०५ पञ्चमोऽध्यायः

यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च ..

॥ अथ श्रीमच्छान्दोग्योपनिषदर्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते पञ्चमाध्याये प्रथमः खण्डः ॥

उपनिषत्

इन्द्रियाभिमानिनां मुख्यप्राणाधीनत्वनिरूपणम्

॥ ॐ ॥ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

॥ हरिः ॐ । संवर्गविद्यायामग्र्यादिसर्वभक्षकतया यज्ञविद्यायां सर्वसिद्धिकर्तृत्वेन वायुः प्रकृतः । मुमुक्षोस्तत्प्रसादस्य सर्वथाऽपेक्षितत्वात् तद्विषयां प्राणविद्यामाह - यो हवा इति ॥ प्रसिद्धो योऽधिकारी ज्येष्ठं वयसोत्तमं श्रेष्ठं गुणत उत्तमं वेद स मुक्तौ स्वजातीयानां मध्ये ज्येष्ठश्च श्रेष्ठश्च भवति ह वै । को वा ज्येष्ठश्च श्रेष्ठश्चेत्यत आह- प्राणो वा इति ॥ १ ॥

उपनिषद्

यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग् वाव वसिष्ठः ॥२॥

छान्दोग्योपनिषत्खण्डार्थः

यो हवै वसिष्ठं वसतामुत्तमं वाक् वागिन्द्रियमानी वह्निः । वसिष्ठः समीपे वसतामुत्तमः ॥२॥

उपनिषद्

यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिंश्च लोकेऽमुष्मिंश्च चक्षुर्वाव प्रतिष्ठा ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

प्रतिष्ठां स्थितिहेत्विन्द्रियदैवतम् । प्रतितिष्ठति यत्र स्थातुमिच्छति तत्र सुखं तिष्ठतीत्यर्थः । चक्षुश्चक्षुर्मानी सूर्यः ।

॥ ३ ॥

उपनिषद्

यो ह वै सम्पदं वेद सर्वं हास्मै कामाः सम्पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

सम्पदं सम्पद्धेत्विन्द्रियमानिनम् । सम्पद्यन्ते दैवाश्च मानुषाश्च कामा इत्यन्वयः । श्रोत्रं श्रोत्रमानीन्द्रः ॥ ४ ॥

उपनिषद्

यो ह वा आयतनं वेदाऽयतनं ह स्वानां भवति मनो ह वा आयतनम् ॥५॥

छान्दोग्योपनिषत्खण्डार्थः

आयतनं गृहप्रासादाद्यायतनहेत्विन्द्रियमानिनं मनः मनोभिमानी रुद्रः ॥५॥

उपनिषद्

अथ ह प्राणा अहं श्रेयसि व्यूदिरेऽहं श्रेयानस्म्यहं श्रेयानस्मीति ॥ ६ ॥

छान्दोग्योपनिषत्खण्डार्थः

वायोः संहर्तृत्वोपयुक्तमतिबलिष्ठत्वं मीमांसया साधयति– अथ हेति । प्राणा वागादीन्द्रियमानिनो ऽहंश्रेयसि अहं श्रेयानहं श्रेयानित्येवं स्वस्वत्रैष्ठ्यविषये व्यूदिरे विवादं कृतवन्तः । अहं श्रेयसीत्युक्तं व्यनक्ति अहमिति ॥ इति व्यूदिरे इत्यन्वयः ॥ ६ ॥

उपनिषत्

ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन् को नः श्रेष्ठ इति तान् होवाच यस्मिन् व उत्क्रान्ते इदं शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ७ ॥

छान्दोग्योपनिषत्खण्डार्थः

ते एवं विवदमानाः प्राणा वागाद्यभिमानिनो वह्नयाद्याः पितरं प्रजापतिं ब्रह्माणमेत्य प्राप्य हे भगवन् ! नोऽस्माकं मध्ये कः श्रेष्ठ इत्यूचुरित्यन्वयः । वो युष्माकं मध्ये यस्मिन्नुत्क्रान्त इदं मदीयं शरीरं पापिष्ठतरमिव हेयमिव शवतुल्यं दृश्येत त्रः युष्माकं मध्ये सश्रेष्ठ इति तान् प्राणानुवाच ह ब्रह्मेति योजना ॥ ७ ॥

उपनिषत्

साह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथाऽकला अवदन्तः प्राणन्तः प्राणेन पश्यन्त-चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ८ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवं प्रजापतिनोक्ता देवा ब्रह्मदेहादुत्क्रान्ताः । तथाऽपि देहो न पापिष्ठ आसीन् मुख्यवायोरुत्क्रान्तौ तथाऽऽसीदित्याह् वागादयो देवा इति ज्ञेयम् । उच्चक्राम विरि देहान्निर्ययौ । प्रोष्य प्रवासं कृत्वा, पर्येत्य आगत्य, मदृते जीवितुं कथमशकत शक्ता अभवन् भवन्त इति देहस्थानन्यान् देवानुवाचेति योजना ॥ ८ ॥

उपनिषच्

चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा अन्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ९ ॥

श्रोत्रं होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ १० ॥

छान्दोग्योपनिषत्खण्डार्थः

एवमग्रेऽपि । एवमुक्तास्ते वाचं प्रत्यूचुर् यथेत्यादि ॥ अकला मूकाः । प्राणेन प्राणेन प्राणन्तः श्वसन्तः । एवमजीविष्मेत्यूचुरित्यर्थः । एवमग्रेऽपि ज्ञेयम् ॥ ९ ॥ १०॥

उपनिषन्

मनो होच्चक्राम तत् संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥। ११ ॥

छान्दोग्योपनिषत्खण्डार्थः

अमनसः प्राणेतरमनोभिमान्यनधिष्ठितमनस्काः ॥ ११ ॥

उपनिषद्

अथ ह प्राण उच्चिक्रमिषन् स यथा सुहयः पट्वीशशङ्कून् सङ्खिदेदेवमितरान् प्राणान् समाखिदत् तं ह अभिसमेत्योेचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति ॥ १२ ॥

छान्दोग्योपनिषत्खण्डार्थः

पद्वीशशत्रून् हयबन्धनरज्ज्वाश्रयाणीन् समखिदद् उद्वबर्ह । तं प्राणं सर्वे वागादयो देवा अभिसमेत्य हे भगवन् ! एधि भव, आस्स्वेति यावत् । मोत्क्रमीः, नो अस्माकं मध्ये त्वं श्रेष्ठोऽसीत्यूचुः ॥ १२ ॥

उपनिषद्

अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं प्रतिष्ठाऽस्मि त्वं तत्प्रतिष्ठोऽसीति ॥ १३ ॥

अथ हैनं श्रोत्रमुवाच यदहं सम्पदस्मि त्वं तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥ १४ ॥

छान्दोग्योपनिषत्खण्डार्थः

श्रेष्ठोऽसीत्युक्तं गुणत आधिक्यं विविच्याऽह-अथ हैनमिति ॥ वसिष्ठत्वादयो वागादीनां ये गुणास् ते सर्वे प्राणे मुख्याः । वागादिष्वस्मासु त्वौपचारिकास्त्वदधीना इति वागादयः प्राणं विज्ञापितवन्त इति वागुवाचेत्यादिवाक्यचतुष्टयस्यार्थः । अहं वसिष्ठाऽस्मीति यत् तद्वसिष्ठ स्त्वमसीत्यादियोजना ॥ १३ ॥ १४ ॥

उपनिषन्

न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ १५ ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

वसिष्ठत्वादिकं प्राणाधीनमित्यत्र ज्ञापकमाह न वै वाच इत्या- दिना ॥ वागादीन्द्रियाभिमानिनो न वागादयोऽभवन् । स्वातन्त्र्येण स्वब्यापारदक्षा न भवन्तीत्याचक्षते प्राज्ञाः । तर्हि किमधीनाः सन्तः स्वस्वव्यापारदक्षा इत्यत आह प्राण इति ॥ वागादीन्द्रियजातं प्राणा इत्येवाऽचक्षते । कुतः ? हि यस्मात् सर्वाणि एतानि वागादीनि प्राण एव भवति, प्राणोऽधिष्ठाता तेषामत इति ॥ १५ ॥ इति प्रथमः खण्डः

अथ द्वितीयः खण्डः

उपनिषत्

अस्माभिरद्यमानं सर्वं मुख्यप्राणस्यान्नसमर्पणमेव

स होवाच किं मेऽन्नं भविष्यतीति यत्किञ्चिदिदमाश्वभ्य आशकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो ह वै नाम प्रत्यक्षं न ह वा एवंविदि किञ्चनानन्नं भवतीति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

त्वं नः श्रेष्ठोऽसीत्युक्त्या श्रेष्ठश्वेदहं तर्हि ममान्नं सर्वैः कल्प्यतामित्याह- स हेति । स प्राणः किमन्नं मे भविष्यतीत्युवाच । श्वपक्षिपर्यन्तं प्राणिजातं यत्किञ्चिदिदं योग्यमन्नमत्ति तत्तेऽन्न- मित्यूचुरित्यर्थः । प्राणैरम्यादिभिर्दत्तमन्नं पूर्वमपि तदीयमेवेत्याह - तद्रा (१) एतत् सर्वप्राणिभिरद्यमानम् अनस्य प्राणस्यान्नं वै कुतः ? इत्यतस्तस्य सर्वेन्द्रियाधिष्ठातृत्वादित्याह् - अनो ह वै नाम प्रत्यक्षमिति ॥ अक्षेषु इन्द्रियेषु प्रति प्रतिस्थितः । शब्दस्वाभाव्यान्नपुंसकता । फलमाह - न ह वा इति । एवंविदि सर्वं प्राणस्यान्नमिति ज्ञानिनि किञ्चनानन्नं न भवति हवै । सर्वमस्यान्नं भवतीत्यर्थः ॥ १ ॥

