्युलोकमानिनी श्रीः तृप्यति । दिवि तृप्यन्त्यां द्यौः श्रीश्ऱ्च प्राणचक्षुर्माण्डलानामभिमानी आदित्यश्ऱ्च यत्किञ्च ज्ञानानन्दरूपं ब्रह्माख्यं वस्तु अधिकृत्य तिष्ठतस्तद्ब्रह्म तृप्यति । तस्य ब्रह्मणस्तृप्तिमनु । पश्ऱ्चाद्यजमानः प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन तृप्यति ॥ 2 ॥ 19 ॥ दक्षिणद्वारपः व्यानवायुश्रोत्रचन्द्रबिम्बमानितया त्रिरूपश्ऱ्चन्द्रो व्यानया स्वाहेति मन्त्रेण क्रियमाणद्वितीयाहुत्या तृप्यतीत्याह ॥ अथ यां द्वितीयामिति ॥ प्रागिवाथर्ः ॥ 1 ॥ दिशः दिङ्‌नाम्नी रमादेवी यत्किञ्च । ज्ञानरूपत्वात्‌ यत्‌ । सुखरूपत्वात्‌ किम्‌ । यत्किञ्च ज्ञानानन्दरूपं ब्रह्मेत्यर्थः ॥ 2 ॥ 20 ॥ अपानवायुवाग्यभूताग्न्यभिमानी त्रिरूपोग्निदेवः पश्ऱ्चिमद्वारपः अपानाय स्वाहेति मन्त्रेण क्रियमाणाहुत्या तृप्यततीत्याह ॥ अथ यां तृतीयामिति ॥ 1 ॥ पृथिवी नाम्नी भूदेवी ॥ 2 ॥ 21 ॥ समानवायुमनः पर्जन्यानामभिमानितया त्रिरूपं इन्द्र उत्तरद्वारपः समानाय स्वाहेति मन्त्रेण क्रियमाणाहुत्या तृप्यतीत्याह ॥ अथ यां चतुर्थीमिति ॥ 1 ॥ पर्जन्यः मेघचक्रमानीन्द्रः । विद्युत्‌ वित्युनमानिनी वायुपत्नी 2 ॥ 22 ॥ उदानवायुवाय्वाकाशमानितया त्रिरूपो मुख्यवायुरूर्ध्वद्वारपः उदानाय स्वाहेति मन्त्रण क्रियमाणाहुत्या तृप्यतीत्याह । अथ यां पञ्चमीमिबति । 1 ॥ वायुः प्रसिद्धवायुमानी । आकाशः आकाशमानी । विशेषेण लक्ष्म्याविष्यतयाकाश इत्युक्तो मुख्यवायुः आकाशश्ऱ्च । वायौ विशेषसन्निधियुता लक्ष्मीरित्यर्थः ॥ 2 ॥ 23 ॥ एवं वैश्ऱ्वानरस्वरूपं तद्विषयहोमं चोक्त्वा तज्ज्ञानपूर्वकहोमफलं तदज्ञानपूर्वकहोमवैफल्योक्त्याह ॥ स य इत्यमिति ॥ स भुञ्जानो यः कश्ऱ्चित्‌ इदं वैश्ऱ्वानरस्वरूपादिकं । अविद्वान्‌ अजानन्‌ । प्रालणाग्निहोत्रं जुहोति करोति । अङ्गारानपोह्य परित्यज्य । भस्मनि यथा जुहुयात्‌ । तत्‌ अज्ञानकृतं प्राणाग्निहोत्रम्‌ । तादृक्‌ तत्तुल्यम्‌ । निष्फलमिति यावत्‌ ॥ 1 ॥ ज्ञानपूवर्ानुष्ठानेफलोक्तिः ॥ अथ य एतदिति ॥ तस्य तेन । हुतं भवतीत्यन्वयः । यद्वा सर्वलोकादिषु हुतं तस्यैव भवतीत्यथर्ः ॥ 2 ॥ फलान्तरं चाह ॥ तद्यथेति ॥ वक्ष्मयमाणनिदर्शनं यथा इषीकातूलमिति च्छन्दसो ह्रस्वाभावः । इष्यकेषीकामालानां चिततूलभारिष्वित्युक्तेरिषीकतूलमिति भाव्यत्वात्‌ ॥ 3 ॥ तस्मादुक्ततरीत्या वैश्ऱ्वानरज्ञानस्य सर्व
?Rपापक्षयादिहेतुत्वात्‌ । उच्छिष्यमपात्रे दत्तवैश्ऱ्वानरे आत्मनि अस्य अनेन । नद्धुतं स्यात्‌ ॥ 4 ॥ वैवानरज्ञानपूर्वकं कृतं प्राणाग्निहोत्रं सर्वाभीष्यप्रदमित्युक्तमर्थं मन्त्रेण संवादयति ॥ तदेष इति ॥ इहलोके सर्वाणि भूतानि अभीष्यापेक्षाणि प्राणाग्निहोत्रमुपासते । द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥ 5 ॥ 24 ॥

इति छान्दोग्यपनिषदर्थसङ्ग्रहे राघवेन्द्रयतिकृते पञ्चमोऽध्यायः ॥ 5 ॥

********************************************************************************

षष्ठोऽध्यायः

?Rजीवजडात्मकात्प्रपञ्चाद्भिन्नं ततोधिपं भगवन्तं जानतां स्वर्गमोक्षफलिका उपास्तय उक्ताः पूर्वाध्यायेषु षष्ठाध्याये तु जीवेश्ऱ्वरभेदविषये सन्दिग्धं विपर्यस्तं वा प्रतीश्ऱ्वराद्भेदो मोक्षोपयोगी युक्तिभिर्बोध्यते । तत्र तावत्‌ श्ऱ्वेतकेतुं निमित्तीकृत्य जीवानां भगवतो भेदं बाधयन्‌ भेदबोधनस्याभेदप्रसक्तिमाह ॥ श्ऱ्वेतकेतुरित्यादिना ॥ श्ऱ्वेतकेतुनर्ामतः अरुणस्य पौत्र आरुणेयः आस । ह प्रसिद्धम्‌ । तं पिता उवाच ह ब्रह्मचर्यं वेदाध्ययनमुद्दिश्य । वस गुरुकुले वेदाध्ययनादिकं कुर्वित्यर्थः । कुतः हे सोम्य अस्मत्कुलीनः अस्मत्कुले जातः यः कोप्यननूच्यानधीत्य । ब्रह्मबन्धुरिव ब्राह्मणाभास इव न वै नैव भवत्यत इत्युवाचे त्यन्वयः । एवं पित्रोक्तः श्ऱ्वेतकेतुः । द्वादशवर्षः द्वादशवर्षवयस्कः । गुरुकुलमुपेत्य प्राप्य चतुविंशतिवर्षः तावद्वयस्कः सन्‌ । सर्वान्‌ वेदानधीत्यानूचानमानी साङ्गवेदाध्ययनवानहमित्यभिमानवान्‌ । अत एव महानस्मीति मनो यस्यासौ महामनोः । अत एव स्तब्धः अविनीतः । एयाय आजगाम । तमागतं पुत्रं पिता स्तब्धोसीत्यन्तं वाक्यमुवाच । स्तब्धोसीतीदं यन्नु किंन्वित्यर्थः । ये श्रुतेन मतेन विज्ञातेनान्यदश्रुतममतमविज्ञातमपि श्रुतं मतं विज्ञातं भवति तमादेशमुद्दिश्यमानार्थमप्राक्ष्यः पृष्यवानभूः । उत तत्किं यद्विषयश्रवणमननविज्ञनेन कर्मदेवतादिजगद्विषयश्रवणादि भवति
?Rतद्वस्तु श्रुतवानसि किम्‌ । प्रायेण न श्रुतवान्‌ । अन्यथा कतं ते महामनस्त्वादिकं भवेदिति चोवाचेत्यन्वयः । अन्यज्ञानेनान्यज्ञानस्य क्वाप्यदशर्नादिति भावेन पुत्रः पृच्छति ॥ कथमिति ॥ हे भगवः स आदेशः अन्यज्ञानेनान्यज्ञानं भवतीत्युपदेशः कथं नु कीदृश इति पप्रच्छ पुत्र इत्यर्थः । इति पृष्यः पिता उद्दालकः अन्यज्ञानेनान्यज्ञानप्रकारं षड्‌िभर्दृष्यान्तैरुपपादयति ॥ यथेति ॥ हे सोम्य एकेन मृत्पिण्डेन विज्ञातेन सर्वं मृण्मयं मृद्विकारजातं मृत्त्वसादृश्यहेतुना विज्ञातं भवति । एकस्मिन्मृत्पिण्डे ज्ञाते सति मृन्मयेषु सर्वेषूपदेशं विनैव विज्ञातमृत्पिण्डसादृश्यादेते मृद्रूपा इति यथा ज्ञायते तथा भगवति सत्यत्वादिना ज्ञाते सति सत्यत्वप्रामाणिकत्वादिसादृश्यात्‌ जगदपि तथा ज्ञायत इत्यर्थः । भगवतः प्रधानत्वाज्जगतोप्रधानत्वात्‌ । प्रधानज्ञानादप्रधानज्ञानं ज्ञातवद्भवतीत्येतद्दृष्यान्तेनोपपादयति ॥ वाचारम्भणमिति ॥ यथा सोम्येत्यनुषज्यते । हे सोम्य वाचा वागिन्द्रियेण नाम्ना संस्कृतेतरभाषाशब्दानामारम्भणमुच्चारणम्‌ । विकारः उत्पादनम्‌ । न तु संस्कृतानामिव व्यञ्जनम्‌ । अतस्तान्यनित्यानि । मृत्तिकेति उपलक्षणं मृत्तिकेत्यादि संस्कृतं नामधेयं अविकारः अत एव सत्यं नित्यमित्यर्थः । अतो नित्यत्वात्संस्कृतं नामधेयं प्रधानम्‌ । संस्कृतान्यनामानि तु पुरुषभेदेन विक्रीयमाणतयाऽनित्यत्वेनाप्रधानानि संस्कृतेतरापभ्रंशभाषाशब्दज्ञानेन यत्फलं तत्फलं संस्कृतशब्दज्ञानेन यथा भवति तथा कर्मदेवतादिजगज्ज्ञानेन यत्फलं तत्सर्वं प्रधानभूतभगवज्ज्ञानेन भवतीति भावेन येन श्रुतेन मतेन विज्ञातेनाश्रुतममतमविज्ञातं जगत्‌ । श्रुतमतविज्ञातफलं भवतीत्युक्तमिति स्वाभिप्रायं प्रकटितवानुद्दालक इत्यर्थः । अनुव्याख्यानसुधयोस्तूक्तं वाचारम्भणमिति बहुव्रीहिः । वाचा वागिन्द्रियेणारम्भणं उच्चारणं यस्य तद्वाचारम्भणम्‌ । नामधेयं विकारः । विक्रियमाणमुत्पत्तिमत्‌ । अत एवानित्यम्‌ । तस्मात्तदप्रधानम्‌ । मृत्तिकेत्यादिकं वैदिकं नामधेयम्‌ । सत्यं नित्यं तत एव प्रधानमिति । तात्पर्यं तु प्राग्वत्‌ ॥ 1 ॥ प्रधानज्ञानादप्रधानं ज्ञातफलं भवतीत्यत्र दृष्यान्तान्तरमाह ॥ यथा सोम्येति ॥ एकेन लोहमणिना सुवर्णेन । ज्ञातेनेति शेषः । यथा स्वर्णस्य विज्ञानात्साधनानुष्ठेनेन तल्लाभे च सति । सर्वे लोहमयाः ज्ञातलब्धफला भवन्ति एवं प्रधानेन विष्णुना श्रुतादिना निमित्तेन कर्मदेवतादिजगदश्रुताद्यपि श्रुतमतादिफलं भवतीति भावेन येनाश्रुतमिति वाक्येन एकविज्ञानेन सर्वज्ञानमुक्तमिति । अत्रैवार्थे दृष्यान्तान्तरम्‌ ॥ वाचेत्यादि ॥ यथा सोम्येत्यनुषज्यते । पूर्ववाक्य इवास्याप्यर्थः लोहमणिरित्येव वैदिकं नामधेयं सत्यं नित्यमित्यर्थः ॥ 2 ॥ कैमुत्येनाप्येकज्ञानेन सर्वविज्ञानं दृष्यान्तेन व्यनक्ति ॥ यथा सोम्येति ॥ एकेनात्यल्पेनापि नखनिकृन्तनेन विज्ञातेन तत्साद्दश्यत्‌ सर्वं कार्ष्णायसं विज्ञातं भवति । किमु महतो भगवतः सत्यत्वचिद्रूपत्वादिना ज्ञाने सति तत्सादृश्यात्सर्वं जीवजडादिकं ज्ञायत इति किमुवाच्यमिति भावेन येनाश्रुतमित्याद्युक्तमिति । प्रदानज्ञानादप्रधानज्ञानं ज्ञातफलं भवतीत्यत्र दृष्यन्तान्तरम्‌ ॥ वाचेत्यादि ॥ प्रागिवार्थः । न च वाचेत्यादिदृष्यान्तत्रयं लोहमणिदृष्यान्तश्ऱ्चैक इति द्दष्यान्तचतुष्ययं एकस्मिन्नेवार्थे किमर्थमिति शङ्कयम्‌ । तत्त्वस्यदुर्गमत्वेनानेकदृष्यान्तोक्तेरर्थवत्त्वात्‌ । अत एवात्र पूर्वाध्याये एकस्मिन्नेवार्थे एकपाद्ब्रजन्‌ रथो वा एकेन चक्रेणेति लवणेन सुवर्णमित्याद्यनेकदृष्यान्तोक्तिः । तदाह सूत्रे अन्यार्थन्तु जैमिनिः प्रश्ऱ्नव्याख्यानाभ्यामपि चैवमेक इति । कथं नु भगवः स आदेश इति प्रश्ऱ्नस्योत्तरमुक्त्वोपसंहरति ॥ एवं सोम्येति ॥ 3 ॥ एवमुक्तः पुत्र आह ॥ नवा इति ॥ भगवन्तस्ते मह्यमुपदेष्यारः । एतत्‌ त्वयोक्तम्‌ । एकविज्ञानरूपतत्त्वम्‌ । नूनं नवै नैवावेदिषुः न ज्ञातवन्तः कुतः । यत्‌ यदि । अवेदिष्यन्‌ ज्ञातवन्तः । कथं मे मह्यं नावक्ष्यन्‌ इति हेतोः नूनं प्रायो नावेदिषुरिति हि यतोऽतः भगवानेव तु तत्‌ मे मह्यम्‌ ब्रवीत्विति पुत्र उवाचेत्यथर्ः । तथास्त्विति पितोवाच हेति ॥ 4 ॥ 1 ॥ प्रधानत्वाद्ब्रह्मणि ज्ञाते अप्रधानं जगदपि ज्ञातफलं भवतीत्युक्तम्‌ । कथं ब्रह्म जगतोः प्राधान्याप्राधान्ये इत्यतः स्रष्यृसृष्यभावेनेतिद भावेन सोपोद्धातं सृष्यिमाह ॥ स देवेत्यादिना ॥ इदं अस्य जगतः । अग्रे पूर्वं प्रलये । सर्वोत्तमत्वयेतुना सदेव सन्नामकं ब्रह्मैवासीत्‌ अवर्तत । तद्विशिनष्यि ॥ एषकमिति ॥ एकं स्वीयगुणकर्मरूपादिभेदहीनम्‌ । एव गुणकर्मादिभिः भेदाभेदहीनम्‌ । अद्वितीयं समाभ्यधिकहीनम्‌ । स्वमतविरुद्धमनुवदन्‌ दूषयति श्रुतिः ॥ तद्धैकइत्यादिना ॥ तत्‌ तत्र सृष्यिविषये । एके शून्यवादिनः । इदं जगदग्रे प्रलये । असदेव शून्यात्मकमेवासीत्‌ । एकमेव भेदशून्यमेव । अद्वितीयं द्वितीयवस्तुहीनम्‌ । आसीत्तस्मदसतः शून्यात्‌ सज्जायते सदजायत इत्याहुर्हेत्यर्थः ॥ 1 ॥ तद्दूषयति ॥ हे सोम्य कुतस्तु खलु एवं असतस्सत्त्वं प्रलये स्यादिति असतः सज्जायेतेति च कतं स्यान्न कथमपीति च होवाच पिता । एवं परमतं विनिन्द्य पुनः स्वमतमेव स्थिरीकरोति ॥ सत्त्वेवेति ॥ सर्वोत्तममेव ब्रह्म प्रपञ्चस्याग्रे एकमेवाद्वितीयं भूत्वा आसीदिति । तु शब्दने तस्य सस्वरूपत्वादासीदिति सत्त्वं जगत्कर्तृत्वं च युक्तमिति सूचयति ॥ 2 ॥ तस्य ब्रह्मणः प्रलयान्त्यभागे सृष्ययर्थं विचारः समजनीत्याह ॥ तदैक्षतेति ॥ तत्‌ सच्छब्दितं ब्रह्म । ऐक्षत व्यचारयत्‌ । कथम्‌ । बहु नियामकनानारूपं स्यां भवेयमम्‌ । नियामकनानारूपभवनार्थं नियम्यानि प्रजायेय
?Rप्रजनयेयं उत्पादयानीत्यैक्षतेत्यर्थः । तदाह सूत्रे ईक्षति कर्मव्यपदेशात्स इति । तत्‌ एवमीक्षमाणं सच्छब्दितं ब्रह्म । तेजः ते तते व्याप्ते हरौ प्रकृतौ वा स्थितेन रूपेणाजत्वेनानुत्पत्तिमत्त्वेन वर्तत इति वा । ते पञ्चम्यर्थे सप्तमी तात्‌ । व्याप्ताद्धरेर्जायते विद्याख्यजगत्स्रष्यृरूपेण प्रादुर्भवतीति वा तेजः शब्दिता श्रीः । तां तदभिमन्यमानं तेजोभूतं चासृजत । तत्तेजः तेजोभूतमानिनी श्रीरैक्षत । कथं बहुस्यामित्यादि प्राग्वत्‌ । तत्‌ तेजः । अपः अबभिमानिनमप्‌ शब्दितं प्राणं तदभिमता अपश्ऱ्चसृजन । अपां तेजः कार्यत्वमनभिवारूढं करोति ॥ तस्मादिति ॥ अपां तेजःकार्यत्वात्‌ । यत्र क्वच देश काले वा शोचति तापो जायते । स्वेदते वा पुरुषः । तत्‌ तत्र तदा वा । तेजस एवापो जायन्ते ॥ 3 ॥ ता आपः प्राण ऐक्षतेत्यादि प्राग्वत्‌ । ताः अबभिमानी प्राणः । अन्नं अन्न शब्दितपृथिवीमानिनं रुद्रम्‌ । अत्र तेजः प्रभृतिशब्दा अभिमानिपरा अपि ध्येयाः । अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामिति सूत्रात्‌ । अन्नं पृथिवी ग्राह्या । पृथिव्यधिकाररूपशब्दान्तरादिभ्य इति सूत्रात्‌ । अन्नस्याब्जातत्वमनुभवारूढं करोति ॥ तस्मादिति ॥ अन्नस्याब्जातत्वादेव यत्र क्वच वर्षति तदेव तत्रैव भूयिष्ठमन्नं पार्थिववस्तुजातं भवति । जायते निगमयति ॥ अद्भय एवेति ॥ 4 ॥ 2 ॥ अभिमानिसहिततेजोवन्नोत्पत्तिमुक्त्वा तत्प्राधान्यज्ञापनाय तानि चतुर्विधभूतकारणानीत्याह ॥ तेषामिति ॥ तेषां प्रसिद्धानामेषां वक्ष्यमाणानां भूतानां प्राणिनां त्रीण्येव बीजानि कारणानि भवन्ति खल्विति । उक्तभूतान्याह ॥ अण्डजमिति ॥ अण्डजं पक्ष्यादि । जीवजं जरायुजं मनुष्यादि । उद्भिद्यजायत इति उद्भिज्जं वक्षादि । स्वेदजं च ग्राह्यम्‌ ॥ 1 ॥ तेजोबन्नसृष्ययनन्तरं विचारपूवर्कं कुतमाह श्रुतिः ॥ सेयमिति ॥ सा सदेवेत्युक्ता इयं तेजोबन्नस्रष्य्री विष्ण्वाख्या देवता ऐक्षत । कतं हन्त हर्षे । अहं ता इमास्तिस्रस्तेजोबन्नाख्या देवताः । साभिमन्यमाना इति ग्राह्यम्‌ । अनेन जीवेन जीवाख्येनानिरुद्धात्मना । अनुप्रविश्य नामरूपे शब्दात्मकार्थात्मकजगतीकरवाणि कुर्यामित्यैक्षतेत्यन्वयः ॥ 2 ॥ नामरूपनिर्माणार्थं तासां मध्ये एकैकां तदभिमन्यमानतेजः प्रभृतिष्वेकैकं च त्रिवृतं त्रिवृतं करवाणि तिसृभ्यो देवताभ्यस्त्रिभ्य; तेजोबन्नेभ्यश्ऱ्च क्रमात्‌ त्रिन्‌ चेतनांशान्‌ त्रीन्‌ जडांशांश्ऱ्चोद्धृत्यांशषट्‌कं मिश्रीकृत्य एकं तेज अख्यमवाख्यं पृथिव्याख्यं च मिश्रीभूतवस्तुत्रयं करवाणीति चैक्षतेत्यर्थः । एवमीक्षित्वा तत्तथाकृतवानित्याह ॥ सेयं देवतेति ॥ देवताः अभिमन्यमानसहिता इति योज्यम्‌ । नामरूपे देवदानवमानवादीनामिन्द्राग्न्यादिनामानि तत्तच्छरीरादिरूपशब्दितवस्तूनि च व्याकरोत्‌ विशिष्याकरोत्‌ ॥ 3 ॥ अत्र तासां त्रिवृतं कृत्वा पश्ऱ्चान्नामरूपे व्याकरोदिति त्रिवृत्करणनामरूपकरणयोः पौर्वापर्यं ध्येयम्‌ । त्रिवृत्करणपूर्वकं नामरूपकर्ता विष्णुरेवेत्युक्तं सूत्रकृता संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशादिति । अत्रायं क्रमः । पूर्वं लक्ष्म्ादीन्‌ तदभिमन्यमानं तेजः प्रभृतिसहिताननुप्रविश्य तत्तदंशैस्त्रिवृतमेवकैकं कृत्वा तेभ्य इन्द्रादिनामरूपाण्यकरोत्तानपि साभिमन्यमाना न तेजःप्रभृतिदेवतांशैरनुप्रविश्य तेषामंशान्मिश्रीकृत्य तेभ्य अभिमन्यमानसहिताग्नयादिनामरूपाण्यकरोत्‌ । पुनरग्न्यादिषु सर्वत्र तेजोबन्नेदेवाननुगतानकरोदिति । एवमग्न्यादयः सवर्े भावाः साक्षात्परम्परया वा तेजोबन्नकार्याणीत्युक्तम्‌ । सर्वेषां नामरूपे अपि तेजोबन्नाद्यभिमानिलक्ष्म्ाद्युद्भवत्वात्तदधीने इति चोक्तम्‌ । एतदुभयमनुभवारूढं दर्शयितुं प्रतिजानीते ॥ यथेति ॥ हे सोम्य इमास्तिस्रो देवताः एकैका त्रिवृत्त्रिवृद्भवति यथा खलु सर्वं तत्कार्यं च भवति । सर्वेषां नामरूपे तदधीने इति यत्तत्सर्वं वदतो मे विजानीहि । यज्ज्ञाने सति । न कमपि नमस्कुर्यां महा