उपनिषत्

**( भोजनपूर्वोत्तरयोरापोदानं प्राणदेवस्य वस्त्रसमर्पणम् ) **

स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

किं मे वासो वसनं भविष्यतीति स प्राणः पुनरुवाच । आपः प्राणिभिः पीयमाना आपस्ते वास इति प्राणा ऊचुरित्यर्थः । तत्र वृद्धाचारं प्रमाण- १. अत्र ‘तद्वेति’ इति प्रतीको धर्तव्य इति भाति ।यति - तस्मादिति । प्राणस्यान्नमानिनो वस्त्ररूपत्वादेवैतदन्नम् अशिष्यन्तो भोक्ष्यमाणाः पुरस्तादुपरिष्टाच्चाद्भिः परिदधति आच्छादयन्ति पूर्वोत्तरापोऽशनं कुर्वन्ति । वासो वसनं लम्भुको लब्धा भवति । अनग्नो भवति प्राण इति बुद्ध्याऽद्भिः परिदधतीत्यर्थः । यद्वा, प्राणस्य वस्त्रबुद्ध्या भोजनोभयतोऽपः पिबन् इहामुत्र च वासो लम्भुको भवत्यनग्नो भवतीति ज्ञानपूर्वकमनुतिष्ठतः फलवाक्यमिदम् ॥ २ ॥

उपनिषत्

प्राणतत्त्वज्ञानस्य मोक्षसाधनत्वनिरूपणम्

तद्वैतत् सत्यकाम जाबालो गोश्रुतये वैय्याघ्रपद्यायोक्त्वोवाच यद्यप्येतच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

इयं प्राणविद्यापरम्परा गता चेत्याह - तद्वैतदिति । तदेतत् तामेतां प्राणविद्यां सत्यकामो जावालो नाम्ना गोश्रुतये वैयाघ्रपद्याय व्याघ्रपात्पुत्रायोक्त्वा फलं चोवाच तत्फलमाह यद्यपीति ॥ प्राणविद्यायां योग्यां यदि कर्मवशात् स्थाणुतां प्राप्याऽस्ते तादृशाय शुष्काय स्थाणवेऽपि यदि एतद् एतां प्राणविद्यां ब्रूयाद् अस्मिन् स्थाणौ शाखा जायेरन्। पलाशानि पर्णानि प्ररोहेयुरित्युवाचेत्यन्वयः ॥ ३ ॥

उपनिषत्

मन्थहोमेन महत्त्वप्राप्तिकथनम्

अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्यां रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय श्रेष्ठाय

स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

प्राणोपास्त्यङ्गभूतं महत्त्वप्रापकं होमं द्रव्यमन्त्रहोमप्रकारादिपूर्वमाह - अथ यदीत्यादिना ॥ महन् महत्त्वं जिगमिषेत् प्राप्तुमिच्छेत् । सर्वौषधस्य सर्वधान्यस्य मन्थं वितुषीकरणेनाऽलोडितं पिष्टं दधिमधुनोर् दधिमधुभ्याम् उपमथ्य सम्पिष्य, आज्यस्य हुत्वा आज्याहुतिं ज्येष्ठाय श्रेष्ठाय स्वाहेति कृत्वा, आज्यस्य सम्पातं सम्पातनं धारां मन्थे अवनयेत् ॥ ४ ॥

उपनिषद्

वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमनयेदायतनाय स्वाहेत्यग्नावाज्यास्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ५ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवं वसिष्ठायेत्यादिवाक्यचतुष्टयस्याप्यर्थो ध्येयः ॥ ५ ॥

उपनिषद्

अथ प्रतिसृप्याजलौ मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिदं स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः स मा ज्यैष्ठं श्रैष्ठं राज्यमाधिपत्यं गमयत्यहमेवेदं सर्वमसानीति ॥ ६ ॥

छान्दोग्योपनिषत्खण्डार्थः

अथेत्यर्थान्तरे । मन्थं प्रतिसृष्य प्राप्याञ्जलौ निधाय जपति जपेत् । मन्त्रमाह – अमोनामेति । मन्थमानिनं प्राणं प्रत्युच्यते । हे अम अमित त्वम् अमोनामाऽसि अमितोऽसि । कुतः ? हि यत इदं सर्वं ते तव त्वत्स्वामिकम्। अतः स हि मन्थदेवः प्राणो ज्येष्ठः श्रेष्ठो राजा अधिपतिः । स मन्थदेवः मा मां समानेभ्यः ज्येष्ठ्यं श्रैष्ठ्यं राज्यम् आधिपत्यं च गम- यतु । अहमेवेदं सर्वं स्वयोग्यपूर्णो ऽसानि भवानीति जपतीत्यन्वयः ॥ ६ ॥

उपनिषद्

अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठं सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति ॥ ७ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवं मन्थं जप्त्वा मन्त्रपूर्वं तद्भक्षणमाह- अथेति । अनन्तरम् एतया ऋचा आचामति, ‘चमु अदने ’ अत्तीत्यर्थः । ’ तत्सवितुः’ इति मन्त्रेण, पच्छः पादशः । त्रिरवदाय भक्षयित्वा चरमपादेन सर्वं भक्षयेदित्याह तत्सवितुरिति । तत्सवितुर् जगत्प्रसवितुर् देवस्य विष्णोः सकाशाद् वयं भोजनं रक्षां सर्वभोगांश्च वृणीमहे प्राप्नुवाम । भगस्य समग्रैश्वर्यादि- सर्वगुणस्वरूपस्य विष्णोर् भृत्यरूपं तुरं वायुं सर्वधातुषूत्तमं च धीमहि ध्यायेमेति मन्त्रार्थः ॥ ७ ॥

उपनिषन्

निर्णिज्य कसं चमसं वा पश्चादग्नेः संविशति चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं पश्येत् समृद्धं कर्मेति विद्यात् ॥ ८ ॥

छान्दोग्योपनिषत्खण्डार्थः

कंसं चमसं वा मन्थपात्रं निर्णिज्य प्रक्षाल्याग्नेः पश्चात् संविशति स्वपेत् । चर्मणि कृष्णाजिने व्याघ्रचर्मणि वा स्थण्डिले वा केवलायां वा भुवि वाचंयमो मौनी, अप्रसाहः स्त्रीरहितः, संविशतीति पूर्वेणान्वयः । स यदि स्वप्ने स्त्रियं सुमङ्गलीं पश्येत् समृद्धं सफलं कर्मेति विद्यात् ॥ ८ ॥

उपनिषत्

तदेष श्लोकः

यदा कर्मसु काम्येषु स्त्रियं स्वप्नेऽभिपश्यति । समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने तस्मिन् स्वप्ननिदर्शन इति ॥ ९ ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

स्त्रीदर्शनं कर्मसमृद्धिज्ञापकमित्यत्र श्लोकं प्रमाणयति - तदेष इति ॥ तत् तत्र उक्तेऽर्थे काम्येषु कर्मसु क्रियमाणेषु यदा यदि तत्र तर्हि स्वप्ननिदर्शने स्वप्राख्यदृष्टान्ते जाते सति समृद्धिं जानीयादित्यर्थः । तदाह सूत्रे ‘सूचकच हि श्रुतेराचक्षते च तद्विदः’ (ब्र. सू. ३ - २-४ ) इति ॥ इति द्वितीयः खण्डः ॥ ॥ ९ ॥

॥ इति द्वितीयः खण्डः ॥

अथ तृतीयः खण्डः

उपनिषत्

देवयानपितृयाणमार्गनिरूपणम्

श्वेतकेतुर्ह आरुणेयः पञ्चालानां समितिमेयाय तं ह प्रवाहणो जैबलिरुवाच कुमारानु त्वाऽशिषत् पितेत्यनु हि भगव इति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

यो हवै ज्येष्ठमित्यादिना स्वसमानाधिक्यापादकविद्योक्ता । सर्व- पापालेपपुण्यलोकापादकपञ्चाग्निविद्यां सोपोद्घातमाख्यायिकयाऽष्टभिः पर्वभिराह— श्वेतकेतुरित्यादिकया ॥ श्वेतकेतुर्नामतः, अरुणेरपत्य-मारुणेयः पञ्चालानां पञ्चालदेशीयजनानां समितिं सभामेयाय प्राप्तवान् । तं ह श्वेतकेतुं प्रवाहणो नाम राजा जिबिलस्यापत्यं जैबिलिरुवाच हे कुमारा ३ इति सम्बोध्य ते पिता त्वा त्वाम् अनुशिषद् अन्वशिषद् विद्यामुप- दिष्टवान् किमित्युवाचेत्यर्थः । कुमार आह - हे भगवः ! अनुशिषदित्य- नुकर्षः । अनुशिष्टोऽस्मि पित्रेत्युवाचेत्यर्थः ॥ १ ॥

उपनिषद्

वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति । वेत्थ यथा पुनरावर्तन्ता३ इति न भगव इति वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना ३ इति न भगव इति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

इति तेनोक्तो राजा पप्रच्छेत्याह श्रुतिः - वेत्थेति ॥ यद् अधि अधिकृत्य इतो लोकात् प्रयन्ति गच्छन्ति तद् वेत्थ जानासि किमिति पप्रच्छ राजेति योज्यम् । कुमार आह - नेति न वेद्मि भगवः, इति कुमार

उवाच एवमग्रेऽपि प्रश्नप्रत्युत्तरे ज्ञेये । व्यावर्तना व्यावर्तनानि मध्ये प्राप्यस्थानानि । यथा येन प्रकारेण वर्तते तं प्रकार वेत्थ किमित्यर्थः ॥ २ ॥

उपनिषद्

वेत्थ यथाऽसौ लोको न सम्पूर्यता ३ इति न भगव इति वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति नैव भगव इति ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

असौ लोकः परलोकः । इतो गतैर्न सम्पूर्यते तद् वेत्थ किमिति ? सर्वत्र प्लुतिः प्रश्नद्योतिका । पञ्चम्यामाहुतौ आहूयते स्थाप्यते अत्रेत्याहुतिः प्रक्षेपस्थानम्, तस्याम् । हुता इति शेषः । यत्र पञ्चमस्थाने प्रक्षिप्ता आपो ऽबादिपञ्चमहाभूतोपलक्षिता जीवाः पुरुषवचसः पुमांस इति स्त्रिय इति शब्दभाजो भवन्ति तद् वेत्थ किमित्यर्थः

॥ ३ ॥

उपनिषद्

अथ नु किमनुशिष्टोऽवोचथा यो हीमानि न विद्यात् कथं सोऽनुशिष्टो ब्रवीतेति स हाऽऽयस्तः पितुरर्धमेयाय तं होवाचाननुशिष्य वाव किल मा भगवानब्रवीदनु त्वाऽशिषमिति ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

राजा वक्ति-अथेति । अथ नु एवं तर्हि किमर्थमनुशिष्टोऽस्मीत्य-वोचथा उक्तवानभूः । यो हीमानि मया पृष्टानि प्रमेयाणि न विद्यात् स कथमनुशिष्टोऽस्मीति ब्रवीत ब्रूयादिति राजोवाचेत्यर्थः । स श्वेतकेतुर् आयस्तः सखेदः पितुरर्धं स्थानमेयाय जगाम । तं पितरमुवाच । हे भगवन् मा माम् अननुशिष्य अनुपदिश्यैव किल त्वा त्वाम् अनुशिषम् अन्वशिषमित्यब्रवीद् भगवान् ॥ ४ ॥

उपनिषत्

पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत् तेषां नैकं च नाशकं विवक्तुमिति स होवाच यथा मा त्वं ततैतानवदो यथाऽहमेषां नैकं च न वेद यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५ ॥

छान्दोग्योपनिषत्खण्डार्थः

राजन्यबन्धुः राजाधमः मा मां पञ्च प्रश्नानप्राक्षीत् प्रष्टव्यार्थान् पृष्टवान् । तेषां मध्ये एकञ्चन विवक्तुं विविच्य वक्तुं नाशकं शक्तो नाभूवं, तानू मे ब्रूहि इत्युवाचेत्यपि ज्ञेयम् । क्रोधाद् राजन्यबन्धुरित्युक्तिः । स पुत्रेणैवमुक्तः पिता, हे तत ! तात ! त्वम् एतान् प्रश्नान् यथा यथावद् वक्तुं मा मामवदः । एषां मध्ये अहं यथा यथावत् किञ्चन किमपि न वेद न जानामि । यद्यहमिंमान् प्रश्नार्थानवेदिष्यं ज्ञातवानभविष्यं कथं ते नावक्ष्यमित्युवाच पिता ॥ ५ ॥

उपनिषत्

स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हाञ्चकार स ह प्रातः सभाग उदेयाय तं होवाच मानुषस्य भगवान् गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव राजन् मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥ ६ ॥

छान्दोग्योपनिषत्खण्डार्थः

स गौतमो राज्ञोऽर्द्धं स्थानमेयाय गतवान् । प्राप्ताय तस्मै गौतमायाह पूजां चकार राजा । स कृतार्हणो गौतम उषित्वा परेद्युः प्रातःकाले सभागः सभागधेयः सोपायन उदेयाय राजानमुपागतवान् । राजा दैववित्तलिप्सयाऽयमागतवानिति तन्मनोगतं ज्ञात्वा तं गौतमं हे भगवन् ! गौतम ! मानुषस्य वित्तस्य हस्त्यश्वगोहिरण्यादेर्वित्तस्य वरं प्राप्तिं वृणीथा भजस्वेत्युवाच । स एवमुक्तो गौतमः, हे राजन् ! मानुषं वित्तं तवैवास्तु, कुमारस्यान्ते समीपे यामेव वाचमभाषथास् तामेव मे मह्यं ब्रूहीत्युवाच ह ॥ ६ ॥

उपनिषत्

तं ह चिरं वसेत्याज्ञापयाञ्चकार तं होवाच यथा मा त्वं गौतमावदो यथेयं न प्राक् त्वत्तः पुरा विद्या ब्राह्मणान् गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ॥ ७ ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

स एवमुक्तो राजा तत्पृष्टस्य गोप्यत्वात् कृच्छ्री क्लेशयुक्तो बभूव । नासंवत्सरवासिने प्रबूयादिति शास्त्रमनुसरन् राजा तं गौतमं चिरं वसेत्याज्ञापयाञ्चकार । तं गौतममुवाच - हे गौतम ! त्वं मा मां यां विद्यां यथा यथावद् वक्तुमवदः, इयं तु विद्या त्वत् त्वत्तः प्राग् ब्राह्मणान् यथा यथावत्, न गच्छति पुरा नागच्छत्, इयं पञ्चाग्निविद्या ब्राह्मणेषु नाऽसीत् । तस्मादेव कारणात् सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनं राज्यरक्षादिरूपमभू-दित्युक्त्वा राजा तस्मै गौतमाय विद्यामुवाचेत्यर्थः ॥ ७ ॥ खण्डः ३

अथ चतुर्थः खण्डः

उपनिषत्

पञ्चानिविद्या

असौ वाव लोको गौतमाग्निस्तस्याऽदित्य एव समिद् रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विष्फुलिङ्गाः॥१॥

छान्दोग्योपनिषत्खण्डार्थः

पञ्चप्रश्नविषयानर्थान् व्युत्क्रमेण सप्तभिः खण्डैरुपदिदिक्षुरादौ चरमप्रश्नविषयपञ्चाग्निविद्यां वेत्थ पञ्चम्यामाहुतावाप इत्येतदुत्तरस्य प्रथमादिसापेक्षत्वात् तदुक्तिपूर्वमाह - असौ वावेत्यादिपञ्चभिः खण्डैः । असौ लोकः द्युलोकस्थो ऽसुस्थत्वात् प्रकाशरूपत्वाच्चासौ लोक इत्युक्तो नारायणो ऽग्रिर् अत्तीति वा अङ्गनेतृत्वाद्वा अग्निनामा । तस्य द्युलोकस्थस्य नारायणस्य आदित्यः, आदत्त इत्यादित्यनामाऽऽदित्यस्थो नारायणनारायणात्मा समित्, समेधनात् समिदित्युच्यते । रतिशंरूपत्वेन रश्मिनामा रश्मिगतो नारायणवासुदेवात्मा धूत्करोति निराकरोत्यज्ञाना- दीनीति धूमनामोच्यते । बहुरूपत्वाद् बहुवचनम् । एवमग्रेऽपि । तमा अहननीयत्वादहर्नामाऽहर्गतो नारायणसङ्कर्षणात्मा । अर्चिर् अरंचितत्वेन अर्चिरित्युच्यते । सुखरूपत्वाच्चन्द्रमोनामा चन्द्रगतः नारायणप्रद्युम्नात्मा । अङ्गारा अङ्गेषु रमणहेतुनाऽङ्गारा इत्युक्तः । अनन्यराजत्वेन नक्षत्रनामा नक्षत्रगतः । नारायणानिरुद्धात्मा मत्स्यादिरूपेण विविधं स्फुरणाद् विस्फुलिङ्गा इत्युक्तः ॥ १ ॥

उपनिषत्

तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति ॥ २ ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

तस्मिन् द्युलोकस्थे नारायणे एतस्मिन्नारायणाद्यात्मना प्रत्येकं पञ्चधा स्थिते अग्नौ अग्निनामके जीवाख्यवीरूपहोमाधारतयाऽग्निस्थानीये देवाः श्रद्धां श्रद्धापूर्वं यज्ञादिकर्तारं श्रद्धोपलक्षिताबादिपञ्चभूतयुक्तं जीवमि त्यर्थः । उपसंहारे इति तु पञ्चम्यामाहुताबाप इत्यपूशब्देन भूतानामुक्तेः । तदाह सूत्रे ‘प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः’ (ब्र.सू.३-२-५) इति । जुह्वति प्रक्षिपन्ति । तस्या आहुतेस् तस्मात् होमाधारस्थनारायणाद् लोकाग्नितः । सोमो राजा सम्भवति सोमराजानं प्रापयन्ति देवा इत्यर्थः ॥ २ ॥ खण्डः ४ ॥

इति चतुर्थः खण्डः ॥

अथ पञ्चमः खण्डः

उपनिषत्

पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो विद्युदर्चि-रशनिरङ्गारा ह्रादुनयो विष्फुलिङ्गाः ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

पर्जन्यः परमस्य जन्यमस्तीति पर्जन्यनामा मेघचक्रगतो वासुदेवः । अग्निः प्रागुक्तनिरुक्त्याऽग्निनामाऽग्निस्थानीयः, तस्य पर्जन्यस्थस्य वासुदेवस्य । वायुर् ज्ञानरूपत्वायूरूपत्वाभ्यां वायुनामा वायुगतो वासुदेवनारायणात्मा समित् प्रागुक्तनिरुक्त्या समिदित्युच्यते । अपां भरणादभ्रनामाऽभ्रगतो वासुदेववासुदेवात्मा धूमः । विद्योतनाद् विद्युन्नामा विद्युद्गतो वासुदेवसङ्कर्षणात्माऽर्चिः । अशनादशनिनामाऽशनिगतो वासुदेवप्रद्युम्नात्मा अङ्गाराः । निर्ह्रादनाद् हादुनिनामा ह्रादुनिशब्दितमेघ- नादगतो वासुदेवानिरुद्धात्मा विस्फुलिङ्गाः ॥ १ ॥