?Rप्राज्ञोहं इत्यहङ्कारं जाह्याः । इत्युवाच पितेत्यर्थः ॥ 4 ॥ 3 ॥ अहङ्कारमोचनाय प्रतिज्ञामाह ॥ यदग्रेरिति ॥ अग्रेर्यल्लोहितं रूपं तत्तेजसो रूपम्‌ । तेजोरूपसमुद्भवं तत्तेजो देव्यधीनं च । यदग्रेः शुक्लं रूपं तत्‌ अपां रूपं अब्रूपसम्भवं अब्देवप्रणाधीनं च यदग्नेः कृष्णं रूपं तत्‌ अन्नस्य पृथिव्याः रूपम्‌ । पृथिवीदेवशिवाधीनं चेत्यर्थः । न केवलं रूपमेवान्यधीनत्वादिना न मुख्यम्‌ । किन्तु नामापीत्याह ॥ अपागादिति ॥ अग्नेरनाम्नो यदग्नित्वमाग्निनामप्रवृत्तिनिमित्तं तदग्नेः सकाशादपागात्‌ अपगतमभूत्‌ । मुख्यतो नास्त्यतोग्निनामापि मुख्यं नास्तीत्यर्थः । कुत इत्यत आह ॥ वाचेति ॥ यस्याग्निनाम्नोग्नौ वाचावागिन्द्रियेणारम्भणमुच्चारणं तन्नामधेयं विकारः जनिमत्‌ । अन्यत्र मुख्यं सदग्नौ साङ्केतिकम्‌ । नत्वनादितस्तस्यैव सिद्धं अतोऽमुख्यम्‌ । तर्हि कुत्र मुख्यमित्यत आह ॥ त्रीणीति ॥ तेजोबन्नाख्यानि यानि त्रीणि श्रीप्राणशिवाख्यमेवतत्त्रयमेवाग्निनाम्नः सत्यं मुख्यवाच्यमित्यर्थः ॥ 1 ॥ एवमादित्यस्येत्यादिवाक्यत्रयस्यापिव्याख्या ध्येया ॥ 0 ॥ 4 ॥ एकविज्ञानेन सर्वविज्ञानादिकमुपदेशपरम्परागतं चेत्याह ॥ एतद्ध स्मेति ॥ तत्सादृश्यप्रधान्यरूपहेतुभ्यां ब्रह्मज्ञानेन कर्मदेवतादि सर्वं जगज्ज्ञातमिव भवतीति । प्राधान्यं च हरेः जगत्कर्तृत्वेन । कर्तृत्वं च तेजोबन्नानां सचेतनानां त्रिवृत्करणेनेत्यादिप्रमेयं विद्वांसो जानन्तो महाशाला महाश्रोत्रियाः पूर्वे नोऽस्माकमश्रुतममतमविज्ञातमस्तीति कश्ऱ्चन कोप्यद्यतनो नोदाहरिष्यति न व्यवहरिष्यतीत्येतदाहुर्ह स्म वै । प्रधानभगवज्ज्ञानेन सर्वस्य ज्ञातफलत्वादिति भावः । एभ्यः
?Rतद्विद्वांस इत्यत्रोक्तप्रमेयज्ञानिभ्यः । पूर्वेभ्यः अन्ये विदाञ्चक्रुः । एकविज्ञानेन सर्वविज्ञानादिप्रकारं ज्ञातवन्तः ॥ 5 ॥ तैः ज्ञातप्रकारं लेशतोऽनुवदति श्रुतिः ॥ यदु रोहितमिति ॥ रोहितमिव लोहितमिवाभूदिति यत्‌ । उ खलु अस्ति तत्‌ तेजसो रूपं तेजोरूपसम्भूतम्‌ । तेजोदेव्यधीनं चेति तद्विदाञ्चक्रुरित्यर्थः । यदुशुक्लमित्यादिवाक्यद्वयमप्येवं ध्येयम्‌ । इव शब्दोऽमुख्यत्वद्योतकः ॥ 6 ॥ यदु यत्खलु अविज्ञातमिव तेजः प्रअभृत्यात्मकत्वेन स्फुटमविज्ञातमिवाभूत्‌ तदप्येतासां तेजोबन्नदेवातानाम्‌ । समास इति संक्षेपः समुदाय इति । तद्विदाञ्चक्रुरित्यर्थः । पृथिव्यादेस्तेजआद्यत्मकत्वं प्रकारान्तरेण ज्ञापयितुं प्रस्तावयति ॥ यथा तु खल्वित्यादिना ॥ इमाः तेजोबन्नसहिताः श्रीप्राणशिवाख्यास्तिस्रोदेवताः । पुरुषं जीवशरीरम्‌ । इत्युवाच पितेत्यर्थः ॥ 7 ॥ 4 ॥ तन्मे विजानीहीति प्रतिज्ञातं दर्शयति ॥ अन्नमिति ॥ अन्नं अदनयोग्यं पार्थिवं वस्तु । प्राणिभिरशितं भक्षितं सत्त्रेधा विधीयते । कथं यत्‌ यः स्थविष्ठः स्थूलतमस्तस्याशितस्य धातुः भागः तत्‌ पुरीषं विष्ठा भवति । यो मध्यमः धातुरित्यनुषङ्गः तन्मासम्‌ । योऽणिष्ठस्तन्मनस्तस्येति मध्यमोऽणिष्ठ इत्युभयत्राप्यनुषज्यते अत्रान्नपदेन पृथिव्याः प्रकृतत्त्वेपि तस्या अदनायोगात्तदुपादानकतया तदात्मकं पार्थिवमदर्नां ग्राह्मम्‌ । अन्नाबादिशब्दैश्ऱ्च पृथिव्यप्तेजोभिमान्यंशैरुपेतान्येवाद्यमानजडानि ग्राह्याणि । अभिमान्यंशानामद्यमानत्वं प्राणिभिरुपजीव्यत्वमेव । चिदचिन्मिलितमेव अन्नादिकमद्यमानं सत्‌ स्वस्वांशैस्त्रेधा भूत्वा मांसाद्यात्मकं भवति । चिदंशस्य मांसादिभावस्तत्र सन्निधिविशेष एवेति ध्येयम्‌ । प्रत्यहं भुज्यमानान्नादिमध्यमाणिमाभ्यां मांसमनःप्रभृतेः भवनं नामापेचयो ध्येयः । गर्भे च मातृक्तान्नादिना च परिणामः केषांचित्केषाञ्चिदुपचय इति ज्ञेयम्‌ ॥ 1 ॥ आपः अबभिमान्यंशोपेता आपः पीताः द्विरूपांशैस्त्रेधा विधीयन्ते । शिष्यं व्यक्तम्‌ । विष्ठामूत्रयोरपभ्रंष्यदेवांशावित्येके । अत एव भाष्ये देवता एव मांसादिशब्दवाच्यास्तत्र प्रवेशादित्येवोक्तमित्याहुः अन्येतु अन्नाभिमान्यंशयोस्तत्रापि सत्त्वाङ्गीकारेपि निर्लेपत्वात्तयोर्न दोष इत्याहुः ॥ 2 ॥ तेजोशितं तैजसं घृतादिसारवस्तु अभिमानिसहितं व्यक्तमन्यत्‌ ॥ 3 ॥ उत्तरग्रन्थोपयुक्ततयोक्तं मध्ये प्राधान्यान्मन आद्यंशमेवानुवदति ॥ अन्नमयं हीति ॥ आपोमयोम्यय इत्यर्थः । अत्र मांसादीनामन्नाद्येकैकभूतमयत्वोक्तावप्यन्नशब्दितपृथिव्यादेस्त्रिवृत्करणेन त्ऱ्यात्मकत्वात्‌ मांसादेस्त्ऱ्ात्मकत्वमेव ध्येयम्‌ । तदुक्तम्‌ । मांसादिभौमं यथा शब्दमितरयोश्ऱ्चेति । अन्नमयत्वादिविशेषोक्तिस्तु वैशेष्यात्तु तद्वाद इत्युक्तदिशा ध्येया । अन्नमयं हि मन इत्याद्युक्तमर्थं दृष्यान्तेन स्पष्यं बोधयेति भावेनाह । पुत्रः ॥ भूय इति ॥ भगवान्‌ मा माम्‌ । भूय एव पुनरेव । विज्ञापयतु विशेषेण बोधयतु इति पुत्रेणोक्तः पितोक्तवानित्याह ॥ तथास्त्वित्युवाचेति ॥ 4 ॥ 5 ॥ उक्तमर्थं दृष्यान्तेन बोधयति ॥ दध्न इति ॥ सोम्य दध्नो मथ्यमानस्य समुदीषति नवनीतरूपेणोद्गच्छति ॥ 1 ॥ अश्यमानस्यौदनादेरन्नस्य वैश्ऱ्वानरेण पच्यमान्नस्य योऽणिमा सारांशः । एवमग्रपि । शिष्यं व्यक्तम्‌ । मन आदिभवनं मन आदेरुपचयो ज्ञयः ॥ 4 ॥ उक्तमुपपाद्योपसंरति ॥ अन्नमयं हि सोम्येत्यादिना ॥ मन आदेरन्नमयादित्वमनुभवारूढं कुर्विति भावेनाह पुत्रः ॥ भूय एवेति ॥ पिता वक्ति ॥ तथेति ॥ 5 ॥ 6 ॥ मन आदेरन्नादिमयत्वमनुभवारूढं व्यतिरेकान्वयोक्तया करोति ॥ षोडशकल इत्यादिना ॥ हे सोम्य । पुरुषो जीवः । षोडशकलः स प्राणमसृजत प्राणाच्छ्रद्धामित्यादिना षट्‌प्रश्ऱ्नोक्तदिशा प्राण वाणी विनायक प्राणसुतमरुत्‌ पावक बुध रुद्र वरुण वह्नि स्वाहा पुष्कर पर्जन्योषाख्यषोडशदेवैरभिमन्यमानप्राण श्रद्धा ख वायु ज्योतिरप्‌ पृथिवीन्द्रिय मनोन्न वीर्य तपो मन्त्र कर्म लोक नामाख्यषोडशकलः । पञ्चदशाहानि । दिवसान्‌ । दिवसान्‌ । माशीः न मुंक्ष्व । कामं यथेष्यमपः पिब कुतोपां पानं आपोमयः प्राणो न पिबतोऽपिबतो विच्छेत्स्यते छिन्नो भविष्यति हि । यतोऽत इति ॥ 1 ॥ स एवमुक्तः पुत्रः नार्शीत्‌ न भुक्तवान्‌ । अयानन्तरम्‌ । एनं पितरमुपससाद ह । भो पिदतः किं ब1वीमि अधीतमध्ये किं वदामीत्युबाचेति योज्यम्‌ । पिता वक्ति ॥ ऋच इत्यादि ॥ ब्रूहीत्युवाचेति शेषः । स पुत्र उवाच भो पितः इमा ऋगाद्या न वा । नैव प्रतिभान्तीति ॥ 2 ॥ तं पुत्रमुवाच पिता । हे सोम्य महतोभ्याहितस्योपचितस्य वह्निराशेरेकोङ्गारः स्वद्योतमात्रः परिशिष्यस्स्यात्‌ । तेन खद्योतमात्रावशिष्यत्वहेतुना ततस्तादृशाङ्गारादपि बहुवस्तुजातं न दहेत्‌ दग्धं न न भवेत्‌ । यथा एवमेव ते तव षोडशानां कलानां एका कलातिशिष्याऽवशिष्या स्यात्‌ अभूत्‌ । तया कलया एतर्हि इदानीं वेदान्नानुभवसि । अशान भुक्ष्व ॥ 3 ॥ अथ पश्ऱ्चान्मे मम सकाशाद्विज्ञास्यसीति पितोवाच । स एवमुक्तः पुत्र आशीत्‌ भुक्तवान्‌ अथानन्तरम्‌ । एनं पितरमुपससाद समीपमगात्‌ । तं पुत्रं यत्किञ्चित्पप्रच्छ पिता तत्पृष्यं सवर्ं प्रतिपेदे ज्ञातवान्‌ पुत्रः । तं पुत्रं पितोवाच ॥ 4 ॥ यथा सोम्येत्यादि ॥ व्यक्तोर्थः । अभ्याहितस्योपचितस्य तेन समाहितत्वहेतुना । ततोपि परिशिष्यादपि ॥ 5 ॥ उपसमाहिता उपचिता । तया षोडश्या कलया । एतर्हि इदानीम्‌ । व्यतिरेकान्वयाभ्यां मनसोन्नमयत्वमुपपाद्य प्राणादेरप्येवमुपपादनं सिद्धं मत्वोषसंहरति ॥ अन्नमयं हीति ॥ तत्‌ मन आदेः
?Rअन्नाद्यंशोपचित्वं अन्नदेवताद्यधीनत्वं च । अस्य अनेन पुत्रेण । विजज्ञाविति ज्ञातमभूदिति वेदपुरुषवाक्यम्‌ । द्विरुक्तिर्विज्ञातमेवेत्यवधारणार्था । यद्वाऽस्य पितुः सकाशाद्विजज्ञौ ज्ञातवानेव श्ऱ्वेतकेतुरिति याजना ॥ 6 ॥ 7 ॥ एवं ज्ञानाधिक्येनात्मानमीश्ऱ्वरं मन्यमानस्य श्ऱ्वेतकेतोरीश्ऱ्वरस्य सर्वप्राधान्यं तस्याप्राधान्यं च प्रबोध्य तस्य सुप्त्यादावभेदशङ्कां प्रस्ताव्य तत्रापीश्ऱ्वराधीनत्वज्ञापनेन परिहरन्‌ भेदमुपदिशतीत्याह श्रुतिः ॥ उद्दालक इत्यादिना ॥ उद्दालको नामतः । अरुणस्यापत्यं आरुणिः । हे सोम्य स्वप्नस्यान्तं । सुषुप्तिम्‌ । मे मम सकाशात्‌ । विजानीहि बुध्यस्वेति पुत्रमुवाच । एतत्पुरुषः एष पुरुषः । यत्र यदा । स्वपिति निद्राति । नाम प्रसिद्धम्‌ । तदा सता सन्नाम्ना हरिणा सम्पन्नो भवति । तद्वयनक्ति ॥ स्वमिति ॥ स्वं स्वतन्त्रं हरिम्‌ । हृदब्जगमपीतः इतरैरज्ञेयत्वेनानुप्रविष्यो भवति । कुतः । हि यस्मात्स्वं स्वतन्त्रहरिमपीतः प्राप्तो भवति । तस्मादेनं स्वपितीत्याचक्षते जना इत्यर्थः । तदाह सूत्रे तदभावो नाडीषु तच्छतेरात्मनि हेति । जाग्रत्स्वप्नयोः श्रान्तो जीवः स्वप्नान्तरूपसुषुप्तौ श्रमापनोदाय भगवता स्वान्तर्निवेशितत्वात्‌ तदा केवलं ईश्ऱ्वराधीनो न स्वतन्त्र इत्युक्तम्‌ ॥ 1 ॥ ईश्ऱ्वराधीनत्वं सदृष्यान्तं व्यनक्ति ॥ स यथेति ॥ स प्रसिद्धो दृष्यान्तो यथा शकुनिः पक्षी । सूत्रेण प्रबद्धः दिशं दिशं प्रतिदिशम्‌ । पतित्वा उत्पत्य । अन्यत्र पतितदेशे । आयतनं विश्रान्तिकराश्रयम्‌ । अलब्ध्वा अप्राप्य । बन्धनमेव बध्यतेऽत्रेति बन्धनं स्वपादलग्नसूत्रबन्धनशङ्कुमेव । श्रान्तिनिवृत्त्यर्थमुपश्रयते तत्समीप एवास्ते । एवमेव खलु हे सोम्य एतन्मनः मनुते अबबुध्यते इति मनोनामैष जीवः । प्राणमेव प्रणयनहेतुना प्राणनामकं हरिमेवोपश्रयते । शिष्यं प्राग्वत्‌ । कुतः हि यस्मात्मनो जीवः । प्राणबन्धनं प्राणेन बध्यमानस्तस्मादिति । इति शब्दः सुप्तौ भगवदधीनत्वोक्तिसमाप्तौ ॥ 2 ॥ जाग्रदवस्थायामपि जीवस्येशाधीनत्वं प्रस्ताव्य बोधयति ॥ अशनायेति ॥ अशनाया भोजनेच्छा पिपासापानेच्छा । त उभे न जीवाधीने तावदतो यदधीने तद्विजानीहीति पितोवाचेत्यर्थः । कस्मिन्नायत्ते तद्विज्ञापयेति पुणिक्तः पिता वक्ति ॥ यत्रेति ॥ एतत्पुरुषः एष जीवः । यत्र यदा । अशिशिषति अशितुं भोक्तृमिच्छति तदा अप एव आप एवाबभिमानी प्राण एवान्नेच्छामुत्पाद्य पश्ऱ्चादशितं भुक्तमन्नं पाकेन तेजः संयोगेन रववीर्यादिकरणेन नयन्ते । अन्नं रसादिरूपेण प्राणः परिणयत्यसावित्युक्तेः । अशितनेतृत्वमपां कुत इत्यतोशनाया शब्दवाच्यत्वादिति सदृष्यान्तमाह ॥ तद्यथेति ॥ वक्ष्यमाणं निदर्शनं यथा गां नयतीति गोनायोश्ऱ्वं नयतीत्यश्ऱ्वनायः पुरुषं नयतीति पुरुषनायो यथा एवं तदपस्ता आपः अशं नयन्तीत्यशनायेत्याचक्षते । अबभिमानी च प्राणः तेजोमानिश्रीद्वारा भगवदधीन इति सिद्धमेवेति भावः । यत्रैतत्पुरुषः पिपासति नामेत्यादिवाक्यं यत्रैत्पुरुषोशिशिषतीति वाक्यसमाप्त्यनन्तरं ध्येयम्‌ । योजना च तद्वदेव ध्येया । तेजः तेजोमानिनी श्रीः । सदेवसोम्येत्यादिना ह रेर्जगत्कर्तत्वं न प्राधान्यात्तव तत्सृज्यत्वेनाप्रधानत्वात्तद्भिन्नस्तदधीनासीत्युक्तमर्थं तात्पर्यद्योतनाय पुनराह ॥ तत्रैतच्छुङ्गमित्यादिना ॥ तत्र भगवतो जगत्कर्तृत्वे । तेन प्राधान्ये च एतत्‌ शुङ्गं अङ्कुराख्यं कार्यं ज्ञापकमुत्पत्तितमुत्पन्नं प्राप्तमिति वा । सोम्य विजानीहीदं शुङ्गं जगद्वृक्षाङ्कुरममूलं अकारणकं न भविष्यति ॥ 3 ॥ इति हेतोस्तस्यान्नात्‌ पृथिवीमानिनः शिवादन्यत्रान्यत क्व किं मूलं स्यात्‌ । अन्नशब्दितः शिव एव भूलं कर्तेत्यर्थः । अन्नेन च शुङ्गेन कार्येणाब्रूपमूलमन्विच्छ विजानीहीति यावत्‌ ॥ 5 ॥ अद्भयः अबभिमान्प्रिाणात्तेजोरूपं भूलं श्रीतत्वमन्विच्छ । तेजसा सोम्य शुङ्गेन सच्छब्दितं मूलं कर्तृ । अन्विच्च । इमाः प्रजाः । सन्मूलाः सच्छब्दितब्रह्मकतर्ृकाः । सदायतनाः सत्स्थितिकाः । मुक्तौ सत्प्रतिष्ठाः । भगवदधीनलक्ष्म्ाद्यधीनत्वात्‌ सुतरां भगवदधीनः पुरुष इत्याह ॥ यथेति ॥ C-K-7