उपनिषत्

तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेर् वर्षः सम्भवति ॥ २ ॥ ५ ॥

छान्दोग्योपनिषत्खण्डार्थः

तस्मिन्नेतस्मिन्नग्नौ नारायणाद्यात्मना वाय्वादौ पञ्चधा स्थिते पर्जन्यगते वासुदेवे । सोमं राजानं सोमराजं प्राप्तं श्रद्धापदेनोक्तं जीवं तस्या आहुतेः पर्जन्याख्यस्थानाद् वर्षः वृष्टिस्थं कुर्वन्ति देवा इत्यर्थः ॥ २ ॥ खण्डः ५ ॥

इति पञ्चमः खण्डः ॥

अथ षष्ठः खण्डः

उपनिषत्

पृथिवी वाव गौतमाग्निस् तस्य संवत्सर एव समिद् आकाशो धूमो रात्रिरर्चिर्दिशो अङ्गारा अवान्तरदिशो विष्फुलिङ्गाः ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

पृथिवी प्रथितत्वात् पृथिवीस्थः सङ्कर्षणो ऽग्निः । तस्याः पृथिवीस्थसङ्कर्षणस्य संवत्सरो वासयतीति संवत्सरनामा संवत्सरगतः सङ्कर्षणनारायणात्मा समित् । सम्यक् प्रकाशनाद् आकाशनामा आकाशगतः सङ्कर्षणवासुदेवात्मा धूमः । रतिदानाद् रात्रिनामा रात्रिस्थः सङ्कर्षणसङ्कर्षणात्माऽर्चिः । दिशतीति दिङ्नामा दिक्षु स्थितः सङ्कर्षणप्रद्युम्नात्मा अङ्गाराः । अवान्तरं दिशतीत्यवान्तरदिनामाऽ- वान्तरदिक्षु स्थितः सङ्कर्षणानिरुद्धात्मा विस्फुलिङ्गाः ॥ १ ॥

उपनिषत्

तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेर् अन्नं सम्भवति ॥ २ ॥ ६ ॥

छान्दोग्योपनिषत्खण्डार्थः

तस्मिन्नेतस्मिन् संवत्सरादौ नारायणाद्यात्मना पञ्चधा स्थिते पृथिवीस्थे सङ्कर्षणे वर्षं वृष्टौ स्थापितं जीवम् । तस्या आहुतेः पृथिवीस्थानादन्नम् अद्यमानवस्तु सम्भवति, तत्र स्थापयन्तीत्यर्थः ॥ २ ॥ खण्डः ६ ॥

इति षष्ठः खण्डः ॥

अथ सप्तमः खण्डः

उपनिषत्

पुरुषो वाव गौतमाग्निस् तस्य वागेव समित् प्राणो धूमो जिह्वाऽर्चिश्चक्षुरङ्गाराः श्रोत्रं विष्फुलिङ्गाः ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

पुरुषः पुरुत्वात् पूर्णत्वात् पुरुषनामा पुरुषगतः प्रद्युम्नो ऽग्निः । तस्य पुङ्गतस्य प्रद्युम्नस्य वक्तृत्वाद् वाङ्नामा वाचि स्थितः प्रद्युम्ननारायणात्मा समित् । प्राणनात् प्राणनामा प्राणस्थः प्रद्युम्नवासुदेवात्मा धूमः । जिह्वा हूयते अद्यतेऽनेनेति जिह्वानामा जिह्वागतः प्रद्युम्नसङ्कर्षणात्मा अर्चिः । चष्टे पश्यति सर्वमिति चक्षुर्नामा चक्षुःस्थः प्रद्युम्नप्रद्युम्नात्मा अङ्गाराः । श्रवणात् श्रोत्रनामा श्रोत्रगतः प्रद्युम्नानिरुद्धः विस्फुलिङ्गाः ॥ १ ॥

उपनिषत्

तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति ॥ २ ॥ ७ ॥

छान्दोग्योपनिषत्खण्डार्थः

तस्मिन्नेतस्मिन्नारायणादिरूपेण पञ्चात्मना वागादौ स्थिते प्रद्युम्नाख्ये पुरुषगतेऽग्नौ अन्नमद्यमानवस्तुगतं जीवम् । तस्या आहुतेः पुरुषरूप- स्थानाद् रेतो रेतस्थं कुर्वन्तीत्यर्थः ॥ २ ॥ इति सप्तमः खण्डः

इति सप्तमः खण्डः

अथ अष्टमः खण्डः

उपनिषद्

योषा वाव गौतमाग्निस् तस्या उपस्थ एव समित् । यदुपमन्त्रयते स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विष्फुलिङ्गाः ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

योषा सर्वैर्जेष्यत्वाद् योषानामा योषिद्रतोऽनिरुद्धो ऽग्निः । तस्या योषिगतानिरुद्धाख्याग्नेर् उपस्थ उपस्थितेर् उपस्थनामोपस्थगतो ऽनिरुद्धनारायणात्मा समित् । उपमन्त्रयते रत्यर्थं सम्भाषत इति यत् सस् तत्र योऽनिरुद्धवासुदेवात्मोपमन्त्रणनामा धूमः । युनक्ति मिश्रीकरोतीति योनिनामा योनिस्थोऽनिरुद्धसङ्कर्षणात्मा अर्चिः । अन्तः योन्यन्तः करोतीति यत् ते अन्तःकरणकर्ताअन्तःकरणरूपक्रियागतोऽनिरुद्ध- प्रद्युम्नात्मा अङ्गाराः । रूपबाहुल्या बहुवचनमित्यवोचाम प्राक् । अभिनन्दा अभिनन्दतीत्यभिनन्दनामाऽभिनदगतोऽनिरुद्धानिरुद्धात्मा विस्फुलिङ्गाः ॥ १ ॥

उपनिषत्

तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति ॥ २ ॥ ८ ॥

छान्दोग्योपनिषत्खण्डार्थः

तस्मिन्नेतस्मिन्नारायणाद्यात्मनोपस्थादौ पञ्चधा स्थिते योषिद्गतेऽ-निरुद्धाख्याग्नौ रेतोगतं जीवं तत्त्वाभिमानिनो देवा जुह्वति प्रतिक्षिपन्ति, योनिद्वारेति योज्यम् । तस्या आहुतेर् योषिद्रूपहोमस्थानाद् गर्भः सम्भवति शरीरवान् भवति । तदाह सूत्रे ‘योनेः शरीरम् ’ इति ( ब्र.सू.३-२-२८) ॥ २ ॥ इति अष्टमः खण्डः

इति अष्टमः खण्डः

अथ नवमः खण्डः

उपनिषद्

इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा मासानन्तः शयित्वा यावद्वाऽथ जायते

॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

‘वेत्थ पञ्चम्याम्’ इति स्वकृतप्रश्नस्यापेक्षताग्निचतुष्टयपूर्वं योषिदाख्यपञ्चममग्निमुक्त्वाऽधुनोत्तरमाह - इति त्विति ॥ प्रागिवार्थों ध्येयः । इतिशब्दश्चरमप्रश्नोत्तरसमाप्तौ । अत्र ’ वेत्थ यथा पञ्चम्यामा- हुतावापः’ इति प्रश्नवाक्ये ’ इति तु पञ्चम्यामाहुतावापः’ इति प्रतिवचनवाक्ये चापशब्दः पञ्चमहाभूतोपश्लिष्टजीवपरः । तदाह सूत्रेषु ‘तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम्’ (ब्र.सू. ३- १-१), ‘त्र्यात्मकत्वात्तु भूयस्त्वात् ’ ( ब्र. सू. ३-१ - २ ) इत्यादिषु । एवं चरमप्रश्नं परिहृत्यावशिष्टप्रश्नचतुष्टयं परिजिहीर्षु स्तदुपयुक्तमाह- स गर्भ उल्बावृतः जरायुणा वेष्टितः दशमासान् वा यावद्वा कालं स्थातव्यं, तावत्कालं वा अन्तः योषिदन्तः शयित्वा अथानन्तरं जायते ॥ १ ॥

उपनिषत्

स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति त एवेतो यतः सम्भूतो भवति ॥ २ ॥ ९ ॥

छान्दोग्योपनिषत्खण्डार्थः

स जातः यावदायुषं जीवति । तं प्रेतं मृतं दिष्टं कर्मिणं यत एव धुलो- काख्याग्नित इत इमं लोकं प्राप्तः यतः योषिदाख्याग्नितः सम्भूतः जातो भवति, तादृशद्वयाद्यग्नये इतो लोकाद्धरन्ति नयन्तीति ॥ २॥ खण्डः ९ ॥

इति नवमः खण्डः

अथ दशमः खण्डः

उपनिषत्

ज्ञानिनां देवयानेन ब्रह्मप्राप्तिः

तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभि-सम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद् यान् षडुदङ् एति मासां स्तान् ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

केन मार्गेण हरन्तीति शङ्कां परिहरन् वेत्थ यथा देवयानस्येति तृतीयप्रश्नोत्तरेणैवाऽद्यद्वितीयप्रश्नपरिहारः सिद्ध्यतीति भावेन तस्योत्तर- माह - तद्य इति । येऽधिकारिण इत्थमुक्तप्रकारेण तत् पञ्चाग्निस्वरूपं विदुर् ये चामी अरण्ये श्रद्धा तपः, इतिशब्दः प्रभृत्यर्थः, श्रद्धापूर्वकं तपःप्रभृत्यनुतिष्ठन्ति निवृत्तकर्मानुष्ठानपूर्वं भगवद्ध्यानादिकं कुर्वन्ति, ते ज्ञानिनोऽर्चिषमर्चिर्लोकमभिसम्भवन्ति प्राप्नुवन्ति । तदाह सूत्रे ‘अर्चिरादिना तत्प्रथितेः’ (ब्र. सू. ४-३ - १४ ) इति । ‘अर्चिषः’ इत्यादि पञ्चमी । अहो ऽहरभिमानिलोकम् । आपूर्यमाणपक्षं पूर्वपक्षमानिलोक़म् । सम्भवन्तीति क्रियापदं सर्वत्र योज्यम् । उदङ् उत्तरतः यान् मासानादित्य एति । उत्तरायणमानिलोकम् ॥ १ ॥