?Rइमाः श्रीप्राणशिवाख्याः देवताः शरीरादिकर्तृत्वाल्लक्ष्म्ाद्या ध्येयाः । तदीशितृत्वेन भगवांश्ऱ्चावश्यं मुमुक्षुणा ध्येयः । इत्यनुसन्धनकर्तव्यताज्ञापनायोक्तम्‌ ॥ तदुक्तमित्यादि ॥ पुरस्तात्पूर्वमेव तदुक्तं भवतीत्यर्थः । मृतिमुक्त्योः परम्परयेशाधीनत्वान्न त्वमीश्ऱ्वराभिन्न इत्याह ॥ अस्येत्यादिना ॥ हे सोम्य प्रयतो म्रियमाणस्य मुच्यमानस्य चास्य जीवस्य । वाक्‌ वाग्देवी उमा । मनसि मनःप्रेरके रुद्रे सम्पद्यते । मनोरुद्रश्ऱ्च प्राणे प्राणस्तेजसि श्रीतत्त्वे सम्पद्यत इत्यन्वेति । प्राणस्य तेजसि सम्पत्तिर्द्वारमात्रं न तु लय इति ज्ञेयम्‌ । तेजः श्रीतत्त्वं च । परस्यां देवतायां सम्पद्यते । पुरुषाः मृत्यादौ वाग्देवी मुमां प्राप्य ईश्ऱ्वरं प्राप्नुवन्तीत्यर्थः ॥ 6 ॥ सर्वनियामकत्वादिरूपत्वाच्चेश्ऱ्वरस्य न त्वमीश्ऱ्वरोऽसीत्याह ॥ स य इति ॥ सारत्वात्सः । नियामकत्वाद्यः । अप्रतिहतसवर्ेच्छारूपत्वादोषः । सूक्ष्मज्ञानेन मीयते विषयीक्रियत इत्यणिमा । इदं सर्वं ऐतदात्म्यम्‌ । एष आत्मा स्वीमी अस्येत्येतदात्मा । तदेवैतदात्म्यम्‌ । स्वार्थे ष्यञ्‌ । एतत्स्वामिकम्‌ । यद्वा कर्मधारयात्‌ स्वस्वामिसम्बन्धे ष्यञ्‌ प्रत्ययः । ततत्वात्तत्‌ परमानन्दरूपत्वात्सत्यम्‌ । स विष्णुरात्मा पूर्णगुणः । त्वमतदसि तद्भिन्नवस्त्वसि श्ऱ्वेतेकतो इत्युवाच पितेति योज्यम्‌ । स य इत्यादिना नियामकतया जीवेषु हरिस्तिष्ठतीत्युक्तं सता
?Rसोम्येत्यादिना सुप्तौ प्राप्य इति चोक्तम्‌ । तर्हि कुतो न दृश्यते तद्वदेति भावेनाह पुत्रः ॥ भूय एवेति ॥ तथा सोम्येति होवाच पितेत्यर्थः ॥ 7 ॥ 8 ॥ स्वस्माद्भिन्नत्वेनादर्शनान्नास्तीति शङ्कां हेतोः पुण्यरसेष्वनैकान्तिकोक्तया निराह ॥ यथेति ॥ मधुकृतो भ्रमराः मधु निस्तिष्ठन्ति निर्ममते । कथं नानात्ययानां नानागतीनामन्योन्यविलक्षणानाम्‌ । वृक्षाणां रसानां समवहारं समूहं एकतां मिश्रताम्‌ ॥ 1 ॥ यथाच ते नानावृक्षरसाः । तत्र मिश्रतायां विद्यमानमपि । विवेकमन्योन्यभेदम्‌ । न लभन्ते न जानन्ति । अमुष्याम्रवृक्षस्याहं रसोस्मि अयं त्वन्यस्येति । तथान्येपि अमुष्यपनसवृक्षस्याहं रसोस्म्ययं त्वन्यस्येति । एवमेव खलु सोम्येमाः सर्वाः प्रजाः परमेश्ऱ्वरशक्तिभिरेव स्वे स्वे शरीरे । सति सच्छब्दार्थे श्ऱ्वरे । सम्पद्य तेन मिश्रीभावं प्राप्य । सति सम्पत्स्यामहे । उपलक्षणमेतत्‌ । सम्पन्नाः सम्पद्यामह इति न विदुः ॥ 2 ॥ इह लोके । ते प्रसिद्धाः । व्याघ्रो वेत्यादि यद्यद्भवन्ति तत्तदा परमेश्ऱ्वराश्रितत्वाज्ञानापराधाद्भवन्तीति । एतेन योयमात्मनो भेदेन न पश्यति स ततो न भिद्यत इति व्याप्तेः भगो दर्शितो भवति ॥ 3 ॥ एवं व्याप्तिं निरस्य स्वतो भिन्नोन्यो नियामकोस्तीत्युक्तं सूक्तमित्याह ॥ स य इति ॥ प्रागिवार्थः ॥ 4 ॥ 9 ॥ अस्त्वचेतनानां वृक्षरसानामज्ञानं मया तु यश्ऱ्चेतनोयमात्मनो भेदेन न पश्यति स ततो न भिद्यत इति व्याप्यंशे विशेषणं दीयते । अतो न व्याप्तिभङ्ग इत्यभिप्रोण भूय एवेति पुनः पृष्ये पितोवाच ॥ इमाः सोम्येत्यादि ॥ इमाः प्रसिद्धाः । गङ्गाद्धाः नद्युभिमानिदेवताः प्राच्यः प्रागञ्चनात्‌ जमनात्‌ प्राची शब्दवाच्याः पुरस्तात्स्यन्दन्ते स्रवति । तथा प्रत्यगञ्चनात्‌ प्रतीची शब्दवाच्याः पश्ऱ्चात्स्यन्दन्ते । एवमत्यन्तविलक्षणक्षास्ताः मेघादिद्वारेण समुद्रादुत्पन्नजलत्वात्समुद्रमेवापियन्ति प्रविशन्ति । तथापि सः समुद्र एव भवति । ता नदीदेवताः । यथा तत्र समुद्रे । इयं गङ्गाहमस्मि इयं तु यमुना अयं तु समुद्र इत्येवमन्या अपि न विदुः ॥ 1 ॥ एवमेव खलु सोम्येमाः प्रजाः सतः परमेश्ऱ्वरादागम्योत्पद्यापि सत आगच्छामहे उत्पन्नाः स्म इति न विदुः । एवमीश्ऱ्वरे स्थित्वापि तमाश्रिताः स्म इति न विदुः । त इहेत्यादि पूर्ववत्‌ । अनेन चेतनत्वविशेषितस्यापि व्याप्यत्वाभिमतस्य निकान्त्यमुक्तं भवति ॥ 2 ॥ एवं सविशेषणव्याप्तिं च निरस्य स्वतो भिन्नो नियामकोन्योस्तीत्येतत्सिद्धमेवेत्याह ॥ स य इति ॥ 3 ॥ 10 ॥ अस्त्वीश्ऱ्वरः स्वतो भिन्नस्तथापि जीवस्य तदधीनत्वं कुतः । कथं चाहं जानीयामित्यभिप्रायवता पुनर्भूय एवेति पृष्यः पिताब्रवीत्‌ । अस्य सोम्येति ॥ हे सोम्य अस्य महतो वृक्षस्य यः कश्ऱ्चिन्मूले अभ्याहन्यात्‌ । जीवन्‌ जीवेन भगवताधिष्ठितश्ऱ्चेत्‌ । स्रवेत्‌ रसमेवोद्गिरेत्‌ न तु म्रियते । एवं यो मध्य इत्यादि । एवं स एष वृक्षजीवः । अनेन प्रकृतजीवेनात्मना परमेश्ऱ्वरेणानुप्रभूतः प्राप्तोऽधिष्ठितदेहः । पेपीयमानः पुनः भृशं वा पबन्‌ तिष्ठति ॥ 1 ॥ अवयमुक्त्वा व्यतिरेकमाह ॥ अस्येति ॥ अस्य वृक्षस्य । यदा एकां शाखाम्‌ । जीवो हरिः । जहाति त्यजति । अथानन्तरम्‌ । सा शाखा शुष्यति । यदि द्वितीयाम्‌ । शाखामित्यनुषङ्गः ॥ 2 ॥ एवमेव खलु सोम्य विद्धीत्युक्तं विशदयति ॥ जवापेतमिति ॥ जीवेन हरिणाऽपेतं त्यक्तमिदं प्राणिजातं म्रियते । न जीवो हरिः म्रियते । अनेनेदुमुक्तं भवति । यथा वृक्षजीवस्य सदानुपहतात्यक्तदेहेन सुखिनैव स्थातव्यमितीच्छायामपि कदाचिदीश्ऱ्वरानुग्रहे सति विघातिषु बाह्यकारणषषु सत्स्वप्यवस्थानं भवति । कदाचिदीश्ऱ्वरानुग्रहाभावे बाह्यमारणबलवत्त्वाभावेपि शरीरशोषत्यागाद्यनिष्यं भवति । एवं मानुषशरीरेपि । जीवस्येशधीनत्वं ज्ञातव्यमिति । एवं स्वतोन्यं जीवनियन्तारं वृक्षद्रष्यान्तेन विज्ञाप्य स य इत्यादिना यत्प्रागुक्तं तत्सुस्थमित्याह ॥ स य इति ॥ 3 ॥ 11 ॥ एवं जीवस्य सत्तादिप्रदः परमात्मैव शरीरे वर्तमानोपि जीवे न कुतो न दृश्यते । सौक्ष्म्ादिति चेन्न । वालाग्रशरभागस्यापि जीवत्मनः स्वस्य सूक्ष्मस्य दर्शनादिति भावेन । भूय एवेति पृष्यः पितोवाच ॥ न्यग्रोधेति ॥ अतः पुरः स्थिताद्वृक्षात्‌ न्यग्रोधफलं वटफलमाहरेत्युवाच पिता । आहृत्येदं न्यग्रोधफलमाहृतं भगव इति पुत्र उवाच । इदं फलं भिन्धीति पिता । तद्भित्त्वा भिन्नं फलमिति पुत्रः । अत्र भिन्ने फले । किं पश्यसीति पिता । अण्व्य इवेमाः सूक्ष्मा दाना बीजानि पश्यामीति पुत्रः । हे अङ्ग आसां धानानां मध्ये । एकां धानाम्‌ । भिन्धीति पिता । भित्त्वा भिन्नेति पुत्रः अत्र भिन्नायां दानायाम्‌ । किं पश्यसीति पिता । किञ्चन न पश्यामीति पुत्रः ॥ 1 ॥ एवमुक्तव्तमुवाच पिता । यमेतमणिमानं भावभवित्रोरभेदात्परमसूक्ष्मं परमात्मानम्‌ । न निफालयसे न पश्यसि । अस्याणिम्नः सूक्ष्म भगवतः सामर्थ्यात्‌ । एवं परिदृश्यमानप्रकारेण । महान्न्यग्रोधस्तिष्ठति । श्रद्धत्स्व विश्ऱ्वासं कुरु । सोम्येति पिता । अत्र वृक्षः प्रपञ्चः । फलं शरीरम्‌ । धानाः जीवाः । तत्र यथा सूक्ष्मे वटबीजे दृश्यमानेपि यत्प्रभावाद्वृक्षावस्थानं स बीजान्तर्गतो हरिः परमसूक्ष्मत्वान्न दृश्यते । तथा जीवादपि सूक्ष्मत्वात्तदन्तर्गत इत्युक्तं भवति । अतो यदुक्तं नियन्तान्योस्तीति तत्सुस्थमित्याह ॥ 2 ॥ स य इति ॥ 3 ॥ 12 ॥ वटावस्थानादिकार्येणेश्ऱ्वरसामर्थ्ये दृश्यमानेपि तस्यादर्शनमित्येतत्कथमहं जानीयामिति भावेन भूय एवेति प्रार्थितः पितोवाच ॥ लवणमित्यादि ॥ एतल्लवणखण्डं कुम्भोदके दाषा रात्रौ अवधाय निक्षिप्याथान्तरं प्रातः मा माम्‌ ।
?Rउपसीदथाः प्राप्नुयाः । इत्युवाच पितेत्यर्थः । यत्‌ यथा पित्रोक्तं तत्‌ तथा चकार ह पुत्रः । तं प्रातः समीपमागतं पुत्रमुवाच ह पिता । किमिति । दोषा रात्रौ यल्लवणमुदकेऽवधाः अवाधाः निक्षिप्तवानासि हे अङ्ग तदाहरेति । तृत्कुम्भमानीय तन्मध्ये हस्तं स्थापयित्वा । अवमृश्य परामृश्य न विवेद नापश्यत्‌ । विलीनमेव अत्यन्तं नष्यं वस्तु यथा न दृश्यते तथा न विवेदेत्यन्वयः ॥ 1 ॥ हे अङ्ग अस्योदकस्यान्तात्‌ पूर्वदिगवस्थितादवयवादुद्धृत्यैकदेशमाचामेति पिता । आचान्तवन्तं पुत्रं प्रति कथमिति पप्रच्छ । लवणं लवणरसोपेतमिति पुत्रोऽब्रवीत्‌ । एवं मध्यान्मध्यभागादन्त्यत्पश्ऱ्चिमदिगवस्थिताच्चोद्धृत्याचामेत्यादिप्रश्ऱ्नप्रतिवचने ध्येयम्‌ । एतदुदकमभिप्रास्य निरवास्य । मामुपसीदथाः इति पिता । तद्ध तथा चकार पुत्रः । तल्लवणं कुत्र गतमिति जिज्ञासायां वेदपुरुषः स्वयमाह ॥ तदिति ॥ तल्लवणं शश्ऱ्वत्‌ साकल्येनोदक एव संवर्तते । नापगतमिति । तत्त्वनिर्णयटीकायां तु तद्ध तता चकारेति वाक्यं शश्ऱ्वत्‌ अङ्गतदाहरेत्यनन्तरं संवर्तते । अनुवर्तनीयमिति वार्थ इत्युक्तम्‌ । तं होवाच पिता ॥ अत्र वावेति ॥ एतमणिमानं सूक्ष्मलवणं यत्र न निफालयसे तल्लवणमत्रैवोदके सत्‌ विद्यमानं किल । अत्रैव किलेति पुनरुक्तिरादरार्था । अनेन लवणगुणे रसेदृश्यमानेपि लवणं न दृश्यते तथा हरेः सामर्थ्ये दृश्यमानेपि न भगवानित्युक्तं भवति ॥ 2 ॥ एवं पुत्रशंकितानुपपत्तिं परिहृत्य त्वदन्यो नियामकतोस्तीत्युक्तं सूक्तमित्याह ॥ स य इति ॥ एवं भूतो हरिरविद्यापटलपिहितनयनेन कथं दृश्यते प्राप्यते चेति तमुपायं वक्तुं प्रार्थयते ॥ भूय एवेति ॥ 3 ॥ 13 ॥ गुरूपदेशस्तद्दर्शनप्राप्त्योः हेतुरिति दृष्यान्तमाह पिता ॥ यथा सोम्येति ॥ हे सोम्य पुरुषं धनिकम्‌ । गन्धारसंज्ञकेभ्यो जनपदेभ्यः अभिनद्धाक्षं नह बन्धने बद्धाक्षम्‌ । अक्षिणी बद्धेति यावत्‌ । ततोनन्तरं अनीय अतिजने जनरहिते । अरण्ये विसृजेच्चोरः । स यथा तत्रारण्ये । अभिनद्धाक्ष आनीतोभिनद्धाक्षो विसृष्य इति प्राङ्‌वोदङ्‌वाधराङ्‌वा प्रागादिदिगभिमुखो भूत्वेति यावत्‌ । प्राध्मायीत । ध्मा शब्दाग्निसंयोगयोः । उच्चैर्ब्रूयात्‌ ॥ 1 ॥ यथा कश्ऱ्चित्कृपावान्‌ स एवमुक्तः पुरुषः तदुदिष्यात्‌ ग्रामान्निर्गत्यापरं ग्रामं पृच्छन्‌ । पण्डितः प्राज्ञः । मेधावी स्मृतिमान्‌ । गान्धरानेवोपसम्पद्येत एवमेवानाद्यविद्यादिभिराच्छादितनिजज्ञानः जीवः संसारे पतितः परमेश्ऱ्वराज्जातजिज्ञासो गुरूपदेशं लब्ध्वा क्रमापन्नानि श्रवणादीनि साधनान्यनुष्ठाय स्वजन्मभूमिं भगवन्तं पश्यतीति भावेनोक्तमाचार्यवान्‌ पुरुषो वेदेति । तस्य भगवद्वेदिनः । यावन्न विमोक्ष्ये प्रारब्धकर्मणो न विमोक्ष्यते । तावदेव चिरं विलम्बो ब्रह्मप्राप्तौ । अथ भोगेन प्रारब्धक्षयानन्तरम्‌ । सम्पत्स्यते ब्रह्म प्राप्नोति चेति ॥ 2 ॥ दर्शनादिप्राप्तिहेततुमुक्त्वा प्रगुक्तं नियामकाद्धरेः भिन्नो जीव इति सुस्थमित्याह ॥ स य इति ॥ जीवस्यास्वातन्त्ऱ्यं वृक्षदेहे अवगतं मानुषदेह एव बोधयेति प्रार्थयते ॥ भूय एवेति ॥ 3 ॥ 14 ॥ तत्पृष्यमन्वयव्यतिरेकाभ्यां बोधयति ॥ पुरुषमिति ॥ हे सोम्य उपतापिनं रोगिणम्‌ । ज्ञातयः बान्धवाः । पर्युपासते परित उपविंशति । कथम्‌ । जानासि मां जानासि मामिति वदन्तः । तस्योपतापिनः । यावत्‌ वाक्‌ उमा । मनसि रुद्रे । न सम्पद्यते मुक्तव्यापारा सती न रुद्रे तिष्ठतीति यावत्‌ । एवमग्रऽपि । मनः रुद्रः । प्राणे न सम्पद्यते । प्राणस्जसि श्रीतत्वे न सम्पद्यते । तेजः परस्यां देवतायाम्‌ । न सम्पद्यते तावज्जानाति ॥ 1 ॥ अथ अर्थान्तरम्‌ । यदास्योपतापिनः । अथ तदा । न जानाति ॥ 2 ॥ एवं जीवस्य मानुषदेहेपि परम्परया ईशाधीनत्वं स्पष्यं प्रबोध्य यदुक्तं नियम्याद्भिन्नत्वं तस्य स य इत्यादिना तत्सुस्थमित्याह ॥ स य इत्यादिना ॥ एवं सर्वप्रेरकं भगवन्तमात्मनो भेदेन यो जानाति । यश्ऱ्च सोहमस्मीत्यभेदेन जानाति तयोः कीदृशं फलमिति भावेनाह ॥ भूय एवेति ॥ 3 ॥ 14 ॥ द्वयोरपि फलं दृष्यान्तेनाह ॥ पुरुषमिति ॥ राजद्रव्येऽपगते शङ्कास्पदं पुरुषमानयन्ति राजभटाः । कथमयमपहार्षीत्‌ स्तेयमकार्षीदिति वन्दन्त इति शेषः । पश्यतो हर त्वमपहारोन्यत्स्तेयम्‌ । ततश्ऱ्चोरेणेदं मया न कृतमित्युक्ते भटान्‌ प्रति राजा वक्ति । परशुमस्मै अस्य परीक्षार्थं तपतेति । परशुं तप्तमस्य हस्ते दत्तेति यावत्‌ । स पुरुषो यदि तस्यापहारादेः कर्ता भवति नेति च ब्रूते । तत एव कर्ता सन्नपि नेति वदतीति हेतोरेवात्मानमनृतमसत्यं कुरुते । सोनृताभिसन्घः अनृते अभिसन्धो बुद्धिर्यस्य सोनृताभिसन्धः । अनृतेनासत्यवचनेनात्मानमन्तर्धायाच्छाद्य । तप्तं परशुं प्रतिगृह्णाति स दह्यते । अथानन्तरम्‌ । स हन्यते राजभटैः ॥ 1 ॥ अथ यदि तस्येत्यादि व्यक्तम्‌ । स यथा तत्र न दह्यते एवमेव भगवतः भेदज्ञानी न दह्यते । न हन्यते मुच्यते चेत्यर्थः ॥ 2 ॥ तथाऽभेदज्ञानी च चारेत्वादेव दह्यते हन्यते अन्धे तमसि पात्यते । तथाच प्रागुक्तं सुस्थमित्याह ॥ स य इति ॥ अस्य पितुः सकाशात्तत्पित्रोक्तं सर्वं विजज्ञौ ज्ञातवान्‌ पुत्र इति श्रुतिवाक्यम्‌ । द्विरुक्तिरवधारणार्था ॥ 3 ॥ 16 ॥

इति श्रीमच्छन्दोग्योपनिषदर्थसङ्ग्रहे राघवेन्द्रयतिकृते षष्ठोऽध्यायः ॥ 6

****************************************************************************

सप्तमोऽध्यायः

?Rपूर्वाध्याये प्रज्ञाधिक्ये नात्मानमीश्ऱ्वरं मन्यमानं श्ऱ्वेतकेतुं प्रति भेददृष्यान्तैर्भेदज्ञानपूर्वमीश्ऱ्वरोपासना कार्येत्युक्तम्‌ । अत्र