उपनिषन्

मासेभ्यः संवत्सरं संवत्सरादादित्यम् आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स एतान् ब्रह्म गमयति एष देवयानः पन्था इति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

संवत्सरं संवत्सरमानिलोकं विद्युतं विद्युन्मानिलोकम् । तत्पुरुषस् तस्या विद्युतो भारत्याः पुरुषः पतिर् मानवो वायुः । स एनान् अर्चिरादिना विद्युलोकपर्यन्तमागतान् ब्रह्म गमयति । अस्य वाक्यस्योपकोसल- प्रकरणगतवाक्य इवार्थो ध्येयः । इत्येव देवयानः पन्था इति ॥ २ ॥

उपनिषत्

काम्यकर्मिणां पितृयाणेन स्वर्गप्राप्तिः

अथ य इमे ग्रम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद् रात्रिं रात्रे परपक्षपक्षमपरपक्षाद्यान् षड् दक्षिणैति मासां स्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

अथ य इमे ग्रामे स्थिताः सन्त इष्टं यजनं पूर्वं तटाकादि दत्तं दानम् इति शब्द आद्यर्थः । उपासते ग्रामे स्थित्वा प्रवृत्तकर्मिणो ये ते धूममभि- सम्भवन्ति धूमाभिमानिलोकं प्राप्नुवन्ति । सम्भवन्तीति सर्वत्र योज्यम् । रात्रिं रात्रिमानिलोकम् अपरपक्षं कृष्णपक्षमानिलोकं यान् षण्मासा-नादित्यो दक्षिणा दक्षिणां दिशमेति तान् मासानेति दक्षिणायनमानिलोकं प्राप्नुवन्तीत्यर्थः । एकवचनं बहुवचनार्थे । ते धूममित्युपक्रमात् ॥ ३ ॥

उपनिषन्

मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद् देवानामन्नं तं देवा भक्षयन्ति ॥। ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

मासेभ्यः संवत्सरं संवत्सरात् पितृलोकमिति योज्यम् । आकाशं विनायकलोकम् । एष सोमो राजा चन्द्रः देवानां तत् प्रसिद्धममृताख्य- मन्नम् । तदन्नं देवा भक्षयन्ति ॥। ४ ॥

उपनिषत्

तस्मिन् यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते यथेत-माकाशमाकाशाद् वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति ॥ ५ ॥

छान्दोग्योपनिषत्खण्डार्थः

चन्द्रं प्राप्तास्ते काम्यकर्मिणस् तस्मिन् चन्द्रे यावत्सम्पातं यावत्पतनमुषित्वा अथानन्तरम् एतमेवाध्वानं पुनरावर्तन्ते । एतमित्युक्त- मार्गः क इत्यत आह— यथेतमिति । यथा येन मार्गेण लोकं प्रति इतं गतम् एतमेवाध्वानमित्यर्थः । कियत्पर्यन्तं गतमार्गेणाऽगमनमित्यत- श्चन्द्रादाकाशपर्यन्तं यथेतं तदनन्तरमन्यथेत्याह आकाशमिति ॥

आकाशं प्रति यथेतं पुनस्तथैवाऽकाशं यान्ति, आकाशात्तु पितृलोकादिकं पूर्वप्राप्तं हित्वा वाय्वादिदेवं प्राप्नुवन्तीत्यर्थः । तदाह ’ यथेतमनेवं च’ (ब्र.सू. ३-१-९) इति सूत्रकारः । वायुर्भूत्वा वायुदेवतासायुज्यादि- मान् भूत्वा धूमो भवति धूमदेवसायुज्यादिमान् भवति। एवमग्रेऽपि । तदाह सूत्रे “तत्स्वाभाव्यापत्तिरुपपत्तेः " (ब्र.सू. ३-१-२५) इति ॥ ५॥

उपनिषद्

अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलामाषा इति जायन्ते ततो वै खलु दुर्निष्प्रपतनं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ६ ॥

छान्दोग्योपनिषत्खण्डार्थः

प्रवर्षति वृष्ट्यन्तर्गता भवन्ति । वृष्ट्यन्तर्गताः कर्मिणः व्रीहियवाः । जीवान्तराभिमन्यमानव्रीहियवादिषु । परगृहे पान्थ इव प्रविष्टास्तिष्ठन्तीति तेषु जातेषु जायन्त इवोच्यन्ते । इतिशब्द आद्यर्थः । तदाह सूत्रे - “अन्याधिष्ठिते पूर्ववदभिलापात्’’ (ब्र.सू. ३-१-२८) इति। ततो व्रीह्यादिप्रवेशानन्तरं दुर्निष्प्रपतनं भवति । दुष्टपतनमेव व्यनक्ति - यो यो हीति ॥ यो यो जनो ऽन्नं व्रीह्यादिरूपमद्यमानमत्ति अत्तृषु मध्ये यः पुमान् रेतो योषिति सिञ्चति तद् भूय एव अद्यमानवस्तुद्वारा रेतस्सेच पुरुषं प्रविश्य तद्भक्तान्नपरिणतिसारभूतरेतोगतः सन् तन्मयो भवतीत्यर्थः । तदाह सूत्रे - “रेतस्सिग्योगोऽथ ’ ’ ( ब्र. सू. ३.१.२५) इति ॥ ६ ॥

उपनिषत्

तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाऽथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ ७ ॥

छान्दोग्योपनिषत्खण्डार्थः

एतमध्वानमावर्तन्ते इत्युक्त्वा पुनरागमने आकाशवाय्वादीनि रेतस्सिकूपर्यन्तानि बहूनि स्थानान्युक्तानि । तर्हि बहुस्थानगमनात् कल्पान्तपर्यन्तमागमनं भवति किम् ? इत्यतो नेति भावेन योनिप्राप्तिं च यथायोग्यमाह तद्य इति ॥ तत् तत्र कर्मिणां मध्ये इह लोके ये रमणीयचरणाः शुभकर्माणस् ते रमणीयां योनिं तद् व्यनक्ति- ब्राह्मणयोनिं वैश्ययोनिं क्षत्रिययोनिं वा । प्रपद्येरन्निति यत् तदभ्याशः शीघ्रमेवम् । एकसंवत्सरकाल एव । तदाह सूत्रे " नातिचिरेण विशेषात्” (ब्र.सू. ३.१.२४ ) इति । अथेत्यर्थान्तरद्योतकः । कपूय- चरणाः कुत्सितकर्माणः । पूर्ववद् योजना । कपूययोनिमेव व्यनक्ति– श्वयोनिमित्यादिना ॥ चरणशब्दोऽत्र " अथ य इमे ग्रामे " इत्यादिना प्रकृतेष्टापूर्तांदिकर्मपरो न कर्माङ्गाचारमात्रपरः । तदाह सूत्रे - ‘सुकृत- दुष्कृते एवेति तु बादरिः " ( ब्र. सू. ३.१.२४ ) इति । एतेन देवयानपितृयाणरूपमार्गद्वयोक्त्या आद्यद्वितीयप्रश्नयोरुत्तरमुक्तं ध्येयम् । यद्यप्यत्र इष्टापूर्ते इत्याद्युपक्रमाद् रमणीयचरणा एव प्रकृताः, तथाऽपि अथेति वक्ष्यमाणचतुर्थ प्रश्नपरिहारोपयुक्ततया तेऽपि प्रसञ्जिता इति ध्येयम् ॥ ७ ॥

उपनिषद्

अथैतयोः पथोर्नैकतरेण च न तानीमानि क्षुद्रमिश्राण्य-सकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत् तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते तस्माज्जुगुप्सेत तदेष श्लोकः ॥ ८ ॥

छान्दोग्योपनिषत्खण्डार्थः

चतुर्थ प्रश्नपरिहारमाह- अथेति । एतयोः " तद्य इत्थं विदुः " इत्यादिना ‘“अथ य इमे ग्रामे” इत्यादिना च प्रकृतयोः पथोर् देवयान-पितृयाणरूपमार्गसाधनभूतयोर् ज्ञानकर्मणोः, ज्ञानाख्येन देवयान- मार्गोपायेन वा कर्माख्यपितृयाणमार्गोपायेन वा, कतरेण च अन्यतरेणापि न तिष्ठन्ति - ज्ञानं वा कर्म वा न सम्पादयन्तीति यावत् । तदाह सूत्रे - ‘विद्याकर्मणोरिति तु प्रकृतत्वात्’ (ब्र.सू.३.१.२५) इति । तानीमा भूतानि जन्तूनि क्षुद्रमिश्राणि सुखदुःखमिश्राणि, “असकृदावर्तीनि” इत्यस्य विवरणं जायस्व म्रियस्व पुनःपुनः जायन्ते म्रियन्ते चेत्येतत् तृतीयं स्थानं स्वर्गापवर्गापेक्षया तृतीयं स्थानम् । तेनासकृदावर्तनहेतुना असौ लोकस्तृतीयस्थानरूपः । न सम्पूर्यते न समाप्यते तस्मात् तादृशस्थानाद् जुगुप्सेत विरज्येत ॥ ८ ॥

उपनिषत्

स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोस्तल्पमावसन् ब्रह्महा च । एते पतन्ति चत्वारः पञ्चमश्चाचरंस्तु तैरिति ॥ ९ ॥