?Rपुनरध्याये तारतम्यज्ञानपूर्वं तदन्तर्गतत्वेनोपासितो हरिर्मोक्षादिसर्वपुमर्थप्रद इत्यतो देवानां तारतम्यमाह ॥ अधीहीत्यादिना ॥ नारदः । हे भगवः भगवन्‌ । अधीहि मामध्यापयेति ब्रुवन्‌ । सनत्कुमारमुपससाद उपसत्तिमगात्‌ । तं नारदमुवाच ह सनत्कुमारः । किमिति । अज्ञातांशस्यैवोपदेष्यव्यत्वात्‌ ज्ञातं भागं वदेत्युवाचेत्याह ॥ यद्वेथेति ॥ तेन वेदितकथनेन । मामुपासीद । ततः ज्ञातात्‌ ऊर्ध्वं अज्ञातंशं वक्ष्यामीत्युवाचेत्यन्वयः । स इत्युक्तो नारदः उवाच ह । तदाह ॥ ऋग्वेदमिति ॥ हे भगवः भगवन्‌ सनत्कुमार इतिहासपुराणमिति द्वन्द्वैकवद्भावः । वेदानां ऋगादीनाम्‌ । पञ्चमं पञ्चत्वसङ्खयापूरकम्‌ । इतिहासपुराणरूपं वेदम्‌ । अध्येमीति सर्वत्रान्वेति । पित्ऱ्यं पितृलक्षणोक्तिपरग्रन्थम्‌ । रांशि गणनशास्त्रम्‌ । देवलक्षणपरं दैवम्‌ । निधिं निक्षेप एतादृशे स्थले तिष्ठतीति तच्चिह्नोपदर्शनपरं शास्त्रम्‌ । वाको वाक्यं मूलवेदम्‌ । एकायनं वेदसारसङ्ग्रहशब्दितं पञ्चरात्रम्‌ । समयपादान्त्यनयसुधायामेकायनं पञ्चरात्रमित्युक्तेः । देवैः ज्ञेया विद्या देवविद्या ताम्‌ । ब्रह्मविद्यां आरण्यकम्‌ । भूतचिह्नपरं शास्त्रं भूतविद्यां क्षत्रविद्यां नीतिशास्त्रम्‌ । नक्षत्रविद्यां ज्योतिःशास्त्रम्‌ । सर्पलक्षणशास्त्रं सर्पविद्यां । देव
जनविद्यां देवपरिवारप्रतिपादकं शास्त्रम्‌ । एतद्विद्याजातमध्येमि ॥ 2 ॥ किं तर्हि त्वया ज्ञातव्यमित्यत आह ॥ स इति ॥ एतावदध्येताप्यहं हे भगवः मन्त्रविदेव निर्णेतव्यभगवद्गुणप्रतिपादकशब्दराशिज्ञ एवास्मि । नात्मवित्‌ निर्णायकोपक्रमादिन्यायैः ऋगादिशब्दराशेरर्थं निर्णीयात्मशब्दितभगवन्तं न ज्ञातवान्‌ । किमात्मवेदनेन कृत्यमित्यत आह ॥ श्रुतं हीति ॥ भगवद्दृशेभ्यः । महानुभावेभ्यः । आत्मविदेवशोकं तरतीति मे मया श्रुतं हि । यमोऽतः हे भगवः । शोचामि दुःखमनुभवामि । तं तादृशं मां भगवान्‌ पूज्यो भगवान्‌ शोकस्य पारं तारयत्वित्युवाच नारद इत्यन्वयः । तमेवं वक्तारं नारदमुवाच कुमारः । किन्तदित्यत आह ॥ यदिति ॥ हे नारद त्वं यत्किञ्चिदृगादिकमध्यगीष्ठाः अधीतवानभूः । एतद्‌ग्रन्थजातं नामैव भगवद्‌गुणराशिप्रतिपादकनामधेयमेव वै प्रसिद्धम्‌ ॥ 3 ॥ तत्किमित्यतः प्रागुक्तं सर्वमनुवदति ॥ नाम वा ऋग्वेद इति ॥ नाम वा इति पदं सर्वत्रान्वेति । भगवन्नामत्वं दृढीकर्तुमन्तेप्यवधारयति ॥ नामैवैतदिति ॥ तदाह सूत्रे । संज्ञातश्ऱ्चेत्तदुक्तमस्ति तु तदपीति । यद्वा एतत्‌ नामैव अमेया । अज्ञेया न भवति । किं तूषःकालमानित्वादुषसि ज्ञायत इति नामाख्यया । उषोदेव्याऽभिमन्यमानमेतत्‌ गन्थजातमित्यर्थः । तर्हि किं कार्यमित्यत आह ॥ नामेति ॥ नाम्नि उषोदेव्यां ब्रह्मास्तीत्युपास्स्व । इति तमुवाचेत्यन्वयः । तदाह सूत्रे न प्रतीके न हि स इति ॥ 4 ॥ फलमाह ॥ स य इति ॥ स प्रसिद्धो योऽधिकारी । नामब्रह्मेति नाम्नि ब्रह्मास्तीत्युपास्ते । अस्योपासकस्य । यावन्नाम्नः उषोदेव्याः । गतं व्याप्तिः । तत्र तावति देशे । यथा कामचारो भवति । यो नामेति पुनरुक्तिरादरार्था । नाम्नो नाममानन्या उषसः सकाशात्‌ । भूयः श्रेष्ठम्‌ । वस्त्वस्ति किमिति प्रश्ऱ्नस्योत्तरमाह कुमारः ॥ नम्नो वावेति ॥ तन्मे ब्रवीत्विति नारदः । अत्र नाम्नः पूर्वम्‌ । कर्मभूमिमानिनौ क्रमान्नीचोच्चौ पुष्करशनैश्ऱ्चरौ ग्राह्यौ ॥ 5 ॥ 1 ॥ वाग्वाव वागभिमानिनी स्वाहा देव्येव । नाम्नो नामाभिमानिन्या अश्ऱ्विपत्न्नयाः उषोदेव्याः । भूयसी । धर्मज्ञानादिसर्वगुणैः श्रेष्ठा । सा चाग्निभार्या । वं वसुं अञ्चति गच्छतीति वसुनामकाग्न्यञ्चन हेतुना वागित्युक्ता । वाग्देव्या माहात्म्यमाह ॥ वाग्वा इति ॥ वाग्देवी स्वाहाख्या ऋग्वेदं विज्ञापयति वै । वागिन्द्रियदेवताप्रसेदेन हि गुरूच्चारणानूच्चारणादिना ऋग्वेदादिकं जानाति जीव इत्यर्थः । श्ऱ्वापदानि आरण्यजन्तुविशेषः । आकीटपतङ्गपिपीलिकं कीटपतङ्गपिपीलिकापर्यन्तम्‌ । हृदयज्ञं हृद्ययते वर्तत इति हृदयं ब्रह्म तज्जानातीति तज्ज्ञं भगवत्तत्त्वज्ञम्‌ । अहृदयज्ञं ब्रह्मेतरवस्तुज्ञं च वाग्विज्ञापयतीति सर्वत्रान्वेति । अन्वयमुक्त्वा व्यतिरेकमाह ॥ यद्वै वाङ्‌नाभविष्यदिति ॥ यत्‌ यदि । वाङ्‌नामविष्यत्‌ तर्हि धर्मादि कोपि न व्यज्ञापयति विज्ञातो न भवेत्‌ । व्यज्ञापयिष्यदिति न सत्यमित्यादौ सर्वत्रान्वेति । निर्धारयति ॥ वागेवेति ॥ वाचमुपास्स्वेति द्वितीया सप्तम्यर्थे । वाचि वाग्देव्यां ब्रह्मास्तीत्युपास्स्येत्यर्थः ॥ 1 ॥ स य इत्यादि प्राग्वत्‌ । अत्र नाम्नः उच्चः वाचो नीचो जलमानी बुधो मध्ये ग्राह्यः॥ 2 ॥ 2 ॥ वृष्ययादिनाङ्कुरादिनिर्माणहेतुना मनः शब्दोक्तः पर्जन्यः वाचो वाग्देव्याः स्वाहातः भूयो वाव प्रसिद्धम्‌ । मनसो भूयस्त्वं दृष्यान्तपूर्वं ॥ यथेति ॥ द्वे आमलके धात्रफिले द्वे वा काले क्रमुकफले । द्वौ वा अक्षौ विभीतकाक्षौ । मुष्यिरनुभवति स्वान्तर्भावयति यथा । एवं वाचं वाग्देवीं नाम च नामदेवीं उषसम्‌ । मनो मनः शब्दितः पर्जन्यः । अनुभवति । स्वसामर्थ्ये अन्तर्भावयति । स्वाधीनतया करोतीति यावत्‌ । स मनस्वीपुमान्‌ । मनसा मनस्यति आलोचयति । किमिति मन्त्रानधीयीयेति मन्त्राध्‌ययनं करवाणीति । अथानन्तरमधीते । मनसा मनस्यतीत्येतत्‌ कर्माणि कुर्वीयेत्याद्युत्तरवाक्यत्रयेप्यन्वेति । आत्मनो मनोधीनप्रवृत्तिकत्वान्मनो ह्यात्मा । उक्तदिशा मनोधीनत्वान्मनो हि लोकः । मनो ब्रह्म । मनसि सान्निध्यविशेषात्‌ मन उपास्स्व मनसि पर्जन्ये ब्रह्मास्त्युपास्स्वेत्यर्थः ॥ 1 ॥ स य इत्यादि प्राग्वत्‌ । मनसोगतं पर्जन्यस्य यावद्देशे व्याप्तिरित्यर्थः । अत्र पर्जन्यवाचकमनःशब्देन वरुणानी संज्ञा रोहिणी धार्मी विराट्‌ चेति
?Rतत्समानाः पञ्च देव्यो ग्राह्याः ॥ 2 ॥ 3 ॥ सङ्कल्प इति ॥ अह्नि सङ्कल्पहेतुतया सङ्कल्पनामा मित्रदेवः मनसः मनःशब्दोपात्तपर्जन्यात्तत्समेभ्यश्ऱ्चेत्यर्थः । एतच्चोपलक्षणम्‌ । रैवतप्रभृत्येकादशमनुच्यवनोचथ्यवैन्यशशबिन्दुहैहयप्रियव्रतगयानुक्तशतस्थदेवादयश्ऱ्च पर्जन्यादिभ्यः षड्‌भ्यो भूयांसः । तेभ्यश्ऱ्चाश्ऱ्विविघ्नेशवित्तपविष्वक्‌ सेनाः भूयांसस्तेभ्यस्सङ्कल्पनामा मित्रः भूयानित्यर्थः । सङ्कल्पशब्दितमित्रग्रहणेन च निर्ऋतिः बृहस्पतिभार्या तारा प्रावही चेति तिस्रो देवतास्तत्समाना ग्राह्याः । यदा पुमान्‌ सङ्कल्पाख्यमित्रेण प्रेरितः सङ्कल्पयते मननादिकं करोमीति सङ्कल्पं करोति । अथानन्तरं मनस्यति मनः प्रेरयति । अथानन्तरम्‌ । वाचं वागिन्द्रियमीरयति सव्यापारं करोति । तां नाम्नि भगवन्नामभूते शब्दराशिविषये । ईरयति प्रेरयति । भगवन्नामभूतशब्दराशिमुच्चारयति । नाम्नि शब्दराशौ । मन्त्रा एकं भवन्ति । अन्तर्भवन्ति एकाथर्का भवन्ति । मन्त्रेषु कर्माणि एकं भवन्तीत्यनुषङ्गः । तत्र प्रतिपाद्यानि भवन्तीत्यर्थः ॥ 1 ॥ तानि ह वा एतानि मनोवाङ्‌नाममन्त्रकर्माणि तदभिमानिनः पर्जन्यादयश्ऱ्च । प्रागुक्ताः सङ्कल्पैकायनानि सङ्कल्पाख्यमित्राधीनानि । अत एव सङ्कल्पात्मकानि । मित्रात्मकानि वोच्यन्ते सङ्कल्पे मित्रे प्रतिष्ठितानि मुक्तौ । मुक्तावपि तदधीनानीति यावत्‌ । न केवलमेतावत्‌ सङ्कल्पादेव च द्यावाभूम्याद्युत्पत्तिरपीत्याह ॥ समक्लृपतामिति ॥ समकल्पेतां अजायेतामित्यर्थः । समकल्पन्त अजायन्त । तेषां द्यावापृथिव्यादीनाम्‌ । सङ्‌क्लृप्त्यै सङ्‌क्तलृप्त्या एव । एवमग्रेऽपि । सङ्कल्पते उत्पद्यते । प्राणाः सङ्कल्पन्ते उपचीयन्ते । अत्र द्यावापृथिव्यादयो जडाश्ऱ्चेतनाश्ऱ्च । जडानां सङ्‌क्लृप्तिः सङ्कल्पाख्यमित्रात्‌ चेतनानां सङ्‌क्लृप्तिः वाय्वादित इति विवेकः । उपसंहरति ॥ स इति ॥ स सङ्कल्पो मित्रः । एष एतादृश इत्यर्थः । सङ्कल्पमुपास्स्व । मित्रेतत्समानेषु च । ब्रह्मोपास्स्वेत्यर्थः ॥ 2 ॥ क्लप्तान्‌ सङ्कल्पाधिष्ठितात्‌ । ध्रुवान्‌ प्रतिष्ठितान्‌ । अव्यथमानान्‌ व्यथाशून्यान्‌ । लोकान्‌ ध्रुवः प्रतिष्ठितो व्यथमानः अभिसिध्यति । प्रापनोति । सङ्कल्पस्य मित्रस्य । यावद्गतं यावती व्याप्तिः । सङ्कल्पात्‌ मित्रात्‌ । तत्समानदेवेभ्यश्ऱ्च भूयोस्ति किमित्यर्थः ॥ 3 ॥ 4 ॥ चित्तं अस्थिरस्मृतिरूपचित्तमानी होमकुण्डे चितत्वहेतुना चित्तनामाग्निः तत्समानौ भृगु(दक्षप्रजापतिभार्या( प्रसूती चेति देवतात्रयं सङ्कल्पात्‌ मित्रात्‌ । तत्समेभ्यो निर्ऋतिताराप्रावहीरूपदेवेभ्यश्ऱ्च भूयः श्रेष्ठम्‌ । उपलक्षणमेतत्‌ । मरीच्यत्ऱ्यङ्गिरःपुलस्त्यपुलहक्रतुवसिष्ठविश्ऱ्वामित्रवैवस्वतमनुभ्यो मित्रादिदेवचतुष्ययादुत्तमेभ्योपि भूय इति ज्ञेयम्‌ । वावेत्यवधारणे । यदा पुमान्‌ चित्तमानिप्रेरितश्ऱ्चेतयते कर्तव्याकर्तव्यं जानाति । अथानन्तरं सङ्कल्पयते इदं कर्म करोमीत्यादि रूपेण सङ्कल्पं मनोवृत्तिविशेषं करोति । अथ मनस्यति मनः प्रेरयति । शिष्यं प्राग्वत्‌ ॥ 1 ॥ तानि ह वा एतानि चेतनाचेतनरूपसङ्कल्पादीनि । चित्तैकायनानि अग्निभृगुप्रसूतिरूपदेवतात्रयाधीनानि । चित्तात्मकानि चित्तप्रधानानि तस्मात्सङ्कल्पादेश्ऱ्चित्ताधीनत्वात्‌ । यत यदि । बहुविदपि बहुज्ञोपि । अचित्तः स्मरणहीनश्ऱ्चेत्‌ भवति । एनमनुभूतमस्मरन्तं पुरुषम्‌ । अयं नास्तीत्याहुः । अविद्यमानप्रायमेवाहुर्जनाः । पुनर्जनोक्तिप्रकारमाह ॥ यदिति ॥ यत्‌ यदि । अयं वेद सामान्यतो जानाति । यदि वा विद्वान्विशेषतो जानीयात्‌ । तर्हि इत्थमचित्तः स्मरणहीनः न स्यादिति चाहुरित्यर्थः । अथेत्यर्थान्तरे । यद्यल्पाविदपि चित्तवान्‌ स्मृतिवान्‌ भवति । तस्मात्‌ पुरुषात्‌ । एतत्‌ स्वस्वाभिमतं प्रमेयम्‌ । शुश्रूषन्ते श्रोतुमिच्छन्ति जनाः । चित्तं ह्येकायनं चित्तमानित्रयं मुख्याश्रयः । सङ्कल्पमनःप्रभृतेरित्यर्थः । चित्ताधीनसङ्कल्पादिमत्त्वादात्मा चेतनश्ऱ्चित्तमित्युच्यते । चित्तं प्रतिष्ठा मुक्तावाश्रयः । चित्तमुपास्स्वेति अग्न्यादित्रये ब्रह्मोपास्स्वेत्यथः ॥ 2 ॥ चित्तान्‌ लोकानग्न्याद्यधिष्ठितान्‌ लोकान्‌ । शिष्यं व्यक्तम्‌ ॥ चित्ताद्वा वेति ॥ अग्निभृगुप्रसूतिभ्यः भूयोस्ति किमित्यर्थः ॥ 3 ॥ 5 ॥ ध्यानमिति ॥ ध्यानमानी । सत्यानृतविवेचनार्थं ब्रह्मणा निहितत्वहेतुना ध्याननामा वरुणः । चित्तात्‌ चित्तशब्दिताग्निभृगुप्रसूतिरूपदेवतात्रयात्‌ । भूयः श्रेष्ठः । उपलक्षणमिदम्‌ । अग्न्यादित्रयादुत्तमान्नारादाद्भूय इति ज्ञेयम्‌ । ध्यानात्मनो वरुणस्य महिमानमाह ॥ ध्यायतीवेति ॥ पृथिव्यादयः सर्वे चेतनाः ध्ययन्तीव भगवद्धयानपरा एव तिष्ठन्ति । ध्यानस्य भूयस्त्वादेवेति भावः । इव शब्दो स्वातन्त्ऱ्यद्योतकः । न बहुभाषिण इति वा । एके तु पृथिव्यादो जडाः । निश्ऱ्चलत्वात्‌ ध्यायन्तीवेत्यर्थ इत्याहुः । मनुष्यतां प्राप्ता देवा देवमनुष्याः । ते ध्ययन्तीव न बहुभाषिण इत्यर्थः । तस्मात्‌ ध्यानस्य भूयस्त्वादेव । इह लोके । ये जनाः । मनुष्याणां मध्ये महत्तां ज्ञानबलैश्ऱ्वर्यादिभिः महत्त्वम्‌ । प्राप्नुवन्ति ते जनाः । ध्यनापादांश इव ध्यानस्य आपाद्यत इत्यापादः ध्यानसम्पद्यफलम्‌ । तस्यांशः । ध्यानापास्यांशो यषान्ते । ध्यानापादांशा इति व्यधिकरणबहुव्रीहिः । ध्यानापादांश एषामस्तीति ध्यानापादंशा इति अर्श आद्यच्प्रत्ययान्तो वा । इव शब्दोऽस्वातन्त्ऱ्यद्योतकः । इदानीं जनेषु दृश्यमानमहत्त्वं पूर्वकृतध्यानजन्यफलैकदेश इत्यर्थः । साधनेफले च भगवानेव
?Rस्वतन्त्र इति भावः । अथ ये अल्पाः ज्ञानबलैश्ऱ्वर्यादिहीनतया वर्तन्ते । ते कलहिनः कलहवन्तः । पिशुनाः राजादौ परवित्तादिवाचकाः । उपवादिनः परदोषानुवादकाः भवन्तीत्यर्थः । न तु ध्यानलेशभागिन इति भावः। अथ ये प्रभवः प्रबुभूषवः । भूतिमन्तो भवामेतीच्छवः ते ध्यानापादांश इवैव भवन्ति । ध्यानानुष्ठेनेन तज्जन्यफलैकदेशभागिनो भवन्तीत्यर्थः । एवं ध्यानमहात्म्यमुक्त्वा कर्तव्यमाह ॥ ध्यानमिति ॥ ध्यानमानिनि वरुणे ब्रह्मोपास्स्वेत्यर्थः ॥ 1 ॥ यावद्धयानस्येति ॥ ध्यानमानिनो वरुणस्येत्यथर्ः ॥ 2 ॥ 6 ॥ विज्ञानमिति ॥ विज्ञानमानी सत्यस्य विवेचनहेतुना विज्ञाननामा चन्द्रः । तत्समौसूर्ययमौ स्वायम्भविमनुपत्नी शतरूपा चेति तिस्रो देवताश्ऱ्च ग्राह्याः । विज्ञानादिचतुष्ययं ध्यानाद्वरुणाद्भूयः । तस्य महिमानमाह ॥ विज्ञानेनेति ॥ शिष्यं प्राग्वत्‌ । हृदयं भगवन्तम्‌ । अहृदयं भगवतोन्यत्‌ । विज्ञानमुपास्स्वेति । विज्ञानशब्दितचन्द्रादिचतुष्यये ब्रह्मोपास्स्वेत्यर्थः ॥ 1 ॥ विज्ञानवतः चन्द्राद्यधिष्ठितलोकान्‌ ॥ विज्ञानादिति ॥ विज्ञानशब्दितचन्द्रसूर्यधर्मशतरूपाख्यदेवता चतुष्ययाद्भूयोस्ति किमित्यर्थः ॥ 2 ॥ 7 ॥ बलमिति ॥ बलं द्विविधम्‌ । युक्तिजन्यनिर्णयवत्त्वरूपमान्तरं बलम्‌ । देहदार्ढ्यादिरूपं बाह्यबलं चेति । तद्विविधबलमानी बलनामा भूतवायुः प्रवहः । विज्ञानात्‌ विज्ञानशब्दितचन्द्रादिचतुष्ययात्‌ भूयः । भूयस्त्वं व्यनक्ति ॥ अपीति ॥ विज्ञानवतां शतमप्येको युक्तिजन्यनिर्णयरूपान्तरबलवान्‌ आकम्पयते कम्पमानं करोति । स पुमान्‌ यदा बली युक्तिज्ञतारूपान्तरबलवान्‌ । अथ तदा । संसारादुत्थाता उद्गतो भवति । यदि देहादिबाह्यबलवान्‌ तर्हि कर्मकरणशद्यर्थं उत्थितो भवति । उत्तिष्ठन्‌ उ एव । परिचरिता गुर्वादिपरिचर्यकर्ता भवति । परिचरंश्ऱ्च उपसत्ता । तृजन्तोयं उपसत्तिकर्ता भवति । उपसीदंश्ऱ्च तेभ्यः भगवन्तं श्रोता मन्ता बोद्धा भवतीति यथायोगं पौर्वापर्येण योजना । कर्ता वर्णाश्रमोचितधर्माद्यनुष्ठाता । तेन च विज्ञाता विशेषज्ञाता भवति । बलमानिनो महिमान्तरमाह ॥ बलेनेति ॥ बलशब्दित भूतवायुमानिना । तदभिमन्यमानस्वबलेनेति वा । प्रवहेण पृथिव्यादयस्तिष्ठन्तीत्यर्थः । देवा मनुष्यतांप्राप्ताः देवमनुष्याः ॥ अकीटेति ॥ कीटपतङ्गपिपीलिकापर्यन्तं तिष्ठन्तीति यथायोगं विभक्तिविपरिणामेन सर्वत्रान्वेति ॥ बलमिति ॥ बलमानिनि प्रवहे ब्रह्मोपास्स्वेत्यर्थः ॥ 1 ॥ बलस्य बलमानिनः प्रवहस्य ॥ 2 ॥ 8 ॥ अन्नमिति ॥ C-K-8