छान्दोग्योपनिषत्खण्डार्थः

कपूयचरणाः के ? इत्यतः श्लोकेन तानाहू-तदेष इति । श्लोकः स्पष्टार्थः ॥ ९ ॥

उपनिषद्

अथ ह य एतानेवं पञ्चाग्नीन् वेद न स ह तैरप्याचरन् पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद ॥ १ ॥ १० ॥

छान्दोग्योपनिषत्खण्डार्थः

पञ्चाग्निविद्यां स्तौति अथ ति ॥ योऽधिकारी एवमुक्तदिशा एतान् व्यादिपञ्चाग्नीन् वेद, स ज्ञानी तैर् उक्तपञ्चपातकिभिराचरन्नपि पाप्मना न लिप्यते । एवं ज्ञानिनः फलमाह - शुद्ध इति ॥ य एवं ज्ञानी पापेन न लिप्यते इति वेद सोऽपि स्वयं शुद्धः पावयत्यन्यानिति पूतः । अन्तर्णीतण्यर्थः । पुण्यलोको भवतीति ॥ १० ॥

॥ १० ॥ इति दशमः खण्डः १०

अथ एकादशः खण्डः

उपनिषत्

वैश्वानरविद्याज्ञातारो दुर्लभाः

प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमांसाञ्चक्रुः को न आत्मा किं ब्रह्मेति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

सर्वपापविधूननेन पुण्यलोकावाप्तिकारणपञ्चाग्निविद्योक्ता । सर्व- लोकगतजीवाद्यान्नात्तृत्वापादकवैश्वानरविद्यामाख्यायिकयाऽष्टभिः पर्वभिराह प्राचीनशाल इत्यादिकया ॥ प्राचीनशालो नामतः, उपमन्योरपत्यमौपमन्यवः, सत्ययज्ञो नामतः, पुलुषस्यापत्यं पौलुषिः । इन्द्रद्युम्नो नामतः, भल्लवाया अपत्यम् भाल्लवेयः । जनो नामतः, । शर्कराक्ष- स्यापत्यं शार्कराक्ष्यः । अश्वतराश्वस्यापत्यम् आश्वतराश्विः, बुडिलो नामतः । ते ते पञ्च, प्रत्यब्दयज्ञकृत्त्वेन महाशालाः, वेदवेदार्थ- वित्त्वेन महाश्रोत्रियाः समेत्य क्वचिन्मिलित्वा मीमांसाञ्चक्रुर् व्यचारयन् । किमिति ? नोऽस्माकम् आत्मा आदानादिकर्ता । स्वामीति यावत् । ब्रह्म गुणपूर्णं वस्तु किमिति मीमांसाञ्चक्रुरित्यन्वयः ॥ १ ॥

उपनिषत्

ते ह सम्पादयाञ्चक्रुरुद्दालको वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

अन्योन्यमेवमात्मस्वरूपस्य विचारेणापि निर्णयमलभमानास्ते निर्णयार्थमुद्दालकं सम्पादयाञ्चक्रुर् निश्चिक्युरित्यर्थः । सम्पाद्यान्योन्य- मूचुश्च । तत्किमूचुरित्यत आह उद्दालक इति ॥ अरुणस्यापत्यमारुणिर् भगवन्त आरुणिरुद्दालकः सम्प्रति इदानीमिममात्मानं विश्वनर- सम्बन्धितया वैश्वानरनामकमध्येति अधिकं जानाति । तमुद्दालकम् । हन्त हर्षे । अभ्यागच्छामेत्यन्योन्यमूचुरिति योज्यम् । इति निश्चित्य तमुद्दालक-

मभ्याजग्मुः ॥ २ ॥

उपनिषत्

स ह सम्पादयाञ्चकार प्रक्ष्यन्ति मामिमे महाशाला महा-श्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्य-नुशासानीति ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

स उद्दालकः । मनसाऽन्यं सम्पादयाञ्चकार निश्चितवान् । किमर्थम् ? इत्यत आह – प्रक्ष्यन्तीति । महाशाला महाश्रोत्रिया इमे मां प्रक्ष्यन्ति प्रश्नान् करिष्यन्ति । तेभ्यो वक्तुमिति शेषः । सर्वं पृष्टं वक्तुं न प्रतिपत्स्ये न ज्ञास्यामीवेतीवशब्दो निर्धारणे । अतोऽन्यमनुशासानि वदानि । हन्त हर्षे । इति निश्चित्य ॥ ३ ॥

उपनिषत्

तान् होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

तान् उवाच ह – अश्वपतिरित्यादिना ॥ हे भगवन्तो ऽश्वपतिः कैकेयः केकयदेशाधिपतिरयं राजा सम्प्रतीदानीमिममात्मानं वैश्वानरम् अध्येति तं हन्ताभ्यागच्छाम इत्युक्तास्ते सर्वे तमभ्याजग्मुर्ह ॥ ४ ॥

उपनिषत्

तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार स ह प्रातः संिजहान उवाच न मे स्तेनो जनपदे न कदर्यो न मद्यपो नानाहिताग्निर्नाविद्वान् न स्वैरी स्वैरिणी कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि वसन्तु भगवन्त इति ॥ ५ ॥

छान्दोग्योपनिषत्खण्डार्थः

तेभ्यो ह प्राप्तेभ्यो राजा पृथक् प्रत्येकं प्रत्येकम् अर्हाणि तत्तद्योग्यपूजाः कारयाञ्चकार भृत्यैः । स राजा परेद्युः प्रातः सञ्जिहानः शयनादुत्थित उवाच। किमिति ? किं चोरादिभीत्या समागताः, किं वा धनार्थित्वेन ? नाऽद्यः, अभावादित्याह - न म इति ॥ मे मम जनपदे देशे स्तेश्वोरो नास्ति । न कदर्यो यथाकालमाचारहीनः । न मद्यपः । स्वैरी जारः । कुतः स्वैरिणी कामचारिणी । अयक्ष्यमाणो वा कुतः । स्तेनादिरयक्ष्यमाणो वा कुतो नास्तीत्यत आह अहमस्मीति ॥ हे भगवन्तश् चण्डशासनोऽहमस्मि तिष्ठामि । अतो न स्तेनादिरिति भावः । धनार्थिनश्वेदागतास्तर्हि यक्ष्यमाणोऽहमस्मीति वाऽन्वयः । यावद्धनम् एकैकस्मै ऋत्विजे दास्यामि तावद् भवद्भ्यो दास्यामि । वसन्तु भगवन्त इत्युवाचेत्यन्वयः ॥ ५ ॥

उपनिषत्

ते होचुर्येन हैवार्थेन पुरुषश्चरेत् तंहैव वदेदात्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहीति ॥ ६ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवं राज्ञोक्तास्ते पुरुषो येनार्थेन प्रयोजनेन हेतुना चरेत् तमेवार्थं वदेत् त्तं पुरुषं प्रति । वयं तु नार्थकामनया चरामः, किन्तु ब्रह्मज्ञानकामनया । त्वं तु आत्मानमेवैनं वैश्वानरं सम्प्रत्यध्येषि । तमेव नोऽस्मभ्यं ब्रूहीत्यूचुः ॥ ६ ॥

उपनिषत्

तान् होवाच प्रातर्वः प्रतिवक्ताऽस्मीति ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे तान् हानुपनीयैवैतदुवाच ॥ ७ ॥ ११ ॥

छान्दोग्योपनिषत्खण्डार्थः

तान् होवाच राजा वः युष्मान् प्रति प्रातर्वक्ताऽस्मीति । ते ह परेद्युः प्रातःकाले समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे राजसमीपं प्राप्ताः । तान् ह राजाऽनुपनीय शिष्यत्वेनास्वीकृत्यैव एतद् वक्ष्यमाणमुवाच ॥ ७ ॥ खण्डः ११ ॥

इति एकादशः खण्डः

अथ द्वादशः खण्डः

उपनिषत्

वैश्वानरस्य शिरो नामकमिति निरूपणम्

औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् तव सुतं प्रसुतमासुतं कुले दृश्यते ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

एभिरवगतं वैश्वानरं क्रमेण पृष्ट्वा तन्नामधेयं फलं च स्वयं वदन् विशेषाज्ञाने बाधकं चाऽह – औपमन्यव इत्यादिना ॥ इत्येतदुवाचेत्य- न्वयः । हे भगवो राजन्! क्रीडात्मकत्वेन दिवमित्युक्तमात्मानमहमुपास इत्युवाच औपमन्यवः । यं त्वमात्मानमुपास्से एष वै द्युनामा अतितेजस्त्वात् सुतेजा इत्युक्तः द्युलोकाधार आत्मा वैश्वानरः । तस्मात् तदुपासकत्वात् तव कुले सुतं प्रसुतमासुतं पुत्रः पौत्रस् तत्पुत्रश्च दृश्यते ॥ १ ॥

उपनिषद्

अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वनरमुपास्ते मूर्धा त्वेष आत्मन इति होवाच मूर्धा ते व्यपतिष्यद् यन्मां नाऽगमिष्य इति ॥ २ ॥ १२ ॥

छान्दोग्योपनिषत्खण्डार्थः

अन्नमत्सि प्रियं च पश्यसि योऽधिकारी एतमेवं त्वदुपास्यमेवाऽत्मानं वैश्वानरमेवं सुतेजस्त्वादिनोक्तप्रकारेणोपास्ते, सोऽन्नमत्ति पश्यति प्रियम् । अस्य कुले ब्रह्मवर्चसं भवति । आत्मनस्तु हरेरेष धुनामा त्वयोपास्यो मूर्धा शिरः । एवमेकावयवोपासकस्त्वं यद् यदिमां नाऽगमिष्यस्तर्हि ते मूर्धा व्यपतिष्यदित्युवाच राजेति ॥ २ ॥