?Rएतपि ज्ञानज्यरतिरूपमान्तरमन्नं प्रसिद्धं बाह्यमन्नं चति द्विविधम्‌ । द्विविधान्नमानी अनुनादित्वहेतुनाऽन्ननामा अनिरुद्धः । बलात्‌ द्विविधबलात्प्रवहात्‌ भूयः श्रेष्ठः । तत्र युक्तिज्ञत्वरूपान्तरबलमानिरूपादान्तरान्नमान्यनिरुद्धरूपं भूयः । देहदार्ढ्यादिरूपबाह्यबलरूपाद्बाह्यान्नं भूय इति विवेकः । एतच्चोपलक्षणम्‌ । अनिरुद्धसमाः स्वयम्भवमनु बृहस्पति दक्ष शची रतयः पञ्चानिरुद्धश्ऱ्चेति षडपि देवाः बलाख्यप्रवहाद्भूयांस इति ज्ञेयम्‌ । अन्नस्य महिमानमाह ॥ तस्मादिति ॥ बलादन्नमानिनो भृयस्त्वात्‌ । यद्यपि दशरात्रीर्नाश्ऱ्नीयात्‌ यदि जीवेत्‌ । प्राणान्‌ विभृयात्‌ । उह चेत्‌ । जीवेच्चेत्‌ । अथ तर्हि अदृष्येत्यादि । अन्नाशनाभावे श्रवणादिकं किमपि न भवेदेवेत्यर्थः । व्यतिरेकमुक्त्वान्वयञ्चाह ॥ अथेति ॥ अन्नस्याशी भोक्ता । द्रष्या भवतीत्यादि ॥ अन्नसूपास्त्वेति ॥ अन्नमान्यनिरुद्धे तत्समेषु स्वायम्भुवादिपञ्चसु च ब्रह्मोपास्स्वेत्यर्थः ॥ 1 ॥ अन्नवतोन्नमान्यधिष्ठितलोकान्‌ । यद्वा अन्नपानादिभोगवतो लोकानित्यर्थः । अन्नात्नरुद्धानिददेवताषट्‌कात्‌ भूयोस्ति किमित्यर्थः ॥ 2 ॥ 9 ॥ आपो वावेति ॥ आपोपिज्ञानरत्या जायमानविषयालम्बुद्धिरूपतृप्तिलक्षणान्तरा आपो द्रवरूपा बाह्या आपश्ऱ्चेति द्विविधाः । तदुभयमानी देहमाप्नोति व्याप्नोतीति अप्‌ आहङ्कारिकप्राणः । अन्नात्‌ अन्नशब्दोपात्तादनिरुद्धादिषट्‌कान्‌ भूयस्यः श्रेष्ठः । अत्राप्यांतरान्नात्‌ ज्ञानजन्यरतिरूपात्‌ आन्तराः विषयालम्बुद्धिरूपतृप्तिलक्षणा आपः श्रेष्ठाः । बाह्यान्नाद्बाह्याः द्रवरूपा आपः श्रेष्ठा इति विवेकः । अम्मानिनः प्राणवायोः व्यतिरेकान्वयाभ्यां महिमानमाह ॥ तस्मात्‌ । अन्नादपि श्रेष्ठत्वात्‌ अपम्‌ । यदा यदि । सुवृष्यिर्न भवति तर्हि । प्राणाः प्राणन्ति चेष्यन्त इति प्राणाः प्राणिनः । कनीयः स्वल्पमन्नं भविष्यतीति व्याधीयन्ते विशिष्याधियुक्ता भवन्ति । मनोव्यथावन्तो भवन्तीत्यर्थः । अथ सुवृष्यिर्भवति । बह्नन्नं भविष्यतीति आनन्दिनः मोदमाना भवन्ति । आप एव मूर्ताः मूर्ताः पदार्थाः । अबभिमान्यधीनत्वादाप एवेत्युच्यन्ते । ये यमित्यादिना आपएवेमा मूर्ता इत्यन्तेन मूर्तानां वस्तूनामब्जन्यत्वादिनापएवेत्युच्यन्ते । इमा आप एव मूर्ताः पदार्था इत्यर्थः ॥ अप उपास्स्वेति । अप्‌ शब्दितप्राणे ब्रह्मोपास्स्वेत्यर्थः ॥ 1 ॥ अद्भयः आहङ्कारिकप्राणात्‌ ॥ 2 ॥ 10 ॥ तेज इति ॥ तेजोपि प्रातिभाख्यमान्तरं बाह्यञ्चेति द्विविधं तदुभयमानी ओजोरूपत्वेन तेजः शब्दितः पुरन्दरेन्द्रस्तत्समः कामश्ऱ्चाद्भयः प्राणाभूयः श्रेष्ठः । तत्रान्तरात्‌ अप्‌ शब्दितात्‌ ज्ञानरतिजन्यतृतिरूपविषयालम्पुद्धिरूपान्तरं प्रातिभाख्यं तेजो भूयः । बाह्यद्रवरूपाद्‌भ्यो बाह्यं जडरूपं तेजो भूय इति विवेकः । तेजः शब्दितपुरन्दरस्य महिमानमाह ॥ तद्वा एतत्‌ तेजः वायुमागृह्यावष्यभ्य निश्ऱ्चलीकृत्येति यावत्‌ ।
?Rआकाशमभितपति । आकाशं व्याप्य तपति धर्मरूपतापं जनयति तदा जना आहुः । किमिति । निशोचति नितपति वर्षिष्यति वै इत्याहुरित्यन्वयः । निशोचति नितपतीत्यनयोर्बाह्यान्तरतापभेदेन वा सामान्यविशेषभावादिभेदेन वा भेदो ध्येयः । तेज एव पुरन्दर एव । तत्‌ स्वस्वरूपं वायुस्तम्भादिकम्‌ । पूर्वं दर्शयित्वा प्रदर्श्यापः सृजते । तदा एतत्‌ एते । आह्रादाः स्तनयित्नवः आह्रादका मेघाः । ऊर्ध्वाभिस्तिरश्ऱ्चीभिश्ऱ्च विद्युद्भिस्सह चरन्ति । यद्वा तदेतदिति पञ्चम्यर्थे । तदेतत्तस्मात्तेजः शब्दितपुरन्दरादाह्रादाः स्तनयित्नवः विद्युद्भिः चरन्तीति । तस्माद्विद्युद्भिः स्तनयित्नुचरणाद्धेतोविर्द्योतते स्तनयति वर्षिष्यतीत्याहुः । वै प्रसिद्धम्‌ । तेज एव तत्‌ विद्युदादि पूर्वं दर्शयित्वाथानन्तरमपः सृजते ॥ तेज उपास्स्वेति ॥ तेजः शब्दिते पुरन्दरे कामे च ब्रह्मोपास्स्वेत्यर्थः ॥ 1 ॥ शिष्यं प्राग्वत्‌ । तेजस्वतो भास्वत इत्यनयोरवान्तरभेदेनापौनरुक्त्यं ज्ञेयम्‌ । अत एवापहततमस्कानित्यर्थः ॥ 2 ॥ 11 ॥ आकाश इति ॥ आकाशोपि स्थिरप्रतिभारूपान्तराश्ऱ्छिद्रात्मको बाह्यश्ऱ्चेति द्विविधः । तदुभयमानिनीदीप्तत्वादाकाशनाम्नी उमादेवी । तत्समभूते सौपर्णी वारुणी चेत्येतत्त्रयम्‌ । तेजसः तेजःशब्दोक्तेन्द्रकामाभ्याम्‌ । भूयान्‌ श्रेष्ठः । तत्रान्तरचञ्चलप्रतिभाख्यात्तेजस आन्तरस्थिरप्रतिभाख्यः आकाशः श्रेष्ठः । बाह्यतेजसो बाह्याकाश इति ध्येयम्‌ । आकाशाख्यदेवीनां महिमानमाह ॥ आकाशो वै सूर्याचन्द्रमसावित्यादि ॥ तदधीनत्वहेतुना राजा राष्य्रमितिवदयमभेदव्यपदेशः । किञ्च सर्वोपि व्यापारः आकाशायत्त इत्याह । आकाशेनाह्वयतीत्यादि । श्रुतवतोक्तं वचनं वक्तान्यः प्रतिृणोति । आकाशमभिजायते पुत्रपौत्रादि ॥ आकाशसुपास्स्वेति ॥ आकाशशब्दिते देवीत्रये ब्रह्मोपास्स्वेत्यर्थः ॥ 1 ॥ आकाशवतः आकाशमान्यधिष्ठितलोकानवकाशयुक्तलोकानिन्ति वा । आकाशात्‌ आकाशपदोपात्तदेवीत्रयाद्भूयोऽस्ति किमित्यर्थः । अत्र बलान्नाप्तेजआकाशानां द्विविधानां मध्ये बाह्येषु चोत्तरोत्तराणां पूर्वकारणत्वमान्तरेषु चोत्तरोत्तरं प्रति पूर्वस्य व्यञ्जकत्वरूपकारणत्वं ज्ञेयम्‌ ॥ 2 ॥ 12 ॥ स्मर इति ॥ अच्छिद्रस्मृतिरूपस्मरमानी सममेकप्रकारं रमत शिवः तत्समौ सुपर्णशेषौ चेति त्रयः आकाशादुमादेः भूयान्‌ । श्रेष्ठाः । एतदुपलक्षणं उमादिदेवीत्रयादाकाशशब्दितात्‌ भूयसो जाम्बवत्यादिदेवीषट्‌कादपि भूयान्‌ स्मरः शिवादिरिति ज्ञेयम्‌ । तस्य महिमानमाह ॥ तस्मादित्यादिना ॥ तस्मादाकाशादितो भूयस्त्वादेवोक्तरूपस्मरस्य । यद्यपि यदि बहव एकत्रासीरन्नपि उपविशेयुः ते प्रागनुभूतमस्मरन्तःश्रवणमननविज्ञानहीना एव भवन्ति । यदा वा ते एकत्र मिलिताः प्राक्‌ ज्ञातं स्मरेयुरथ तर्हि श्रवणादिमन्तो भवेयुरित्यर्थः । स्मरेण स्मृत्या ममैते पुत्राः पशव इति पुत्रान्‌ पशून्‌ जानाति ॥ स्मरमिति ॥ स्मरशब्दिते शिवादिदेवत्रये ब्रह्मोपास्स्वेत्यर्थः ॥ 1 ॥ स्मरात्‌ स्मर शब्दितदेवत्रयात्‌ ॥ 2 ॥ 13 ॥ आशोत ॥ आ समन्तात्‌ शं सुखं यस्या इति व्युत्पत्त्या पूर्णसुखरूपतयाऽऽशा नाम्नी आशामानिनी भारती । तत्समा सरस्वती च । स्मरात्‌ स्मर शब्दितदेवत्रयात्‌ । भूयसी सर्वगुणैः श्रेष्ठा । इयं च प्राणिनामीश्ऱ्वरापरोक्षज्ञानस्वामिनी । तस्याः महिमानमाह ॥ आशेद्धो वा इति ॥ आशेद्धः मन्त्रानधीयेति आशया समृद्धः स्मरः स्मृतिमान्‌ भवति । अथानन्तरमधीते । कर्माणि कुर्वीयेति आशयेद्धः स्मरः स्मृतिमान्‌ अथ कर्म कुरुते । इच्छेयेति आशेद्धः स्मरः स्मृतिमानिच्छते इत्यर्थो ज्ञेयः आशामाशाशब्दितभारती सरस्वत्योः ब्रह्मोपास्स्वेत्यर्थः ॥ 1 ॥ आशया आशदेवीप्रसादेनेति यावत्‌ ॥ 2 ॥ 14 ॥ प्राण इति । प्रकृष्यसुखरूपस्वरूपानन्दलक्षणमुक्त्यभिमानी । सर्वचेष्यकत्वहेतुना प्राणनामामुख्यवायुब्रह्मा चाऽऽशायाः भारत्यादिदेवद्वियात्‌ श्रेष्ठः । उपासकवर्गेऽयमेवोत्तम इत्यर्थः । तदाह सूयिदामननादिति । तस्य महिमानमाह । यथा वा इति । रथनाभौ रथचक्रे । अराः यथा समर्पिताः सम्प्रोता एवमेतस्मिन्‌ प्राणे । सर्वं जगत्‌ समर्पितं सम्पोतम्‌ । प्राणः मुख्यवायुः प्राणेन हरिणा याति । प्राणः हरिः । प्राणं वायुं प्रत्यभीष्यं ददाति । यद्वा प्राणो वायुः प्राणं भगवन्तं ददाति शिष्येभ्य उपदिशतीत्यर्थः । प्राणाय हरये । ददाति मुक्तौ हरिं प्रापयति भक्तानिति यावत्‌ । मातापित्रादिसर्वजीवनहेतुतया सर्वत्र सन्निहितत्वमहिमानमाह ॥ प्राणो वै पिता तज्जीवनहेतुतया तत्र स्थितत्वात्पितेत्युच्यते । एवमग्रेऽपि ॥ 1 ॥ अन्वयव्यतिरेकाभ्यामुक्तमेव व्यनक्ति ॥ स यदीति ॥ किञ्चिदिति ॥ मुख्यवायुसन्निधियुतं पित्रादिकं प्रति किञ्चिद्भृशमिव निष्ठुरतया प्रत्याह ॥ निराकरोति । तदा एनं प्रत्याचक्षाणं निराकुर्वाणं प्रति । त्वा त्वां धिक्‌ दहेत्‌ यद्वा धिक्‌ अस्तु अभद्रमस्तु तवेत्याहुर्जनाः । कुत आहुरित्यतो हेतुमाह ॥ पितृहा वै त्वमसीति । इति शब्दः सर्वत्र हेत्वर्थः ॥ 2 ॥ अथेत्यर्थान्तरे । एनान्‌ पित्रादीन्‌ । उत्क्रान्तप्राणान्‌ उत्क्रान्तः प्राणो येभ्यस्त इति बहुव्रीहिः । मुख्यप्राणेन त्यक्तदेहान्‌ समासेन सङ्कोचेन । एकैकावयवेन दहेत्‌ । व्यतिषं विलुण्ठ्यसामस्त्येनेति यावत्‌ । शूलेन दहेत्कश्ऱ्चित्‌ । शिष्यं व्यक्तम्‌ ॥ 3 ॥ उपसंहरति ॥ प्राणो ह्येवैतानीति ॥ पित्रादीनि सर्वाणि तदायत्तजीवनत्वात्ताच्छब्द्यं स प्रसिद्ध एष अधिकारी । कश्ऱ्चिदेवमुक्तदिशा प्राणमाहात्म्यश्रवणमननविज्ञानवान्‌ । अतिवादी सर्वातिशायिभूतवस्तुवादी भवति । तं चेद्ब्रूयुः
?Rअतिवाद्यसीति । अतिवाद्यस्मीति ब्रूयात्‌ नापह्नुवीत नापलपेदित्यर्थः । अत्र पूर्वपूर्वेभ्य उत्तरोत्तरे षामुत्तमत्वे हेतुर्बाह्माद्‌भ्यो बाह्यमन्नं चेत्यादि भाष्यादवसेयम्‌ । आधिक्ये परिमाणं च सर्वे त्वेते दशोत्तराः । पर्जन्यमित्रशिखिनो भूतवायुस्तथैवच । द्विगुणा एवानिरुद्दोनिलात्पञ्चगुणाधिक इत्यादि भाष्यात्‌ ज्ञेयम्‌ ॥ 4 ॥ 15 ॥ किमयमेव सर्वोत्तम इत्यत उपासकवर्गेस्य सर्वातिशायित्वं उपास्यस्तु सर्वश्रेष्ठोन्योस्तीत्याह ॥ एष त्विति ॥ तु शब्दोर्थान्तरवाची । यः सत्येन निर्दोषत्वनियामकत्वहेतुभ्यां सत्यनामकेन । हरिणा योतिवदति सत्याख्यं ब्रह्मैव सर्वातिशायीति वदति । एष तु वा अतिवादी । अतिशयितवस्तुवादी । वै प्रसिद्धमेतत्‌ । नामवागादिपूर्वतनप्रकरणेष्विवात्र प्रश्ऱ्नप्रतिवचनयोरश्रवणेप्यर्थान्तरवाचिना तु शब्देन पूर्वप्रकरणविच्छदसूचनेन अस्ति भगवः प्राणाद्भूय इति प्राणाद्वावभूयोऽस्तीति तन्मे भगवान्‌ ब्रवीत्विति सत्यं वाव प्राणाद्भूय इति प्रश्ऱ्नप्रतिवचनयोरध्याहार्यत्वादिति भावः । तदाह सूत्रे व्यतिहारो विशिंषन्ति । हे भगवो नारद सोहं सत्येनातिवदामि सत्याख्यं ब्रह्मैव सर्वातिशायीति वदामि । सत्यं त्वेव विजिज्ञासितव्यमित्युवाच कुमार इत्यर्थः । सत्यं सत्यनामकमहं विजिज्ञासे ज्ञातुमिच्छामीति नारदः । अत्र प्रकरणे तु शब्दः सोपपत्तिकमेव सत्यं विजिज्ञासितव्यमित्यादिरूपविशेषद्योतको न पूर्वत्रेवार्थान्तरद्योतक इति ज्ञेयम्‌ । तदाह सूत्रे सैव हि सत्यादय इति । कुतो हेतोर्निर्दोषो नियामकश्ऱ्च सन्‌ सत्यनामा हरिः । तं हेतुभूतं गुणं ज्ञातुमिच्छामीति प्रश्ऱ्नाभिप्रायः ॥ खं ॥ 16 ॥ स्वपरगताशेषविशेषविषयकज्ञानवत्त्वादुक्तरूपसत्यमासीदिति भावेन लोके विज्ञानसत्यवचनयोः हेतुहेतुमद्भावमाह सनत्कुमारः । यदेति अन्वयव्यतिरेकावुक्त्वा निगमयति ॥ विजानन्नेवेति ॥ एवमग्रेऽपि । विज्ञानं त्वेवेति सोपपत्तिकं विज्ञानगुणात्मकत्वं सत्यनाम्नो हरेः विजिज्ञासितव्यमित्यर्थः । उक्तरूपविज्ञानवत्त्वं भगवतः केन गुणेन तं हेतुभतं गुणं ज्ञातुमिच्छामिति भावेन पृच्छति ॥ विज्ञानं भगवो विजिज्ञास इति ॥ खं 17 ॥ अशेषमन्तृत्वादेव सत्यनामा हरिः विज्ञातेति भावेन मननविज्ञानयोः हेतुहेतुमद्भावमाह ॥ यदा वा इति ॥ मतिस्त्वेव मननगुणवत्त्वमेव । सत्यस्य हरेः सोपपत्तिकं विजिज्ञासितव्यमित्यर्थः ॥ मतिमिति ॥ मननगुणवत्त्वे हेतुं विजिज्ञास इति नारदः ॥ खं 18 ॥ आस्तिकत्वात्‌ मत्यात्मा सत्यो हरिरिति भावेन तयोः हेतुहेतुमद्भावमाह ॥ यदा वा इति ॥ श्रद्दधाति आस्तिको भवति । शिष्यस्य प्रागिवार्थो ध्येयः ॥ श्रद्धात्वे वेति ॥ सहेतुकमास्तिकत्वम्‌ । श्रद्धां श्रद्धाहेतुगुणम्‌ ॥ खं 19 ॥ सुस्थिरत्वादास्तिक इति भावेन तयोः कार्यकारणभावमाह ॥ यदा वा इति ॥ निस्तिष्ठति स्थिरो भवति । निष्ठात्वेव सुस्थिरत्वमेवम्‌ । निष्ठां निष्ठाहेतुगुणम्‌ ॥ खं ॥ 20 ॥ सर्वकर्तृत्वादेव स्थिरत्वमिति भावेन तयोः कार्यकारणभावमाह ॥ यदा वा इति ॥ कुतिस्त्वेव कतर्ृत्वं सहेतुकमेव ॥ कृतिमिति ॥ कर्तृत्वे हेतुगुणम्‌ ॥ खं 21 ॥ पूर्णसुखोद्रेकादेव कर्तृत्वमिति भावेन तयोः हेतुहेतुभद्भावमाह ॥ यदा वा इति ॥ सुस्वमेवेति ॥ सुखोद्रिक्तत्वहेतुम्‌ ॥ ख0 22 ॥ पूर्णगुणत्वादेव पूर्णसुखत्वमिति भावेन तयोर्व्याप्तिमाह ॥ यो वै भूमेति ॥ भूमपदस्य बहुत्ववाचित्वेपि भावभवित्रोरभेदेनेह पूर्णगुणरूपधर्मिपरत्वं ज्ञेयम्‌ । यो भूमा पूर्णगुणः । तत्‌ वै स एव । विधेयापेक्षया नपुंसकम्‌ । सः सुखं पूर्णसुखरूपः । अल्पेऽपूर्णगुणे । सुखं पूर्णसुखं नास्ति । तदाह सूत्रे भूमा सम्पसादादध्युपदेशादिति । सत्यत्वादिगुणसप्तकस्यापि भृमशब्दितपूर्णगुणत्वस्य मूलहेतुत्वात्तस्य महिमानं पृच्छति ॥ भूमानं भगवो विजिज्ञास इति ॥ अत्र सैव हि सत्यादय इति भूमा सम्पसादादित्यधिकरणद्वयेन सत्यादीनां सर्वेषां परमात्मत्वं व्यतिहार इत्यधिकरणेन तु प्राणात्सत्याद्यात्मनो भूम्न उत्तमत्वं च प्रकरणभेदाश्रयेण सिद्धम्‌ । भूमेति सूत्रे भाष्योक्तदिशा प्राणस्य सत्याद्यात्मनो भूम्नश्ऱ्च ब्रह्मत्वमेवेत्यङ्गीकारपक्षे प्राणपदेन प्राणमविहायैतदन्तयर्ामितया हरेर्ग्रहणात्प्राणादप्युत्तमत्वसिद्धिः । प्राणानुक्तिदोषश्ऱ्च नेति ज्ञेयम्‌ । अत्र यद्यपि तारतम्योक्तिप्रस्तावे प्राणादनन्तरं सत्यात्पूर्वं प्रश्ऱ्नप्रतिवचनाभ्यां श्रीतत्त्वमपि वक्तव्यम्‌ । तथापि नामादयस्तु बद्धत्वान्मोचकत्वात्परोपि च । उभयोरप्यभावेन यथा व्यक्तं न दूदितमिति कामादिति सूत्रभाष्याक्तेदिशा तदनुक्त्याशयो ध्येयः ॥ खं0 23 ॥ भूमनो महिमानमाह ॥ यत्रेति ॥ यस्मिन्वस्तुनि ज्ञाते । अन्यत्रान्यद्वस्तु । स्वातन्त्ऱ्ेण न पश्यति न ृणोति न विजानाति तदधीनमेवेत्येव जानाति स भूमेत्यर्थः । एवं महिमा भूम्नोन्यत्र नेत्याह ॥ यत्रेति ॥ यस्मिन्‌ दृष्ये श्रुते विज्ञाते चान्यदस्वातन्त्ऱ्ेण पश्यति ृणोति विजानाति च तदल्पं लक्ष्म्ादिजगत्‌ । महिमान्तरमाह ॥ यो वै भूमेति ॥ श्रीतत्त्वमल्पं चेदपि हरिप्रियत्वबलात्‌ अमृतैवेति ज्ञेयम्‌ । तदाह सूत्रे समना चामृत्युपक्रमादमृतत्वं चानुपोष्येति । नारदः पृच्छति ॥ स इति ॥ स भूमा कस्मिन्‌ प्रतिष्ठित इति । उत्तरमाह ॥ स्व महिम्नीति ॥ प्रतिष्ठित इत्यनुषङ्गः । यदि वा स्वे महिम्नि न प्रतिष्ठित इत्युच्यते ॥ 1 ॥ तदा गो अश्ऱ्वं द्वन्द्वैकवद्भावः सर्वत्र । गवाश्ऱ्वादिकं महिमेत्याचक्षते । इतिवदहमेवं न ब्रवीमीति तमुवाच सनत्कुमारः । अन्योऽज्ञोऽन्यस्मिन्‌ गवाश्ऱ्वादौ भिन्नमहिम्नि प्रतिष्ठत इति वदहं न ब्रवीमि किन्तु स्वे
?Rमहिम्नि प्रतिष्ठित इत्येव ब्रवीमीति तमुवाचेत्यर्थः ॥ 2 ॥ 24 ॥ भूम्नः स्वमहिमप्रतिष्ठितत्वोपपादनाय सर्वव्यापित्वरूपमहिमानमाह ॥ स एवेति ॥ स एवेदं सर्वं जगद्वयाप्य स्थित इत्युपसंहारः । स एव भूमैव । सामीप्यादिदं नामा । सर्वं पूर्ण इति वार्थः । तदाह सूत्रे धर्मोपपत्तेश्ऱ्चेति ॥ 1 ॥ अहङ्काराख्यमात्माख्यं च रूपद्वयं क्रमेणाह ॥ अथात इति ॥ अथ योग्या धिकारिणः । अतः फलवत्त्वात्‌ । यद्वा अथेति रूपान्तरे । अतस्तत्प्रसादादहमित्क्रयत इत्यहङ्कारनाम्नो जीवस्थानिरुद्धाख्यस्य हरेरादेश उपदेश उच्यत इत्यर्थः । तस्य ब्रह्मूपत्वख्यापनाय भूमलक्षणं तस्मिन्नाह ॥ अहमेवेति ॥ अथात इति ॥ अथेति रूपान्तरापेक्षया । अतस्तत्प्रसादात्‌ आत्मनो व्याप्तस्य हरेरादेश उपदेश उच्यत इत्यर्थः । अत्र भूमा नारायणः । अहङ्कारो जीवस्थोऽनिरुद्धः । आत्मा व्याप्तो वासुदेव इति ज्ञेयम्‌ । आत्मापरोक्षज्ञानिनो विपरीतज्ञानिनश्ऱ्च फलमाह ॥ स वा एष इति ॥ एष एव मुख्योऽधिकारी चतुर्मुखः । एवं पश्यन्‌ साक्षात्कुवर्न्‌ । तस्य साधने मननश्रवणे कुर्वन्निति भावेनोक्तमेवं मन्वान एवं विजानन्निति । आत्मरतिः आत्मना रतिर्यस्य स आत्मरतिः । भगवद्रतिः । आत्मना क्रीडत इत्यात्मक्रीडः । स्त्रीरूपः सन्‌ आत्मना मिथुनीभूत इत्यात्ममिथुनः । आत्मना नन्दत इत्यात्मानन्दः स ब्रह्मा । स्वराट्‌ स्वः परमात्मा । प्रत्यक्षतो राट्‌ नियन्ता यस्य स इति स्वराड्‌ भवति तस्य सर्वेषु लोकेषु कामचारो भवति ॥ 15 ॥ आत्मज्ञानि महिमानमाह ॥ तस्य ह वा इति ॥ तस्य ह वा एतस्यैवात्मसाक्षात्कारादिमतश्ऱ्चतुर्मुखादेरात्मतः प्राण इत्यादौ जायते पाल्यते लीयते नियम्यते चेति साक्षात्कारो भवतीति सर्वत्र शेषो ध्येयः । आत्मापरोक्षज्ञानी मुक्तः सन्‌ प्राणा शा स्मरा काश तेज अप्‌ अन्न बल विज्ञान ध्यान चित्त सङ्कल्पमना वाक्‌ नाम मन्त्र कर्म शब्दितानां मुख्यवायुप्रभृतीनां प्रागुक्तदेवानां जननादिकम्‌ । आत्मतो भवतीति पश्यतीत्यर्थः । न केवलमेतावत्‌ । आत्मतः कृत्स्नजगत आविर्भावतिरोभावौ भवत इत्यपि । तस्य प्रत्यक्षं भवतीत्यर्थः । इति शब्दः समाप्तौ ॥ 1 ॥ आत्मज्ञानिनः सर्वलोकेषु कामचारित्वसिद्धयर्थं मृत्युदर्शनायभावं श्ऱ्लोकमाह ॥ तदेष श्ऱ्लोक इति ॥ तत्र आत्मज्ञानिमाहात्म्ये । एष वक्ष्यमाणः श्ऱ्लोको भवति । तमाह ॥ न पश्य इति ॥ पश्यतीति पश्यो जीवः । मृत्युं न पश्यति न रोगं नो(त)थ दुःखतां दुःखित्वम्‌ । पश्यो जीवः सर्वं पूर्णं भगवन्तम्‌ आत्मतः प्राण इत्यादिनोक्तं सर्वमिति वा पश्यति । सर्वं पूर्णं भगवन्तं प्राप्नोति । सर्वशः कामांश्ऱ्चाप्नोतीत्यर्थः । आत्मज्ञानिनोवस्थितिप्रकारमाह ॥ स एकधेति ॥ स आत्मा परोक्षज्ञानी । एकधा भवति त्रिधा भवतीत्येवं रूपेण स्मृतः स ज्ञानी शतं च दश च एकश्ऱ्च सहस्राणि च पञ्चविंशतिश्ऱ्च भवतीत्यर्थः । भगवज्ज्ञानसामर्थ्यादंशैर्नानारूपाणि धत्त इत्यर्थः । अविद्याविषकषायनिरसनहेतुभूतभगवदापरोक्ष्यस्य स्थैर्येणावस्थितिकारणमाह ॥ आहारेति ॥ गुरोस्सकाशत्‌ श्रवणरूपाहारशुद्धौ सत्त्वशुद्धिः सत्त्व शब्दितज्ञानशुद्धिः । सत्त्वशुद्धौ च ध्रुवास्मृतिः । स्थिरस्मृतिः । स्थिरस्मृतिलाभे च सर्वाविद्याकामकर्मादिग्रन्थीनां विप्रमोक्षः । तस्मै मृदितकषायायापगतसमस्ताविद्याकामकर्मादिरूपकषायाय नारदया देवर्षये । तमसः पारं अविद्यायास्तीरं परमात्मस्वरूपं दशर्यति । अदर्शयत्सनत्कुमारः । भगवानित्युक्त्या विष्णुरिति भ्रान्तिं निराह ॥ यस्तमिति ॥ यो दर्शयति तं स्कन्द इत्याचक्षते । द्विरुक्तिः समाप्त्यर्था ॥ 2 ॥ 26 ॥

इति श्रीमच्छन्दोग्योपनिषदर्थसङ्ग्रहे राववेन्द्रयतिकृते सप्तमोऽध्यायः ॥ 7 ॥

**************************************************************

अष्टमोऽध्यायः

पूर्वत्र सर्वगतत्वादिसर्वगुणैः भूमादिरूपो विष्रुरुपास्य इत्युक्तं स च न सर्वमुमुक्षुभिरुपासितुं शक्य इति सर्वमुमुक्षुसाधारणमुपास्यरूपं निरूपयत्यत्राध्याये ॥ अथ यदिदमिति ॥ विद्यान्तरारम्भेऽथशब्दः । अत्र ब्रह्मपुरशब्दः कर्मधारयः षष्ठीतत्पुरुषश्ऱ्च तन्त्रेणोपात्तो ज्ञेयः । पुरशब्दः पृपालनपूरणयोरित्यतो ऋदोरबित्यप्‌प्रत्यये ऋकारस्य चोकारे पुरमितिरूपं बृहत्त्वात्पूर्णगुणत्वात्‌ ब्रह्म । पूर्णकामत्वात्पुरम्‌ । ब्रह्म च तत्‌ पुरं च ब्रह्मपुरम्‌ । ब्रह्माख्यं पूर्णवस्तु । तस्मिन्‌ ब्रह्मपुरे हरौ तदा धारत्वेन वर्तमाने ब्रह्मणः पुरमिति व्युत्पत्त्या ब्रह्मपुरशब्दितेऽस्मिन्‌ देहे । यादिदम्‌ । दहरं दभ्रमल्पम्‌ । पुण्डरीकं कमलरूपं वेश्मगृहमस्ति अस्मिन्‌ दहरपुण्डरीकरूपवेश्मनि । अन्तराकाशो भूताकाशो वतर्ते । तस्मिन्पुण्डरीकान्तस्थदहराकाशेन्तर्यद्वर्तते तद्वस्तु । अन्वेष्यव्यम्‌ । तद्वयनक्ति ॥ तद्वावेति ॥ तद्वाव तदेव । विजिज्ञासितव्यम्‌ । श्रवणममनध्यानैर्विषयीकर्तव्यम्‌ । इदमेवान्वेषणं नाम नान्यदित्यर्थः । इति गुरुर्ब्रूयादित्यर्थः ॥ 1 ॥ तमेवं वक्तरं गुरुम्‌ । शिष्याः यदिदमस्मिन्‌ ब्रह्मपुरे दहरं पुण्डरीकवेश्म दहरोस्मिन्नन्तराकशः तत्राकाशं किं विद्यते किन्नामकं किं महिमकम्‌ । यदन्वेष्यव्यमित्याद्युक्तं त्वयेति चेत्‌ ब्रूयुः ॥ 2 ॥ स एवं तैरुक्तो गुरुर्ब्रूयात्‌ ॥ यावानित्यादि ॥ अन्तर्हृदये हृद्ययत इति हृदयशब्दोक्ते पुण्डरीकवेश्मस्थदहराकाशेन्तः । आकाशः आसमन्तात्कशते दीप्यत इति वा । आ समन्तात्कं सुखमश्ऱ्नात्यनुभवतीति वा । आ समन्तात्कन्‌ कामान्‌ शुभभोग्यान्‌ अश्ऱ्नातीति वा । आकाशनामा हरिर्वर्तत
?Rइति । किन्नामकमित्यस्योत्तरं ब्रूयात्‌ । अयं बाह्यः बहिर्विद्यमानः आकाशनामा हरिर्यावान्‌ देशकालगुरैर्यावद्ययाप्तिमान्‌ तावानेष हृत्पुण्डरीकस्थाकाशगतो हरिरिति । किं महिमक इत्यस्योत्तरं ब्रूयादित्यर्थः । तस्य सर्वाधारत्वादिमहिमान्तरं चाह ॥ उभे अस्मिन्नति ॥ हृत्पद्मस्थभूताकाशगते आकाशाख्ये हरावित्यर्थः । न्यायविवरणादौ तु अन्तर्हृदय इत्यतः पूर्वं तस्येति शेषः । यो भगवानन्वेष्यव्यतयोक्तः । किं भूतः स इति पृष्यश्ऱ्च । तस्य हरेर्हृदये यावावा अयमाकाशस्तावान्‌ सर्वोप्याकाशो विद्यते । अस्मिन्नुभे इत्यादीत्युक्तम्‌ । अत्र द्यावापृथिव्यादिशब्देन तदभिमानिग्रहः उभे इत्युक्तिः मुक्तामुक्तरूपवर्गद्वयग्रहणाय । तदेव विदशमाह ॥ यच्चासेति ॥ अस्य संसारिणः उपकारित्वेनेह यदुक्तं द्यावाभूम्यादिकम्‌ । यच्चास्य संसारिणोऽनुपकारित्वेन नास्त्यविद्यमानमिवोच्यते मुक्तद्यावापृथिव्यादिकमिति यावत्‌ । तदपि अत्र पुण्डरीकस्थाकाशगते हरौ समाहितं वर्तत इति स ब्रूयादिति पूर्वेणान्वयःष ॥ 3 ॥ उक्तं सर्वाधारत्वमाहात्म्यमाक्षिप्य समाधत्ते ॥ तं चेदिति ॥ एमुक्तवन्तमाचार्यं शिष्याश्ऱ्चेत्‌ ब्रूयुः किमिति । ब्रह्मपुरे कर्मधाराश्रयेण तन्त्रेण प्रागुक्ते ब्रह्मपुराख्ये । पष्ठीतत्पुरुषाश्रयणेन ब्रह्मपुरपदोक्तदेहगतहृत्पुण्डरीकस्थाकाशगते अस्मिन्‌ हरौ । यदिदं द्यावाभूम्यादिकं सर्वं समाहितम्‌ । सर्वाणि भूतानि समाहितानि । सर्वे च कामाः समाहिताः चेत्‌ तर्हि यदा एतत्‌ ब्रह्मणः पुरेत्युक्तब्रह्मपुरशब्दितं शरीरं कर्म । जरावाप्नोति । एतत्‌ शरीरं कर्तृ प्रध्वंसते वा । नाशमाप्नोति वा ततो देहनाशानन्तरं किमतिशिष्यत इति चेद्ब्रूयुरिति पूर्वेणान्वयः ॥ 4 ॥ स एवमुक्तो गुरुब्रूयात्‌ । किमिति । अस्य ब्रह्मपुरशब्दितदेहस्य जरया एतत्‌ ब्रह्म पुरशब्दितं ब्रह्म । द्वयोरपि प्राक्तंत्रेण ब्रह्मपुरपदेन समासभेदेन प्रकृतत्वात्‌ । न जीर्यति अस्य वदेनैतत्‌ न हन्यते । एतत्‌ ब्रह्मपुरं कर्मधारयाश्रयेणोक्तं ब्रह्मपुराख्यं ब्रह्म सत्यं नित्यम्‌ । अतः सर्वाधारत्वं तस्य युक्तमिति भावेनोपलक्षणतयाह ॥ अस्मिन्कामाः समाहिता इति ॥ नास्य जरयैतज्जीर्यतीत्युक्तम्‌ । प्रपञ्चेनाह ॥ एष आत्मेत्यादिना ॥ विजिघत्सः विगतबुभुक्षः । तदाह सूत्रे । दहर उत्तरेभ्य इति । तस्य मुक्ताश्रयत्वादिमहिमान्तरम्‌ चाह ॥ यथा हीति ॥ यथा यथायोग्यमेव । यथानुशासनं भगवदाज्ञानुसारेण । प्रजाः इह मुक्तौ भगवति वा । अन्वाविशन्ति प्रविशन्ति । न केवलं प्रवेशमात्रम्‌ । यं तमन्तं देशमभिकामाः प्राप्तीच्छवो भवन्ति मुक्ताः । यं यमन्तमित्युक्तं व्यनक्ति । यं जनपदं यं क्षत्रभागं क्षेत्रप्रदेशं तं तमेवोपजीवन्त्येतत्प्रसादादेवेत्यर्थः । उपलक्षणमिदं समस्तकामितभोगातन्निदर्शनं यथा । इह लोके कर्मचितः कर्मसम्पादितो लोको गृहारामादिः क्षीयते । एवमेवामुत्र पुण्यचितः यज्ञादिपुण्यसम्पादितः स्वर्गादिलोकोमुत्र परत्र क्षीयते । केषामित्यत आह ॥ तत तत्र जनेषु । ये इह लोके । आत्मानं भगवन्तमननुविद्य अज्ञात्वा । एतांश्ऱ्च सत्यान्‌ कामान्‌ सत्यकामत्वादिप्रागुक्तात्मगुणांश्ऱ्चाननुविद्य ये व्रजन्ति तेषामिति पूर्वत्रोत्तरत्रचान्वेति । अथेत्यर्थान्तरे ॥ 6 ॥ 1 ॥ यं यमन्तमित्युक्तं सत्यकामत्वं विशदमाह ॥ स यदीत्यादिना ॥ स ब्रह्मज्ञानी । पितृलोककामो भवति पितृदर्शनेच्छावान्‌ भवति । अस्य ज्ञानिन एवमिच्छावतः । सङ्कल्पादेवेच्छामात्रादेव । पितरः समुत्तिष्ठन्ति । पुरतः उपस्थिता भवन्ति । तेन पितृलोकेन पितृदर्शनेन । सम्पन्नो युक्तो भहीयते । एवमग्रेप्यर्थो ध्येयः । तथाच सूत्रम्‌ । सङ्कल्पादेव च तच्छतेरिति ॥ 9 ॥ यं यमन्तं देशम्‌ । अभिकामो भवति स देशः सङ्कल्पादेव समुत्तिष्ठति ॥ 10 ॥ 2 ॥ मुक्तस्योक्तं सत्यकामत्वं प्राग्विद्यमानमेव मुक्तावभिव्यज्यत इति वाच्यं तत्र किमावरणमित्यपेक्षायामाह ॥ त इम इति ॥ त इमे मुक्तौ व्यक्ताः सत्याः कामाः । मुक्तेः पूर्वं अनृता पिधानाः । तद्वयनक्ति । तेषां सत्यकामानां सतां प्राग्विद्यमानानामनृतमनाद्यज्ञानमपि धानमाच्छादनमिति । कुत एतदित्यत आह ॥ यो यो हीति ॥ हि यस्मात्‌ । अस्यानृतापिहितसत्यकामस्यामुक्तस्य पुंसः । यो यः पिता भ्रात्रादिर्वा इतो लोकात्‌ प्रैति तं प्रेतं पित्रादिकम्‌ । दर्शनाय द्रष्युम्‌ । इह लोके न लभते न शक्तो भवति । तस्मादनृतापि धाना इति । अज्ञानाच्छादितसत्यकामत्वादेव प्रेतपित्रादिदर्शनं न लभते संसारिजीव इत्यर्थः ॥ 1 ॥ अनृतनिवृत्तौ तु सर्वाभीष्यप्राप्तिरित्याह ॥ अथेति ॥ अर्थान्तरे । अनृतनिवृत्त्यनन्तरमिति वा । अस्य मुक्तस्य । इह लोके । ये च जीवाः जीवन्तः त्राद्याः । ये च प्रेताः मृताः तद्दर्शनादिकं न लभते । यद्यदन्यच्चेच्छन्‌ इह संसारदशायां न लभते तत्सर्वमत्र वैकुण्ठादिविष्णुलोके गत्वा । विन्दते लभते । अज्ञानावृतत्वमेव व्यक्तमाह ॥ अत्र हीति ॥ अत्र संसारे सत्याः कामाः अनृता पिधानाः ब्रह्मणः हृत्पद्माकाशेऽनुपलम्भान्नास्ति ब्रह्मेति शङ्कां सदृष्यान्तं निराह ॥ तद्वयथेति ॥ तन्निदर्शनं यथा । हिरण्यनिधिं अपि निहितम्‌ । अक्षेत्रज्ञाः हिरण्यनिक्षेपस्थलमजान्तः उपर्युपरि सञ्चरन्तोपि न विन्देयुर्न पश्यन्ति । एवमेवेमाः संसारिण्यः सर्वाः प्रजाः अहरहः प्रत्यहं एतं ब्रह्मलोकं कर्मधारयः । सर्वाश्रयं ब्रह्म । सुप्तौ गच्छन्त्योपि न विन्दन्ति न जानन्ति । तत्र हेतुमाह ॥ अनृतेन हि प्रअत्यूढाः । अज्ञानेनाच्छादिता हि ॥ 2 ॥ यतोऽतः सवा एष आत्मा हृदि विद्यमानो नोपलभ्यत इत्यर्थः । तदाह सूत्रे गतिशब्दाभ्यामिति । पूर्वत्रकिमत्र विद्यत इत्यत्र किन्नामकमिति