॥ इति द्वादशः खण्डः ॥

अथ त्रयोदशः खण्डः

उपनिषत्

वैश्वानरस्य चक्षुरादित्यनामकमिति निरूपणम्

अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् तव बहु विश्वरूपं कुले दृश्यते ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

अथानन्तरं सत्ययज्ञं पौलुषिमुवाच ह । हे प्राचीनयोग्य ! कं त्वमात्मानमुपास्स इति । स आह आदित्यमेवेति ॥ आयुषामा-दानादादित्यनामानमात्मानमुपास इत्युवाचेत्यर्थः । राजाऽऽह एष इति ॥ त्वं यमात्मानमुपासे एष वै विश्वरूपः सर्वरूपातिदर्शनात् । विश्वरूपनामा वैश्वानर आत्मा वै । तस्माद् विश्वरूपोपासकत्वादेव तव कुले गृहे बहु विश्वरूपम् अतिबहुवस्तुजातं दृश्यते ॥ १ ॥

उपनिषत्

प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुष्वेतदात्मन इति होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति ॥ २ ॥ १३ ॥

छान्दोग्योपनिषत्खण्डार्थः

तद् व्यनक्ति– प्रवृत्त इत्यादिना ॥ एवमुपासकस्य फलमाह—– अत्त्यन्नमित्यादिना ॥ आत्मन एतत्तु त्वयोपास्यमादित्याख्यमादित्या-धारमङ्गं चक्षुरेव न सर्वाङ्गम् । अन्ध इत्यादि प्राग्वज्ज्ञेयम् । इत्युवाच राजेत्यर्थः ॥ २ ॥ इति योदशः खण्डः १३

अथ चतुर्दशः खण्डः

उपनिषत्

वैश्वानरस्य प्राणो वायुनामक इति निरूपणम्

अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति होवाचैष वै पृथग्वर्त्माऽऽत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वां पृथग्वलय आयन्ति पृथग्रथश्रेणयोऽनुयन्ति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

‘अथ होवाच’ इत्यादिप्रश्न प्रतिवचने प्रागिव ध्येये । हे वैयाघ्रपद्य ! व्याघ्रपात्पुत्रेति सम्बुद्धिः । ज्ञानायुरूपत्वाद् वायुनामकं वाय्वाधारम् । एष त्वयोपास्यो वायुः पृथग्वर्त्मा प्राणादिभिरशक्यकार्यकर्तृतया पृथग्व-त्त्म्रेत्युक्तः । पृथङ् नानाविधा वलय आवलय आयन्ति । तद् विवृणोति - पृथग् रथश्रेणय इति ॥ गजाश्वाद्यावलीनामुपलक्षणमेतत्

॥ १ ॥

उपनिषद्

अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्यद् यन्मां नाऽगमिष्य इति ॥ २ ॥ १४ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवमुपासकस्य फलमाह- अत्त्यन्नमित्यादि ॥ आत्मनो वैश्वानरस्यैष त्वयोपास्यो वायुः प्राणः प्राणाख्यावयवः ॥ २ ॥ ॥ इति चतुर्दशः खण्डः १४॥

अथ पञ्चदशः खण्डः

उपनिषत्

**( वैश्वानरस्य शरीरमध्यभाग आकाशनामक इति निरूपणम् ) **

अथ होवाच जन शार्कराक्ष्य शार्कराक्ष्य कं त्वमात्मानमुपास्स इत्याकाशमेव भगवो राजनिति होवाचैष वै बहुल आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वं बहुलोऽसि प्रजया च धनेन च ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

अथेत्यादि प्राग्वत् । आ समन्तात् काशते दीप्यत इत्याकाशाख्य-मात्मानमुपास इति होवाच । विस्तीर्णत्वादेष बहुल इत्युक्तः । तस्माद् बहुलोपासकत्वात् ॥ १ ॥

उपनिषद्

अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते सन्दोहस्त्वेष आमन होवाच सन्दोहस्ते व्यशीर्यद् यन्मां नाऽगमिष्य इति ॥ २ ॥ १५ ॥

छान्दोग्योपनिषत्खण्डार्थः

एष त्वयोपास्यो बहुल आत्मनः सन्दोहो(१) मध्यदेहः व्यशीर्यद् विशीर्णमभविष्यत् ॥ २ ॥ इति पञ्चदशः खण्डः १५इति पञ्चदशः खण्डः

अथ षोडशः खण्डः

उपनिषत्

वैश्वानरस्य कटिप्रदेशो ऽम्नामक इति निरूपणम्

अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वं रयिमान् पुष्टिमानसि ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

॥ अप एवेति ॥ व्याप्तत्वादाप इत्युक्तमात्मानमुपास इत्युवाच । रयिः रतिजनकत्वाद रयिनामा ॥। १॥

उपनिषद्

अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते वस्तिस्त्वेष आत्मन इति होवाच वस्तिस्ते व्यभेत्स्यद् यन्मां नाऽगमिष्य इति ॥ २ ॥ १६ ॥

छान्दोग्योपनिषत्खण्डार्थः

॥ वस्तिस्त्वेष इति । वैश्वानरात्मनो वस्तिरूपावयव इत्यर्थः । व्यभेत्स्यद् भिन्नोऽभविष्यत् ॥ २ ॥ इति खण्डः१६

इति षोडशः खण्डः

अथ सप्तदशः खण्डः

उपनिषत्

वैश्वानरपादयोः पृथिवीनामकत्वकथनम्

अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपास्स इति पृथिवीमेव भगवो राजनिति होवाचैष वै प्रतिष्ठाऽऽत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्व ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

पृथिवी प्रथनाद् विस्तीर्णगुणत्वेन पृथिव्याख्यम् । प्रतिष्ठितिहेतुत्वात् प्रतिष्ठा ॥ १ ॥

उपनिषद्

अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां यन्मां नाऽगमिष्य इति ॥ २ ॥ १७ ॥

छान्दोग्योपनिषत्खण्डार्थः

एतावात्मनः पादौ । एताविति विधेयापेक्षया पुल्लिङ्गं द्विवचनं च । व्यम्लास्येतां भज्येयाताम् ॥ २ ॥** १७ ॥**

॥ इति सप्तदशः खण्डः ॥

अथ अष्टादशः खण्डः

उपनिषत्

हृत्कमले वैश्वानरः

तान् होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वासोऽन्नमत्थ यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवं तैः षड्भिः प्रत्येकमुपास्यं भगवतः सुतेजःप्रभृतिनामकं शिरआद्यङ्गमेवेत्युपदिष्टमनुवदन् समग्रवैश्वानरस्वरूपं तदुपास्तिफलं चोवाच राजेत्याह श्रुतिः- तान् होवाचेत्यादिना । एते प्रसिद्धा यूयं खलु त्रैश्वानरमात्मानं पृथगिवैकैकावयवं विद्वांसो जानन्तोऽन्नमत्थ भक्षयत ।भगवदवयवानां भेदाभावात् पृथगिवेत्युक्तम् । यस्तु अधिकारी । तुशब्दो देवरूपाधिकारिविशेषद्योतकः । एतं सर्वप्राणिसन्निहितं वैश्वानरमात्मानं प्रादेशमात्रं प्रादेशपरिमितहृदयकमलव्यापित्वाद्वा तावत्परिमाणव्यक्त्या वा प्रादेशमात्रम् । हृद्यपेक्षया ’ ( ब्र.सू.१.३.५ ) इति सूत्रोक्तन्यायात् । अभिविमानम् अभितो विगतं मानं मर्यादा यस्येत्यभिविमानम् एवमुक्तदिशा शिरःप्रभृतिसर्वाङ्गोपेततयोपास्ते स सर्वेष्वित्यादि । भूतेषु स्थावरादिजडेषु । आत्मसु चेतनेषु । देवत्वादेवोपासकस्य तस्य मुख्यं फलम् । अन्येषां यथायोग्यम् । वैश्वानरोऽत्र विष्णुर्ज्ञेयो न भूतानिः, तदभिमानिदेवो वा । तदाह सूत्रे ‘वैश्वानरः साधारणशब्द- विशेषात्’ (ब्र.सू.१.२.२४ ) इति ॥ १ ॥

उपनिषत्

तस्य हवा एतस्याऽत्मनो वैश्वानरस्य मूर्धेव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा सन्दोहो बहुलो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ २ ॥१८॥

छान्दोग्योपनिषत्खण्डार्थः

भगवदङ्गानामुक्तं नामधेयं सर्वथाऽनुसन्धेयमिति भावेन तदनुवदन् होमापेक्षितमाह – तस्येत्यादिना ॥ तस्य वैश्वानरनाम्नो हरेर् मूर्धेव सुतेजाः । अतितेजस्त्वहेतुना सुतेजोनामा द्युलोकाश्रयः । तस्य चक्षुर् विश्वरूपः सर्वपदार्थविषयकतया विश्वरूपनामा विश्वरूपाख्यादिल्या-श्रयः । तस्य हरेः प्राणः पृथग्वर्त्मा प्राणादिभिरशक्यकार्यकर्तृत्वातू पृथग्वर्त्मनामा वाय्वाश्रयस् तस्य हरेः सन्दोहः मध्यदेहः बहुलनामा आकाशमान्याश्रयः । तस्य नाभ्यधोभागवस्तिरूपोऽवयवो रयिः रतिद- त्वहेतुना रयिनामाऽपामाश्रयः । तस्य पादौ प्रथितत्वहेतुना पृथिवीनामा पृथिव्याश्रयौ । तस्य वैश्वानरस्य हरेर् उरो वक्षः वेदिर् वेद्यभिमानिनी तदाश्रितेत्यर्थः । आश्रयाश्रयिभावाभिप्रायाऽभेदोक्तिः । एवमग्रेऽपि बर्हिरादिशब्दा अभिमानिपराः । तदाह सूत्रे “पुरुषविधमपि