?Rकृतप्रश्ऱ्नस्याकाश इत्येकं नामोक्तम्‌ । निरुक्तिपूर्वं नामान्तरं चाह ॥ तस्येति ॥ तस्य हृत्पुण्डरीकाकाशन्तर्वर्तिनः । हृदयनाम्नः हृदि अयते गच्छति वर्तत इत्येतदेव निरुक्तं निर्वचनमवयवार्थकथनमिति यावत्‌ । तस्मादेवं निर्वचनवत्त्वात्‌ । हृदयमिति नामकमित्यर्थः । निरुक्तिपूर्वं हृदयनामकहरिज्ञानिनः फलमाह ॥ अहरिति ॥ अहरहर्वै एवंवित्‌ स्वर्गं लोकं विष्णुलोकमेति ॥ ज्ञानसामर्थ्यादेव मुक्तो भवत किमित्यतो भगवत्प्रसादादित्याह ॥ अथेति ॥ य एष संप्रसादः सम्यक्‌ प्रसादो यस्यासौ सम्प्रसादः भगवसत्प्रसादवान्‌ ज्ञानी । अस्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य प्राप्य । स्वेन रूपेण ज्ञानानन्दादिशुद्धरूपेणाभिनिष्पद्यते । परंज्यातिरित्युक्तः क इत्यत आह ॥ एष आत्मेति ॥ एष परंज्योतिःशब्दोक्तः आत्मा परमात्मा । न सन्निहितो जीव इत्युवाच ह रमादेवी मन्त्रद्रष्य्रीत्यर्थः । तदाह सूत्रे अन्यार्थश्ऱ्च परामर्श इति । आत्मानं विशिनष्यि । एतदमृतमभयमेतत्‌ ब्रह्मेतीति चोवाचेत्यर्थः । तस्या नामान्तरं चाह ॥ तस्य ह वा इति ॥ तस्य हवा एतस्य ब्रह्मणः सत्यमिति नाम भवति ॥ 4 ॥ तन्नाम निवर्क्ति ॥ तानीति ॥ कथमित्यत आह ॥ सत्‌ ति यमिति । त्रीण्यक्षराणी त्यन्वयः । अक्षराणामर्थमाह ॥ तद्यदिति ॥ तत्‌ तत्राक्षरत्रयमध्ये यत्‌ सुदित्यक्षरं तदमृतं मुक्तजातवाचकम्‌ । अथ यत्तीत्यक्षरं तन्मर्त्यं संसारिजीववाचि । अथ यत्‌ यमित्यक्षरं तेनाक्षरेण उभे मुक्तामुक्तजाते सत्‌ तीति शब्दाभ्तयामुक्ते यच्छति नियच्छति नियमयति ह्येषोर्थ उच्यत इत्यर्थः । तस्मान्नियन्तृत्वात्‌ यमिति । ज्ञानिनः फलमाह ॥ अहरहरिति ॥ C-K-9
?Rवं मुक्त नियन्तृत्वेन सत्यशब्दार्थं जानन्‌ भगवल्लोकमेतीति ॥ 5 ॥ 3 ॥ हृत्पद्मस्थस्य हरेर्जिज्ञास्यत्वे महिमान्तरमाह ॥ अथेति ॥ य आत्मा प्रागुक्तः । स विधृतिर्धारणक्षमः । सेतुः षिञ्‌ बन्धने सितमस्मिन्‌ जगदिति सेतुराश्रयः । एषां प्रमाणप्रमितानाम्‌ । लोकानामसम्भेदायासाङ्कर्याय सेतुरित्यन्वयः । एतं सेतुं हरिम्‌ । अहोरात्रे न तरतः नातिक्रामतः । अहोरात्रे स एवातीत्य वर्तत इत्यर्थः । अहोरात्राभ्यामतायर्त्वं व्यनक्ति ॥ न जरेत्यादिना ॥ एनमाप्नोतीति योज्यम्‌ ॥ 2 ॥ अतः आत्मतः सर्वे पाप्मानो निवर्तन्ते सर्वपापरहित इति यावत्‌ । कुतः पहतपाप्मा ह्येष ब्रह्मलोकः ब्रह्माख्यो लोको हरिरित्यर्थः । तदाहसूत्रे । धृतेश्ऱ्च महिम्नोस्यास्मिन्नुपलब्धेरिति । तस्य सर्वपापास्पृष्यत्वमुपपादयति ॥ तस्मदिति ॥ अपहतपाप्मनः प्रसादादेव खलु एतं सेतुं प्राप्तुमन्यत्संसारं तीर्त्वा प्रागन्धः सन्ननन्धो भवतीत्यादि । विद्धः दुरुक्त्यादिवेधवान्‌ उपतापी । रोगवान्‌ । तस्माद्वा सर्वपापहीनभगवत्प्रसादादेवैतं सेतुं गन्तुमन्यत्तीर्त्वा वर्तमानस्य । नक्तं रात्रिरप्यहरेव निष्पद्यते । तत्र कारणमाह ॥ असकृद्धिभातो ह्येवैष ब्रह्मलोको ॥ हरिरिति ॥ 2 ॥ एतस्य ज्ञानफलत्वात्तत्राभ्यर्हितसाधनापेक्षायामाह ॥ तद्य इति ॥ तत्तत्र जनेषु मध्ये य एवैतं ब्रह्मलोकं भगवन्तम्‌ । ब्रह्मचर्येण मनोवाक्कर्मभिः ब्रह्मणि वेदे चरणेन वर्तनेनानुविन्दन्ति जानन्ति प्राप्नुवन्ति वा तेषामेवैष ब्रह्मलोकः भगवल्लोकः सर्वेषु लोकेषु कामचारो भवतीति ॥ 3 ॥ 4 ॥ ज्ञानस्य श्रवणादिरूपब्रह्मचर्यं साधंन चेत्‌ विविदिषन्तीत्यादिना यज्ञादेः ज्ञानसाधनत्वोक्तिः कथमित्यतस्तत्सर्वं ब्रह्मचर्यमेवेत्याह ॥ अथ यद्यज्ञ इति ॥ अथ ज्ञातव्यान्तरमुच्यत इत्यथपदस्यार्थः । यज्ञ इति यदाचक्षते प्राज्ञाः तत्‌ ब्रह्मचर्यमेव ब्रह्मज्ञानसाधनीभूतं मनोवाक्कर्मभिः चरणमेव । कथं या
?Rति जानाति ज्ञं भगवन्तमिति यज्ञ इति व्युत्पत्तेरिति भावेन यज्ञपंद व्युत्पाद्य दर्शयति ॥ ब्रह्मचर्येणेति ॥ यज्ञपदगतं य इत्येतदनूद्यार्थमाह ॥ यो ज्ञेतेति ॥ ज्ञमित्यस्यार्थस्तमिति । अनुविन्दते जानातीति । एतेन याति जानाति ज्ञं येन ब्रह्मचयेर्णेति व्युत्पत्तिः सूचिता । यदिष्यमिरित्याचक्षते ब्रह्मचर्यमेव तत्‌ । कथमित्यतो व्युत्पद्य दर्शयति ॥ ब्रह्मचर्येण हीति ॥ अनेनात्मज्ञानमुद्दिश्य यजतेऽनेन ब्रह्मचर्येण हरीमिति व्युत्पत्त्या ब्रह्मचर्यमेवेष्यमिति व्युत्पत्तिः सूचिता । एवमग्रेऽपि योजना ध्येया । ब्रह्मचर्येण ह्येवेत्यादिना सतो हरितः त्राणं अयते लभते येन ब्रह्मचर्येण तत्सत्त्रायणमिति व्युत्पत्तिः सूचिता । ब्रह्मचर्येण ह्यात्मानमनुविद्य ज्ञात्वा मनुते मननं करोतीत्यनेन मनुते अवगच्छत्यनेन ब्रह्मचर्येणेति मौनं ब्रह्मचर्यमित्युक्तं भवति ॥ 2 ॥ एष ह्यात्मेति ॥ यमात्मानं हरिं ब्रह्मचर्येणानुविन्दते जानाति एष आत्मा तस्य ज्ञानिनो न नश्यति । इष्यप्रदो भवतीति यावत्‌ । तस्याहं न प्रणश्यामीति गीतोक्तेः । एतेनानाशकमयते लभते येन तद्ब्रह्मचर्यमनाशकायनमित्युक्तं भवति । अरण्यौ अरण्यनामकौ समुद्रावयते प्राप्नोति येन ब्रह्मचयेण तदरण्यायनमिति व्युत्पत्तिः प्रागिवोह्येति भावेन तामप्रदर्श्यारण्यौ कौ कुत्रत्यौ यत्प्राप्तिसाधनं ब्रह्मचर्यमित्यत आह ॥ अरश्ऱ्चेति ॥ अरश्ऱ्च वैण्यश्ऱ्चेति संज्ञकौ द्वौ चिदानन्दरसात्मकौ अमृतमयौ समुद्रौ ब्रह्मलोक इश्ऱ्वेतद्वीपे । इतः भूलोकात्‌ । तृतीयस्यां तृतीयायां दिविद्युशब्दिते ब्रह्मलोके । वर्तेते इत्यर्थः । समुद्रप्रस्गादन्यदप्याह ॥ तदिदि ॥ तत्‌ तत्र ब्रह्मलोके । ऐरं सुरामयं मदीयं मदकारी सरश्ऱ्च विद्यते । तत्‌ तत्र । सोमसवनोऽमृतस्राव्यश्ऱ्वत्थस्तिष्ठति । तत्‌ तत्र ब्रह्मणः अपराजिता नाम्नी पूः नगरी वर्तते । प्रभुविमितं
?Rप्रमुपरिमाणसमपरिमाणम्‌ । हिरण्मयं पर्यकं चास्ति ॥ 3 ॥ तत्‌ तत्र लोके । ये अरं च वैण्यं चार्णवौ ब्रह्म लोके वर्तमानौ ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकः । तेषां सर्वेषु लोकेषु कामचारो भवतीति । तदाह गतिशब्दाभ्यामिति सूत्रांशेन तथा हि दृष्यं लिङ्गं चेति ॥ 4 ॥ 5 ॥ हृदयस्थोपास्तिप्रकारं9 विविच्याह ॥ अथ या इत्यादिना ॥ अथेति विद्यान्तरे । हृदयस्य हृदयनाम्नो हृद्गतस्यहरेः । पञ्चरूपस्याधिष्ठनभूताः या एता नाड्यः हृत्पुण्डरीकस्य परितः स्थिताः सुषुम्ना नान्दिनी पिङ्गला वज्रिका इडा इति नाम्नयाः ताः पञ्चनाड्यः पिङ्गलवर्णस्याणिम्नः सूक्ष्मतमस्य सङ्कर्षणस्य । शुक्लस्य श्ऱ्वेतवर्णस्याणुतमस्य वासुदेवस्य । नीलस्यनीलवर्णस्याणिम्नोनिरुद्धस्य । पीतस्य पीतवर्णस्य प्रद्युम्नस्याणिमनः । रोहितस्य रक्तवर्णस्याणिम्नो नारायणस्याधिष्ठानभूतास्तिष्ठन्तीति जिज्ञासितव्यमित्यर्थः । तत्रायं विवेकः । रोहितवर्णो नारायणो हृन्मध्यगतसुषुम्नायां तिष्ठति । शुक्लो वासुदेवः अग्रतः स्थितनान्दिन्याम्‌ । पिङ्गलः सङ्कर्षणस्तु पश्ऱ्चिमभागस्थपिङ्गलाख्यायाम्‌ । पितः प्रद्युम्नस्तु वामभागस्थजि्रकाख्यायाम्‌ । नीलोनिरुद्धस्तु दक्षभागस्थेडायां तिष्ठतीति । तन्त्रसारे तु चतुर्थे । मध्ये सुषुम्ना विज्ञेया वज्रिकाख्या प्रकाशिनी । वैद्युता ब्रह्मनाडीति सैव पञ्चप्रभेदिनी ॥ पृष्ठवामाग्रदक्षान्तर्भेदाऽऽस्ते च क्रमेण तु । हरिन्नीलः सितः पिङ्गो लोहितश्ऱ्चात्र केशवः ॥ प्रद्युम्नादिस्वरूपेण ध्येय इत्युक्तम्‌ । आदित्येपि पिङ्गलादिपञ्चरूपी तिष्ठतीत्याह ॥ असाविति ॥ आदित्वादादित्यनामादित्यमाभिव्याप्य स्थितो हरिः पिङ्गलः सङ्कर्षणः । एष शुक्लः वासुदेवः । एष नीलोनिरुद्धः । एष पीतः प्रद्युम्नः । एष लोहितो नारायणः ॥ 1 ॥ न केवलं हृद्गतस्य हरेरादित्यस्थाता किन्तु तद्रश्मिषु व्याप्तता चास्तीत्याह ॥ तद्यथेति ॥ तन्निदर्शनं यथा । महापथो महान्मार्गः । इमं सन्निहितममुं विप्रकृष्यं चेत्युभौ ग्रामा वा ततो व्याप्तः सन्‌ गच्छति एवमेता आदित्यस्यादित्यस्थस्यादित्यनाम्ने हरेः रश्मयः आदित्यरश्मिषु व्याप्ताः सन्तः इमं जीवममुमादित्यं चेत्युभौ लोकौ गच्छन्तीत्युक्तगतिप्रकारं विशदमाह ॥ अमुष्मादिति ॥ अमुष्मादादित्याद्येअमुष्मिन्नादित्ये सृप्ताः व्याप्ताः ॥ 2 ॥ हृद्गतनाडीस्थगवन्तं प्राप्तस्यपापालेपमहिमानमाह ॥ तद्यत्रेति ॥ तत्‌ तदा । यत्र हरौ एतत्सुप्तः एष जीवः सुप्तः । समस्तः उपसंहृतेन्द्रियः । अत एव बाह्यविक्षेपाभावात्‌ सम्पसन्नः सम्यक्‌ प्रसन्नः । स्वप्नं स्वाप्नवस्तुजातं न विजानाति । तदा आसु नाडीषु सुषुम्नाख्यनाडीस्थे हरौ । सृप्तः पाप्मा पापम्‌ । न स्पृशति संसृष्यं न भवति । तत्र हेतुः तेजसा हरिणा तदा सुप्तो हि यस्मात्‌ । सम्पन्नः तस्मादिति ॥ 3 ॥ नाडीस्थभगवदुपासनस्य फलमाह ॥ अथ यत्रेति ॥ अर्थान्तरे अथपदम्‌ । यत्र यदा एतत्‌ एष हृद्गतेश्ऱ्वरोपासको ज्ञानी । अबलिमानं ज्वरादिना दौर्बल्यम्‌ । नीतः प्राप्तो भवति मुमूर्षुर्भवतीति यावत्‌ । तमुपातपिनमभितः परिर्वार्य आसीनाः सन्तो ज्ञातयः । जानासि मां जानासि मामित्याहुः वदन्ति । स एवं तैः पृष्यः यावत्‌ यदास्माच्छरीरादनुत्क्रन्तोऽनिर्गतो भवति तावत्तदा जानाति ॥ 4 ॥ अथ यत्र यदा । एतत्‌ एषः । शरीरादुत्क्रामति । अथैतैर्नाडीगतैः रश्मिभिरूर्ध्व आक्रमते गच्छति । तदाह सूत्रे । रश्म्यनुसारीति । स ऊर्ध्वमाक्रममाणः । ओमिति वाहा ओमिति नाम हरिबाहकेन वायुनो द्वामीयते भद्रीक्रियते स वायुः यावत्‌ यदा । ज्ञानिनं नेतुं मनः क्षिपेत्‌ कुर्वन्‌ भवति तावत्तदादित्यं गच्छति जीवः प्राप्नोति । आदित्यगतिः कुत इत्यत आह । एतद्वै आदित्यमण्डलं वै ब्रह्म लोकद्वारं विदुषां प्रपदनं प्राप्यम्‌ । अविदुषां निरोधः ॥ 5 ॥ हृदयस्थोपासकोनाडीस्थरश्मिभिर्गच्छन्‌ सूर्यद्वारा मुक्तो भवतीत्युक्तार्थे मन्त्रमाह ॥ तदेष इति ॥ तत्र उक्तेर्थे । हृदयस्य हृदयमभिव्याप्य स्थिताः तासां मध्ये मूर्धानमभिव्याप्य । निस्सृता स्थिता । विष्वगुत्क्रमणे लोकान्तरगमने । अन्या मूर्धन्यनाडीतोन्याः । तदाह सत्रकारः । हार्दानुग्रहीतः शताधिकयेति । द्विरुक्तिरादरार्था ॥ 6 ॥ 6 ॥ ब्रह्मचर्यादिज्ञानसाधनमनुतिष्ठतां सर्वेषामस्ति ज्ञानादेय इत्यतो योग्यस्यैव नायोग्यस्येत्येतदाख्यायिकयाह ॥ य आत्मेति ॥ अन्वेषणं नाम श्रवणादिरूपजिज्ञासैवेति भावेनोक्तम्‌ । स विजिज्ञासितव्य इति । योधिकारी । तमुक्तरूपमात्मानमन्विष्य विजिज्ञास्य । विजानात्यपरोक्षतः । स ज्ञानी । सर्वांश्ऱ्च लोका नित्यासद प्रजापतिर्ब्रह्मरोवाच ॥ 1 ॥ तत्‌ उभये देवाश्ऱ्चासुराश्ऱ्चेति द्वौ वार्गो अनुबुध्य ज्ञात्वोचुर्ह किमिति ॥ हन्त तामेत्यादि ॥ हन्त हर्षे देवानामर्थे इन्द्रोऽसुराणामर्थे विरोचनश्ऱ्चाभिप्रवव्राज जगाम । तौ ह द्वावसंविदानौ अन्योन्यप्रीतिरहितौ । समित्पाणीप्रजापतिसकाशमाजग्मतुः ॥ 2 ॥ तौ यत्‌ यदा । द्वात्रिंशतं द्वात्रिंशद्वर्षाणि ब्रह्मचर्यं ब्रह्मज्ञानमुद्दिश्योषतुः वासं कुतवन्तौ । तदा तौ ह किमिच्छन्तौ अवास्तं वासमकुरुतामिति प्रजापतिरुवाच । ताविन्द्रविरोचनावूचतुः । किमिति । य आत्मेत्यादिकं भगववतां महानुभावस्य तव वचो वाक्यं हरन्तो व्यवहरन्तो जनाः वेदयन्ते बोधयन्ति । इममात्मानं ज्ञातुमिच्छन्ताववात्स्वेति । अवात्समिति पाठे प्रत्येकमन्वयः । वासं कृतवन्तौ स्व इत्यर्थः ॥ 3 ॥ तौ ह प्रजापतिरुवाच किमिति तदाह ॥ य एष इति ॥ दृश्यते दिव्यदृष्यया । चक्षुर्गतं प्रतिर्विबमेवात्मेति मन्वानो विरोचनः पुनः पृच्छति ॥ अथ योयमिति ॥ परिख्यायते । प्रतीयते आदर्शे दर्पणे । परिख्यायत इत्यन्वेति । एषः
?Rअवादिस्थितप्रतिबिम्बरूपः । कतम इत प्रश्ऱ्नस्योत्तरमेष अक्षिगत एव सवेषु स्थलेषु परिख्यायत इति । अन्तेषु स्थलेषु । इन्द्रस्तु प्रतिबिम्बादन्यदेव ब्रह्मेति जानन्नपि अज्ञवद्विरोचनवदेव प्रश्ऱ्नादिकमकरोदिति ज्ञेयम्‌ ॥ 4 ॥ 7 ॥ तत्त्ववेदिविवक्षाया दिव्यदृष्यिगोचरोक्षिगत एव भगवान्‌ सर्वस्थलेषु परिख्यायते इति ब्रह्मणोक्तेपि सर्वत्राक्ष्यबादौ स्थितः प्रतिबिम्ब एवात्मेति व्यजानाद्विरोचनः । तत्त्वं ज्ञातुं योग्यतावश्यमपेक्षितेति भावेने प्रतिबिम्बो बिम्बगुणेन गुणी बिम्बदोषेण दुष्यः स कथं ब्रह्म स्यादिइति भावेनाह ॥ उदशरावेति ॥ उदकपूर्णशरावे आत्मानं स्वशरीरमवेक्ष्यात्मनः सम्बन्धि यद्विजानीथः पश्यथः तन्मे प्रब्रूतमिति प्रजापतिरुवाचेत्यर्थः । एवमुक्तौ तावुदशरावे आत्मनोविक्षाञ्चक्राते । तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सवर्मेवेदं तद्वयनक्ति । हे भगवः आवां आलोमभ्य आनखेभ्यः लोमनखाद्युपेतम्‌ । प्रतिरूपं प्रतिबिम्बभूतमात्मानम्‌ । शरीरं पश्याव इति होचतुः॥ 1 ॥ तौ ह प्रजापतिः पुनरुवाच । किमिति । साध्वलङ्कृतौ परिष्कृतौ अनुलेपादिमन्तौ भूत्वा । शिष्यं स्पष्यम्‌ ॥ 2 ॥ यथैवेदमिति सामान्येनोक्तं व्यनक्ति ॥ साध्वलङ्कृतावित्यादि ॥ स्वः भवावः इमौ प्रतिबिम्बौ । हे भगवन्‌ इति होचतुरित्यन्वयः । एवं देहगुणेन गुणोपेतः । तथा तुल्यन्यायतया तद्दोषेण दोषयुक्त एषः प्रतिबिम्बः । आत्मा । एतदमृतमभयमिति काकुस्वरेण प्रजापतिरुवाच ह । कथमात्मा कथममृतमभयमित्यर्थः । एवं काक्वोक्तमजानन्तौ ताविन्द्रविरोचनौ यथास्थितप्रतिबिम्बमेव ब्रह्मेति जानन्तौ शान्तहृदयौ ब्रह्मवेदिनौ प्रवव्रजतुर्जग्मतुः ॥ 3 ॥ गच्छन्तौ तावन्वीक्ष्य प्रजापतिः स्वस्य मध्यस्थतां ज्ञापयन्नुवाच । किमिति । आत्मानमनुपलभ्य तस्य विवरणमननुविद्याज्ञात्वा । व्रजतः सकाशात्‌ यतरे ये एतदुपनिषदः एतद्रहस्योपदेशवन्तः । भविष्यन्ति देवा वा असुरा वा ते पराभविष्यन्ति पराजयवन्तो भवन्तीत्युवाचेति पूर्वेणान्वयः । स एवमुक्तो विरोचनः शान्तहृदयः मयात्मा ज्ञात इति बुद्धिमानेवासुरान्‌ जगाम तेभ्यः एतां उपनिषदम्‌ । प्रतिबिम्बमेव ब्रह्म देहालङ्कारादौ सति ब्रह्मण एव तद्भवतीत्येतद्रहस्यं प्रोवच । तदेव विशदमाह ॥ आत्मैवेति ॥ स्वदेह एव । महय्यः पूज्यः । आत्मानमेव देहमेव । महयन्‌ पूजयन्‌ । इति प्रोवाचेत्यन्वयः ॥ 4 ॥ तस्माद्देह एव पूज्य इत्यस्यासुरपक्षत्वादेव । अपि अद्यापीहाददानमश्रद्दधानमयजमानं यज्ञादिकमकुर्वन्तं स्वात्मभोगमात्रासक्तं जनमाहुः प्राज्ञाः । अयमासुरोऽसुरस्वभावो बत कष्यमिति । एषोपनिषत्‌ यज्ञाद्यननुष्ठानादिकमसुराणां रहस्यम्‌ । हि यतोत इति विरोचनेनोपदिष्या अद्यापि प्रेतस्य शरीरम्‌ । भिक्षया अन्नपानेन गन्धमाल्यादिना वसनेनालङ्कारेण । इति शब्द आद्यर्थः । अलङ्कारादिना संस्कुर्वन्ति भूषयन्ति । एते प्रेतदेहमलङ्कुर्वन्तो जनाः अमुं लोकं परलोकं जेष्यन्तः प्राप्स्यन्त इति मन्येते ॥ 5 ॥ 8 ॥ अथानन्तरम्‌ । इन्द्रो देवानप्राप्यैव । एतद्वक्ष्यमाणं भयं ददर्श । तदाह । यथैव खल्वयमिति । अयं प्रतिबिम्बवः स्रामेकुष्ठादिना विवर्णे । परिवृक्णे च्छिन्नावयवे । अत्र प्रतिबिम्बं ब्रहमेत्यत्र । भोग्यमुपादेयं न पश्यामीत्यालोच्य ॥ 1 ॥ समित्पाणिः सः इन्द्रः पुनः प्रजापतिमेयाय प्राप तं हेत्यादि व्यक्तम्‌ । आगमः आगतवानसीत्युवाचेत्यन्वयः । स इन्द्र उवाच । तदाह ॥ यथैवेति ॥ अयं प्रतिबिम्बः । पश्यामीत्युवाचेन्द्र इति पूर्वेणान्वयः । प्रजापतिराह ॥ एवमेवेत्यादिना ॥ 2 ॥ एतं तु वक्ष्यमाणं तु स इन्द्रः । तस्मै इन्द्रायोवाच ब्रह्मा ॥ 3 ॥ 9 ॥ तदाह ॥ य एष इति । य एष भगवान्‌ । स्वप्ने कण्ठदेशे । स्वप्नावस्थायां स्वाप्नपदार्थप्रदर्शकः सन्‌ । महीयमानः पूज्यमानश्ऱ्चरति एष आत्मेत्याद्युवाच । स इन्द्रः । ब्रह्मोक्तं स्वप्नावस्थाप्रवर्तकं जानन्नप्यसुरमोहनाय स्वप्ने दृश्यो जीव एवात्मेत्युवाच प्रजापतिरिति मन्वान इव देवानप्राप्यैवैतद्भयं ददर्श । तदाह ॥ तद्यदपीति ॥ यद्यपीदं शरीरमन्धं स्रामं चेदपि स स्वप्ने महीयमानो जीवोन्धादिर्न भवति । स्य देहस्य दोषवधादिना न दोषवधादिभाक्‌ । तत्‌ तर्ह्यपि ॥ 1 ॥ एन स्वप्ने महीयमानं स्वप्नद्रष्यारं घ्नन्ति तु घ्नन्तीव । विच्छादयन्तीवादन्तीव । अप्रियवेत्तेव अप्रियं लब्धेव । अप्रियं वेदितेति वा । भवति । अत्र ब्रह्मोक्तेर्थे । भोग्यमुपादेयम्‌ ॥ 2 ॥ स समित्पाणिरित्यादिपूर्ववद्ययक्तं। 4 ॥ 10 ॥ तस्मै सहो वाचेत्युक्तं किमुक्तमिन्द्राय प्रजापतिनेत्यत आह ॥ तद्येत्रेति ॥ तदेतत्‌ स एव जीवः । यत्र यस्मिन्‌ । हरां सुप्तः स्वापं प्राप्तः । समस्तः उपसंहृतेन्द्रियः । अत एव सम्प्रसन्नः प्रसादयुक्तः । स्वप्नं न विजानाति सुषुप्तिं प्राप्नोतीत्यर्थः । एष आत्मेत्युवाच ब्रह्मा । स इन्द्रः सुप्त्यवस्थाप्रवर्तको भगवान्‌ जीवादन्योस्ति आत्मेति ब्रह्मोक्तं जानन्नप्यसुरमोहाय जीवादन्यं न पश्यामि । यत्र सुप्तौ जीव एष आत्मेति कथमुवाच ब्रह्मेति जीवादन्यमपश्यन्निव अजानन्निव च । देवानप्राप्यैवैतद्भयं ददशर् । तदाह ॥ नाहमिति ॥ अहं खलु सुप्तः । अयमहमस्मीति न जानाति न जानामि व्यत्ययात्‌ । एवं ब्रह्मणोक्तप्रकारेणाधिकरणभूतमात्मानं न जानामि । इमानि भूतानि च नो एव जानन्तत्यतो नास्त्येवाधारभूत आत्मेति । तर्हि अस्तु जीवः परमात्मनि सुपन्तावेकीभूत इति । यद्यपीतो एकीभूतो भवति तर्हि शं सुखं विनैव स्यात्‌ । सुप्तौ सुखानुभवहीन एव स्यादिति यावत्‌ । नच वाच्यं सुखानुभवहीनः स्यादिति । एतावन्तं
?Rकालं सुखमहमस्वाप्समिति सुप्त्युत्थितस्य परामर्शो न स्यात्‌ । अत्र । ब्रह्मोक्तेर्थे । भोग्यमुपादेयम्‌ ॥ 1 ॥ इत्यालोच्य समीमित्पाणिरित्यादिप्राग्वत्‌ व्यक्तम्‌ ॥ 2 ॥ एतस्मादात्मनो अन्यत्र अन्यत्‌ । नो एव नैवास्त्युपदेष्यव्यं एतं त्वेव ते भूयः पुनः अनुव्याख्यास्यामीति योज्यम्‌ । तानि इन्द्रेण प्रजापतौ ब्रह्मज्ञानार्थमुषितानि वर्षाणि एकशतं एकोत्तरशतम्‌ । सम्पेदुः सम्पन्नान्यभूवन्‌ । एकशतं वर्षाणि मघवान्‌ प्रजापतो ब्रह्मचर्यमुवासेति यदाहुः प्राज्ञाः तदेतत्‌ पूर्वोक्तप्रकारेण ज्ञातव्यम्‌ ॥ 3 ॥ 11 ॥ य एषोन्तरिक्षणीत्यादिना जीवस्य जाग्रत्स्वप्नसुषुप्त्यवस्थाप्रवर्तको हरिरित्युपदिश्य प्रकारान्तरेण तस्य जीवाद्वैलक्षण्यमुपपादयति ॥ मववन्नित्यादिना ॥ तत्र तावत्‌ जरामृत्युपरीतशरीरवत्त्वतद्राहित्यलक्षणं जीवब्रह्मणोर्वैलक्षण्यमादावाह ॥ मघवन्निति ॥ हे मघवन्निदं जीवशरीरं मृत्युना आत्तं व्याप्तमतो मर्त्यं विनाशि । त्तच्छरीरको जीवोपि विनाश्येव । तत्‌ जीवशरीरं अशरीरस्य प्राकृतदेहहीनस्यात एवामृतस्याविनाशिन आत्मनो हरेरधिष्ठानं । जीवेशयो प्रियाप्रियस्पृष्यत्वतदस्पृष्यत्वरूपं वा लक्षणान्तरमाह ॥ अत्त इति ॥ स शरीरो जीवः । प्रियाप्रियाभ्यां परेण प्राप्यसुखदुःखाभ्यामात्तः आक्रान्तः । प्रसिद्धमेतदित्याह ॥ न ह वा इति ॥ अपहतिहीनिर्नास्ति । ह वै प्रसिद्धम्‌ । वावेत्यवधारणे । अशरीरं सन्तं हरिं नैव स्पृशत इति वैलक्ष्यमित्यर्थः ॥ 1 ॥ जीवन्मुक्तान्वाय्वादीनपि प्रियाप्रिये न स्पृशतः किमु विष्णुमशरीरं इति भावेनाह ॥ अशरीरो वायुरिति ॥ वायुर्मुख्यवायुः अशरीरः । अभ्रं आप्नोति व्याप्नोति जगदित्यप्‌ शब्दितेन हरिणा भ्रियमाणत्वादभ्रं ब्रह्मा । विशेषेण द्योतत इति विद्युन्नाम्नी भारती स्तनयित्नुः । सर्वशब्दमानित्वात्‌ स्तनयित्नुनाम्नी सरस्वती । इत्येतानि त्रीण्यशरीराणि वायुश्ऱ्चाशरीरः वाय्वादयश्ऱ्चत्वारो देहवन्तोपि तदभिमानामभावादशरीराण्येव तादृशान्यपि प्रियाप्रिये न स्पृशतः किमु परेशमिति वाक्यशेषः । अत्र यद्यपि ब्रह्मवाय्वोः परेणेयं भगवता प्राप्यं प्रियमस्ति । भारतीसरस्वत्योस्तु भगवत्प्राप्यं स्वस्वभर्तृप्राप्यं चास्ति सुखं तथापि तदन्येन प्राप्यं सुखं नेति प्रियस्पृष्यिश्ऱ्चतुर्णां नेत्युक्तं मुक्तोपीशप्रसादादेव भोगान्‌ मुङ्‌क्ते । अतोपि जीवेशयोर्वैलक्षण्यमित्याह ॥ तद्यथेति ॥ तन्निदशर्नं यथा । एतानि वाय्वभ्रविद्युत्‌ स्तनयित्नुशब्दितानि अमुष्मादाकाशात्परमात्मनः समुत्थाय उत्पद्य परंज्योतिः परमात्मानमेवोपसम्पद्य स्वेन रूपेण निजानन्दनुभवरूपेणाभिनिष्पद्यन्ते ॥ 2 ॥ एवमेवैष ज्ञान जीवः । सम्प्रसादः सम्यक्‌ भगवत्प्रसादयुक्तः । अस्माच्छरीरात्समुत्थाय परंज्यातिरुपसम्पद्य स्वन रूपेण निजानन्दानुभवरूपेणाभिन्पिद्यते । उक्तवैलक्षण्यसिद्धमर्थमाह ॥ स इति ॥ यं प्राप्य मुक्तोभूत्‌ स परंज्योतिः शब्दोक्तः उत्तमः पुरषः । स मुक्तो जीवः तत्र भगवल्लोके । पर्येति परितः सञ्चरति । कथं जक्षन्‌ भक्षयन्‌ । क्रीडन्नित्यादिज्ञानिभिः सह मुक्तैः अज्ञातिभि; पूर्वमुक्तैः । वयस्यैः सखिभिः । तदाह सूत्रकारः उत्तराचेच्चदाविर्भूतस्वरूपस्त्विति । विहारोपदेशादिति च । रमणातिशयप्रकारमाह ॥ नोपजनमिति ॥ उपजनं परिसरवर्तिजनम्‌ । शरीरं स्वशरीरं च । न स्मरन्‌ रमत इति रमणातिशयोक्तिः । पूवर्ं तदेतच्छारमशरीरस्यात्मनोधिष्ठातृत्वमिति सदृष्यान्तमाह ॥ स यथेति ॥ आचरणे रथप्रवर्तने । स बुद्धिस्थः । प्रायोग्यः सारथिः । याने यथा नियुक्तः एवमेवायं प्राणो मुख्यवायुरस्मिन्‌ शरीरे तत्प्रवर्तनाय युक्तः सारथित्वेन नियुक्तः विष्णुस्तुरथिकवद्देहाधिष्ठातेत्युक्तमेव । जीवस्तु अन्यरथगवधिष्ठतीति भावः ॥ 3 ॥ चक्षुरादेरन्यप्रयोज्यत्वरूपकरणत्वान्न देहाधिष्ठातृत्वमिति भावेन तस्य करणत्वमाह ॥ अथ यत्रैतदिति ॥ एतच्चक्षुर्यत्र यदधीनं सत्‌ । रश्मिभिरराकाशमनु विषण्णमभिव्याप्तमस्ति । स चाक्षुषः चक्षुः स्वामी पुरुषः हरिः ॥ देहाधिष्ठाता रथिकवदिति भावः । दर्शनाय चक्षुःकरणमिति यावत्‌ । नतु देहाधिष्ठात्रिति भावः । भगवान्‌ स्वरूपेन्द्रियैः सर्वभोगान्‌ भोक्तुं शक्तोपि लीलया जीवदेहमधिष्ठाय स्वकीयेन्द्रियमिलितैः जीवदेहगतचक्षुरादीन्द्रियैः पुरुषभोग्यविषयान्‌ सवा
?Rन्‌ भुङ्‌क्त इति तार्त्पं ज्ञेयम्‌ । ज्योतिराद्यधिष्ठानं तु तदामननादित्यत्र चक्षुरादिकरणानां भगवदीयत्वसमर्थनात्‌ । अथ यो देहाधिष्ठाता विष्णुः इदं सुगन्धं जिघ्राणीति वेद । स आत्मा देहस्वामी । गन्धाय तस्य गन्धमानाय घ्राणमित्यर्थः । एवमग्रेऽपि ज्ञेयम्‌ ॥ 4 ॥ स आत्मेत्यनन्तरं मननाय मन इति पूरणीयम्‌ । न केवलं देहाधिष्ठातृत्वमात्रं किन्तु मन आदीन्द्रियाण्यप्यधिष्ठाय भोगान्‌ मुङ्‌क्त इति भावेनाह ॥ दैवं मनः दैवं चक्षुरिति ॥ देवाधिष्ठितमित्यर्थः । यद्वा दैवं तत्तदभिमानिदेवाधिष्ठितमित्यर्थः । अन्येन्द्रियोभ्यो जीवेन्द्रियेभ्यः । अनयोः परमात्मेन्द्रियाभिमानिनोर्दीप्यमानत्वात्‌ एते दैवमनश्ऱ्चक्षषी । भगवतो विषयभोगे मुख्यकारणमित्याह ॥ स वा एष इति ॥ 5 ॥ एवं हरिरेव जीवशरीरमधिष्ठाय सारथ्‌यादिरूपान्‌ प्राणादीन्‌ नियमयतीत्येवमुपासकस्य फलमितिहासपूर्वमाह ॥ य एत इति ॥ ब्रहमलोके य एते देवाः तमेवमात्मानमुपासते तेषु देवेषु रमत इत्यन्वयः । तस्मात्तदुपासनावत्त्वात्तेषां सर्वे लोका आत्ताः प्राप्ताः योधिकारी तमात्मानमनुविद्य शास्त्रतो विचार्य । विजानात्यपरोक्षतः । स ज्ञानी सर्वान्‌ लोकान्‌ सर्वांश्ऱ्च कामानापनोतीति प्रजापतिनोक्तं
?Rसर्वमनूद्योपसंहरत्युपनिषत्‌ ॥ इति ह प्रजापतिरुवाचेति ॥ 6 ॥ 12 ॥ एवं शरीरहृद्गतस्योपास्तिमुक्त्वा तत्साध्यां तद्योग्यानां विश्ऱ्वरूपोपास्तिमाह ॥ श्यामादिति ॥ श्यामात्‌ हृद्गतरूपात्‌ । तदुपासनयेति यावत्‌ शबलं शबलवर्णम्‌ । चक्षुर्गतं विश्ऱ्वरूपम्‌ । प्रपद्ये उपास्य ज्ञातवानस्मि । शबलाद्विश्ऱ्वरूपानुग्रहात्‌ । श्यामं हृद्गतम्‌ । प्रपद्ये उपास्य ज्ञातवान्‌ प्राप्नुयामिति वा । एवं हृद्‌जगताक्षिस्थयोरुपास्तिमुक्त्वा तत्प्रार्थनाप्रकारमाह ॥ अश्ऱ्व इवेति ॥ अश्ऱ्वो रोमाणीवाहं पापं विधूय राहोर्मुखाच्चन्द्र इव शरीरं धूत्वा प्रमुच्य । कृतात्महमकृतम्‌ । नित्यम्‌ । ब्रहमलोकमभिसम्भवामीति द्विरुक्ति रादरार्था ॥ 23 ॥ पूर्वं यावान्वा अयमाकाश इति व्याप्तो हरिः प्रकृतः । तदुपास्तिमाह ॥ आकाश इति ॥ आ समन्तात्काशते प्रकाशत इत्याकाशनामा हरिः । नामरूपयोः निवहिता शब्दप्रपञ्चार्थप्रपञ्चयोर्निवोढा वै नाम प्रसिद्धम्‌ । यत्‌ ते नामरूपे अन्तराविना वर्तते तत्‌ ब्रह्म तदमृतं स आत्मा इत्युपासितव्यमित्यर्थः । तदाह सूत्रे आकशोर्थान्तरत्दव्यपदेशदिति । तत्प्रार्थनाप्रकारमाह ॥ प्रजापतेरिति ॥ मगवतः सभां वाश्म च प्रपद्ये । ब्राह्मणानां मध्ये यशो यशस्वी भवामि राज्ञां यशो यशस्वी विशां यशोहमनुप्रापत्सि प्राप्नुयाम्‌ । सहाहं सोहम्‌ । यशसां यशः यशस्विनां यशोदा अहं स्याम्‌ । यद्वा यशस्विनां यशोदातृश्ऱ्वेतं श्ऱ्वसनं इतं प्राप्तं श्ऱ्वसने स्थितं श्ऱ्वसनगमिति क्वचिद्भाष्यपाठः । तदा वायुगमित्यर्थः । अदत्कं अनुभूयमानसुखोपेतं लिन्दुं रतिप्रदं हरिमाभिगामभ्यगां प्राप्तवानस्मीति चतुर्मुख उवाचेति योज्यम्‌ । द्विरुक्तिरादरार्था ॥ 14 । आदरजननाय एतदुपनिषत्प्रवर्तकानाह श्रुतिः ॥ तद्धैतदित्यादिना ॥ तदेतद्ब्रह्मा भगवान्‌ । प्रजापतये चतुर्मुखाय । स च स्वायम्भुवमनवे । स च प्रजाभ्य उवाचेत्यर्थः । एवं परम्परागतत्वादद्यतनोपि मुमुक्षुरेतदभ्यासी स्यादित्याशयेनैतदुपनिषदभ्यासिनो यमनियमोक्तिपूर्वमपुनरावृत्तिरूपं फलमाह ॥ आचार्येत्यादिना ॥ आचार्यकुलाद्वेदमधीत्य सहाथर्तोध्ययनं कृत्वा । यथाविधानं गुरोः कर्म अतिशेषेण निश्शेषेणाभिसमावृत्या समाप्य । कुटुम्बे गृहस्थाश्रमे वर्तमानः । शुचो देशे स्वाध्यायमधीयानः । धार्मिकान्‌ धर्मसंम्बन्धिनो विदधत्‌ विशेषेण धारयन्‌ । आत्मनि परमात्मनि । सर्वेन्द्रियाणि सम्यक्‌ प्रतिष्ठाप्य सर्वेन्द्रियाणि विषयेभ्यः प्रत्याहारेण निरुध्य बहिर्वृत्तिकं चित्तं परमात्मनि सम्यक्‌ प्रतिष्ठाप्येति यावत्‌ । तीर्तेभ्यः शास्त्रोक्तेभ्यः यत्र यज्ञादौ हिंसा शास्त्रोक्ता ततोन्यत्र सर्वभूतान्यहिंसन्‌ स खलु कुटुम्बी । यावदायुषं एवं वर्तयन्‌ वर्तमानः ब्रह्मलोकमभिम्पद्यते । नच पुनरावर्तते तवि निजानन्दमनारतमनुभवन्नास्त इति । पुनरुक्तिरादरार्था । एतच्च कुत्स्नगऽहस्थाश्रमधर्मोपेतदेव विषयम्‌ । तदाह सूत्रे कृत्स्नभावात्तु गऽहिणोपसंहार इति ॥ 15 । इतिच्छन्दोग्योपनिषद्भाष्याद्युक्तार्थसङ्ग्रहः । राघवेन्द्रेणयतिना कुतस्सज्जनसंविदे । समस्तगुणपूर्णेन श्रीप्राणपतिनेरितः । यदवोचमहं तेन प्रीणातु पुरुषोत्तमः ॥

इति श्रीमच्छन्दोग्योपनिषदर्थसङ्ग्रहे सुधीन्द्रगुरुपादशिष्यराघवेन्द्रयतिकृते अष्टमोध्यायः ॥ 8 ॥
॥ श्री कृष्णार्पणमस्तु ॥

]