चैनमधीयते” (ब्र.सू.१.२.३६ ) इति ॥ २ ॥ इति खण्डः १८ ॥

॥ इति अष्टादशः खण्डः ॥

अथ एकोनविंशः खण्डः

‘प्राणाय स्वाहा’ इत्याहुतेः फलनिरूपणम्

उपनिषत्

तद्यद् भक्तं प्रथममागच्छेत् तद्धोमीयँ स यां प्रथमामाहुतिं जुहुयात् तां जुहुयात् प्राणाय स्वाहेति प्राणस्तृप्यति

॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

इतिकर्तव्यतासहितं होममाह - तद्यदीति । तत् प्रसिद्धं भोज्यं यद् भक्तमन्नं प्रथममागच्छेदास्यं प्रति तद्धोमीयं होमसाधनद्रव्यम् । होममन्त्रा-नाहुतितृप्यांश्चाऽह स यामित्यादिना । स भुन्जानः । जुहुयात् होमं कुर्यात् । जुह्वीत कुर्वीत । ‘प्राणाय स्वाहा’ इत्याहुत्या । प्राणः प्राणबायोरभिमानिभूतं यदादित्यस्य रूपं हृदयकमलगतस्य

वैश्वानराख्यस्य हरेः पूर्वद्वारपालकं तत् तृप्यति’ ॥ १ ॥

उपनिषत्

प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्च द्यौश्चाऽदित्यश्चाधितिष्ठतस्तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति

॥ २ ॥ १९ ॥

छान्दोग्योपनिषत्खण्डार्थः

प्राणमानिरूपे तृप्यति चक्षुर्मानि यदादित्यस्य रूपं तत् तृप्यति । चक्षुर्मानिरूपे तृप्यति आदित्यः रविबिम्बमानिसूर्यरूपं तृप्यति । त्रिरूपे आदित्ये तृप्यति द्यौर्द्युलोकमानिनी श्रीस् तृप्यति । दिवि तृप्यन्त्यां द्यौः श्रीश्च प्राणचक्षुर्मण्डलानामभिमानी आदित्यश्च यत्किञ्च ज्ञानानन्दरूपं ब्रह्माख्यं वस्तु अधिकृत्य तिष्ठतस्तद् ब्रह्म तृप्यति । तस्य ब्रह्मणस्तृप्तिमनु पश्चाद् यजमानः प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन तृप्यति ॥ २ ॥

॥ इति एकोनविंशः खण्डः ॥

अथ विंशः खण्डः

उपनिषत्

‘व्यानाय स्वाहा’ इत्याहुतेः फलनिरूपणम्

अथ यां द्वितीयां जुहुयात् तां जुहुयाद् व्यानाय स्वाहेति व्यानस्तृप्यति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

दक्षिणद्वारपः व्यानवायुश्रोत्रचन्द्रबिम्बमानितया त्रिरूपश्चन्द्रो ‘व्यानाय स्वाहा’ इति मन्त्रेण क्रियमाणद्वितीयाहुत्या तृप्यतीत्याह- अथ यां द्वितीयामिति ॥ प्रागिवार्थः ॥ १ ॥

उपनिषद्

व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्च दिशश्चन्द्रमाश्वाधितिष्ठन्ति तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति

॥ २ ॥ २० ॥

छान्दोग्योपनिषत्खण्डार्थः

दिशः दिङ्नाम्नो रमादेवी यत्किञ्च, ज्ञानरूपत्वाद् यत्, सुखरूपत्वात् किम् । यत्किञ्च ज्ञानानन्दरूपं ब्रह्मेत्यर्थः ॥ २ **॥ इति विंशः खण्डः २० ॥ **

अथ एकविंशः खण्डः

उपनिषत्

**( ‘अपानाय स्वाहा’ इत्याहुतेः फलवर्णनम् ) **

अथ यां तृतीयां जुहुयात् तां जुहुयादपानाय स्वाहेत्यपानस्तृप्यति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

अपानवायुवाग्भूताग्र्यभिमानी त्रिरूपोऽग्निदेवः पश्चिमद्वारपः ‘अपानाय स्वाहा’ इति मन्त्रेण क्रियमाणाहुत्या तृप्यतीत्याह- अथ यां तृतीयामिति ॥ १ ॥

उपनिषद्

अपाने तृप्यति वाक् तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किञ्च पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥२॥२१॥

छान्दोग्योपनिषत्खण्डार्थः

पृथिवीनाम्नी भूदेवी ॥ २ ॥ इति खण्डः २१ ॥

॥ इति एकविंशः खण्डः ॥

अथ द्वाविंशः खण्डः

उपनिषत्

‘समानाय स्वाहा’ इत्याहुतेः फलवर्णनम्

अथ यां चतुर्थीं जुहुयात् तां जुहुयात् समानाय स्वाहेति समानस्तृप्यति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

समानवायुमनःपर्जन्यानामभिमानितया त्रिरूप इन्द्र उत्तरद्वारपः ‘समानाय स्वाहा’ इति मन्त्रेण क्रियमाणाहुत्या तृप्यतीत्याह - अथ यां चतुर्थीमिति ॥ १ ॥

उपनिषत्

समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्युत् तृप्यति विद्युति तृप्यन्त्यां यत्किञ्च विद्युच्च पर्जन्यश्चाधितिष्ठतस् तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ २२ ॥

छान्दोग्योपनिषत्खण्डार्थः

पर्जन्यः मेघचक्रमानीन्द्रः । विद्युद् विद्युन्मानिनी वायुपत्नी ॥२॥

॥ इति द्वाविंशः खण्डः ॥

अथ त्रयोविंशः खण्डः

उपनिषत्

‘उदानाय स्वाहा’ इत्याहुतेः फलवर्णनम्

अथ यां पञ्चमीं जुहुयात् तां जुहुयादुदानाय स्वाहेत्युदानस्तृप्यति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

उदानवायुवाय्वाकाशमानितया त्रिरूपो मुख्यवायुरूर्ध्वद्वारपः ‘उदानाय स्वाहा’ इति मन्त्रेण क्रियमाणाहुत्या तृप्यतीत्याह- अथ यां पञ्चमीमिति ॥ १ ॥

उपनिषद्

उदाने तृप्यति वायुस्तृप्यति वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यति यत्किञ्च वायुश्चाऽकाशश्चाधितिष्ठतस्तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

वायुः प्रसिद्धवायुमानी । आकाश आकाशमानी विशेषेण लक्ष्म्याविष्टतयाऽऽकाश इत्युक्तो मुख्यवायुर् आकाशश्च । वायौ विशेषसन्निधियुता लक्ष्मीरित्यर्थः ॥२॥ खण्डः २३॥

॥ इति त्रयोविंशः खण्डः ॥

अथ चतुर्विंशः खण्डः

उपनिषत्

ज्ञानपूर्वककर्मणः फलप्रदत्वनिरूपणम्

अथ स य इदमविद्वानग्निहोत्रं जुहोति यथाऽङ्गारानपोह्य भस्मनि जुहुयात् तादृक् तत् स्यात् ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

एवं वैश्वानरस्वरूपं तद्विषयहोमं चोक्त्वा तज्ज्ञानपूर्वकहोमफलं तदज्ञानपूर्वकहोमवैफल्योक्त्याऽऽह स य इदमिति ॥ स भुन्जनो यः कश्चिद् इदं वैश्वानरस्वरूपादिकम् अविद्वान् अजानन् प्राणाग्निहोत्रं जुहोति करोति । अङ्गारानपोह्य परित्यज्य भस्मनि यथा जुहुयात् । तद् अज्ञानकृतं प्राणाग्निहोत्रं तादृक् तत्तुल्यं निष्फलमिति यावत् ॥ १ ॥

उपनिषद्

अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

ज्ञानपूर्वानुष्ठाने फलोक्तिर् अथ य एतदिति । तस्य तेन । हुतं भवतीत्यन्वयः । यद्वा, सर्वलोकादिषु हुतं तस्यैव भवतीत्यर्थः ॥ २ ॥

उपनिषत्

तद् यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैव हास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

फलान्तरं चाऽह – तद्यथेति ॥ वक्ष्यमाणनिदर्शनं यथा । इषीकातूल-मिति छान्दसो ह्रस्वाभावः ‘इष्टकेषीकामालानां चिततूलभारिषु’ इत्युक्ते-रिषीकतूलमिति भाव्यत्वात् ॥ ३ ॥

उपनिषत्

तस्मादु हैवंविद् यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद् वैश्वानरे हुतं स्यादिति तदेष श्लोकः ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

तस्मादुक्तरीत्या वैश्वानरज्ञानस्य सर्वपापक्षयादिहेतुत्वात् । उच्छिष्ट-मपात्रे दत्तं वैश्वानरे आत्मनि अस्य अनेन तद्भुतं स्यात् ॥ ४ ॥

उपनिषद्

यथेह क्षुधिता बाला मातरं पर्युपासते । एवं सर्वाणि भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥ ५ ॥ २४ ॥

॥ इति श्रीमच्छान्दोग्योपनिषदि पञ्चमोऽध्यायः ॥ ५॥

छान्दोग्योपनिषत्खण्डार्थः

वैश्वानरज्ञानपूर्वकं कृतं प्राणाग्निहोत्रं सर्वाभीष्टप्रदमित्युक्तमर्थं मन्त्रेण संवादयति - तदेष इति इह लोके सर्वाणि भूतानि अभीष्टापेक्षाणि प्राणाग्निहोत्रमुपासते । द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥ ५ ॥ २४ ॥

॥ इति श्रीमच्छान्दोग्योपनिषदर्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते पञ्चमोऽध्यायः ॥